Ṛgveda Saṃhitā — Maṇḍala 5
Tradição Védica (Ṛṣis)
मण्डल ५ अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् । यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ
अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् । समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि
यद् ईꣳ गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः । आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः
अग्निम् अच्छा देवयताम् मनाꣳसि चक्षूꣳषीव सूर्ये सꣳ चरन्ति । यद् ईꣳ सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम्
जनिष्ट हि जेन्यो अग्रे अह्नाꣳ हितो हितेष्व् अरुषो वनेषु । दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान्
अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके । युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः
प्र णु त्यꣳ विप्रम् अध्वरेषु साधुम् अग्निꣳ होतारम् ईळते नमोभिः । आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनꣳ घृतेन
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । सहस्रशृङ्गो वृषभस् तदोजा विश्वाꣳ अग्ने सहसा प्रास्य् अन्यान्
प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ । ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम्
तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् । आ भन्दिष्ठस्य सुमतिꣳ चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम्
आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् । विद्वान् पथीनाम् उर्व् अ१न्तरिक्षम् एह देवान् हविरद्याय वक्षि
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत्
कुमारम् माता युवतिः समुब्धꣳ गुहा बिभर्ति न ददाति पित्रे । अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ
कम् एतꣳ त्वꣳ युवते कुमारम् पेषी बिभर्षि महिषी जजान । पूर्वीर् हि गर्भः शरदो ववर्धापश्यꣳ जातꣳ यद् असूत माता
हिरण्यदन्तꣳ शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् । ददानो अस्मा अमृतꣳ विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः
क्षेत्राद् अपश्यꣳ सनुतश् चरन्तꣳ सुमद् यूथꣳ न पुरु शोभमानम् । न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति
के मे मर्यकꣳ वि यवन्त गोभिर् न येषाꣳ गोपा अरणश् चिद् आस । य ईꣳ जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान्
वसाꣳ राजानꣳ वसतिꣳ जनानाम् अरातयो नि दधुर् मर्त्येषु । ब्रह्माण्य् अत्रेर् अव तꣳ सृजन्तु निन्दितारो निन्द्यासो भवन्तु
शुनश् चिच् छेपꣳ निदितꣳ सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः । एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य
हृणीयमानो अप हि मद् ऐयेः प्र मे देवानाꣳ व्रतपा उवाच । इन्द्रो विद्वाꣳ अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम्
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः
एतꣳ ते स्तोमꣳ तुविजात विप्रो रथꣳ न धीरः स्वपा अतक्षम् । यदीद् अग्ने प्रति त्वꣳ देव हर्याः स्वर्वतीर् अप एना जयेम
तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अ१र्यः सम् अजाति वेदः । इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यꣳसद् धविष्मते मनवे शर्म यꣳसत्
त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः । त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय
त्वम् अर्यमा भवसि यत् कनीनाꣳ नाम स्वधावन् गुह्यम् बिभर्षि । अञ्जन्ति मित्रꣳ सुधितꣳ न गोभिर् यद् दम्पती समनसा कृणोषि
तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् । पदꣳ यद् विष्णोर् उपमꣳ निधायि तेन पासि गुह्यꣳ नाम गोनाम्
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतꣳ सपन्त । होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शꣳसम् आयोः
न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः । विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान्
वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः । वयꣳ समर्ये विदथेष्व् अह्नाꣳ वयꣳ राया सहसस् पुत्र मर्तान्
यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशꣳसे दधात । जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन
त्वाम् अस्या व्युषि देव पूर्वे दूतꣳ कृण्वाना अयजन्त हव्यैः । सꣳस्थे यद् अग्न ईयसे रयीणाꣳ देवो मर्तैर् वसुभिर् इध्यमानः
अव स्पृधि पितरꣳ योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे । कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदाꣳ ऋतचिद् यातयासे
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे । कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः
त्वम् अङ्ग जरितारꣳ यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि । स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन्
इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि । नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात्
त्वाम् अग्ने वसुपतिꣳ वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् । त्वया वाजꣳ वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम्
हव्यवाळ् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्य१क् सम् मिमीहि श्रवाꣳसि
विशाꣳ कविꣳ विश्पतिम् मानुषीणाꣳ शुचिम् पावकꣳ घृतपृष्ठम् अग्निम् । नि होतारꣳ विश्वविदꣳ दधिध्वे स देवेषु वनते वार्याणि
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । जुषस्व नः समिधꣳ जातवेद आ च देवान् हविरद्याय वक्षि
जुष्टो दमूना अतिथिर् दुरोण इमꣳ नो यज्ञम् उप याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि
वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे३ स्वायै । पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान्
वयꣳ ते अग्न उक्थैर् विधेम वयꣳ हव्यैः पावक भद्रशोचे । अस्मे रयिꣳ विश्ववारꣳ सम् इन्वास्मे विश्वानि द्रविणानि धेहि
अस्माकम् अग्ने अध्वरꣳ जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । वयꣳ देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि
विश्वानि नो दुर्गहा जातवेदः सिन्धुꣳ न नावा दुरिताति पर्षि । अग्ने अत्रिवन् नमसा गृणानो३ ऽस्माकम् बोध्य् अविता तनूनाम्
यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम्
यस्मै त्वꣳ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनꣳ स पुत्रिणꣳ वीरवन्तꣳ गोमन्तꣳ रयिꣳ नशते स्वस्ति
सुसमिद्धाय शोचिषे घृतꣳ तीव्रꣳ जुहोतन । अग्नये जातवेदसे
नराशꣳसः सुषूदतीमꣳ यज्ञम् अदाभ्यः । कविर् हि मधुहस्त्यः
ईळितो अग्न आ वहेन्द्रꣳ चित्रम् इह प्रियम् । सुखै रथेभिर् ऊतये
ऊर्णम्रदा वि प्रथस्वाभ्य् अ१र्का अनूषत । भवा नः शुभ्र सातये
देवीर् द्वारो वि श्रयध्वꣳ सुप्रायणा न ऊतये । प्र-प्र यज्ञम् पृणीतन
सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा । दोषाम् उषासम् ईमहे
वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः । इमꣳ नो यज्ञम् आ गतम्
इळा सरस्वती मही तिस्रो देवीर् मयोभुवः । बर्हिः सीदन्त्व् अस्रिधः
शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । यज्ञे-यज्ञे न उद् अव
यत्र वेत्थ वनस्पते देवानाꣳ गुह्या नामानि । तत्र हव्यानि गामय
स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः । स्वाहा देवेभ्यो हविः
अग्निꣳ तम् मन्ये यो वसुर् अस्तꣳ यꣳ यन्ति धेनवः । अस्तम् अर्वन्त आशवो ऽस्तꣳ नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर
सो अग्निर् यो वसुर् गृणे सꣳ यम् आयन्ति धेनवः । सम् अर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय इषꣳ स्तोतृभ्य आ भर
अग्निर् हि वाजिनꣳ विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवꣳ स प्रीतो याति वार्यम् इषꣳ स्तोतृभ्य आ भर
आ ते अग्न इधीमहि द्युमन्तꣳ देवाजरम् । यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषꣳ स्तोतृभ्य आ भर
आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यꣳ हूयत इषꣳ स्तोतृभ्य आ भर
प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् । ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषꣳ स्तोतृभ्य आ भर
तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः । ये पत्वभिः शफानाꣳ व्रजा भुरन्त गोनाम् इषꣳ स्तोतृभ्य आ भर
नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः । ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषꣳ स्तोतृभ्य आ भर
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषꣳ स्तोतृभ्य आ भर
एवाꣳ अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् । दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषꣳ स्तोतृभ्य आ भर
