Ṛgveda Saṃhitā — Maṇḍala 4
Tradição Védica (Ṛṣis)
मण्डल ४ त्वाꣳ ह्य् अग्ने सदम् इत् समन्यवो देवासो देवम् अरतिꣳ न्येरिर इति क्रत्वा न्येरिरे । अमर्त्यꣳ यजत मर्त्येष्व् आ देवम् आदेवꣳ जनत प्रचेतसꣳ विश्वम् आदेवꣳ जनत प्रचेतसम्
स भ्रातरꣳ वरुणम् अग्न आ ववृत्स्व देवाꣳ अच्छा सुमती यज्ञवनसꣳ ज्येष्ठꣳ यज्ञवनसम् । ऋतावानम् आदित्यꣳ चर्षणीधृतꣳ राजानꣳ चर्षणीधृतम्
सखे सखायम् अभ्य् आ ववृत्स्वाशुꣳ न चक्रꣳ रथ्येव रꣳह्यास्मभ्यꣳ दस्म रꣳह्या । अग्ने मृळीकꣳ वरुणे सचा विदो मरुत्सु विश्वभानुषु । तोकाय तुजे शुशुचान शꣳ कृध्य् अस्मभ्यꣳ दस्म शꣳ कृधि
त्वꣳ नो अग्ने वरुणस्य विद्वान् देवस्य हेळो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत्
स त्वꣳ नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृळीकꣳ सुहवो न एधि
अस्य श्रेष्ठा सुभगस्य सꣳदृग् देवस्य चित्रतमा मर्त्येषु । शुचि घृतꣳ न तप्तम् अघ्न्यायाः स्पार्हा देवस्य मꣳहनेव धेनोः
त्रिर् अस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्य् अग्नेः । अनन्ते अन्तः परिवीत आगाच् छुचिः शुक्रो अर्यो रोरुचानः
स दूतो विश्वेद् अभि वष्टि सद्मा होता हिरण्यरथो रꣳसुजिह्वः । रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव सꣳसत्
स चेतयन् मनुषो यज्ञबन्धुः प्र तम् मह्या रशनया नयन्ति । स क्षेत्य् अस्य दुर्यासु साधन् देवो मर्तस्य सधनित्वम् आप
स तू नो अग्निर् नयतु प्रजानन्न् अच्छा रत्नꣳ देवभक्तꣳ यद् अस्य । धिया यद् विश्वे अमृता अकृण्वन् द्यौष् पिता जनिता सत्यम् उक्षन्
स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ । अपाद् अशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे
प्र शर्ध आर्त प्रथमꣳ विपन्याꣳ ऋतस्य योना वृषभस्य नीळे । स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासो ऽजनयन्त वृष्णे
अस्माकम् अत्र पितरो मनुष्या अभि प्र सेदुर् ऋतम् आशुषाणाः । अश्मव्रजाः सुदुघा वव्रे अन्तर् उद् उस्रा आजन्न् उषसो हुवानाः
ते मर्मृजत ददृवाꣳसो अद्रिꣳ तद् एषाम् अन्ये अभितो वि वोचन् । पश्वयन्त्रासो अभि कारम् अर्चन् विदन्त ज्योतिश् चकृपन्त धीभिः
ते गव्यता मनसा दृध्रम् उब्धꣳ गा येमानम् परि षन्तम् अद्रिम् । दृळ्हꣳ नरो वचसा दैव्येन व्रजꣳ गोमन्तम् उशिजो वि वव्रुः
ते मन्वत प्रथमꣳ नाम धेनोस् त्रिः सप्त मातुः परमाणि विन्दन् । तज् जानतीर् अभ्य् अनूषत व्रा आविर् भुवद् अरुणीर् यशसा गोः
नेशत् तमो दुधितꣳ रोचत द्यौर् उद् देव्या उषसो भानुर् अर्त । आ सूर्यो बृहतस् तिष्ठद् अज्राꣳ ऋजु मर्तेषु वृजिना च पश्यन्
आद् इत् पश्चा बुबुधाना व्य् अख्यन्न् आद् इद् रत्नꣳ धारयन्त द्युभक्तम् । विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम् अस्तु
अच्छा वोचेय शुशुचानम् अग्निꣳ होतारꣳ विश्वभरसꣳ यजिष्ठम् । शुच्य् ऊधो अतृणन् न गवाम् अन्धो न पूतम् परिषिक्तम् अꣳशोः
विश्वेषाम् अदितिर् यज्ञियानाꣳ विश्वेषाम् अतिथिर् मानुषाणाम् । अग्निर् देवानाम् अव आवृणानः सुमृळीको भवतु जातवेदाः
यो मर्त्येष्व् अमृत ऋतावा देवो देवेष्व् अरतिर् निधायि । होता यजिष्ठो मह्ना शुचध्यै हव्यैर् अग्निर् मनुष ईरयध्यै
इह त्वꣳ सूनो सहसो नो अद्य जातो जाताꣳ उभयाꣳ अन्तर् अग्ने । दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान् वृषणः शुक्राꣳश् च
अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा । अन्तर् ईयसे अरुषा युजानो युष्माꣳश् च देवान् विश आ च मर्तान्
अर्यमणꣳ वरुणम् मित्रम् एषाम् इन्द्राविष्णू मरुतो अश्विनोत । स्वश्वो अग्ने सुरथः सुराधा एद् उ वह सुहविषे जनाय
गोमाꣳ अग्ने ऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इळावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान्
यस् त इध्मꣳ जभरत् सिष्विदानो मूर्धानꣳ वा ततपते त्वाया । भुवस् तस्य स्वतवाꣳः पायुर् अग्ने विश्वस्मात् सीम् अघायत उरुष्य
यस् ते भराद् अन्नियते चिद् अन्नꣳ निशिषन् मन्द्रम् अतिथिम् उदीरत् । आ देवयुर् इनधते दुरोणे तस्मिन् रयिर् ध्रुवो अस्तु दास्वान्
यस् त्वा दोषा य उषसि प्रशꣳसात् प्रियꣳ वा त्वा कृणवते हविष्मान् । अश्वो न स्वे दम आ हेम्यावान् तम् अꣳहसः पीपरो दाश्वाꣳसम्
यस् तुभ्यम् अग्ने अमृताय दाशद् दुवस् त्वे कृणवते यतस्रुक् । न स राया शशमानो वि योषन् नैनम् अꣳहः परि वरद् अघायोः
यस्य त्वम् अग्ने अध्वरꣳ जुजोषो देवो मर्तस्य सुधितꣳ रराणः । प्रीतेद् असद् धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः
चित्तिम् अचित्तिꣳ चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् । राये च नः स्वपत्याय देव दितिꣳ च रास्वादितिम् उरुष्य
कविꣳ शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व् आयोः । अतस् त्वꣳ दृश्याꣳ अग्न एतान् पड्भिः पश्येर् अद्भुताꣳ अर्य एवैः
त्वम् अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । रत्नम् भर शशमानाय घृष्वे पृथु श्चन्द्रम् अवसे चर्षणिप्राः
अधा ह यद् वयम् अग्ने त्वाया पड्भिर् हस्तेभिश् चकृमा तनूभिः । रथꣳ न क्रन्तो अपसा भुरिजोर् ऋतꣳ येमुः सुध्य आशुषाणाः
अधा मातुर् उषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । दिवस् पुत्रा अङ्गिरसो भवेमाद्रिꣳ रुजेम धनिनꣳ शुचन्तः
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन्
सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । शुचन्तो अग्निꣳ ववृधन्त इन्द्रम् ऊर्वꣳ गव्यम् परिषदन्तो अग्मन्
आ यूथेव क्षुमति पश्वो अख्यद् देवानाꣳ यज् जनिमान्त्य् उग्र । मर्तानाꣳ चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः
अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः । अनूनम् अग्निम् पुरुधा सुश्चन्द्रꣳ देवस्य मर्मृजतश् चारु चक्षुः
एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व । उच् छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि
आ वो राजानम् अध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम्
अयꣳ योनिश् चकृमा यꣳ वयꣳ ते जायेव पत्य उशती सुवासाः । अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः । देवाय शस्तिम् अमृताय शꣳस ग्रावेव सोता मधुषुद् यम् ईळे
त्वꣳ चिन् नः शम्या अग्ने अस्या ऋतस्य बोध्य् ऋतचित् स्वाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते
कथा ह तद् वरुणाय त्वम् अग्ने कथा दिवे गर्हसे कन् न आगः । कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कद् अर्यम्णे कद् भगाय
कद् धिष्ण्यासु वृधसानो अग्ने कद् वाताय प्रतवसे शुभꣳये । परिज्मने नासत्याय क्षे ब्रवः कद् अग्ने रुद्राय नृघ्ने
कथा महे पुष्टिम्भराय पूष्णे कद् रुद्राय सुमखाय हविर्दे । कद् विष्णव उरुगायाय रेतो ब्रवः कद् अग्ने शरवे बृहत्यै
कथा शर्धाय मरुताम् ऋताय कथा सूरे बृहते पृच्छ्यमानः । प्रति ब्रवो ऽदितये तुराय साधा दिवो जातवेदश् चिकित्वान्
ऋतेन ऋतꣳ नियतम् ईळ आ गोर् आमा सचा मधुमत् पक्वम् अग्ने । कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय
ऋतेन हि ष्मा वृषभश् चिद् अक्तः पुमाꣳ अग्निः पयसा पृष्ठ्येन । अस्पन्दमानो अचरद् वयोधा वृषा शुक्रꣳ दुदुहे पृश्निर् ऊधः
ऋतेनाद्रिꣳ व्य् असन् भिदन्तः सम् अङ्गिरसो नवन्त गोभिः । शुनꣳ नरः परि षदन्न् उषासम् आविः स्वर् अभवज् जाते अग्नौ
ऋतेन देवीर् अमृता अमृक्ता अर्णोभिर् आपो मधुमद्भिर् अग्ने । वाजी न सर्गेषु प्रस्तुभानः प्र सदम् इत् स्रवितवे दधन्युः
मा कस्य यक्षꣳ सदम् इद् धुरो गा मा वेशस्य प्रमिनतो मापेः । मा भ्रातुर् अग्ने अनृजोर् ऋणꣳ वेर् मा सख्युर् दक्षꣳ रिपोर् भुजेम
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । प्रति ष्फुर वि रुज वीड्व् अꣳहो जहि रक्षो महि चिद् वावृधानम्
एभिर् भव सुमना अग्ने अर्कैर् इमान् स्पृश मन्मभिः शूर वाजान् । उत ब्रह्माण्य् अङ्गिरो जुषस्व सꣳ ते शस्तिर् देववाता जरेत
एता विश्वा विदुषे तुभ्यꣳ वेधो नीथान्य् अग्ने निण्या वचाꣳसि । निवचना कवये काव्यान्य् अशꣳसिषम् मतिभिर् विप्र उक्थैः
कृणुष्व पाजः प्रसितिꣳ न पृथ्वीꣳ याहि राजेवामवाꣳ इभेन । तृष्वीम् अनु प्रसितिꣳ द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूꣳष्य् अग्ने जुह्वा पतꣳगान् असꣳदितो वि सृज विष्वग् उल्काः
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । यो नो दूरे अघशꣳसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत्
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अ१मित्राꣳ ओषतात् तिग्महेते । यो नो अरातिꣳ समिधान चक्रे नीचा तꣳ धक्ष्य् अतसꣳ न शुष्कम्
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनाꣳ जामिम् अजामिम् प्र मृणीहि शत्रून्
स ते जानाति सुमतिꣳ यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत्
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः
अर्चामि ते सुमतिꣳ घोष्य् अर्वाक् सꣳ ते वावाता जरताम् इयꣳ गीः । स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून्
इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवाꣳसम् अनु द्यून् । क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम्
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत्
महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । त्वꣳ नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर
ये पायवो मामतेयꣳ ते अग्ने पश्यन्तो अन्धꣳ दुरिताद् अरक्षन् । ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः
त्वया वयꣳ सधन्य१स् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । उभा शꣳसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण
अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानꣳ गृभाय । दहाशसो रक्षसः पाह्य् अ१स्मान् द्रुहो निदो मित्रमहो अवद्यात्
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः । अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः
मा निन्दत य इमाम् मह्यꣳ रातिꣳ देवो ददौ मर्त्याय स्वधावान् । पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः
साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् । पदꣳ न गोर् अपगूळ्हꣳ विविद्वान् अग्निर् मह्यम् प्रेद् उ वोचन् मनीषाम्
प्र ताꣳ अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः । प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि
अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः । पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम्
इदम् मे अग्ने कियते पावकामिनते गुरुम् भारꣳ न मन्म । बृहद् दधाथ धृषता गभीरꣳ यह्वम् पृष्ठम् प्रयसा सप्तधातु
तम् इन् न्व् ए३व समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः । ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितꣳ जबारु
प्रवाच्यꣳ वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति । यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियꣳ रुपो अग्रम् पदꣳ वेः
इदम् उ त्यन् महि महाम् अनीकꣳ यद् उस्रिया सचत पूर्व्यꣳ गौः । ऋतस्य पदे अधि दीद्यानꣳ गुहा रघुष्यद् रघुयद् विवेद
अध द्युतानः पित्रोः सचासामनुत गुह्यꣳ चारु पृश्नेः । मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा
ऋतꣳ वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् । त्वम् अस्य क्षयसि यद् ध विश्वꣳ दिवि यद् उ द्रविणꣳ यत् पृथिव्याम्
किꣳ नो अस्य द्रविणꣳ कद् ध रत्नꣳ वि नो वोचो जातवेदश् चिकित्वान् । गुहाध्वनः परमꣳ यन् नो अस्य रेकु पदꣳ न निदाना अगन्म
का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् । कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः
अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः । अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम्
अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकꣳ दम आ रुरोच । रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत्
ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् । त्वꣳ हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम्
अमूरो होता न्य् असादि विक्ष्व् अ१ग्निर् मन्द्रो विदथेषु प्रचेताः । ऊर्ध्वम् भानुꣳ सवितेवाश्रेन् मेतेव धूमꣳ स्तभायद् उप द्याम्
यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः । उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् । पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः
परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा । द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट्
भद्रा ते अग्ने स्वनीक सꣳदृग् घोरस्य सतो विषुणस्य चारुः । न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी३ रेप आ धुः
न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ । अधा मित्रो न सुधितः पावको३ ऽग्निर् दीदाय मानुषीषु विक्षु
द्विर् यम् पञ्च जीजनन् सꣳवसानाः स्वसारो अग्निम् मानुषीषु विक्षु । उषर्बुधम् अथर्यो३ न दन्तꣳ शुक्रꣳ स्वासम् परशुꣳ न तिग्मम्
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः
ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति । श्येनासो न दुवसनासो अर्थꣳ तुविष्वणसो मारुतꣳ न शर्धः
अकारि ब्रह्म समिधान तुभ्यꣳ शꣳसात्य् उक्थꣳ यजते व्य् ऊ धाः । होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शꣳसम् आयोः
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रꣳ विभ्वꣳ विशे-विशे
अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् । अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम्
ऋतावानꣳ विचेतसम् पश्यन्तो द्याम् इव स्तृभिः । विश्वेषाम् अध्वराणाꣳ हस्कर्तारꣳ दमे-दमे
आशुꣳ दूतꣳ विवस्वतो विश्वा यश् चर्षणीर् अभि । आ जभ्रुः केतुम् आयवो भृगवाणꣳ विशे-विशे
तम् ईꣳ होतारम् आनुषक् चिकित्वाꣳसꣳ नि षेदिरे । रण्वम् पावकशोचिषꣳ यजिष्ठꣳ सप्त धामभिः
तꣳ शश्वतीषु मातृषु वन आ वीतम् अश्रितम् । चित्रꣳ सन्तꣳ गुहा हितꣳ सुवेदꣳ कूचिदर्थिनम्
ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः । महाꣳ अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा
वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी सꣳचिकित्वान् । दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि
कृष्णꣳ त एम रुशतः पुरो भाश् चरिष्ण्व् अ१र्चिर् वपुषाम् इद् एकम् । यद् अप्रवीता दधते ह गर्भꣳ सद्यश् चिज् जातो भवसीद् उ दूतः
सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः । वृणक्ति तिग्माम् अतसेषु जिह्वाꣳ स्थिरा चिद् अन्ना दयते वि जम्भैः
तृषु यद् अन्ना तृषुणा ववक्ष तृषुꣳ दूतꣳ कृणुते यह्वो अग्निः । वातस्य मेळिꣳ सचते निजूर्वन्न् आशुꣳ न वाजयते हिन्वे अर्वा
दूतꣳ वो विश्ववेदसꣳ हव्यवाहम् अमर्त्यम् । यजिष्ठम् ऋञ्जसे गिरा
स हि वेदा वसुधितिम् महाꣳ आरोधनꣳ दिवः । स देवाꣳ एह वक्षति
स वेद देव आनमꣳ देवाꣳ ऋतायते दमे । दाति प्रियाणि चिद् वसु
स होता सेद् उ दूत्यꣳ चिकित्वाꣳ अन्तर् ईयते । विद्वाꣳ आरोधनꣳ दिवः
ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः । य ईम् पुष्यन्त इन्धते
ते राया ते सुवीर्यैः ससवाꣳसो वि शृण्विरे । ये अग्ना दधिरे दुवः
अस्मे रायो दिवे-दिवे सꣳ चरन्तु पुरुस्पृहः । अस्मे वाजास ईरताम्
स विप्रश् चर्षणीनाꣳ शवसा मानुषाणाम् । अति क्षिप्रेव विध्यति
अग्ने मृळ महाꣳ असि य ईम् आ देवयुꣳ जनम् । इयेथ बर्हिर् आसदम्
स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः । दूतो विश्वेषाम् भुवत्
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति
उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे । उत ब्रह्मा नि षीदति
वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् । हव्या च मानुषाणाम्
वेषीद् व् अस्य दूत्य१ꣳ यस्य जुजोषो अध्वरम् । हव्यम् मर्तस्य वोळ्हवे
अस्माकꣳ जोष्य् अध्वरम् अस्माकꣳ यज्ञम् अङ्गिरः । अस्माकꣳ शृणुधी हवम्
परि ते दूळभो रथो ऽस्माꣳ अश्नोतु विश्वतः । येन रक्षसि दाशुषः
अग्ने तम् अद्याश्वꣳ न स्तोमैः क्रतुꣳ न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ
एभिर् नो अर्कैर् भवा नो अर्वाङ् स्व१र् ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः
आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः
तव स्वादिष्ठाग्ने सꣳदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः । श्रिये रुक्मो न रोचत उपाके
घृतꣳ न पूतꣳ तनूर् अरेपाः शुचि हिरण्यम् । तत् ते रुक्मो न रोचत स्वधावः
कृतꣳ चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् । इत्था यजमानाद् ऋतावः
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे । सा नो नाभिः सदने सस्मिन्न् ऊधन्
भद्रꣳ ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य । रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितꣳ दृश आ रूपे अन्नम्
वि षाह्य् अग्ने गृणते मनीषाꣳ खꣳ वेपसा तुविजात स्तवानः । विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म
त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि । त्वद् एति द्रविणꣳ वीरपेशा इत्थाधिये दाशुषे मर्त्याय
त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः । त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवाꣳ अग्ने अर्वा
त्वाम् अग्ने प्रथमꣳ देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् । द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसꣳ गृहपतिम् अमूरम्
आरे अस्मद् अमतिम् आरे अꣳह आरे विश्वाꣳ दुर्मतिꣳ यन् निपासि । दोषा शिवः सहसः सूनो अग्ने यꣳ देव आ चित् सचसे स्वस्ति
यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नꣳ कृणवत् सस्मिन्न् अहन् । स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान्
इध्मꣳ यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् । स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिꣳ सचते घ्नन्न् अमित्रान्
अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः । दधाति रत्नꣳ विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान्
यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः । कृधी ष्व् अ१स्माꣳ अदितेर् अनागान् व्य् एनाꣳसि शिश्रथो विष्वग् अग्ने
महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् । मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शꣳ योः