सखायः सꣳ वः सम्यञ्चम् इषꣳ स्तोमꣳ चाग्नये । वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते
कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश् चिद् यम् इन्धते सꣳजनयन्ति जन्तवः
सꣳ यद् इषो वनामहे सꣳ हव्या मानुषाणाम् । उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे
स स्मा कृणोति केतुम् आ नक्तꣳ चिद् दूर आ सते । पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः
अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति । अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः
यम् मर्त्यः पुरुस्पृहꣳ विदद् विश्वस्य धायसे । प्र स्वादनम् पितूनाम् अस्ततातिꣳ चिद् आयवे
स हि ष्मा धन्वाक्षितꣳ दाता न दात्य् आ पशुः । हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः
शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते । सुषूर् असूत माता क्राणा यद् आनशे भगम्
आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे । ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः
इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुꣳ ददे । आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन्
त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत । पुरुश्चन्द्रꣳ यजतꣳ विश्वधायसꣳ दमूनसꣳ गृहपतिꣳ वरेण्यम्
त्वाम् अग्ने अतिथिम् पूर्व्यꣳ विशः शोचिष्केशꣳ गृहपतिꣳ नि षेदिरे । बृहत्केतुम् पुरुरूपꣳ धनस्पृतꣳ सुशर्माणꣳ स्ववसꣳ जरद्विषम्
त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदꣳ विविचिꣳ रत्नधातमम् । गुहा सन्तꣳ सुभग विश्वदर्शतꣳ तुविष्वणसꣳ सुयजꣳ घृतश्रियम्
त्वाम् अग्ने धर्णसिꣳ विश्वधा वयꣳ गीर्भिर् गृणन्तो नमसोप सेदिम । स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः
त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत । पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे
त्वाम् अग्ने समिधानꣳ यविष्ठ्य देवा दूतꣳ चक्रिरे हव्यवाहनम् । उरुज्रयसꣳ घृतयोनिम् आहुतꣳ त्वेषꣳ चक्षुर् दधिरे चोदयन्मति
त्वाम् अग्ने प्रदिव आहुतꣳ घृतैः सुम्नायवः सुषमिधा सम् ईधिरे । स वावृधान ओषधीभिर् उक्षितो३ ऽभि ज्रयाꣳसि पार्थिवा वि तिष्ठसे
त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते । मन्ये त्वा जातवेदसꣳ स हव्या वक्ष्य् आनुषक्
अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः । सꣳ यज्ञासश् चरन्ति यꣳ सꣳ वाजासः श्रवस्यवः
उत स्म यꣳ शिशुꣳ यथा नवꣳ जनिष्टारणी । धर्तारम् मानुषीणाꣳ विशाम् अग्निꣳ स्वध्वरम्
उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् । पुरू यो दग्धासि वनाग्ने पशुर् न यवसे
अध स्म यस्यार्चयः सम्यक् सꣳयन्ति धूमिनः । यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा
तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः । द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम्
तꣳ नो अग्ने अभी नरो रयिꣳ सहस्व आ भर । स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे
अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो । प्र नो राया परीणसा रत्सि वाजाय पन्थाम्
त्वꣳ नो अग्ने अद्भुत क्रत्वा दक्षस्य मꣳहना । त्वे असुर्य१म् आरुहत् क्राणा मित्रो न यज्ञियः
त्वꣳ नो अग्न एषाꣳ गयम् पुष्टिꣳ च वर्धय । ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः
ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः । शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना
तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया । परिज्मानो न विद्युतः स्वानो रथो न वाजयुः
नू नो अग्न ऊतये सबाधसश् च रातये । अस्माकासश् च सूरयो विश्वा आशास् तरीषणि
त्वꣳ नो अग्ने अङ्गिरः स्तुतः स्तवान आ भर । होतर् विभ्वासहꣳ रयिꣳ स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः
यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निꣳ नरस् त्रिषधस्थे सम् ईधिरे । इन्द्रेण देवैः सरथꣳ स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः
असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः । घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः
अग्निर् नो यज्ञम् उप वेतु साधुयाग्निꣳ नरो वि भरन्ते गृहे-गृहे । अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निꣳ वृणाना वृणते कविक्रतुम्
तुभ्येदम् अग्ने मधुमत्तमꣳ वचस् तुभ्यम् मनीषा इयम् अस्तु शꣳ हृदे । त्वाꣳ गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च
त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणꣳ वने-वने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः
प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म । घृतꣳ न यज्ञ आस्ये३ सुपूतꣳ गिरम् भरे वृषभाय प्रतीचीम्
ऋतꣳ चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः । नाहꣳ यातुꣳ सहसा न द्वयेन ऋतꣳ सपाम्य् अरुषस्य वृष्णः
कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः । वेदा मे देव ऋतुपा ऋतूनाꣳ नाहम् पतिꣳ सनितुर् अस्य रायः
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः
सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः
यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतꣳ स पात्य् अरुषस्य वृष्णः । तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः
अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि । अग्ने अर्चन्त ऊतये
अग्नेः स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः । देवस्य द्रविणस्यवः
अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ । स यक्षद् दैव्यꣳ जनम्
त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञꣳ वि तन्वते
त्वाम् अग्ने वाजसातमꣳ विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम्
अग्ने नेमिर् अराꣳ इव देवाꣳस् त्वम् परिभूर् असि । आ राधश् चित्रम् ऋञ्जसे
अग्निꣳ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत्
तम् अध्वरेष्व् ईळते देवम् मर्ता अमर्त्यम् । यजिष्ठम् मानुषे जने
तꣳ हि शश्वन्त ईळते स्रुचा देवꣳ घृतश्चुता । अग्निꣳ हव्याय वोळ्हवे
अग्निर् जातो अरोचत घ्नन् दस्यूञ् ज्योतिषा तमः । अविन्दद् गा अपः स्वः
अग्निम् ईळेन्यꣳ कविꣳ घृतपृष्ठꣳ सपर्यत । वेतु मे शृणवद् धवम्
अग्निꣳ घृतेन वावृधुः स्तोमेभिर् विश्वचर्षणिम् । स्वाधीभिर् वचस्युभिः
प्र वेधसे कवये वेद्याय गिरम् भरे यशसे पूर्व्याय । घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः
ऋतेन ऋतꣳ धरुणꣳ धारयन्त यज्ञस्य शाके परमे व्योमन् । दिवो धर्मन् धरुणे सेदुषो नॄञ् जातैर् अजाताꣳ अभि ये ननक्षुः
अङ्होयुवस् तन्वस् तन्वते वि वयो महद् दुष्टरम् पूर्व्याय । स सꣳवतो नवजातस् तुतुर्यात् सिङ्हꣳ न क्रुद्धम् अभितः परि ष्ठुः
मातेव यद् भरसे पप्रथानो जनꣳ-जनꣳ धायसे चक्षसे च । वयो-वयो जरसे यद् दधानः परि त्मना विषुरूपो जिगासि
वाजो नु ते शवसस् पात्व् अन्तम् उरुꣳ दोघꣳ धरुणꣳ देव रायः । पदꣳ न तायुर् गुहा दधानो महो राये चितयन्न् अत्रिम् अस्पः
बृहद् वयो हि भानवे ऽर्चा देवायाग्नये । यम् मित्रꣳ न प्रशस्तिभिर् मर्तासो दधिरे पुरः
स हि द्युभिर् जनानाꣳ होता दक्षस्य बाह्वोः । वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः । विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः
अधा ह्य् अग्न एषाꣳ सुवीर्यस्य मꣳहना । तम् इद् यह्वꣳ न रोदसी परि श्रवो बभूवतुः
नू न एहि वार्यम् अग्ने गृणान आ भर । ये वयꣳ ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे
आ यज्ञैर् देव मर्त्य इत्था तव्याꣳसम् ऊतये । अग्निꣳ कृते स्वध्वरे पूरुर् ईळीतावसे
अस्य हि स्वयशस्तर आसा विधर्मन् मन्यसे । तꣳ नाकꣳ चित्रशोचिषम् मन्द्रम् परो मनीषया
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा । दिवो न यस्य रेतसा बृहच् छोचन्त्य् अर्चयः
अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ । अधा विश्वासु हव्यो ऽग्निर् विक्षु प्र शस्यते
नू न इद् धि वार्यम् आसा सचन्त सूरयः । ऊर्जो नपाद् अभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे
प्रातर् अग्निः पुरुप्रियो विशः स्तवेतातिथिः । विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति
द्विताय मृक्तवाहसे स्वस्य दक्षस्य मꣳहना । इन्दुꣳ स धत्त आनुषक् स्तोता चित् ते अमर्त्य
तꣳ वो दीर्घायुशोचिषꣳ गिरा हुवे मघोनाम् । अरिष्टो येषाꣳ रथो व्य् अश्वदावन्न् ईयते
चित्रा वा येषु दीधितिर् आसन्न् उक्था पान्ति ये । स्तीर्णम् बर्हिः स्वर्णरे श्रवाꣳसि दधिरे परि
ये मे पञ्चाशतꣳ ददुर् अश्वानाꣳ सधस्तुति । द्युमद् अग्ने महि श्रवो बृहत् कृधि मघोनाꣳ नृवद् अमृत नृणाम्
अभ्य् अवस्थाः प्र जायन्ते प्र वव्रेर् वव्रिश् चिकेत । उपस्थे मातुर् वि चष्टे