यथा ह त्यद् वसवो गौर्यꣳ चित् पदि षिताम् अमुञ्चता यजत्राः । एवो ष्व् अ१स्मन् मुञ्चता व्य् अꣳहः प्र तार्य् अग्ने प्रतरꣳ न आयुः
प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनाꣳ सुमना रत्नधेयम् । यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति
ऊर्ध्वम् भानुꣳ सविता देवो अश्रेद् द्रप्सꣳ दविध्वद् गविषो न सत्वा । अनु व्रतꣳ वरुणो यन्ति मित्रो यत् सूर्यꣳ दिव्य् आरोहयन्ति
यꣳ सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । तꣳ सूर्यꣳ हरितः सप्त यह्वीः स्पशꣳ विश्वस्य जगतो वहन्ति
वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितꣳ देव वस्म । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अ१न्तः
अनायतो अनिबद्धः कथायꣳ न्यङ्ङ् उत्तानो ऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम्
प्रत्य् अग्निर् उषसो जातवेदा अख्यद् देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमꣳ यज्ञम् उप नो यातम् अच्छ
ऊर्ध्वꣳ केतुꣳ सविता देवो अश्रेज् ज्योतिर् विश्वस्मै भुवनाय कृण्वन् । आप्रा द्यावापृथिवी अन्तरिक्षꣳ वि सूर्यो रश्मिभिश् चेकितानः
आवहन्त्य् अरुणीर् ज्योतिषागान् मही चित्रा रश्मिभिश् चेकिताना । प्रबोधयन्ती सुविताय देव्य् उ१षा ईयते सुयुजा रथेन
आ वाꣳ वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । इमे हि वाम् मधुपेयाय सोमा अस्मिन् यज्ञे वृषणा मादयेथाम्
अनायतो अनिबद्धः कथायꣳ न्यङ्ङ् उत्तानो ऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम्
अग्निर् होता नो अध्वरे वाजी सन् परि णीयते । देवो देवेषु यज्ञियः
परि त्रिविष्ट्य् अध्वरꣳ यात्य् अग्नी रथीर् इव । आ देवेषु प्रयो दधत्
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे
अयꣳ यः सृञ्जये पुरो दैववाते समिध्यते । द्युमाꣳ अमित्रदम्भनः
अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः । तिग्मजम्भस्य मीळ्हुषः
तम् अर्वन्तꣳ न सानसिम् अरुषꣳ न दिवः शिशुम् । मर्मृज्यन्ते दिवे-दिवे
बोधद् यन् मा हरिभ्याꣳ कुमारः साहदेव्यः । अच्छा न हूत उद् अरम्
उत त्या यजता हरी कुमारात् साहदेव्यात् । प्रयता सद्य आ ददे
एष वाꣳ देवाव् अश्विना कुमारः साहदेव्यः । दीर्घायुर् अस्तु सोमकः
तꣳ युवꣳ देवाव् अश्विना कुमारꣳ साहदेव्यम् । दीर्घायुषꣳ कृणोतन
आ सत्यो यातु मघवाꣳ ऋजीषी द्रवन्त्व् अस्य हरय उप नः । तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वꣳ करते गृणानः
अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै । शꣳसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म
कविर् न निण्यꣳ विदथानि साधन् वृषा यत् सेकꣳ विपिपानो अर्चात् । दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः
स्व१र् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः । अन्धा तमाꣳसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ
ववक्ष इन्द्रो अमितम् ऋजीष्य् उ१भे आ पप्रौ रोदसी महित्वा । अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव
विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः । अश्मानꣳ चिद् ये बिभिदुर् वचोभिर् व्रजꣳ गोमन्तम् उशिजो वि वव्रुः
अपो वृत्रꣳ वव्रिवाꣳसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः । प्रार्णाꣳसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो
अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यꣳ ते । स नो नेता वाजम् आ दर्षि भूरिꣳ गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः
अच्छा कविꣳ नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् । ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त
आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः । स्वे योनौ नि षदतꣳ सरूपा वि वाꣳ चिकित्सद् ऋतचिद् ध नारी
यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः । ऋज्रा वाजꣳ न गध्यꣳ युयूषन् कविर् यद् अहन् पार्याय भूषात्
कुत्साय शुष्णम् अशुषꣳ नि बर्हीः प्रपित्वे अह्नः कुयवꣳ सहस्रा । सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रꣳ वृहताद् अभीके
त्वम् पिप्रुम् मृगयꣳ शूशुवाꣳसम् ऋजिश्वने वैदथिनाय रन्धीः । पञ्चाशत् कृष्णा नि वपः सहस्रात्कꣳ न पुरो जरिमा वि दर्दः
सूर उपाके तन्व१ꣳ दधानो वि यत् ते चेत्य् अमृतस्य वर्पः । मृगो न हस्ती तविषीम् उषाणः सिꣳहो न भीम आयुधानि बिभ्रत्
इन्द्रꣳ कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः । श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः
तम् इद् व इन्द्रꣳ सुहवꣳ हुवेम यस् ता चकार नर्या पुरूणि । यो मावते जरित्रे गध्यꣳ चिन् मक्षू वाजम् भरति स्पार्हराधाः
तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् । घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः
भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ । त्वाम् अनु प्रमतिम् आ जगन्मोरुशꣳसो जरित्रे विश्वध स्याः
एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ । द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः
एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
त्वम् महाꣳ इन्द्र तुभ्यꣳ ह क्षा अनु क्षत्रम् मꣳहना मन्यत द्यौः । त्वꣳ वृत्रꣳ शवसा जघन्वान् सृजः सिन्धूꣳर् अहिना जग्रसानान्
तव त्विषो जनिमन् रेजत द्यौ रेजद् भूमिर् भियसा स्वस्य मन्योः । ऋघायन्त सुभ्व१ः पर्वतास आर्दन् धन्वानि सरयन्त आपः
भिनद् गिरिꣳ शवसा वज्रम् इष्णन्न् आविष्कृण्वानः सहसान ओजः । वधीद् वृत्रꣳ वज्रेण मन्दसानः सरन्न् आपो जवसा हतवृष्णीः
सुवीरस् ते जनिता मन्यत द्यौर् इन्द्रस्य कर्ता स्वपस्तमो भूत् । य ईꣳ जजान स्वर्यꣳ सुवज्रम् अनपच्युतꣳ सदसो न भूम
य एक इच् च्यावयति प्र भूमा राजा कृष्टीनाम् पुरुहूत इन्द्रः । सत्यम् एनम् अनु विश्वे मदन्ति रातिꣳ देवस्य गृणतो मघोनः
सत्रा सोमा अभवन्न् अस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः । सत्राभवो वसुपतिर् वसूनाꣳ दत्रे विश्वा अधिथा इन्द्र कृष्टीः
त्वम् अध प्रथमꣳ जायमानो ऽमे विश्वा अधिथा इन्द्र कृष्टीः । त्वम् प्रति प्रवत आशयानम् अहिꣳ वज्रेण मघवन् वि वृश्चः
सत्राहणꣳ दाधृषिꣳ तुम्रम् इन्द्रम् महाम् अपारꣳ वृषभꣳ सुवज्रम् । हन्ता यो वृत्रꣳ सनितोत वाजꣳ दाता मघानि मघवा सुराधाः
अयꣳ वृतश् चातयते समीचीर् य आजिषु मघवा शृण्व एकः । अयꣳ वाजम् भरति यꣳ सनोत्य् अस्य प्रियासः सख्ये स्याम
अयꣳ शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्र कृणुते युधा गाः । यदा सत्यꣳ कृणुते मन्युम् इन्द्रो विश्वꣳ दृळ्हम् भयत एजद् अस्मात्
सम् इन्द्रो गा अजयत् सꣳ हिरण्या सम् अश्विया मघवा यो ह पूर्वीः । एभिर् नृभिर् नृतमो अस्य शाकै रायो विभक्ता सम्भरश् च वस्वः
कियत् स्विद् इन्द्रो अध्य् एति मातुः कियत् पितुर् जनितुर् यो जजान । यो अस्य शुष्मम् मुहुकैर् इयर्ति वातो न जूतः स्तनयद्भिर् अभ्रैः
क्षियन्तꣳ त्वम् अक्षियन्तꣳ कृणोतीयर्ति रेणुम् मघवा समोहम् । विभञ्जनुर् अशनिमाꣳ इव द्यौर् उत स्तोतारम् मघवा वसौ धात्
अयꣳ चक्रम् इषणत् सूर्यस्य न्य् एतशꣳ रीरमत् ससृमाणम् । आ कृष्ण ईꣳ जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ
असिक्न्याꣳ यजमानो न होता
गव्यन्त इन्द्रꣳ सख्याय विप्रा अश्वायन्तो वृषणꣳ वाजयन्तः । जनीयन्तो जनिदाम् अक्षितोतिम् आ च्यावयामो ऽवते न कोशम्
त्राता नो बोधि ददृशान आपिर् अभिख्याता मर्डिता सोम्यानाम् । सखा पिता पितृतमः पितॄणाꣳ कर्तेम् उ लोकम् उशते वयोधाः
सखीयताम् अविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः । वयꣳ ह्य् आ ते चकृमा सबाध आभिः शमीभिर् महयन्त इन्द्र
स्तुत इन्द्रो मघवा यद् ध वृत्रा भूरीण्य् एको अप्रतीनि हन्ति । अस्य प्रियो जरिता यस्य शर्मन् नकिर् देवा वारयन्ते न मर्ताः
एवा न इन्द्रो मघवा विरप्शी करत् सत्या चर्षणीधृद् अनर्वा । त्वꣳ राजा जनुषाꣳ धेह्य् अस्मे अधि श्रवो माहिनꣳ यज् जरित्रे
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
अयम् पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे । अतश् चिद् आ जनिषीष्ट प्रवृद्धो मा मातरम् अमुया पत्तवे कः
नाहम् अतो निर् अया दुर्गहैतत् तिरश्चता पार्श्वान् निर् गमाणि । बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सꣳ त्वेन पृच्छै
परायतीम् मातरम् अन्व् अचष्ट न नानु गान्य् अनु नू गमानि । त्वष्टुर् गृहे अपिबत् सोमम् इन्द्रः शतधन्यꣳ चम्वोः सुतस्य
किꣳ स ऋधक् कृणवद् यꣳ सहस्रम् मासो जभार शरदश् च पूर्वीः । नही न्व् अस्य प्रतिमानम् अस्त्य् अन्तर् जातेषूत ये जनित्वाः
अवद्यम् इव मन्यमाना गुहाकर् इन्द्रम् माता वीर्येणा न्यृष्टम् । अथोद् अस्थात् स्वयम् अत्कꣳ वसान आ रोदसी अपृणाज् जायमानः
एता अर्षन्त्य् अललाभवन्तीर् ऋतावरीर् इव सꣳक्रोशमानाः । एता वि पृच्छ किम् इदम् भनन्ति कम् आपो अद्रिम् परिधिꣳ रुजन्ति
किम् उ ष्विद् अस्मै निविदो भनन्तेन्द्रस्यावद्यꣳ दिधिषन्त आपः । ममैतान् पुत्रो महता वधेन वृत्रꣳ जघन्वाꣳ असृजद् वि सिन्धून्
ममच् चन त्वा युवतिः परास ममच् चन त्वा कुषवा जगार । ममच् चिद् आपः शिशवे ममृड्युर् ममच् चिद् इन्द्रः सहसोद् अतिष्ठत्
ममच् चन ते मघवन् व्यꣳसो निविविध्वाꣳ अप हनू जघान । अधा निविद्ध उत्तरो बभूवाञ् छिरो दासस्य सम् पिणग् वधेन
गृष्टिः ससूव स्थविरꣳ तवागाम् अनाधृष्यꣳ वृषभꣳ तुम्रम् इन्द्रम् । अरीळ्हꣳ वत्सꣳ चरथाय माता स्वयꣳ गातुꣳ तन्व इच्छमानम्
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन् सखे विष्णो वितरꣳ वि क्रमस्व
कस् ते मातरꣳ विधवाम् अचक्रच् छयुꣳ कस् त्वाम् अजिघाꣳसच् चरन्तम् । कस् ते देवो अधि मार्डीक आसीद् यत् प्राक्षिणाः पितरम् पादगृह्य
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् । अपश्यꣳ जायाम् अमहीयमानाम् अधा मे श्येनो मध्व् आ जभार
एवा त्वाम् इन्द्र वज्रिन्न् अत्र विश्वे देवासः सुहवास ऊमाः । महाम् उभे रोदसी वृद्धम् ऋष्वꣳ निर् एकम् इद् वृणते वृत्रहत्ये
अवासृजन्त जिव्रयो न देवा भुवः सम्राळ् इन्द्र सत्ययोनिः । अहन्न् अहिम् परिशयानम् अर्णः प्र वर्तनीर् अरदो विश्वधेनाः
अतृप्णुवन्तꣳ वियतम् अबुध्यम् अबुध्यमानꣳ सुषुपाणम् इन्द्र । सप्त प्रति प्रवत आशयानम् अहिꣳ वज्रेण वि रिणा अपर्वन्
अक्षोदयच् छवसा क्षाम बुध्नꣳ वार् ण वातस् तविषीभिर् इन्द्रः । दृळ्हान्य् औभ्नाद् उशमान ओजो ऽवाभिनत् ककुभः पर्वतानाम्
अभि प्र दद्रुर् जनयो न गर्भꣳ रथा इव प्र ययुः साकम् अद्रयः । अतर्पयो विसृत उब्ज ऊर्मीन् त्वꣳ वृताꣳ अरिणा इन्द्र सिन्धून्
त्वम् महीम् अवनिꣳ विश्वधेनाꣳ तुर्वीतये वय्याय क्षरन्तीम् । अरमयो नमसैजद् अर्णः सुतरणाꣳ अकृणोर् इन्द्र सिन्धून्
प्राग्रुवो नभन्वो३ न वक्वा ध्वस्रा अपिन्वद् युवतीर् ऋतज्ञाः । धन्वान्य् अज्राꣳ अपृणक् तृषाणाꣳ अधोग् इन्द्रः स्तर्यो३ दꣳसुपत्नीः
पूर्वीर् उषसः शरदश् च गूर्ता वृत्रꣳ जघन्वाꣳ असृजद् वि सिन्धून् । परिष्ठिता अतृणद् बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या
वम्रीभिः पुत्रम् अग्रुवो अदानꣳ निवेशनाद् धरिव आ जभर्थ । व्य् अ१न्धो अख्यद् अहिम् आददानो निर् भूद् उखच्छित् सम् अरन्त पर्व
प्र ते पूर्वाणि करणानि विप्राविद्वाꣳ आह विदुषे कराꣳसि । यथा-यथा वृष्ण्यानि स्वगूर्तापाꣳसि राजन् नर्याविवेषीः
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
आ न इन्द्रो दूराद् आ न आसाद् अभिष्टिकृद् अवसे यासद् उग्रः । ओजिष्ठेभिर् नृपतिर् वज्रबाहुः सꣳगे समत्सु तुर्वणिः पृतन्यून्
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमꣳ यज्ञम् अनु नो वाजसातौ
इमꣳ यज्ञꣳ त्वम् अस्माकम् इन्द्र पुरो दधत् सनिष्यसि क्रतुꣳ नः । श्वघ्नीव वज्रिन् सनये धनानाꣳ त्वया वयम् अर्य आजिꣳ जयेम
उशन्न् उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः । पा इन्द्र प्रतिभृतस्य मध्वः सम् अन्धसा ममदः पृष्ठ्येन
वि यो ररप्श ऋषिभिर् नवेभिर् वृक्षो न पक्वः सृण्यो न जेता । मर्यो न योषाम् अभि मन्यमानो ऽच्छा विवक्मि पुरुहूतम् इन्द्रम्
गिरिर् न यः स्वतवाꣳ ऋष्व इन्द्रः सनाद् एव सहसे जात उग्रः । आदर्ता वज्रꣳ स्थविरꣳ न भीम उद्नेव कोशꣳ वसुना न्यृष्टम्
न यस्य वर्ता जनुषा न्व् अस्ति न राधस आमरीता मघस्य । उद्वावृषाणस् तविषीव उग्रास्मभ्यꣳ दद्धि पुरुहूत रायः
ईक्षे रायः क्षयस्य चर्षणीनाम् उत व्रजम् अपवर्तासि गोनाम् । शिक्षानरः समिथेषु प्रहावान् वस्वो राशिम् अभिनेतासि भूरिम्
कया तच् छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिद् ऋष्वः । पुरु दाशुषे विचयिष्ठो अꣳहो ऽथा दधाति द्रविणꣳ जरित्रे
मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः । वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात्
तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् । यस्य क्रतुर् विदथ्यो३ न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः
आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् । स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य
स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् । यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ
उप यो नमो नमसि स्तभायन्न् इयर्ति वाचꣳ जनयन् यजध्यै । ऋञ्जसानः पुरुवार उक्थैर् एन्द्रꣳ कृण्वीत सदनेषु होता
धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे । आ दुरोषाः पास्त्यस्य होता यो नो महान् सꣳवरणेषु वह्निः
सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय । गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय
वि यद् वराꣳसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपाꣳ जवाꣳसि । विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो३ वहन्ति
भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र । का ते निषत्तिः किम् उ नो ममत्सि किꣳ नोद्-उद् उ हर्षसे दातवा उ
एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रꣳ वरिवः पूरवे कः । पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् । ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानꣳ शवसा बिभ्रद् एति
वृषा वृषन्धिꣳ चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्याꣳ नृतमः शचीवान् । श्रिये परुष्णीम् उषमाण ऊर्णाꣳ यस्याः पर्वाणि सख्याय विव्ये
यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः । दधानो वज्रम् बाह्वोर् उशन्तꣳ द्याम् अमेन रेजयत् प्र भूम
विश्वा रोधाꣳसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः । आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः
ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या । यच् छूर धृष्णो धृषता दधृष्वान् अहिꣳ वज्रेण शवसाविवेषीः
ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः । अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त
अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः । यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिꣳ स्यन्दयध्यै
पिपीळे अꣳशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः । अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिꣳ तुव्योजसꣳ गोः
अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहाꣳसि । अस्मभ्यꣳ वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य
अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यꣳ चित्राꣳ उप माहि वाजान् । अस्मभ्यꣳ विश्वा इषणः पुरꣳधीर् अस्माकꣳ सु मघवन् बोधि गोदाः
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
कथा महाम् अवृधत् कस्य होतुर् यज्ञꣳ जुषाणो अभि सोमम् ऊधः । पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय
को अस्य वीरः सधमादम् आप सम् आनꣳश सुमतिभिः को अस्य । कद् अस्य चित्रꣳ चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः
कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद । का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिꣳ जरित्रे
कथा सबाधः शशमानो अस्य नशद् अभि द्रविणꣳ दीध्यानः । देवो भुवन् नवेदा म ऋतानाꣳ नमो जगृभ्वाꣳ अभि यज् जुजोषत्
कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यꣳ जुजोष । कथा कद् अस्य सख्यꣳ सखिभ्यो ये अस्मिन् कामꣳ सुयुजꣳ ततस्रे
किम् आद् अमत्रꣳ सख्यꣳ सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम । श्रिये सुदृशो वपुर् अस्य सर्गाः स्व१र् ण चित्रतमम् इष आ गोः
द्रुहꣳ जिघाꣳसन् ध्वरसम् अनिन्द्राꣳ तेतिक्ते तिग्मा तुजसे अनीका । ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे
ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति । ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः
ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूꣳषि । ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः
ऋतꣳ येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः । ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनꣳ राधस आ ववर्तत् । ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधाꣳ नो जनासः
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात्
तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वाꣳसस् तन्वः कृण्वत त्राम् । मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ
क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ । सꣳ यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके
आद् इद् ध नेम इन्द्रियꣳ यजन्त आद् इत् पक्तिः पुरोळाशꣳ रिरिच्यात् । आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभꣳ यजध्यै
कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति । सध्रीचीनेन मनसाविवेनन् तम् इत् सखायꣳ कृणुते समत्सु
य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः । प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणꣳ शुष्मम् इन्द्रः
यदा समर्यꣳ व्य् अचेद् ऋघावा दीर्घꣳ यद् आजिम् अभ्य् अख्यद् अर्यः । अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितꣳ सोमसुद्भिः
भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् । स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम्
क इमꣳ दशभिर् ममेन्द्रꣳ क्रीणाति धेनुभिः । यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत्
नू ष्टुत इन्द्र नू गृणान इषꣳ जरित्रे नद्यो३ न पीपेः । अकारि ते हरिवो ब्रह्म नव्यꣳ धिया स्याम रथ्यः सदासाः
को अद्य नर्यो देवकाम उशन्न् इन्द्रस्य सख्यꣳ जुजोष । को वा महे ऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे
को नानाम वचसा सोम्याय मनायुर् वा भवति वस्त उस्राः । क इन्द्रस्य युज्यꣳ कः सखित्वꣳ को भ्रात्रꣳ वष्टि कवये क ऊती
को देवानाम् अवो अद्या वृणीते क आदित्याꣳ अदितिꣳ ज्योतिर् ईट्टे । कस्याश्विनाव् इन्द्रो अग्निः सुतस्याꣳशोः पिबन्ति मनसाविवेनम्
तस्मा अग्निर् भारतः शर्म यꣳसज् ज्योक् पश्यात् सूर्यम् उच्चरन्तम् । य इन्द्राय सुनवामेत्य् आह नरे नर्याय नृतमाय नृणाम्
न तꣳ जिनन्ति बहवो न दभ्रा उर्व् अस्मा अदितिः शर्म यꣳसत् । प्रियः सुकृत् प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी
सुप्राव्यः प्राशुषाळ् एष वीरः सुष्वेः पक्तिꣳ कृणुते केवलेन्द्रः । नासुष्वेर् आपिर् न सखा न जामिर् दुष्प्राव्यो ऽवहन्तेद् अवाचः
न रेवता पणिना सख्यम् इन्द्रो ऽसुन्वता सुतपाः सꣳ गृणीते । आस्य वेदः खिदति हन्ति नग्नꣳ वि सुष्वये पक्तये केवलो भूत्
इन्द्रम् परे ऽवरे मध्यमास इन्द्रꣳ यान्तो ऽवसितास इन्द्रम् । इन्द्रꣳ क्षियन्त उत युध्यमाना इन्द्रꣳ नरो वाजयन्तो हवन्ते
अहम् मनुर् अभवꣳ सूर्यश् चाहꣳ कक्षीवाꣳ ऋषिर् अस्मि विप्रः । अहꣳ कुत्सम् आर्जुनेयꣳ न्य् ऋञ्जे ऽहꣳ कविर् उशना पश्यता मा
अहम् भूमिम् अददाम् आर्यायाहꣳ वृष्टिꣳ दाशुषे मर्त्याय । अहम् अपो अनयꣳ वावशाना मम देवासो अनु केतम् आयन्
अहम् पुरो मन्दसानो व्य् ऐरꣳ नव साकꣳ नवतीः शम्बरस्य । शततमꣳ वेश्यꣳ सर्वताता दिवोदासम् अतिथिग्वꣳ यद् आवम्
प्र सु ष विभ्यो मरुतो विर् अस्तु प्र श्येनः श्येनेभ्य आशुपत्वा । अचक्रया यत् स्वधया सुपर्णो हव्यम् भरन् मनवे देवजुष्टम्
भरद् यदि विर् अतो वेविजानः पथोरुणा मनोजवा असर्जि । तूयꣳ ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र
ऋजीपी श्येनो ददमानो अꣳशुम् परावतः शकुनो मन्द्रम् मदम् । सोमम् भरद् दादृहाणो देवावान् दिवो अमुष्माद् उत्तराद् आदाय
आदाय श्येनो अभरत् सोमꣳ सहस्रꣳ सवाꣳ अयुतꣳ च साकम् । अत्रा पुरꣳधिर् अजहाद् अरातीर् मदे सोमस्य मूरा अमूरः
गर्भे नु सन्न् अन्व् एषाम् अवेदम् अहꣳ देवानाꣳ जनिमानि विश्वा । शतम् मा पुर आयसीर् अरक्षन्न् अध श्येनो जवसा निर् अदीयम्
न घा स माम् अप जोषꣳ जभाराभीम् आस त्वक्षसा वीर्येण । ईर्मा पुरꣳधिर् अजहाद् अरातीर् उत वाताꣳ अतरच् छूशुवानः
अव यच् छ्येनो अस्वनीद् अध द्योर् वि यद् यदि वात ऊहुः पुरꣳधिम् । सृजद् यद् अस्मा अव ह क्षिपज् ज्याꣳ कृशानुर् अस्ता मनसा भुरण्यन्
ऋजिप्य ईम् इन्द्रावतो न भुज्युꣳ श्येनो जभार बृहतो अधि ष्णोः । अन्तः पतत् पतत्र्य् अस्य पर्णम् अध यामनि प्रसितस्य तद् वेः
अध श्वेतꣳ कलशꣳ गोभिर् अक्तम् आपिप्यानम् मघवा शुक्रम् अन्धः । अध्वर्युभिः प्रयतम् मध्वो अग्रम् इन्द्रो मदाय प्रति धत् पिबध्यै शूरो मदाय प्रति धत् पिबध्यै
त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः । अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि
त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रꣳ सहसा सद्य इन्दो । अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि
अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यꣳदिनाद् अभीके । दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत्
विश्वस्मात् सीम् अधमाꣳ इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः । अबाधेथाम् अमृणतꣳ नि शत्रून् अविन्देथाम् अपचितिꣳ वधत्रैः
एवा सत्यम् मघवाना युवꣳ तद् इन्द्रश् च सोमोर्वम् अश्व्यꣳ गोः । आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना
आ नः स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः । तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः
आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् । स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सꣳ ह वीरैः
श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै । उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयꣳ च
अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रꣳ हवमानꣳ गृणन्तम् । उप त्मनि दधानो धुर्य् आ३शून् सहस्राणि शतानि वज्रबाहुः
त्वोतासो मघवन्न् इन्द्र विप्रा वयꣳ ते स्याम सूरयो गृणन्तः । भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः
नकिर् इन्द्र त्वद् उत्तरो न ज्यायाꣳ अस्ति वृत्रहन् । नकिर् एवा यथा त्वम्
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः । सत्रा महाꣳ असि श्रुतः
विश्वे चनेद् अना त्वा देवास इन्द्र युयुधुः । यद् अहा नक्तम् आतिरः
यत्रोत बाधितेभ्यश् चक्रꣳ कुत्साय युध्यते । मुषाय इन्द्र सूर्यम्
यत्र देवाꣳ ऋघायतो विश्वाꣳ अयुध्य एक इत् । त्वम् इन्द्र वनूꣳर् अहन्
यत्रोत मर्त्याय कम् अरिणा इन्द्र सूर्यम् । प्रावः शचीभिर् एतशम्
किम् आद् उतासि वृत्रहन् मघवन् मन्युमत्तमः । अत्राह दानुम् आतिरः
एतद् घेद् उत वीर्य१म् इन्द्र चकर्थ पौꣳस्यम् । स्त्रियꣳ यद् दुर्हणायुवꣳ वधीर् दुहितरꣳ दिवः
दिवश् चिद् घा दुहितरम् महान् महीयमानाम् । उषासम् इन्द्र सम् पिणक्
अपोषा अनसः सरत् सम्पिष्टाद् अह बिभ्युषी । नि यत् सीꣳ शिश्नथद् वृषा
एतद् अस्या अनः शये सुसम्पिष्टꣳ विपाश्य् आ । ससार सीम् परावतः
उत सिन्धुꣳ विबाल्यꣳ वितस्थानाम् अधि क्षमि । परि ष्ठा इन्द्र मायया
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । पुरो यद् अस्य सम्पिणक्
उत दासꣳ कौलितरम् बृहतः पर्वताद् अधि । अवाहन्न् इन्द्र शम्बरम्
उत दासस्य वर्चिनः सहस्राणि शतावधीः । अधि पञ्च प्रधीꣳर् इव
उत त्यम् पुत्रम् अग्रुवः परावृक्तꣳ शतक्रतुः । उक्थेष्व् इन्द्र आभजत्
उत त्या तुर्वशायदू अस्नातारा शचीपतिः । इन्द्रो विद्वाꣳ अपारयत्
उत त्या सद्य आर्या सरयोर् इन्द्र पारतः । अर्णाचित्ररथावधीः
अनु द्वा जहिता नयो ऽन्धꣳ श्रोणꣳ च वृत्रहन् । न तत् ते सुम्नम् अष्टवे
शतम् अश्मन्मयीनाम् पुराम् इन्द्रो व्य् आस्यत् । दिवोदासाय दाशुषे
अस्वापयद् दभीतये सहस्रा त्रिꣳशतꣳ हथैः । दासानाम् इन्द्रो मायया
स घेद् उतासि वृत्रहन् समान इन्द्र गोपतिः । यस् ता विश्वानि चिच्युषे
उत नूनꣳ यद् इन्द्रियꣳ करिष्या इन्द्र पौꣳस्यम् । अद्या नकिष् टद् आ मिनत्
वामꣳ-वामꣳ त आदुरे देवो ददात्व् अर्यमा । वामम् पूषा वामम् भगो वामꣳ देवः करूळती
कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता
कस् त्वा सत्यो मदानाम् मꣳहिष्ठो मत्सद् अन्धसः । दृळ्हा चिद् आरुजे वसु
अभी षु णः सखीनाम् अविता जरितॄणाम् । शतम् भवास्य् ऊतिभिः
अभी न आ ववृत्स्व चक्रꣳ न वृत्तम् अर्वतः । नियुद्भिश् चर्षणीनाम्
प्रवता हि क्रतूनाम् आ हा पदेव गच्छसि । अभक्षि सूर्ये सचा
सꣳ यत् त इन्द्र मन्यवः सꣳ चक्राणि दधन्विरे । अध त्वे अध सूर्ये
उत स्मा हि त्वाम् आहुर् इन् मघवानꣳ शचीपते । दातारम् अविदीधयुम्
उत स्मा सद्य इत् परि शशमानाय सुन्वते । पुरू चिन् मꣳहसे वसु
नहि ष्मा ते शतꣳ चन राधो वरन्त आमुरः । न च्यौत्नानि करिष्यतः
अस्माꣳ अवन्तु ते शतम् अस्मान् सहस्रम् ऊतयः । अस्मान् विश्वा अभिष्टयः
अस्माꣳ इहा वृणीष्व सख्याय स्वस्तये । महो राये दिवित्मते
अस्माꣳ अविड्ढि विश्वहेन्द्र राया परीणसा । अस्मान् विश्वाभिर् ऊतिभिः
अस्मभ्यꣳ ताꣳ अपा वृधि व्रजाꣳ अस्तेव गोमतः । नवाभिर् इन्द्रोतिभिः
अस्माकꣳ धृष्णुया रथो द्युमाꣳ इन्द्रानपच्युतः । गव्युर् अश्वयुर् ईयते
अस्माकम् उत्तमꣳ कृधि श्रवो देवेषु सूर्य । वर्षिष्ठꣳ द्याम् इवोपरि
आ तू न इन्द्र वृत्रहन्न् अस्माकम् अर्धम् आ गहि । महान् महीभिर् ऊतिभिः
भृमिश् चिद् घासि तूतुजिर् आ चित्र चित्रिणीष्व् आ । चित्रꣳ कृणोष्य् ऊतये
दभ्रेभिश् चिच् छशीयाꣳसꣳ हꣳसि व्राधन्तम् ओजसा । सखिभिर् ये त्वे सचा
वयम् इन्द्र त्वे सचा वयꣳ त्वाभि नोनुमः । अस्माꣳ-अस्माꣳ इद् उद् अव
स नश् चित्राभिर् अद्रिवो ऽनवद्याभिर् ऊतिभिः । अनाधृष्टाभिर् आ गहि
भूयामो षु त्वावतः सखाय इन्द्र गोमतः । युजो वाजाय घृष्वये
त्वꣳ ह्य् एक ईशिष इन्द्र वाजस्य गोमतः । स नो यन्धि महीम् इषम्
न त्वा वरन्ते अन्यथा यद् दित्ससि स्तुतो मघम् । स्तोतृभ्य इन्द्र गिर्वणः
अभि त्वा गोतमा गिरानूषत प्र दावने । इन्द्र वाजाय घृष्वये
प्र ते वोचाम वीर्या३ या मन्दसान आरुजः । पुरो दासीर् अभीत्य
ता ते गृणन्ति वेधसो यानि चकर्थ पौꣳस्या । सुतेष्व् इन्द्र गिर्वणः
अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः । ऐषु धा वीरवद् यशः
यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । तꣳ त्वा वयꣳ हवामहे
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । सोमानाम् इन्द्र सोमपाः
अस्माकꣳ त्वा मतीनाम् आ स्तोम इन्द्र यच्छतु । अर्वाग् आ वर्तया हरी
पुरोळाशꣳ च नो घसो जोषयासे गिरश् च नः । वधूयुर् इव योषणाम्
सहस्रꣳ व्यतीनाꣳ युक्तानाम् इन्द्रम् ईमहे । शतꣳ सोमस्य खार्यः
सहस्रा ते शता वयꣳ गवाम् आ च्यावयामसि । अस्मत्रा राध एतु ते
दश ते कलशानाꣳ हिरण्यानाम् अधीमहि । भूरिदा असि वृत्रहन्
भूरिदा भूरि देहि नो मा दभ्रम् भूर्य् आ भर । भूरि घेद् इन्द्र दित्ससि
भूरिदा ह्य् असि श्रुतः पुरुत्रा शूर वृत्रहन् । आ नो भजस्व राधसि
प्र ते बभ्रू विचक्षण शꣳसामि गोषणो नपात् । माभ्याꣳ गा अनु शिश्रथः
कनीनकेव विद्रधे नवे द्रुपदे अर्भके । बभ्रू यामेषु शोभेते
अरम् म उस्रयाम्णे ऽरम् अनुस्रयाम्णे । बभ्रू यामेष्व् अस्रिधा