जुहुरे वि चितयन्तो ऽनिमिषꣳ नृम्णम् पान्ति । आ दृळ्हाम् पुरꣳ विविशुः
आ श्वैत्रेयस्य जन्तवो द्युमद् वर्धन्त कृष्टयः । निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः
प्रियꣳ दुग्धꣳ न काम्यम् अजामि जाम्योः सचा । घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः
क्रीळन् नो रश्म आ भुवः सम् भस्मना वायुना वेविदानः । ता अस्य सन् धृषजो न तिग्माः सुसꣳशिता वक्ष्यो वक्षणेस्थाः
यम् अग्ने वाजसातम त्वꣳ चिन् मन्यसे रयिम् । तꣳ नो गीर्भिः श्रवाय्यꣳ देवत्रा पनया युजम्
ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः । अप द्वेषो अप ह्वरो ऽन्यव्रतस्य सश्चिरे
होतारꣳ त्वा वृणीमहे ऽग्ने दक्षस्य साधनम् । यज्ञेषु पूर्व्यꣳ गिरा प्रयस्वन्तो हवामहे
इत्था यथा त ऊतये सहसावन् दिवे-दिवे । राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः
मनुष्वत् त्वा नि धीमहि मनुष्वत् सम् इधीमहि । अग्ने मनुष्वद् अङ्गिरो देवान् देवयते यज
त्वꣳ हि मानुषे जने ऽग्ने सुप्रीत इध्यसे । स्रुचस् त्वा यन्त्य् आनुषक् सुजात सर्पिरासुते
त्वाꣳ विश्वे सजोषसो देवासो दूतम् अक्रत । सपर्यन्तस् त्वा कवे यज्ञेषु देवम् ईळते
देवꣳ वो देवयज्ययाग्निम् ईळीत मर्त्यः । समिद्धः शुक्र दीदिह्य् ऋतस्य योनिम् आसदः ससस्य योनिम् आसदः
प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे । यो अध्वरेष्व् ईड्यो होता मन्द्रतमो विशि
न्य् अ१ग्निꣳ जातवेदसꣳ दधाता देवम् ऋत्विजम् । प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः
चिकित्विन्मनसꣳ त्वा देवम् मर्तास ऊतये । वरेण्यस्य ते ऽवस इयानासो अमन्महि
अग्ने चिकिद्ध्य् अ१स्य न इदꣳ वचः सहस्य । तꣳ त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः
अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । विश्वा यश् चर्षणीर् अभ्य् आ३सा वाजेषु सासहत्
तम् अग्ने पृतनाषहꣳ रयिꣳ सहस्व आ भर । त्वꣳ हि सत्यो अद्भुतो दाता वाजस्य गोमतः
विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः । होतारꣳ सद्मसु प्रियꣳ व्यन्ति वार्या पुरु
स हि ष्मा विश्वचर्षणिर् अभिमाति सहो दधे । अग्न एषु क्षयेष्व् आ रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि
अग्ने त्वꣳ नो अन्तम उत त्राता शिवो भवा वरूथ्यः
वसुर् अग्निर् वसुश्रवा अच्छा नक्षि द्युमत्तमꣳ रयिꣳ दाः
स नो बोधि श्रुधी हवम् उरुष्या णो अघायतः समस्मात्
तꣳ त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः
अच्छा वो अग्निम् अवसे देवꣳ गासि स नो वसुः । रासत् पुत्र ऋषूणाम् ऋतावा पर्षति द्विषः
स हि सत्यो यम् पूर्वे चिद् देवासश् चिद् यम् ईधिरे । होतारम् मन्द्रजिह्वम् इत् सुदीतिभिर् विभावसुम्
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । अग्ने रायो दिदीहि नः सुवृक्तिभिर् वरेण्य
अग्निर् देवेषु राजत्य् अग्निर् मर्तेष्व् आविशन् । अग्निर् नो हव्यवाहनो ऽग्निꣳ धीभिः सपर्यत
अग्निस् तुविश्रवस्तमꣳ तुविब्रह्माणम् उत्तमम् । अतूर्तꣳ श्रावयत्पतिम् पुत्रꣳ ददाति दाशुषे
अग्निर् ददाति सत्पतिꣳ सासाह यो युधा नृभिः । अग्निर् अत्यꣳ रघुष्यदꣳ जेतारम् अपराजितम्
यद् वाहिष्ठꣳ तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् । उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः
एवाꣳ अग्निꣳ वसूयवः सहसानꣳ ववन्दिम । स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च
तꣳ त्वा घृतस्नव् ईमहे चित्रभानो स्वर्दृशम् । देवाꣳ आ वीतये वह
वीतिहोत्रꣳ त्वा कवे द्युमन्तꣳ सम् इधीमहि । अग्ने बृहन्तम् अध्वरे
अग्ने विश्वेभिर् आ गहि देवेभिर् हव्यदातये । होतारꣳ त्वा वृणीमहे
यजमानाय सुन्वत आग्ने सुवीर्यꣳ वह । देवैर् आ सत्सि बर्हिषि
समिधानः सहस्रजिद् अग्ने धर्माणि पुष्यसि । देवानाꣳ दूत उक्थ्यः
न्य् अ१ग्निꣳ जातवेदसꣳ होत्रवाहꣳ यविष्ठ्यम् । दधाता देवम् ऋत्विजम्
प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः । स्तृणीत बर्हिर् आसदे
एदम् मरुतो अश्विना मित्रः सीदन्तु वरुणः । देवासः सर्वया विशा
अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः । त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत
यो मे शता च विꣳशतिꣳ च गोनाꣳ हरी च युक्ता सुधुरा ददाति । वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म
एवा ते अग्ने सुमतिꣳ चकानो नविष्ठाय नवमꣳ त्रसदस्युः । यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति
यो म इति प्रवोचत्य् अश्वमेधाय सूरये । ददद् ऋचा सनिꣳ यते ददन् मेधाम् ऋतायते
यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः । अश्वमेधस्य दानाः सोमा इव त्र्याशिरः
इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् । क्षत्रꣳ धारयतम् बृहद् दिवि सूर्यम् इवाजरम्
समिद्धो अग्निर् दिवि शोचिर् अश्रेत् प्रत्यङ्ङ् उषसम् उर्विया वि भाति । एति प्राची विश्ववारा नमोभिर् देवाꣳ ईळाना हविषा घृताची
समिध्यमानो अमृतस्य राजसि हविष् कृण्वन्तꣳ सचसे स्वस्तये । विश्वꣳ स धत्ते द्रविणꣳ यम् इन्वस्य् आतिथ्यम् अग्ने नि च धत्त इत् पुरः
अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु । सꣳ जास्पत्यꣳ सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महाꣳसि
समिद्धस्य प्रमहसो ऽग्ने वन्दे तव श्रियम् । वृषभो द्युम्नवाꣳ असि सम् अध्वरेष्व् इध्यसे
समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । त्वꣳ हि हव्यवाळ् असि
आ जुहोता दुवस्यताग्निम् प्रयत्य् अध्वरे । वृणीध्वꣳ हव्यवाहनम्
त्र्य् अर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त । अर्चन्ति त्वा मरुतः पूतदक्षास् त्वम् एषाम् ऋषिर् इन्द्रासि धीरः
अनु यद् ईम् मरुतो मन्दसानम् आर्चन्न् इन्द्रम् पपिवाꣳसꣳ सुतस्य । आदत्त वज्रम् अभि यद् अहिꣳ हन्न् अपो यह्वीर् असृजत् सर्तवा उ
उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः । तद् धि हव्यम् मनुषे गा अविन्दद् अहन्न् अहिम् पपिवाꣳ इन्द्रो अस्य
आद् रोदसी वितरꣳ वि ष्कभायत् सꣳविव्यानश् चिद् भियसे मृगꣳ कः । जिगर्तिम् इन्द्रो अपजर्गुराणः प्रति श्वसन्तम् अव दानवꣳ हन्
अध क्रत्वा मघवन् तुभ्यꣳ देवा अनु विश्वे अददुः सोमपेयम् । यत् सूर्यस्य हरितः पतन्तीः पुरः सतीर् उपरा एतशे कः
नव यद् अस्य नवतिꣳ च भोगान् साकꣳ वज्रेण मघवा विवृश्चत् । अर्चन्तीन्द्रम् मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम्
सखा सख्ये अपचत् तूयम् अग्निर् अस्य क्रत्वा महिषा त्री शतानि । त्री साकम् इन्द्रो मनुषः सराꣳसि सुतम् पिबद् वृत्रहत्याय सोमम्
त्री यच् छता महिषाणाम् अघो मास् त्री सराꣳसि मघवा सोम्यापाः । कारꣳ न विश्वे अह्वन्त देवा भरम् इन्द्राय यद् अहिꣳ जघान
उशना यत् सहस्यै३र् अयातꣳ गृहम् इन्द्र जूजुवानेभिर् अश्वैः । वन्वानो अत्र सरथꣳ ययाथ कुत्सेन देवैर् अवनोर् ह शुष्णम्
प्रान्यच् चक्रम् अवृहः सूर्यस्य कुत्सायान्यद् वरिवो यातवे ऽकः । अनासो दस्यूꣳर् अमृणो वधेन नि दुर्योण आवृणङ् मृध्रवाचः
स्तोमासस् त्वा गौरिवीतेर् अवर्धन्न् अरन्धयो वैदथिनाय पिप्रुम् । आ त्वाम् ऋजिश्वा सख्याय चक्रे पचन् पक्तीर् अपिबः सोमम् अस्य
नवग्वासः सुतसोमास इन्द्रꣳ दशग्वासो अभ्य् अर्चन्त्य् अर्कैः । गव्यꣳ चिद् ऊर्वम् अपिधानवन्तꣳ तꣳ चिन् नरः शशमाना अप व्रन्
कथो नु ते परि चराणि विद्वान् वीर्या मघवन् या चकर्थ । या चो नु नव्या कृणवः शविष्ठ प्रेद् उ ता ते विदथेषु ब्रवाम
एता विश्वा चकृवाꣳ इन्द्र भूर्य् अपरीतो जनुषा वीर्येण । या चिन् नु वज्रिन् कृणवो दधृष्वान् न ते वर्ता तविष्या अस्ति तस्याः
इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म । वस्त्रेव भद्रा सुकृता वसूयू रथꣳ न धीरः स्वपा अतक्षम्
क्व१ स्य वीरः को अपश्यद् इन्द्रꣳ सुखरथम् ईयमानꣳ हरिभ्याम् । यो राया वज्री सुतसोमम् इच्छन् तद् ओको गन्ता पुरुहूत ऊती
अवाचचक्षम् पदम् अस्य सस्वर् उग्रꣳ निधातुर् अन्व् आयम् इच्छन् । अपृच्छम् अन्याꣳ उत ते म आहुर् इन्द्रꣳ नरो बुबुधाना अशेम
प्र नु वयꣳ सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः । वेदद् अविद्वाञ् छृणवच् च विद्वान् वहते ऽयम् मघवा सर्वसेनः
स्थिरम् मनश् चकृषे जात इन्द्र वेषीद् एको युधये भूयसश् चित् । अश्मानꣳ चिच् छवसा दिद्युतो वि विदो गवाम् ऊर्वम् उस्रियाणाम्
परो यत् त्वम् परम आजनिष्ठाः परावति श्रुत्यꣳ नाम बिभ्रत् । अतश् चिद् इन्द्राद् अभयन्त देवा विश्वा अपो अजयद् दासपत्नीः
तुभ्येद् एते मरुतः सुशेवा अर्चन्त्य् अर्कꣳ सुन्वन्त्य् अन्धः । अहिम् ओहानम् अप आशयानम् प्र मायाभिर् मायिनꣳ सक्षद् इन्द्रः
वि षू मृधो जनुषा दानम् इन्वन्न् अहन् गवा मघवन् सꣳचकानः । अत्रा दासस्य नमुचेः शिरो यद् अवर्तयो मनवे गातुम् इच्छन्
युजꣳ हि माम् अकृथा आद् इद् इन्द्र शिरो दासस्य नमुचेर् मथायन् । अश्मानꣳ चित् स्वर्य१ꣳ वर्तमानम् प्र चक्रियेव रोदसी मरुद्भ्यः
स्त्रियो हि दास आयुधानि चक्रे किम् मा करन्न् अबला अस्य सेनाः । अन्तर् ह्य् अख्यद् उभे अस्य धेने अथोप प्रैद् युधये दस्युम् इन्द्रः
सम् अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर् वियुता यद् आसन् । सꣳ ता इन्द्रो असृजद् अस्य शाकैर् यद् ईꣳ सोमासः सुषुता अमन्दन्
यद् ईꣳ सोमा बभ्रुधूता अमन्दन्न् अरोरवीद् वृषभः सादनेषु । पुरꣳदरः पपिवाꣳ इन्द्रो अस्य पुनर् गवाम् अददाद् उस्रियाणाम्
भद्रम् इदꣳ रुशमा अग्ने अक्रन् गवाꣳ चत्वारि ददतः सहस्रा । ऋणꣳचयस्य प्रयता मघानि प्रत्य् अग्रभीष्म नृतमस्य नृणाम्
सुपेशसम् माव सृजन्त्य् अस्तꣳ गवाꣳ सहस्रै रुशमासो अग्ने । तीव्रा इन्द्रम् अममन्दुः सुतासो ऽक्तोर् व्युष्टौ परितक्म्यायाः
औच्छत् सा रात्री परितक्म्या याꣳ ऋणꣳचये राजनि रुशमानाम् । अत्यो न वाजी रघुर् अज्यमानो बभ्रुश् चत्वार्य् असनत् सहस्रा
चतुःसहस्रꣳ गव्यस्य पश्वः प्रत्य् अग्रभीष्म रुशमेष्व् अग्ने । घर्मश् चित् तप्तः प्रवृजे य आसीद् अयस्मयस् तम् व् आदाम विप्राः
इन्द्रो रथाय प्रवतꣳ कृणोति यम् अध्यस्थान् मघवा वाजयन्तम् । यूथेव पश्वो व्य् उनोति गोपा अरिष्टो याति प्रथमः सिषासन्
आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । नहि त्वद् इन्द्र वस्यो अन्यद् अस्त्य् अमेनाꣳश् चिज् जनिवतश् चकर्थ
उद् यत् सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । प्राचोदयत् सुदुघा वव्रे अन्तर् वि ज्योतिषा सꣳववृत्वत् तमो ऽवः
अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ
वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य् अवर्तन्त दस्यून्
प्र ते पूर्वाणि करणानि वोचम् प्र नूतना मघवन् या चकर्थ । शक्तीवो यद् विभरा रोदसी उभे जयन्न् अपो मनवे दानुचित्राः
तद् इन् नु ते करणꣳ दस्म विप्राहिꣳ यद् घ्नन्न् ओजो अत्रामिमीथाः । शुष्णस्य चित् परि माया अगृभ्णाः प्रपित्वꣳ यन्न् अप दस्यूꣳर् असेधः
त्वम् अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । उग्रम् अयातम् अवहो ह कुत्सꣳ सꣳ ह यद् वाम् उशनारन्त देवाः
इन्द्राकुत्सा वहमाना रथेना वाम् अत्या अपि कर्णे वहन्तु । निः षीम् अद्भ्यो धमथो निः षधस्थान् मघोनो हृदो वरथस् तमाꣳसि
वातस्य युक्तान् सुयुजश् चिद् अश्वान् कविश् चिद् एषो अजगन्न् अवस्युः । विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीम् अवर्धन्
सूरश् चिद् रथम् परितक्म्यायाम् पूर्वꣳ करद् उपरꣳ जूजुवाꣳसम् । भरच् चक्रम् एतशः सꣳ रिणाति पुरो दधत् सनिष्यति क्रतुꣳ नः
आयꣳ जना अभिचक्षे जगामेन्द्रः सखायꣳ सुतसोमम् इच्छन् । वदन् ग्रावाव वेदिम् भ्रियाते यस्य जीरम् अध्वर्यवश् चरन्ति
ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अꣳह आरन् । वावन्धि यज्यूꣳर् उत तेषु धेह्य् ओजो जनेषु येषु ते स्याम
अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानाꣳ अरम्णाः । महान्तम् इन्द्र पर्वतꣳ वि यद् वः सृजो वि धारा अव दानवꣳ हन्
त्वम् उत्साꣳ ऋतुभिर् बद्बधानाꣳ अरꣳह ऊधः पर्वतस्य वज्रिन् । अहिꣳ चिद् उग्र प्रयुतꣳ शयानꣳ जघन्वाꣳ इन्द्र तविषीम् अधत्थाः
त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः । य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान्
त्यꣳ चिद् एषाꣳ स्वधया मदन्तम् मिहो नपातꣳ सुवृधꣳ तमोगाम् । वृषप्रभर्मा दानवस्य भामꣳ वज्रेण वज्री नि जघान शुष्णम्
त्यꣳ चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म । यद् ईꣳ सुक्षत्र प्रभृता मदस्य युयुत्सन्तꣳ तमसि हर्म्ये धाः
त्यꣳ चिद् इत्था कत्पयꣳ शयानम् असूर्ये तमसि वावृधानम् । तꣳ चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान
उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् । यद् ईꣳ वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमꣳ चकार
त्यꣳ चिद् अर्णम् मधुपꣳ शयानम् असिन्वꣳ वव्रम् मह्य् आदद् उग्रः । अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम्
को अस्य शुष्मꣳ तविषीꣳ वरात एको धना भरते अप्रतीतः । इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते
न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे । सꣳ यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त
एकꣳ नु त्वा सत्पतिम् पाञ्चजन्यꣳ जातꣳ शृणोमि यशसꣳ जनेषु । तम् मे जगृभ्र आशसो नविष्ठꣳ दोषा वस्तोर् हवमानास इन्द्रम्
एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतꣳ शृणोमि । किꣳ ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र
महि महे तवसे दीध्ये नॄन् इन्द्रायेत्था तवसे अतव्यान् । यो अस्मै सुमतिꣳ वाजसातौ स्तुतो जने समर्यश् चिकेत
स त्वꣳ न इन्द्र धियसानो अर्कैर् हरीणाꣳ वृषन् योक्त्रम् अश्रेः । या इत्था मघवन्न् अनु जोषꣳ वक्षो अभि प्रार्यः सक्षि जनान्
न ते त इन्द्राभ्य् अ१स्मद् ऋष्वायुक्तासो अब्रह्मता यद् असन् । तिष्ठा रथम् अधि तꣳ वज्रहस्ता रश्मिꣳ देव यमसे स्वश्वः
पुरू यत् त इन्द्र सन्त्य् उक्था गवे चकर्थोर्वरासु युध्यन् । ततक्षे सूर्याय चिद् ओकसि स्वे वृषा समत्सु दासस्य नाम चित्
वयꣳ ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश् च रथाः । आस्माञ् जगम्याद् अहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः
पपृक्षेण्यम् इन्द्र त्वे ह्य् ओजो नृम्णानि च नृतमानो अमर्तः । स न एनीꣳ वसवानो रयिꣳ दाः प्रार्यः स्तुषे तुविमघस्य दानम्
एवा न इन्द्रोतिभिर् अव पाहि गृणतः शूर कारून् । उत त्वचꣳ ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः
उत त्ये मा पौरुकुत्स्यस्य सूरेस् त्रसदस्योर् हिरणिनो रराणाः । वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर् नु सश्चे
उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ । सहस्रा मे च्यवतानो ददान आनूकम् अर्यो वपुषे नार्चत्
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः । मह्ना रायः सꣳवरणस्य ऋषेर् व्रजꣳ न गावः प्रयता अपि ग्मन्
अजातशत्रुम् अजरा स्वर्वत्य् अनु स्वधामिता दस्मम् ईयते । सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरꣳ दधातन
आ यः सोमेन जठरम् अपिप्रतामन्दत मघवा मध्वो अन्धसः । यद् ईम् मृगाय हन्तवे महावधः सहस्रभृष्टिम् उशना वधꣳ यमत्
यो अस्मै घ्रꣳस उत वा य ऊधनि सोमꣳ सुनोति भवति द्युमाꣳ अह । अपाप शक्रस् ततनुष्टिम् ऊहति तनूशुभ्रम् मघवा यः कवासखः
यस्यावधीत् पितरꣳ यस्य मातरꣳ यस्य शक्रो भ्रातरꣳ नात ईषते । वेतीद् व् अस्य प्रयता यतꣳकरो न किल्बिषाद् ईषते वस्व आकरः
न पञ्चभिर् दशभिर् वष्ट्य् आरभꣳ नासुन्वता सचते पुष्यता चन । जिनाति वेद् अमुया हन्ति वा धुनिर् आ देवयुम् भजति गोमति व्रजे
वित्वक्षणः समृतौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वृधः । इन्द्रो विश्वस्य दमिता विभीषणो यथावशꣳ नयति दासम् आर्यः
सम् ईम् पणेर् अजति भोजनम् मुषे वि दाशुषे भजति सूनरꣳ वसु । दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीम् अचुक्रुधत्
सꣳ यज् जनौ सुधनौ विश्वशर्धसाव् अवेद् इन्द्रो मघवा गोषु शुभ्रिषु । युजꣳ ह्य् अ१न्यम् अकृत प्रवेपन्य् उद् ईꣳ गव्यꣳ सृजते सत्वभिर् धुनिः
सहस्रसाम् आग्निवेशिꣳ गृणीषे शत्रिम् अग्न उपमाꣳ केतुम् अर्यः । तस्मा आपः सꣳयतः पीपयन्त तस्मिन् क्षत्रम् अमवत् त्वेषम् अस्तु
यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर । अस्मभ्यꣳ चर्षणीसहꣳ सस्निꣳ वाजेषु दुष्टरम्
यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः । यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर
आ ते ऽवो वरेण्यꣳ वृषन्तमस्य हूमहे । वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः
वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः । स्वक्षत्रꣳ ते धृषन् मनः सत्राहम् इन्द्र पौꣳस्यम्
त्वꣳ तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः । सर्वरथा शतक्रतो नि याहि शवसस् पते
त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । उग्रम् पूर्वीषु पूर्व्यꣳ हवन्ते वाजसातये
अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु । सयावानꣳ धने-धने वाजयन्तम् अवा रथम्
अस्माकम् इन्द्रेहि नो रथम् अवा पुरꣳध्या । वयꣳ शविष्ठ वार्यꣳ दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे
स आ गमद् इन्द्रो यो वसूनाꣳ चिकेतद् दातुꣳ दामनो रयीणाम् । धन्वचरो न वꣳसगस् तृषाणश् चकमानः पिबतु दुग्धम् अꣳशुम्
आ ते हनू हरिवः शूर शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । अनु त्वा राजन्न् अर्वतो न हिन्वन् गीर्भिर् मदेम पुरुहूत विश्वे
चक्रꣳ न वृत्तम् पुरुहूत वेपते मनो भिया मे अमतेर् इद् अद्रिवः । रथाद् अधि त्वा जरिता सदावृध कुविन् नु स्तोषन् मघवन् पुरूवसुः
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचम् बृहद् आशुषाणः । प्र सव्येन मघवन् यꣳसि रायः प्र दक्षिणिद् धरिवो मा वि वेनः