प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीꣳ धेनुम् ईळे । ये वातजूतास् तरणिभिर् एवैः परि द्याꣳ सद्यो अपसो बभूवुः
यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दꣳसनाभिः । आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै
पुनर् ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना । ते वाजो विभ्वाꣳ ऋभुर् इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम्
यत् सꣳवत्सम् ऋभवो गाम् अरक्षन् यत् सꣳवत्सम् ऋभवो मा अपिꣳशन् । यत् सꣳवत्सम् अभरन् भासो अस्यास् ताभिः शमीभिर् अमृतत्वम् आशुः
ज्येष्ठ आह चमसा द्वा करेति कनीयान् त्रीन् कृणवामेत्य् आह । कनिष्ठ आह चतुरस् करेति त्वष्ट ऋभवस् तत् पनयद् वचो वः
सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् । विभ्राजमानाꣳश् चमसाꣳ अहेवावेनत् त्वष्टा चतुरो ददृश्वान्
द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः । सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः
रथꣳ ये चक्रुः सुवृतꣳ नरेष्ठाꣳ ये धेनुꣳ विश्वजुवꣳ विश्वरूपाम् । त आ तक्षन्त्व् ऋभवो रयिꣳ नः स्ववसः स्वपसः सुहस्ताः
अपो ह्य् एषाम् अजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । वाजो देवानाम् अभवत् सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । ते रायस् पोषꣳ द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम्
इदाह्नः पीतिम् उत वो मदꣳ धुर् न ऋते श्रान्तस्य सख्याय देवाः । ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात
ऋभुर् विभ्वा वाज इन्द्रो नो अच्छेमꣳ यज्ञꣳ रत्नधेयोप यात । इदा हि वो धिषणा देव्य् अह्नाम् अधात् पीतिꣳ सम् मदा अग्मता वः
विदानासो जन्मनो वाजरत्ना उत ऋतुभिर् ऋभवो मादयध्वम् । सꣳ वो मदा अग्मत सम् पुरꣳधिः सुवीराम् अस्मे रयिम् एरयध्वम्
अयꣳ वो यज्ञ ऋभवो ऽकारि यम् आ मनुष्वत् प्रदिवो दधिध्वे । प्र वो ऽच्छा जुजुषाणासो अस्थुर् अभूत विश्वे अग्रियोत वाजाः
अभूद् उ वो विधते रत्नधेयम् इदा नरो दाशुषे मर्त्याय । पिबत वाजा ऋभवो ददे वो महि तृतीयꣳ सवनम् मदाय
आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः । आ वः पीतयो ऽभिपित्वे अह्नाम् इमा अस्तꣳ नवस्व इव ग्मन्
आ नपातः शवसो यातनोपेमꣳ यज्ञꣳ नमसा हूयमानाः । सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः
सजोषा इन्द्र वरुणेन सोमꣳ सजोषाः पाहि गिर्वणो मरुद्भिः । अग्रेपाभिर् ऋतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः
सजोषस आदित्यैर् मादयध्वꣳ सजोषस ऋभवः पर्वतेभिः । सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः
ये अश्विना ये पितरा य ऊती धेनुꣳ ततक्षुर् ऋभवो ये अश्वा । ये अꣳसत्रा य ऋधग् रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः
ये गोमन्तꣳ वाजवन्तꣳ सुवीरꣳ रयिꣳ धत्थ वसुमन्तम् पुरुक्षुम् । ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिꣳ गृणन्ति
नापाभूत न वो ऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् । सम् इन्द्रेण मदथ सम् मरुद्भिः सꣳ राजभी रत्नधेयाय देवाः
इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत । अस्मिन् हि वः सवने रत्नधेयꣳ गमन्त्व् इन्द्रम् अनु वो मदासः
आगन्न् ऋभूणाम् इह रत्नधेयम् अभूत् सोमस्य सुषुतस्य पीतिः । सुकृत्यया यत् स्वपस्यया चꣳ एकꣳ विचक्र चमसꣳ चतुर्धा
व्य् अकृणोत चमसꣳ चतुर्धा सखे वि शिक्षेत्य् अब्रवीत । अथैत वाजा अमृतस्य पन्थाꣳ गणꣳ देवानाम् ऋभवः सुहस्ताः
किम्मयः स्विच् चमस एष आस यꣳ काव्येन चतुरो विचक्र । अथा सुनुध्वꣳ सवनम् मदाय पात ऋभवो मधुनः सोम्यस्य
शच्याकर्त पितरा युवाना शच्याकर्त चमसꣳ देवपानम् । शच्या हरी धनुतराव् अतष्टेन्द्रवाहाव् ऋभवो वाजरत्नाः
यो वः सुनोत्य् अभिपित्वे अह्नाꣳ तीव्रꣳ वाजासः सवनम् मदाय । तस्मै रयिम् ऋभवः सर्ववीरम् आ तक्षत वृषणो मन्दसानाः
प्रातः सुतम् अपिबो हर्यश्व माध्यꣳदिनꣳ सवनꣳ केवलꣳ ते । सम् ऋभुभिः पिबस्व रत्नधेभिः सखीꣳर् याꣳ इन्द्र चकृषे सुकृत्या
ये देवासो अभवता सुकृत्या श्येना इवेद् अधि दिवि निषेद । ते रत्नꣳ धात शवसो नपातः सौधन्वना अभवतामृतासः
यत् तृतीयꣳ सवनꣳ रत्नधेयम् अकृणुध्वꣳ स्वपस्या सुहस्ताः । तद् ऋभवः परिषिक्तꣳ व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम्
अनश्वो जातो अनभीशुर् उक्थ्यो३ रथस् त्रिचक्रः परि वर्तते रजः । महत् तद् वो देव्यस्य प्रवाचनꣳ द्याम् ऋभवः पृथिवीꣳ यच् च पुष्यथ
रथꣳ ये चक्रुः सुवृतꣳ सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया । ताꣳ ऊ न्व् अ१स्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि
तद् वो वाजा ऋभवः सुप्रवाचनꣳ देवेषु विभ्वो अभवन् महित्वनम् । जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ
एकꣳ वि चक्र चमसꣳ चतुर्वयꣳ निश् चर्मणो गाम् अरिणीत धीतिभिः । अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम्
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः । विभ्वतष्टो विदथेषु प्रवाच्यो यꣳ देवासो ऽवथा स विचर्षणिः
स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । स रायस् पोषꣳ स सुवीर्यꣳ दधे यꣳ वाजो विभ्वाꣳ ऋभवो यम् आविषुः
श्रेष्ठꣳ वः पेशो अधि धायि दर्शतꣳ स्तोमो वाजा ऋभवस् तꣳ जुजुष्टन । धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि
यूयम् अस्मभ्यꣳ धिषणाभ्यस् परि विद्वाꣳसो विश्वा नर्याणि भोजना । द्युमन्तꣳ वाजꣳ वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः
इह प्रजाम् इह रयिꣳ रराणा इह श्रवो वीरवत् तक्षता नः । येन वयꣳ चितयेमात्य् अन्यान् तꣳ वाजꣳ चित्रम् ऋभवो ददा नः
उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः । यथा यज्ञम् मनुषो विक्ष्व् आ३सु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम्
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः । प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः
त्र्युदायꣳ देवहितꣳ यथा वः स्तोमो वाजा ऋभुक्षणो ददे वः । जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम्
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः । इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय
ऋभुम् ऋभुक्षणो रयिꣳ वाजे वाजिन्तमꣳ युजम् । इन्द्रस्वन्तꣳ हवामहे सदासातमम् अश्विनम्
सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् । स धीभिर् अस्तु सनिता मेधसाता सो अर्वता
वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे । अस्मभ्यꣳ सूरयः स्तुता विश्वा आशास् तरीषणि
तꣳ नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् । सम् अश्वꣳ चर्षणिभ्य आ पुरु शस्त मघत्तये
उतो हि वाꣳ दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे । क्षेत्रासाꣳ ददथुर् उर्वरासाꣳ घनꣳ दस्युभ्यो अभिभूतिम् उग्रम्
उत वाजिनम् पुरुनिष्षिध्वानꣳ दधिक्राम् उ ददथुर् विश्वकृष्टिम् । ऋजिप्यꣳ श्येनम् प्रुषितप्सुम् आशुꣳ चर्कृत्यम् अर्यो नृपतिꣳ न शूरम्
यꣳ सीम् अनु प्रवतेव द्रवन्तꣳ विश्वः पूरुर् मदति हर्षमाणः । पड्भिर् गृध्यन्तम् मेधयुꣳ न शूरꣳ रथतुरꣳ वातम् इव ध्रजन्तम्
यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् । आविरृजीको विदथा निचिक्यत् तिरो अरतिम् पर्य् आप आयोः
उत स्मैनꣳ वस्त्रमथिꣳ न तायुम् अनु क्रोशन्ति क्षितयो भरेषु । नीचायमानꣳ जसुरिꣳ न श्येनꣳ श्रवश् चाच्छा पशुमच् च यूथम्
उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् । स्रजꣳ कृण्वानो जन्यो न शुभ्वा रेणुꣳ रेरिहत् किरणꣳ ददश्वान्
उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये । तुरꣳ यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन्
उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते । यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन्
उत स्मास्य पनयन्ति जना जूतिꣳ कृष्टिप्रो अभिभूतिम् आशोः । उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचाꣳसि
आशुꣳ दधिक्राꣳ तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम । उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन्
महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । यम् पूरुभ्यो दीदिवाꣳसꣳ नाग्निꣳ ददथुर् मित्रावरुणा ततुरिम्
यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ । अनागसꣳ तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः
दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुताꣳ नाम भद्रम् । स्वस्तये वरुणम् मित्रम् अग्निꣳ हवामह इन्द्रꣳ वज्रबाहुम्
इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः । दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम्
दधिक्राव्णो अकारिषꣳ जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूꣳषि तारिषत्
दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु । अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः
सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् । सत्यो द्रवो द्रवरः पतꣳगरो दधिक्रावेषम् ऊर्जꣳ स्वर् जनत्
उत स्मास्य द्रवतस् तुरण्यतः पर्णꣳ न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः
उत स्य वाजी क्षिपणिꣳ तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । क्रतुꣳ दधिक्रा अनु सꣳतवीत्वत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत्