वृषा त्वा वृषणꣳ वर्धतु द्यौर् वृषा वृषभ्याꣳ वहसे हरिभ्याम् । स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन् भरे धाः
यो रोहितौ वाजिनौ वाजिनीवान् त्रिभिः शतैः सचमानाव् अदिष्ट । यूने सम् अस्मै क्षितयो नमन्ताꣳ श्रुतरथाय मरुतो दुवोया
सम् भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । तस्मा अमृध्रा उषसो व्य् उच्छान् य इन्द्राय सुनवामेत्य् आह
समिद्धाग्निर् वनवत् स्तीर्णबर्हिर् युक्तग्रावा सुतसोमो जराते । ग्रावाणो यस्येषिरꣳ वदन्त्य् अयद् अध्वर्युर् हविषाव सिन्धुम्
वधूर् इयम् पतिम् इच्छन्त्य् एति य ईꣳ वहाते महिषीम् इषिराम् । आस्य श्रवस्याद् रथ आ च घोषात् पुरू सहस्रा परि वर्तयाते
न स राजा व्यथते यस्मिन्न् इन्द्रस् तीव्रꣳ सोमम् पिबति गोसखायम् । आ सत्वनैर् अजति हन्ति वृत्रꣳ क्षेति क्षितीः सुभगो नाम पुष्यन्
पुष्यात् क्षेमे अभि योगे भवात्य् उभे वृतौ सꣳयती सꣳ जयाति । प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत्
उरोष् ट इन्द्र राधसो विभ्वी रातिः शतक्रतो । अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मꣳहय
यद् ईम् इन्द्र श्रवाय्यम् इषꣳ शविष्ठ दधिषे । पप्रथे दीर्घश्रुत्तमꣳ हिरण्यवर्ण दुष्टरम्
शुष्मासो ये ते अद्रिवो मेहना केतसापः । उभा देवाव् अभिष्टये दिवश् च ग्मश् च राजथः
उतो नो अस्य कस्य चिद् दक्षस्य तव वृत्रहन् । अस्मभ्यꣳ नृम्णम् आ भरास्मभ्यꣳ नृमणस्यसे
नू त आभिर् अभिष्टिभिस् तव शर्मञ् छतक्रतो । इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः
यद् इन्द्र चित्र मेहनास्ति त्वादातम् अद्रिवः । राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर
यन् मन्यसे वरेण्यम् इन्द्र द्युक्षꣳ तद् आ भर । विद्याम तस्य ते वयम् अकूपारस्य दावने
यत् ते दित्सु प्रराध्यम् मनो अस्ति श्रुतम् बृहत् । तेन दृळ्हा चिद् अद्रिव आ वाजꣳ दर्षि सातये
मꣳहिष्ठꣳ वो मघोनाꣳ राजानꣳ चर्षणीनाम् । इन्द्रम् उप प्रशस्तये पूर्वीभिर् जुजुषे गिरः
अस्मा इत् काव्यꣳ वच उक्थम् इन्द्राय शꣳस्यम् । तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्य् अत्रयो गिरः शुम्भन्त्य् अत्रयः
आ याह्य् अद्रिभिः सुतꣳ सोमꣳ सोमपते पिब । वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम
वृषा ग्रावा वृषा मदो वृषा सोमो अयꣳ सुतः । वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम
वृषा त्वा वृषणꣳ हुवे वज्रिञ् चित्राभिर् ऊतिभिः । वृषन्न् इन्द्र वृषभिर् वृत्रहन्तम
ऋजीषी वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । युक्त्वा हरिभ्याम् उप यासद् अर्वाङ् माध्यꣳदिने सवने मत्सद् इन्द्रः
यत् त्वा सूर्य स्वर्भानुस् तमसाविध्यद् आसुरः । अक्षेत्रविद् यथा मुग्धो भुवनान्य् अदीधयुः
स्वर्भानोर् अध यद् इन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हꣳ सूर्यꣳ तमसापव्रतेन तुरीयेण ब्रह्मणाविन्दद् अत्रिः
मा माम् इमꣳ तव सन्तम् अत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वम् मित्रो असि सत्यराधास् तौ मेहावतꣳ वरुणश् च राजा
ग्राव्णो ब्रह्मा युयुजानः सपर्यन् कीरिणा देवान् नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुर् आधात् स्वर्भानोर् अप माया अघुक्षत्
यꣳ वै सूर्यꣳ स्वर्भानुस् तमसाविध्यद् आसुरः । अत्रयस् तम् अन्व् अविन्दन् नह्य् अ१न्ये अशक्नुवन्
को नु वाम् मित्रावरुणाव् ऋतायन् दिवो वा महः पार्थिवस्य वा दे । ऋतस्य वा सदसि त्रासीथाꣳ नो यज्ञायते वा पशुषो न वाजान्
ते नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतो जुषन्त । नमोभिर् वा ये दधते सुवृक्तिꣳ स्तोमꣳ रुद्राय मीळ्हुषे सजोषाः
आ वाꣳ येष्ठाश्विना हुवध्यै वातस्य पत्मन् रथ्यस्य पुष्टौ । उत वा दिवो असुराय मन्म प्रान्धाꣳसीव यज्यवे भरध्वम्
प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः । पूषा भगः प्रभृथे विश्वभोजा आजिꣳ न जग्मुर् आश्वश्वतमाः
प्र वो रयिꣳ युक्ताश्वम् भरध्वꣳ राय एषे ऽवसे दधीत धीः । सुशेव एवैर् औशिजस्य होता ये व एवा मरुतस् तुराणाम्
प्र वो वायुꣳ रथयुजꣳ कृणुध्वम् प्र देवꣳ विप्रम् पनितारम् अर्कैः । इषुध्यव ऋतसापः पुरꣳधीर् वस्वीर् नो अत्र पत्नीर् आ धिये धुः
उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश् चितयद्भिर् अर्कैः । उषासानक्ता विदुषीव विश्वम् आ हा वहतो मर्त्याय यज्ञम्
अभि वो अर्चे पोष्यावतो नॄन् वास्तोष् पतिꣳ त्वष्टारꣳ रराणः । धन्या सजोषा धिषणा नमोभिर् वनस्पतीꣳर् ओषधी राय एषे
तुजे नस् तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः । पनित आप्त्यो यजतः सदा नो वर्धान् नः शꣳसꣳ नर्यो अभिष्टौ
वृष्णो अस्तोषि भूम्यस्य गर्भꣳ त्रितो नपातम् अपाꣳ सुवृक्ति । गृणीते अग्निर् एतरी न शूषैः शोचिष्केशो नि रिणाति वना
कथा महे रुद्रियाय ब्रवाम कद् राये चिकितुषे भगाय । आप ओषधीर् उत नो ऽवन्तु द्यौर् वना गिरयो वृक्षकेशाः
शृणोतु न ऊर्जाम् पतिर् गिरः स नभस् तरीयाꣳ इषिरः परिज्मा । शृण्वन्त्व् आपः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः
विदा चिन् नु महान्तो ये व एवा ब्रवाम दस्मा वार्यꣳ दधानाः । वयश् चन सुभ्व१ आव यन्ति क्षुभा मर्तम् अनुयतꣳ वधस्नैः
आ दैव्यानि पार्थिवानि जन्मापश् चाच्छा सुमखाय वोचम् । वर्धन्ताꣳ द्यावो गिरश् चन्द्राग्रा उदा वर्धन्ताम् अभिषाता अर्णाः
पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश् च । सिषक्तु माता मही रसा नः स्मत् सूरिभिर् ऋजुहस्त ऋजुवनिः
कथा दाशेम नमसा सुदानून् एवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ । मा नो ऽहिर् बुध्न्यो रिषे धाद् अस्माकम् भूद् उपमातिवनिः
इति चिन् नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः । अत्रा शिवाꣳ तन्वो धासिम् अस्या जराꣳ चिन् मे निरृतिर् जग्रसीत
ताꣳ वो देवाः सुमतिम् ऊर्जयन्तीम् इषम् अश्याम वसवः शसा गोः । सा नः सुदानुर् मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः
अभि न इळा यूथस्य माता स्मन् नदीभिर् उर्वशी वा गृणातु । उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः
सिषक्तु न ऊर्जव्यस्य पुष्टेः
प्र शꣳतमा वरुणꣳ दीधिती गीर् मित्रम् भगम् अदितिꣳ नूनम् अश्याः । पृषद्योनिः पञ्चहोता शृणोत्व् अतूर्तपन्था असुरो मयोभुः
प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुꣳ न माता हृद्यꣳ सुशेवम् । ब्रह्म प्रियꣳ देवहितꣳ यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु
उद् ईरय कवितमꣳ कवीनाम् उनत्तैनम् अभि मध्वा घृतेन । स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति
सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् हरिवः सꣳ स्वस्ति । सम् ब्रह्मणा देवहितꣳ यद् अस्ति सꣳ देवानाꣳ सुमत्या यज्ञियानाम्
देवो भगः सविता रायो अꣳश इन्द्रो वृत्रस्य सꣳजितो धनानाम् । ऋभुक्षा वाज उत वा पुरꣳधिर् अवन्तु नो अमृतासस् तुरासः
मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि । न ते पूर्वे मघवन् नापरासो न वीर्य१ꣳ नूतनः कश् चनाप
उप स्तुहि प्रथमꣳ रत्नधेयम् बृहस्पतिꣳ सनितारꣳ धनानाम् । यः शꣳसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम्
तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः । ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः
विसर्माणꣳ कृणुहि वित्तम् एषाꣳ ये भुञ्जते अपृणन्तो न उक्थैः । अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व
य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात । यो वः शमीꣳ शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः
तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वा महे सौमनसाय रुद्रꣳ नमोभिर् देवम् असुरꣳ दुवस्य
दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः । सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः
प्र सू महे सुशरणाय मेधाꣳ गिरम् भरे नव्यसीꣳ जायमानाम् । य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदꣳ नः
प्र सुष्टुतिः स्तनयन्तꣳ रुवन्तम् इळस् पतिꣳ जरितर् नूनम् अश्याः । यो अब्दिमाꣳ उदनिमाꣳ इयर्ति प्र विद्युता रोदसी उक्षमाणः
एष स्तोमो मारुतꣳ शर्धो अच्छा रुद्रस्य सूनूꣳर् युवन्यूꣳर् उद् अश्याः । कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वाꣳ अयासः
प्रैष स्तोमः पृथिवीम् अन्तरिक्षꣳ वनस्पतीꣳर् ओषधी राये अश्याः । देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात्
उरौ देवा अनिबाधे स्याम
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिꣳ वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर् उप नो यन्तु मध्वा । महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति
आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे । पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव् अविष्टाम्
अध्वर्यवश् चकृवाꣳसो मधूनि प्र वायवे भरत चारु शुक्रम् । होतेव नः प्रथमः पाह्य् अस्य देव मध्वो ररिमा ते मदाय
दश क्षिपो युञ्जते बाहू अद्रिꣳ सोमस्य या शमितारा सुहस्ता । मध्वो रसꣳ सुगभस्तिर् गिरिष्ठाꣳ चनिश्चदद् दुदुहे शुक्रम् अꣳशुः
असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय । हरी रथे सुधुरा योगे अर्वाग् इन्द्र प्रिया कृणुहि हूयमानः
आ नो महीम् अरमतिꣳ सजोषा ग्नाꣳ देवीꣳ नमसा रातहव्याम् । मधोर् मदाय बृहतीम् ऋतज्ञाम् आग्ने वह पथिभिर् देवयानैः
अञ्जन्ति यम् प्रथयन्तो न विप्रा वपावन्तꣳ नाग्निना तपन्तः । पितुर् न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निम् ऋतयन्न् असादि
अच्छा मही बृहती शꣳतमा गीर् दूतो न गन्त्व् अश्विना हुवध्यै । मयोभुवा सरथा यातम् अर्वाग् गन्तꣳ निधिꣳ धुरम् आणिर् न नाभिम्
प्र तव्यसो नमüक्तिꣳ तुरस्याहम् पूष्ण उत वायोर् अदिक्षि । या राधसा चोदितारा मतीनाꣳ या वाजस्य द्रविणोदा उत त्मन्
आ नामभिर् मरुतो वक्षि विश्वान् आ रूपेभिर् जातवेदो हुवानः । यज्ञꣳ गिरो जरितुः सुष्टुतिꣳ च विश्वे गन्त मरुतो विश्व ऊती
आ नो दिवो बृहतः पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवꣳ देवी जुजुषाणा घृताची शग्माꣳ नो वाचम् उशती शृणोतु
आ वेधसꣳ नीलपृष्ठम् बृहन्तम् बृहस्पतिꣳ सदने सादयध्वम् । सादद्योनिꣳ दम आ दीदिवाꣳसꣳ हिरण्यवर्णम् अरुषꣳ सपेम
आ धर्णसिर् बृहद्दिवो रराणो विश्वेभिर् गन्त्व् ओमभिर् हुवानः । ग्ना वसान ओषधीर् अमृध्रस् त्रिधातुशृङ्गो वृषभो वयोधाः
मातुष् पदे परमे शुक्र आयोर् विपन्यवो रास्पिरासो अग्मन् । सुशेव्यꣳ नमसा रातहव्याः शिशुम् मृजन्त्य् आयवो न वासे
बृहद् वयो बृहते तुभ्यम् अग्ने धियाजुरो मिथुनासः सचन्त । देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात्
उरौ देवा अनिबाधे स्याम
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिꣳ वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदꣳ स्वर्विदम् । प्रतीचीनꣳ वृजनꣳ दोहसे गिराशुꣳ जयन्तम् अनु यासु वर्धसे
श्रिये सुदृशीर् उपरस्य याः स्वर् विरोचमानः ककुभाम् अचोदते । सुगोपा असि न दभाय सुक्रतो परो मायाभिर् ऋत आस नाम ते
अत्यꣳ हविः सचते सच् च धातु चारिष्टगातुः स होता सहोभरिः । प्रसर्स्राणो अनु बर्हिर् वृषा शिशुर् मध्ये युवाजरो विस्रुहा हितः
प्र व एते सुयुजो यामन्न् इष्टये नीचीर् अमुष्मै यम्य ऋतावृधः । सुयन्तुभिः सर्वशासैर् अभीशुभिः क्रिविर् नामानि प्रवणे मुषायति
सꣳजर्भुराणस् तरुभिः सुतेगृभꣳ वयाकिनꣳ चित्तगर्भासु सुस्वरुः । धारवाकेष्व् ऋजुगाथ शोभसे वर्धस्व पत्नीर् अभि जीवो अध्वरे
यादृग् एव ददृशे तादृग् उच्यते सꣳ छायया दधिरे सिध्रयाप्स्व् आ । महीम् अस्मभ्यम् उरुषाम् उरु ज्रयो बृहत् सुवीरम् अनपच्युतꣳ सहः
वेत्य् अग्रुर् जनिवान् वा अति स्पृधः समर्यता मनसा सूर्यः कविः । घ्रꣳसꣳ रक्षन्तम् परि विश्वतो गयम् अस्माकꣳ शर्म वनवत् स्वावसुः
ज्यायाꣳसम् अस्य यतुनस्य केतुन ऋषिस्वरꣳ चरति यासु नाम ते । यादृश्मिन् धायि तम् अपस्यया विदद् य उ स्वयꣳ वहते सो अरꣳ करत्
समुद्रम् आसाम् अव तस्थे अग्रिमा न रिष्यति सवनꣳ यस्मिन्न् आयता । अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर् विद्यते पूतबन्धनी
स हि क्षत्रस्य मनसस्य चित्तिभिर् एवावदस्य यजतस्य सध्रेः । अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठꣳ वाजꣳ विदुषा चिद् अर्ध्यम्
श्येन आसाम् अदितिः कक्ष्यो३ मदो विश्ववारस्य यजतस्य मायिनः । सम् अन्यम्-अन्यम् अर्थयन्त्य् एतवे विदुर् विषाणम् परिपानम् अन्ति ते
सदापृणो यजतो वि द्विषो वधीद् बाहुवृक्तः श्रुतवित् तर्यो वः सचा । उभा स वरा प्रत्य् एति भाति च यद् ईꣳ गणम् भजते सुप्रयावभिः
सुतम्भरो यजमानस्य सत्पतिर् विश्वासाम् ऊधः स धियाम् उदञ्चनः । भरद् धेनू रसवच् छिश्रिये पयो ऽनुब्रुवाणो अध्य् एति न स्वपन्
यो जागार तम् ऋचः कामयन्ते यो जागार तम् उ सामानि यन्ति । यो जागार तम् अयꣳ सोम आह तवाहम् अस्मि सख्ये न्योकाः
अग्निर् जागार तम् ऋचः कामयन्ते ऽग्निर् जागार तम् उ सामानि यन्ति । अग्निर् जागार तम् अयꣳ सोम आह तवाहम् अस्मि सख्ये न्योकाः
विदा दिवो विष्यन्न् अद्रिम् उक्थैर् आयत्या उषसो अर्चिनो गुः । अपावृत व्रजिनीर् उत् स्वर् गाद् वि दुरो मानुषीर् देव आवः
वि सूर्यो अमतिꣳ न श्रियꣳ साद् ओर्वाद् गवाम् माता जानती गात् । धन्वर्णसो नद्य१ः खादोअर्णाः स्थूणेव सुमिता दृꣳहत द्यौः
अस्मा उक्थाय पर्वतस्य गर्भो महीनाꣳ जनुषे पूर्व्याय । वि पर्वतो जिहीत साधत द्यौर् आविवासन्तो दसयन्त भूम
सूक्तेभिर् वो वचोभिर् देवजुष्टैर् इन्द्रा न्व् अ१ग्नी अवसे हुवध्यै । उक्थेभिर् हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति
एतो न्व् अ१द्य सुध्यो३ भवाम प्र दुच्छुना मिनवामा वरीयः । आरे द्वेषाꣳसि सनुतर् दधामायाम प्राञ्चो यजमानम् अच्छ
एता धियꣳ कृणवामा सखायो ऽप या माताꣳ ऋणुत व्रजꣳ गोः । यया मनुर् विशिशिप्रꣳ जिगाय यया वणिग् वङ्कुर् आपा पुरीषम्
अनूनोद् अत्र हस्तयतो अद्रिर् आर्चन् येन दश मासो नवग्वाः । ऋतꣳ यती सरमा गा अविन्दद् विश्वानि सत्याङ्गिराश् चकार
विश्वे अस्या व्युषि माहिनायाः सꣳ यद् गोभिर् अङ्गिरसो नवन्त । उत्स आसाम् परमे सधस्थ ऋतस्य पथा सरमा विदद् गाः
आ सूर्यो यातु सप्ताश्वः क्षेत्रꣳ यद् अस्योर्विया दीर्घयाथे । रघुः श्येनः पतयद् अन्धो अच्छा युवा कविर् दीदयद् गोषु गच्छन्
आ सूर्यो अरुहच् छुक्रम् अर्णो ऽयुक्त यद् धरितो वीतपृष्ठाः । उद्ना न नावम् अनयन्त धीरा आशृण्वतीर् आपो अर्वाग् अतिष्ठन्
धियꣳ वो अप्सु दधिषे स्वर्षाꣳ ययातरन् दश मासो नवग्वाः । अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्य् अꣳहः
हयो न विद्वाꣳ अयुजि स्वयꣳ धुरि ताꣳ वहामि प्रतरणीम् अवस्युवम् । नास्या वश्मि विमुचꣳ नावृतम् पुनर् विद्वान् पथः पुरएत ऋजु नेषति
अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो । उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त
इन्द्राग्नी मित्रावरुणादितिꣳ स्वः पृथिवीꣳ द्याम् मरुतः पर्वताꣳ अपः । हुवे विष्णुम् पूषणम् ब्रह्मणस् पतिम् भगꣳ नु शꣳसꣳ सवितारम् ऊतये
उत नो विष्णुर् उत वातो अस्रिधो द्रविणोदा उत सोमो मयस् करत् । उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मꣳसते
उत त्यन् नो मारुतꣳ शर्ध आ गमद् दिविक्षयꣳ यजतम् बर्हिर् आसदे । बृहस्पतिः शर्म पूषोत नो यमद् वरूथ्य१ꣳ वरुणो मित्रो अर्यमा
उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्य१स् त्रामणे भुवन् । भगो विभक्ता शवसावसा गमद् उरुव्यचा अदितिः श्रोतु मे हवम्
देवानाम् पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये । याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यच्छत
उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अ१ग्नाय्य् अश्विनी राट् । आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम्
प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर् बोधयन्ती । आविवासन्ती युवतिर् मनीषा पितृभ्य आ सदने जोहुवाना
अजिरासस् तदप ईयमाना आतस्थिवाꣳसो अमृतस्य नाभिम् । अनन्तास उरवो विश्वतः सीम् परि द्यावापृथिवी यन्ति पन्थाः
उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसस् पात्य् अन्तौ
चत्वार ईम् बिभ्रति क्षेमयन्तो दश गर्भꣳ चरसे धापयन्ते । त्रिधातवः परमा अस्य गावो दिवश् चरन्ति परि सद्यो अन्तान्
इदꣳ वपुर् निवचनꣳ जनासश् चरन्ति यन् नद्यस् तस्थुर् आपः । द्वे यद् ईम् बिभृतो मातुर् अन्ये इहेह जाते यम्या३ सबन्धू
वि तन्वते धियो अस्मा अपाꣳसि वस्त्रा पुत्राय मातरो वयन्ति । उपप्रक्षे वृषणो मोदमाना दिवस् पथा वध्वो यन्त्य् अच्छ
तद् अस्तु मित्रावरुणा तद् अग्ने शꣳ योर् अस्मभ्यम् इदम् अस्तु शस्तम् । अशीमहि गाधम् उत प्रतिष्ठाꣳ नमो दिवे बृहते सादनाय
कद् उ प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् । आमेन्यस्य रजसो यद् अभ्र आꣳ अपो वृणाना वितनोति मायिनी
ता अत्नत वयुनꣳ वीरवक्षणꣳ समान्या वृतया विश्वम् आ रजः । अपो अपाचीर् अपरा अपेजते प्र पूर्वाभिस् तिरते देवयुर् जनः
आ ग्रावभिर् अहन्येभिर् अक्तुभिर् वरिष्ठꣳ वज्रम् आ जिघर्ति मायिनि । शतꣳ वा यस्य प्रचरन् स्वे दमे सꣳवर्तयन्तो वि च वर्तयन्न् अहा
ताम् अस्य रीतिम् परशोर् इव प्रत्य् अनीकम् अख्यम् भुजे अस्य वर्पसः । सचा यदि पितुमन्तम् इव क्षयꣳ रत्नꣳ दधाति भरहूतये विशे
स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्न् अरिम् । न तस्य विद्म पुरुषत्वता वयꣳ यतो भगः सविता दाति वार्यम्
देवꣳ वो अद्य सवितारम् एषे भगꣳ च रत्नꣳ विभजन्तम् आयोः । आ वाꣳ नरा पुरुभुजा ववृत्याꣳ दिवे-दिवे चिद् अश्विना सखीयन्
प्रति प्रयाणम् असुरस्य विद्वान् सूक्तैर् देवꣳ सवितारꣳ दुवस्य । उप ब्रुवीत नमसा विजानञ् ज्येष्ठꣳ च रत्नꣳ विभजन्तम् आयोः
अदत्रया दयते वार्याणि पूषा भगो अदितिर् वस्त उस्रः । इन्द्रो विष्णुर् वरुणो मित्रो अग्निर् अहानि भद्रा जनयन्त दस्माः