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम्
इन्द्रा को वाꣳ वरुणा सुम्नम् आप स्तोमो हविष्माꣳ अमृतो न होता । यो वाꣳ हृदि क्रतुमाꣳ अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान्
इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् । स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे
इन्द्रा ह रत्नꣳ वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता । यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते
इन्द्रा युवꣳ वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टꣳ वज्रम् । यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः
इन्द्रा युवꣳ वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः । सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः
तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौꣳस्ये । इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम्
युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी । वृणीमहे सख्याय प्रियाय शूरा मꣳहिष्ठा पितरेव शम्भू
ता वाꣳ धियो ऽवसे वाजयन्तीर् आजिꣳ न जग्मुर् युवयूः सुदानू । श्रिये न गाव उप सोमम् अस्थुर् इन्द्रꣳ गिरो वरुणम् मे मनीषाः
इमा इन्द्रꣳ वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः । उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः
अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम । ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम्
आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातꣳ वरुण वाजसातौ । यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वाꣳ स्याम सनितार आजेः
मम द्विता राष्ट्रꣳ क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः । क्रतुꣳ सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः
अहꣳ राजा वरुणो मह्यꣳ तान्य् असुर्याणि प्रथमा धारयन्त । क्रतुꣳ सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः
अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके । त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयꣳ रोदसी धारयꣳ च
अहम् अपो अपिन्वम् उक्षमाणा धारयꣳ दिवꣳ सदन ऋतस्य । ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम
माꣳ नरः स्वश्वा वाजयन्तो माꣳ वृताः समरणे हवन्ते । कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः
अहꣳ ता विश्वा चकरꣳ नकिर् मा दैव्यꣳ सहो वरते अप्रतीतम् । यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे
विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । त्वꣳ वृत्राणि शृण्विषे जघन्वान् त्वꣳ वृताꣳ अरिणा इन्द्र सिन्धून्
अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने । त आयजन्त त्रसदस्युम् अस्या इन्द्रꣳ न वृत्रतुरम् अर्धदेवम्
पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः । अथा राजानꣳ त्रसदस्युम् अस्या वृत्रहणꣳ ददथुर् अर्धदेवम्
राया वयꣳ ससवाꣳसो मदेम हव्येन देवा यवसेन गावः । ताꣳ धेनुम् इन्द्रावरुणा युवꣳ नो विश्वाहा धत्तम् अनपस्फुरन्तीम्
क उ श्रवत् कतमो यज्ञियानाꣳ वन्दारु देवः कतमो जुषाते । कस्येमाꣳ देवीम् अमृतेषु प्रेष्ठाꣳ हृदि श्रेषाम सुष्टुतिꣳ सुहव्याम्
को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः । रथꣳ कम् आहुर् द्रवदश्वम् आशुꣳ यꣳ सूर्यस्य दुहितावृणीत
मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् । दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा
का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना । को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती
उरु वाꣳ रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् । मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीꣳ वाम् पृक्षो भुरजन्त पक्वाः
सिन्धुर् ह वाꣳ रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् । तद् ऊ षु वाम् अजिरꣳ चेति यानꣳ येन पती भवथः सूर्यायाः
इहेह यद् वाꣳ समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । उरुष्यतꣳ जरितारꣳ युवꣳ ह श्रितः कामो नासत्या युवद्रिक्
तꣳ वाꣳ रथꣳ वयम् अद्या हुवेम पृथुज्रयम् अश्विना सꣳगतिꣳ गोः । यः सूर्याꣳ वहति वन्धुरायुर् गिर्वाहसम् पुरुतमꣳ वसूयुम्
युवꣳ श्रियम् अश्विना देवता ताꣳ दिवो नपाता वनथः शचीभिः । युवोर् वपुर् अभि पृक्षः सचन्ते वहन्ति यत् ककुहासो रथे वाम्
को वाम् अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्
हिरण्ययेन पुरुभू रथेनेमꣳ यज्ञꣳ नासत्योप यातम् । पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नꣳ विधते जनाय
आ नो यातꣳ दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । मा वाम् अन्ये नि यमन् देवयन्तः सꣳ यद् ददे नाभिः पूर्व्या वाम्
नू नो रयिम् पुरुवीरम् बृहन्तꣳ दस्रा मिमाथाम् उभयेष्व् अस्मे । नरो यद् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमीळ्हासो अग्मन्
इहेह यद् वाꣳ समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना । उरुष्यतꣳ जरितारꣳ युवꣳ ह श्रितः कामो नासत्या युवद्रिक्
एष स्य भानुर् उद् इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । पृक्षासो अस्मिन् मिथुना अधि त्रयो दृतिस् तुरीयो मधुनो वि रप्शते
उद् वाम् पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । अपोर्णुवन्तस् तम आ परीवृतꣳ स्व१र् ण शुक्रꣳ तन्वन्त आ रजः
मध्वः पिबतम् मधुपेभिर् आसभिर् उत प्रियम् मधुने युञ्जाथाꣳ रथम् । आ वर्तनिम् मधुना जिन्वथस् पथो दृतिꣳ वहेथे मधुमन्तम् अश्विना
हꣳसासो ये वाम् मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः
स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोर् अश्विना । यन् निक्तहस्तस् तरणिर् विचक्षणः सोमꣳ सुषाव मधुमन्तम् अद्रिभिः
आकेनिपासो अहभिर् दविध्वतः स्व१र् ण शुक्रꣳ तन्वन्त आ रजः । सूरश् चिद् अश्वान् युयुजान ईयते विश्वाꣳ अनु स्वधया चेतथस् पथः
प्र वाम् अवोचम् अश्विना धियꣳधा रथः स्वश्वो अजरो यो अस्ति । येन सद्यः परि रजाꣳसि याथो हविष्मन्तꣳ तरणिम् भोजम् अच्छ
अग्रम् पिबा मधूनाꣳ सुतꣳ वायो दिविष्टिषु । त्वꣳ हि पूर्वपा असि
शतेना नो अभिष्टिभिर् नियुत्वाꣳ इन्द्रसारथिः । वायो सुतस्य तृम्पतम्
आ वाꣳ सहस्रꣳ हरय इन्द्रवायू अभि प्रयः । वहन्तु सोमपीतये
रथꣳ हिरण्यवन्धुरम् इन्द्रवायू स्वध्वरम् । आ हि स्थाथो दिविस्पृशम्
रथेन पृथुपाजसा दाश्वाꣳसम् उप गच्छतम् । इन्द्रवायू इहा गतम्
इन्द्रवायू अयꣳ सुतस् तꣳ देवेभिः सजोषसा । पिबतꣳ दाशुषो गृहे
इह प्रयाणम् अस्तु वाम् इन्द्रवायू विमोचनम् । इह वाꣳ सोमपीतये
वायो शुक्रो अयामि ते मध्वो अग्रꣳ दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता
इन्द्रश् च वायव् एषाꣳ सोमानाम् पीतिम् अर्हथः । युवाꣳ हि यन्तीन्दवो निम्नम् आपो न सध्र्यक्
वायव् इन्द्रश् च शुष्मिणा सरथꣳ शवसस् पती । नियुत्वन्ता न ऊतय आ यातꣳ सोमपीतये
या वाꣳ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम्
विहि होत्रा अवीता विपो न रायो अर्यः । वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये
निर्युवाणो अशस्तीर् नियुत्वाꣳ इन्द्रसारथिः । वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये
अनु कृष्णे वसुधिती येमाते विश्वपेशसा । वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये
वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव । वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये
वायो शतꣳ हरीणाꣳ युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा
इदꣳ वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । उक्थम् मदश् च शस्यते
अयꣳ वाम् परि षिच्यते सोम इन्द्राबृहस्पती । चारुर् मदाय पीतये
आ न इन्द्राबृहस्पती गृहम् इन्द्रश् च गच्छतम् । सोमपा सोमपीतये
अस्मे इन्द्राबृहस्पती रयिꣳ धत्तꣳ शतग्विनम् । अश्वावन्तꣳ सहस्रिणम्
इन्द्राबृहस्पती वयꣳ सुते गीर्भिर् हवामहे । अस्य सोमस्य पीतये
सोमम् इन्द्राबृहस्पती पिबतꣳ दाशुषो गृहे । मादयेथाꣳ तदोकसा
यस् तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस् त्रिषधस्थो रवेण । तम् प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम्
धुनेतयः सुप्रकेतम् मदन्तो बृहस्पते अभि ये नस् ततस्रे । पृषन्तꣳ सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षताद् अस्य योनिम्
बृहस्पते या परमा परावद् अत आ त ऋतस्पृशो नि षेदुः । तुभ्यꣳ खाता अवता अद्रिदुग्धा मध्वः श्चोतन्त्य् अभितो विरप्शम्
बृहस्पतिः प्रथमꣳ जायमानो महो ज्योतिषः परमे व्योमन् । सप्तास्यस् तुविजातो रवेण वि सप्तरश्मिर् अधमत् तमाꣳसि
स सुष्टुभा स ऋक्वता गणेन वलꣳ रुरोज फलिगꣳ रवेण । बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत्
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम्
स इद् राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थाव् अभि वीर्येण । बृहस्पतिꣳ यः सुभृतम् बिभर्ति वल्गूयति वन्दते पूर्वभाजम्
स इत् क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । तस्मै विशः स्वयम् एवा नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एति