तन् नो अनर्वा सविता वरूथꣳ तत् सिन्धव इषयन्तो अनु ग्मन् । उप यद् वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः
प्र ये वसुभ्य ईवद् आ नमो दुर् ये मित्रे वरुणे सूक्तवाचः । अवैत्व् अभ्वꣳ कृणुता वरीयो दिवस्पृथिव्योर् अवसा मदेम
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नꣳ वृणीत पुष्यसे
ते ते देव नेतर् ये चेमाꣳ अनुशसे । ते राया ते ह्य् आ३पृचे सचेमहि सचथ्यैः
अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत । आरे विश्वम् पथेष्ठाꣳ द्विषो युयोतु यूयुविः
यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः । नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता
एष ते देव नेता रथस्पतिः शꣳ रयिः । शꣳ राये शꣳ स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे
अग्ने सुतस्य पीतये विश्वैर् ऊमेभिर् आ गहि । देवेभिर् हव्यदातये
ऋतधीतय आ गत सत्यधर्माणो अध्वरम् । अग्नेः पिबत जिह्वया
विप्रेभिर् विप्र सन्त्य प्रातर्यावभिर् आ गहि । देवेभिः सोमपीतये
अयꣳ सोमश् चमू सुतो ऽमत्रे परि षिच्यते । प्रिय इन्द्राय वायवे
वायव् आ याहि वीतये जुषाणो हव्यदातये । पिबा सुतस्यान्धसो अभि प्रयः
इन्द्रश् च वायव् एषाꣳ सुतानाम् पीतिम् अर्हथः । ताञ् जुषेथाम् अरेपसाव् अभि प्रयः
सुता इन्द्राय वायवे सोमासो दध्याशिरः । निम्नꣳ न यन्ति सिन्धवो ऽभि प्रयः
सजूर् विश्वेभिर् देवेभिर् अश्विभ्याम् उषसा सजूः । आ याह्य् अग्ने अत्रिवत् सुते रण
सजूर् मित्रावरुणाभ्याꣳ सजूः सोमेन विष्णुना । आ याह्य् अग्ने अत्रिवत् सुते रण
सजूर् आदित्यैर् वसुभिः सजूर् इन्द्रेण वायुना । आ याह्य् अग्ने अत्रिवत् सुते रण
स्वस्ति नो मिमीताम् अश्विना भगः स्वस्ति देव्य् अदितिर् अनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना
स्वस्तये वायुम् उप ब्रवामहै सोमꣳ स्वस्ति भुवनस्य यस् पतिः । बृहस्पतिꣳ सर्वगणꣳ स्वस्तये स्वस्तय आदित्यासो भवन्तु नः
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुर् अग्निः स्वस्तये । देवा अवन्त्व् ऋभवः स्वस्तये स्वस्ति नो रुद्रः पात्व् अꣳहसः
स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश् चाग्निश् च स्वस्ति नो अदिते कृधि
स्वस्ति पन्थाम् अनु चरेम सूर्याचन्द्रमसाव् इव । पुनर् ददताघ्नता जानता सꣳ गमेमहि
प्र श्यावाश्व धृष्णुयार्चा मरुद्भिर् ऋक्वभिः । ये अद्रोघम् अनुष्वधꣳ श्रवो मदन्ति यज्ञियाः
ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । ते यामन्न् आ धृषद्विनस् त्मना पान्ति शश्वतः
ते स्यन्द्रासो नोक्षणो ऽति ष्कन्दन्ति शर्वरीः । मरुताम् अधा महो दिवि क्षमा च मन्महे
मरुत्सु वो दधीमहि स्तोमꣳ यज्ञꣳ च धृष्णुया । विश्वे ये मानुषा युगा पान्ति मर्त्यꣳ रिषः
अर्हन्तो ये सुदानवो नरो असामिशवसः । प्र यज्ञꣳ यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः
आ रुक्मैर् आ युधा नर ऋष्वा ऋष्टीर् असृक्षत । अन्व् एनाꣳ अह विद्युतो मरुतो जज्झतीर् इव भानुर् अर्त त्मना दिवः
ये वावृधन्त पार्थिवा य उराव् अन्तरिक्ष आ । वृजने वा नदीनाꣳ सधस्थे वा महो दिवः
शर्धो मारुतम् उच् छꣳस सत्यशवसम् ऋभ्वसम् । उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना
उत स्म ते परुष्ण्याम् ऊर्णा वसत शुन्ध्यवः । उत पव्या रथानाम् अद्रिम् भिन्दन्त्य् ओजसा
आपथयो विपथयो ऽन्तस्पथा अनुपथाः । एतेभिर् मह्यꣳ नामभिर् यज्ञꣳ विष्टार ओहते
अधा नरो न्य् ओहते ऽधा नियुत ओहते । अधा पारावता इति चित्रा रूपाणि दर्श्या
छन्दःस्तुभः कुभन्यव उत्सम् आ कीरिणो नृतुः । ते मे के चिन् न तायव ऊमा आसन् दृशि त्विषे
य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । तम् ऋषे मारुतꣳ गणꣳ नमस्या रमया गिरा
अच्छ ऋषे मारुतꣳ गणꣳ दाना मित्रꣳ न योषणा । दिवो वा धृष्णव ओजसा स्तुता धीभिर् इषण्यत
नू मन्वान एषाꣳ देवाꣳ अच्छा न वक्षणा । दाना सचेत सूरिभिर् यामश्रुतेभिर् अञ्जिभिः
प्र ये मे बन्ध्वेषे गाꣳ वोचन्त सूरयः पृश्निꣳ वोचन्त मातरम् । अधा पितरम् इष्मिणꣳ रुद्रꣳ वोचन्त शिक्वसः
सप्त मे सप्त शाकिन एकम्-एका शता ददुः । यमुनायाम् अधि श्रुतम् उद् राधो गव्यम् मृजे नि राधो अश्व्यम् मृजे
को वेद जानम् एषाꣳ को वा पुरा सुम्नेष्व् आस मरुताम् । यद् युयुज्रे किलास्यः
ऐतान् रथेषु तस्थुषः कः शुश्राव कथा ययुः । कस्मै सस्रुः सुदासे अन्व् आपय इळाभिर् वृष्टयः सह
ते म आहुर् य आययुर् उप द्युभिर् विभिर् मदे । नरो मर्या अरेपस इमान् पश्यन्न् इति ष्टुहि
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु । श्राया रथेषु धन्वसु
युष्माकꣳ स्मा रथाꣳ अनु मुदे दधे मरुतो जीरदानवः । वृष्टी द्यावो यतीर् इव
आ यꣳ नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । वि पर्जन्यꣳ सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर् धेनवो यथा । स्यन्ना अश्वा इवाध्वनो विमोचने वि यद् वर्तन्त एन्यः
आ यात मरुतो दिव आन्तरिक्षाद् अमाद् उत । माव स्थात परावतः
मा वो रसानितभा कुभा क्रुमुर् मा वः सिन्धुर् नि रीरमत् । मा वः परि ष्ठात् सरयुः पुरीषिण्य् अस्मे इत् सुम्नम् अस्तु वः
तꣳ वः शर्धꣳ रथानाꣳ त्वेषꣳ गणम् मारुतꣳ नव्यसीनाम् । अनु प्र यन्ति वृष्टयः
शर्धꣳ-शर्धꣳ व एषाꣳ व्रातꣳ-व्रातꣳ गणꣳ-गणꣳ सुशस्तिभिः । अनु क्रामेम धीतिभिः
कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । एना यामेन मरुतः
येन तोकाय तनयाय धान्य१म् बीजꣳ वहध्वे अक्षितम् । अस्मभ्यꣳ तद् धत्तन यद् व ईमहे राधो विश्वायु सौभगम्
अतीयाम निदस् तिरः स्वस्तिभिर् हित्वावद्यम् अरातीः । वृष्ट्वी शꣳ योर् आप उस्रि भेषजꣳ स्याम मरुतः सह
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । यꣳ त्रायध्वे स्याम ते
स्तुहि भोजान् स्तुवतो अस्य यामनि रणन् गावो न यवसे । यतः पूर्वाꣳ इव सखीꣳर् अनु ह्वय गिरा गृणीहि कामिनः
प्र शर्धाय मारुताय स्वभानव इमाꣳ वाचम् अनजा पर्वतच्युते । घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णम् अर्चत
प्र वो मरुतस् तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः । सꣳ विद्युता दधति वाशति त्रितः स्वरन्त्य् आपो ऽवना परिज्रयः
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः । अब्दया चिन् मुहुर् आ ह्रादुनीवृतः स्तनयदमा रभसा उदोजसः
व्य् अ१क्तून् रुद्रा व्य् अहानि शिक्वसो व्य् अ१न्तरिक्षꣳ वि रजाꣳसि धूतयः । वि यद् अज्राꣳ अजथ नाव ईꣳ यथा वि दुर्गाणि मरुतो नाह रिष्यथ
तद् वीर्यꣳ वो मरुतो महित्वनꣳ दीर्घꣳ ततान सूर्यो न योजनम् । एता न यामे अगृभीतशोचिषो ऽनश्वदाꣳ यन् न्य् अयातना गिरिम्
अभ्राजि शर्धो मरुतो यद् अर्णसम् मोषथा वृक्षꣳ कपनेव वेधसः । अध स्मा नो अरमतिꣳ सजोषसश् चक्षुर् इव यन्तम् अनु नेषथा सुगम्
न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति । नास्य राय उप दस्यन्ति नोतय ऋषिꣳ वा यꣳ राजानꣳ वा सुषूदथ
नियुत्वन्तो ग्रामजितो यथा नरो ऽर्यमणो न मरुतः कबन्धिनः । पिन्वन्त्य् उत्सꣳ यद् इनासो अस्वरन् व्य् उन्दन्ति पृथिवीम् मध्वो अन्धसा
प्रवत्वतीयम् पृथिवी मरुद्भ्यः प्रवत्वती द्यौर् भवति प्रयद्भ्यः । प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः
यन् मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः । न वो ऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम् अश्नुथ
अꣳसेषु व ऋष्टयः पत्सु खादयो वक्षःसु रुक्मा मरुतो रथे शुभः । अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः
तꣳ नाकम् अर्यो अगृभीतशोचिषꣳ रुशत् पिप्पलम् मरुतो वि धूनुथ । सम् अच्यन्त वृजनातित्विषन्त यत् स्वरन्ति घोषꣳ विततम् ऋतायवः
युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो३ वयस्वतः । न यो युच्छति तिष्यो३ यथा दिवो३ ऽस्मे रारन्त मरुतः सहस्रिणम्
यूयꣳ रयिम् मरुतः स्पार्हवीरꣳ यूयम् ऋषिम् अवथ सामविप्रम् । यूयम् अर्वन्तम् भरताय वाजꣳ यूयꣳ धत्थ राजानꣳ श्रुष्टिमन्तम्
तद् वो यामि द्रविणꣳ सद्यऊतयो येना स्व१र् ण ततनाम नॄꣳर् अभि । इदꣳ सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतꣳ हिमाः
प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद् वयो दधिरे रुक्मवक्षसः । ईयन्ते अश्वैः सुयमेभिर् आशुभिः शुभꣳ याताम् अनु रथा अवृत्सत
स्वयꣳ दधिध्वे तविषीꣳ यथा विद बृहन् महान्त उर्विया वि राजथ । उतान्तरिक्षम् ममिरे व्य् ओजसा शुभꣳ याताम् अनु रथा अवृत्सत
साकꣳ जाताः सुभ्वः साकम् उक्षिताः श्रिये चिद् आ प्रतरꣳ वावृधुर् नरः । विरोकिणः सूर्यस्येव रश्मयः शुभꣳ याताम् अनु रथा अवृत्सत
आभूषेण्यꣳ वो मरुतो महित्वनꣳ दिदृक्षेण्यꣳ सूर्यस्येव चक्षणम् । उतो अस्माꣳ अमृतत्वे दधातन शुभꣳ याताम् अनु रथा अवृत्सत
उद् ईरयथा मरुतः समुद्रतो यूयꣳ वृष्टिꣳ वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभꣳ याताम् अनु रथा अवृत्सत