अप्रतीतो जयति सꣳ धनानि प्रतिजन्यान्य् उत या सजन्या । अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तम् अवन्ति देवाः
इन्द्रश् च सोमम् पिबतम् बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू । आ वाꣳ विशन्त्व् इन्दवः स्वाभुवो ऽस्मे रयिꣳ सर्ववीरꣳ नि यच्छतम्
बृहस्पत इन्द्र वर्धतꣳ नः सचा सा वाꣳ सुमतिर् भूत्व् अस्मे । अविष्टꣳ धियो जिगृतम् पुरꣳधीर् जजस्तम् अर्यो वनुषाम् अरातीः
इदम् उ त्यत् पुरुतमम् पुरस्ताज् ज्योतिस् तमसो वयुनावद् अस्थात् । नूनꣳ दिवो दुहितरो विभातीर् गातुꣳ कृणवन्न् उषसो जनाय
अस्थुर् उ चित्रा उषसः पुरस्तान् मिता इव स्वरवो ऽध्वरेषु । व्य् ऊ व्रजस्य तमसो द्वारोच्छन्तीर् अव्रञ् छुचयः पावकाः
उच्छन्तीर् अद्य चितयन्त भोजान् राधोदेयायोषसो मघोनीः । अचित्रे अन्तः पणयः ससन्त्व् अबुध्यमानास् तमसो विमध्ये
कुवित् स देवीः सनयो नवो वा यामो बभूयाद् उषसो वो अद्य । येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवद् ऊष
यूयꣳ हि देवीर् ऋतयुग्भिर् अश्वैः परिप्रयाथ भुवनानि सद्यः । प्रबोधयन्तीर् उषसः ससन्तꣳ द्विपाच् चतुष्पाच् चरथाय जीवम्
क्व स्विद् आसाꣳ कतमा पुराणी यया विधाना विदधुर् ऋभूणाम् । शुभꣳ यच् छुभ्रा उषसश् चरन्ति न वि ज्ञायन्ते सदृशीर् अजुर्याः
ता घा ता भद्रा उषसः पुरासुर् अभिष्टिद्युम्ना ऋतजातसत्याः । यास्व् ईजानः शशमान उक्थैः स्तुवञ् छꣳसन् द्रविणꣳ सद्य आप
ता आ चरन्ति समना पुरस्तात् समानतः समना पप्रथानाः । ऋतस्य देवीः सदसो बुधाना गवाꣳ न सर्गा उषसो जरन्ते
ता इन् न्व् ए३व समना समानीर् अमीतवर्णा उषसश् चरन्ति । गूहन्तीर् अभ्वम् असितꣳ रुशद्भिः शुक्रास् तनूभिः शुचयो रुचानाः
रयिꣳ दिवो दुहितरो विभातीः प्रजावन्तꣳ यच्छतास्मासु देवीः । स्योनाद् आ वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम
तद् वो दिवो दुहितरो विभातीर् उप ब्रुव उषसो यज्ञकेतुः । वयꣳ स्याम यशसो जनेषु तद् द्यौश् च धत्ताम् पृथिवी च देवी
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः । दिवो अदर्शि दुहिता
अश्वेव चित्रारुषी माता गवाम् ऋतावरी । सखाभूद् अश्विनोर् उषाः
उत सखास्य् अश्विनोर् उत माता गवाम् असि । उतोषो वस्व ईशिषे
यावयद्द्वेषसꣳ त्वा चिकित्वित् सूनृतावरि । प्रति स्तोमैर् अभुत्स्महि
प्रति भद्रा अदृक्षत गवाꣳ सर्गा न रश्मयः । ओषा अप्रा उरु ज्रयः
आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः । उषो अनु स्वधाम् अव
आ द्याꣳ तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् । उषः शुक्रेण शोचिषा
तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः । छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महाꣳ उद् अयान् देवो अक्तुभिः
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गꣳ द्रापिम् प्रति मुञ्चते कविः । विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम्
आप्रा रजाꣳसि दिव्यानि पार्थिवा श्लोकꣳ देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत्
अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते । प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति
त्रिर् अन्तरिक्षꣳ सविता महित्वना त्री रजाꣳसि परिभुस् त्रीणि रोचना । तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना
बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुर् उभयस्य यो वशी । स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अꣳहसः
आगन् देव ऋतुभिर् वर्धतु क्षयꣳ दधातु नः सविता सुप्रजाम् इषम् । स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तꣳ रयिम् अस्मे सम् इन्वतु
अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठꣳ नो अत्र द्रविणꣳ यथा दधत्
देवेभ्यो हि प्रथमꣳ यज्ञियेभ्यो ऽमृतत्वꣳ सुवसि भागम् उत्तमम् । आद् इद् दामानꣳ सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता । देवेषु च सवितर् मानुषेषु च त्वꣳ नो अत्र सुवताद् अनागसः
न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनꣳ धारयिष्यति । यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत्
इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयाꣳ एभ्यः सुवसि पस्त्यावतः । यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते
ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति । इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यꣳसत्
को वस् त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथाꣳ नः । सहीयसो वरुण मित्र मर्तात् को वो ऽध्वरे वरिवो धाति देवाः
प्र ये धामानि पूर्व्याण्य् अर्चान् वि यद् उच्छान् वियोतारो अमूराः । विधातारो वि ते दधुर् अजस्रा ऋतधीतयो रुरुचन्त दस्माः
प्र पस्त्या३म् अदितिꣳ सिन्धुम् अर्कैः स्वस्तिम् ईळे सख्याय देवीम् । उभे यथा नो अहनी निपात उषासानक्ता करताम् अदब्धे
व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितꣳ गातुम् अग्निः । इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम्
आ पर्वतस्य मरुताम् अवाꣳसि देवस्य त्रातुर् अव्रि भगस्य । पात् पतिर् जन्याद् अꣳहसो नो मित्रो मित्रियाद् उत न उरुष्येत्
नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः । समुद्रꣳ न सꣳचरणे सनिष्यवो घर्मस्वरसो नद्यो३ अप व्रन्
देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् । नहि मित्रस्य वरुणस्य धासिम् अर्हामसि प्रमियꣳ सान्व् अग्नेः
अग्निर् ईशे वसव्यस्याग्निर् महः सौभगस्य । तान्य् अस्मभ्यꣳ रासते
उषो मघोन्य् आ वह सूनृते वार्या पुरु । अस्मभ्यꣳ वाजिनीवति
तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । इन्द्रो नो राधसा गमत्
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवताꣳ शुचयद्भिर् अर्कैः । यत् सीꣳ वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः
देवी देवेभिर् यजते यजत्रैर् अमिनती तस्थतुर् उक्षमाणे । ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर् अर्कैः
स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके अवꣳशे धीरः शच्या सम् ऐरत्
नू रोदसी बृहद्भिर् नो वरूथैः पत्नीवद्भिर् इषयन्ती सजोषाः । उरूची विश्वे यजते नि पातꣳ धिया स्याम रथ्यः सदासाः
प्र वाम् महि द्यवी अभ्य् उपस्तुतिम् भरामहे । शुची उप प्रशस्तये
पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । ऊह्याथे सनाद् ऋतम्
मही मित्रस्य साधथस् तरन्ती पिप्रती ऋतम् । परि यज्ञꣳ नि षेदथुः
क्षेत्रस्य पतिना वयꣳ हितेनेव जयामसि । गाम् अश्वम् पोषयित्न्व् आ स नो मृळातीदृशे
क्षेत्रस्य पते मधुमन्तम् ऊर्मिꣳ धेनुर् इव पयो अस्मासु धुक्ष्व । मधुश्चुतꣳ घृतम् इव सुपूतम् ऋतस्य नः पतयो मृळयन्तु
मधुमतीर् ओषधीर् द्याव आपो मधुमन् नो भवत्व् अन्तरिक्षम् । क्षेत्रस्य पतिर् मधुमान् नो अस्त्व् अरिष्यन्तो अन्व् एनꣳ चरेम
शुनꣳ वाहाः शुनꣳ नरः शुनꣳ कृषतु लाङ्गलम् । शुनꣳ वरत्रा बध्यन्ताꣳ शुनम् अष्ट्राम् उद् इङ्गय
शुनासीराव् इमाꣳ वाचꣳ जुषेथाꣳ यद् दिवि चक्रथुः पयः । तेनेमाम् उप सिञ्चतम्
अर्वाची सुभगे भव सीते वन्दामहे त्वा । यथा नः सुभगाससि यथा नः सुफलाससि
इन्द्रः सीताꣳ नि गृह्णातु ताम् पूषानु यच्छतु । सा नः पयस्वती दुहाम् उत्तराम्-उत्तराꣳ समाम्
शुनꣳ नः फाला वि कृषन्तु भूमिꣳ शुनꣳ कीनाशा अभि यन्तु वाहैः । शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम्
समुद्राद् ऊर्मिर् मधुमाꣳ उद् आरद् उपाꣳशुना सम् अमृतत्वम् आनट् । घृतस्य नाम गुह्यꣳ यद् अस्ति जिह्वा देवानाम् अमृतस्य नाभिः
वयꣳ नाम प्र ब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच् छस्यमानꣳ चतुःशृङ्गो ऽवमीद् गौर एतत्
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आ विवेश
त्रिधा हितम् पणिभिर् गुह्यमानꣳ गवि देवासो घृतम् अन्व् अविन्दन् । इन्द्र एकꣳ सूर्य एकꣳ जजान वेनाद् एकꣳ स्वधया निष् टतक्षुः
एता अर्षन्ति हृद्यात् समुद्राच् छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम्
सम्यक् स्रवन्ति सरितो न धेना अन्तर् हृदा मनसा पूयमानाः । एते अर्षन्त्य् ऊर्मयो घृतस्य मृगा इव क्षिपणोर् ईषमाणाः
सिन्धोर् इव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न् ऊर्मिभिः पिन्वमानः
अभि प्रवन्त समनेव योषाः कल्याण्य१ः स्मयमानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः
कन्या इव वहतुम् एतवा उ अञ्ज्य् अञ्जाना अभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते
अभ्य् अर्षत सुष्टुतिꣳ गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त । इमꣳ यज्ञꣳ नयत देवता नो घृतस्य धारा मधुमत् पवन्ते
धामन् ते विश्वम् भुवनम् अधि श्रितम् अन्तः समुद्रे हृद्य् अ१न्तर् आयुषि । अपाम् अनीके समिथे य आभृतस् तम् अश्याम मधुमन्तꣳ त ऊर्मिम्
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 4. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-4
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 4." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-4.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 4." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-4.