यद् अश्वान् धूर्षु पृषतीर् अयुग्ध्वꣳ हिरण्ययान् प्रत्य् अत्काꣳ अमुग्ध्वम् । विश्वा इत् स्पृधो मरुतो व्य् अस्यथ शुभꣳ याताम् अनु रथा अवृत्सत
न पर्वता न नद्यो वरन्त वो यत्राचिध्वम् मरुतो गच्छथेद् उ तत् । उत द्यावापृथिवी याथना परि शुभꣳ याताम् अनु रथा अवृत्सत
यत् पूर्व्यम् मरुतो यच् च नूतनꣳ यद् उद्यते वसवो यच् च शस्यते । विश्वस्य तस्य भवथा नवेदसः शुभꣳ याताम् अनु रथा अवृत्सत
मृळत नो मरुतो मा वधिष्टनास्मभ्यꣳ शर्म बहुलꣳ वि यन्तन । अधि स्तोत्रस्य सख्यस्य गातन शुभꣳ याताम् अनु रथा अवृत्सत
यूयम् अस्मान् नयत वस्यो अच्छा निर् अꣳहतिभ्यो मरुतो गृणानाः । जुषध्वꣳ नो हव्यदातिꣳ यजत्रा वयꣳ स्याम पतयो रयीणाम्
अग्ने शर्धन्तम् आ गणम् पिष्टꣳ रुक्मेभिर् अञ्जिभिः । विशो अद्य मरुताम् अव ह्वये दिवश् चिद् रोचनाद् अधि
यथा चिन् मन्यसे हृदा तद् इन् मे जग्मुर् आशसः । ये ते नेदिष्ठꣳ हवनान्य् आगमन् तान् वर्ध भीमसꣳदृशः
मीळ्हुष्मतीव पृथिवी पराहता मदन्त्य् एत्य् अस्मद् आ । ऋक्षो न वो मरुतः शिमीवाꣳ अमो दुध्रो गौर् इव भीमयुः
नि ये रिणन्त्य् ओजसा वृथा गावो न दुर्धुरः । अश्मानꣳ चित् स्वर्य१म् पर्वतꣳ गिरिम् प्र च्यावयन्ति यामभिः
उत् तिष्ठ नूनम् एषाꣳ स्तोमैः समुक्षितानाम् । मरुताम् पुरुतमम् अपूर्व्यꣳ गवाꣳ सर्गम् इव ह्वये
युङ्ग्ध्वꣳ ह्य् अरुषी रथे युङ्ग्ध्वꣳ रथेषु रोहितः । युङ्ग्ध्वꣳ हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे
उत स्य वाज्य् अरुषस् तुविष्वणिर् इह स्म धायि दर्शतः । मा वो यामेषु मरुतश् चिरꣳ करत् प्र तꣳ रथेषु चोदत
रथꣳ नु मारुतꣳ वयꣳ श्रवस्युम् आ हुवामहे । आ यस्मिन् तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी
तꣳ वः शर्धꣳ रथेशुभꣳ त्वेषम् पनस्युम् आ हुवे । यस्मिन् सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी
आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । इयꣳ वो अस्मत् प्रति हर्यते मतिस् तृष्णजे न दिव उत्सा उदन्यवे
वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम्
धूनुथ द्याम् पर्वतान् दाशुषे वसु नि वो वना जिहते यामनो भिया । कोपयथ पृथिवीम् पृश्निमातरः शुभे यद् उग्राः पृषतीर् अयुग्ध्वम्
वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौर् इवोरवः
पुरुद्रप्सा अञ्जिमन्तः सुदानवस् त्वेषसꣳदृशो अनवभ्रराधसः । सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतꣳ नाम भेजिरे
ऋष्टयो वो मरुतो अꣳसयोर् अधि सह ओजो बाह्वोर् वो बलꣳ हितम् । नृम्णा शीर्षस्व् आयुधा रथेषु वो विश्वा वः श्रीर् अधि तनूषु पिपिशे
गोमद् अश्वावद् रथवत् सुवीरꣳ चन्द्रवद् राधो मरुतो ददा नः । प्रशस्तिꣳ नः कृणुत रुद्रियासो भक्षीय वो ऽवसो दैव्यस्य
हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः
तम् उ नूनꣳ तविषीमन्तम् एषाꣳ स्तुषे गणम् मारुतꣳ नव्यसीनाम् । य आश्वश्वा अमवद् वहन्त उतेशिरे अमृतस्य स्वराजः
त्वेषꣳ गणꣳ तवसꣳ खादिहस्तꣳ धुनिव्रतम् मायिनꣳ दातिवारम् । मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन्
आ वो यन्तूदवाहासो अद्य वृष्टिꣳ ये विश्वे मरुतो जुनन्ति । अयꣳ यो अग्निर् मरुतः समिद्ध एतꣳ जुषध्वꣳ कवयो युवानः
यूयꣳ राजानम् इर्यꣳ जनाय विभ्वतष्टꣳ जनयथा यजत्राः । युष्मद् एति मुष्टिहा बाहुजूतो युष्मत् सदश्वो मरुतः सुवीरः
अरा इवेद् अचरमा अहेव प्र-प्र जायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम् मिमिक्षुः
यत् प्रायासिष्ट पृषतीभिर् अश्वैर् वीळुपविभिर् मरुतो रथेभिः । क्षोदन्त आपो रिणते वनान्य् अवोस्रियो वृषभः क्रन्दतु द्यौः
प्रथिष्ट यामन् पृथिवी चिद् एषाम् भर्तेव गर्भꣳ स्वम् इच् छवो धुः । वातान् ह्य् अश्वान् धुर्य् आयुयुज्रे वर्षꣳ स्वेदꣳ चक्रिरे रुद्रियासः
हये नरो मरुतो मृळता नस् तुवीमघासो अमृता ऋतज्ञाः । सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहद् उक्षमाणाः
प्र वः स्पळ् अक्रन् सुविताय दावने ऽर्चा दिवे प्र पृथिव्या ऋतम् भरे । उक्षन्ते अश्वान् तरुषन्त आ रजो ऽनु स्वम् भानुꣳ श्रथयन्ते अर्णवैः
अमाद् एषाम् भियसा भूमिर् एजति नौर् न पूर्णा क्षरति व्यथिर् यती । दूरेदृशो ये चितयन्त एमभिर् अन्तर् महे विदथे येतिरे नरः
गवाम् इव श्रियसे शृङ्गम् उत्तमꣳ सूर्यो न चक्षू रजसो विसर्जने । अत्या इव सुभ्व१श् चारवः स्थन मर्या इव श्रियसे चेतथा नरः
को वो महान्ति महताम् उद् अश्नवत् कस् काव्या मरुतः को ह पौꣳस्या । यूयꣳ ह भूमिꣳ किरणꣳ न रेजथ प्र यद् भरध्वे सुविताय दावने
अश्वा इवेद् अरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः । मर्या इव सुवृधो वावृधुर् नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः
ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वावृधुः । सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन
वयो न ये श्रेणीः पप्तुर् ओजसान्तान् दिवो बृहतः सानुनस् परि । अश्वास एषाम् उभये यथा विदुः प्र पर्वतस्य नभनूꣳर् अचुच्यवुः
मिमातु द्यौर् अदितिर् वीतये नः सꣳ दानुचित्रा उषसो यतन्ताम् । आचुच्यवुर् दिव्यꣳ कोशम् एत ऋषे रुद्रस्य मरुतो गृणानाः
ईळे अग्निꣳ स्ववसꣳ नमोभिर् इह प्रसत्तो वि चयत् कृतꣳ नः । रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणिन् मरुताꣳ स्तोमम् ऋध्याम्
आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु । वना चिद् उग्रा जिहते नि वो भिया पृथिवी चिद् रेजते पर्वतश् चित्
पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । यत् क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे
वरा इवेद् रैवतासो हिरण्यैर् अभि स्वधाभिस् तन्वः पिपिश्रे । श्रिये श्रेयाꣳसस् तवसो रथेषु सत्रा महाꣳसि चक्रिरे तनूषु
अज्येष्ठासो अकनिष्ठास एते सम् भ्रातरो वावृधुः सौभगाय । युवा पिता स्वपा रुद्र एषाꣳ सुदुघा पृश्निः सुदिना मरुद्भ्यः
यद् उत्तमे मरुतो मध्यमे वा यद् वावमे सुभगासो दिवि ष्ठ । अतो नो रुद्रा उत वा न्व् अ१स्याग्ने वित्ताद् धविषो यद् यजाम
अग्निश् च यन् मरुतो विश्ववेदसो दिवो वहध्व उत्तराद् अधि ष्णुभिः । ते मन्दसाना धुनयो रिशादसो वामꣳ धत्त यजमानाय सुन्वते
अग्ने मरुद्भिः शुभयद्भिर् ऋक्वभिः सोमम् पिब मन्दसानो गणश्रिभिः । पावकेभिर् विश्वमिन्वेभिर् आयुभिर् वैश्वानर प्रदिवा केतुना सजूः
के ष्ठा नरः श्रेष्ठतमा य एक-एक आयय । परमस्याः परावतः
क्व१ वो ऽश्वाः क्वा३भीशवः कथꣳ शेक कथा यय । पृष्ठे सदो नसोर् यमः
जघने चोद एषाꣳ वि सक्थानि नरो यमुः । पुत्रकृथे न जनयः
परा वीरास एतन मर्यासो भद्रजानयः । अग्नितपो यथासथ
सनत् साश्व्यम् पशुम् उत गव्यꣳ शतावयम् । श्यावाश्वस्तुताय या दोर् वीरायोपबर्बृहत्
उत त्वा स्त्री शशीयसी पुꣳसो भवति वस्यसी । अदेवत्राद् अराधसः
वि या जानाति जसुरिꣳ वि तृष्यन्तꣳ वि कामिनम् । देवत्रा कृणुते मनः
उत घा नेमो अस्तुतः पुमाꣳ इति ब्रुवे पणिः । स वैरदेय इत् समः
उत मे ऽरपद् युवतिर् ममन्दुषी प्रति श्यावाय वर्तनिम् । वि रोहिता पुरुमीळ्हाय येमतुर् विप्राय दीर्घयशसे
यो मे धेनूनाꣳ शतꣳ वैददश्विर् यथा ददत् । तरन्त इव मꣳहना
य ईꣳ वहन्त आशुभिः पिबन्तो मदिरम् मधु । अत्र श्रवाꣳसि दधिरे
येषाꣳ श्रियाधि रोदसी विभ्राजन्ते रथेष्व् आ । दिवि रुक्म इवोपरि
युवा स मारुतो गणस् त्वेषरथो अनेद्यः । शुभꣳयावाप्रतिष्कुतः
को वेद नूनम् एषाꣳ यत्रा मदन्ति धूतयः । ऋतजाता अरेपसः
यूयम् मर्तꣳ विपन्यवः प्रणेतार इत्था धिया । श्रोतारो यामहूतिषु
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः । आ यज्ञियासो ववृत्तन
एतम् मे स्तोमम् ऊर्म्ये दार्भ्याय परा वह । गिरो देवि रथीर् इव
उत मे वोचताद् इति सुतसोमे रथवीतौ । न कामो अप वेति मे
एष क्षेति रथवीतिर् मघवा गोमतीर् अनु । पर्वतेष्व् अपश्रितः
ऋतेन ऋतम् अपिहितꣳ ध्रुवꣳ वाꣳ सूर्यस्य यत्र विमुचन्त्य् अश्वान् । दश शता सह तस्थुस् तद् एकꣳ देवानाꣳ श्रेष्ठꣳ वपुषाम् अपश्यम्
तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त
अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः । वर्धयतम् ओषधीः पिन्वतꣳ गा अव वृष्टिꣳ सृजतꣳ जीरदानू
आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् । घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति
अनु श्रुताम् अमतिꣳ वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा । नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्व् अन्तः
अक्रविहस्ता सुकृते परस्पा यꣳ त्रासाथे वरुणेळास्व् अन्तः । राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ
हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अ१श्वाजनीव । भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य
हिरण्यरूपम् उषसो व्युष्टाव् अयःस्थूणम् उदिता सूर्यस्य । आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिꣳ दितिꣳ च
यद् बꣳहिष्ठꣳ नातिविधे सुदानू अच्छिद्रꣳ शर्म भुवनस्य गोपा । तेन नो मित्रावरुणाव् अविष्टꣳ सिषासन्तो जिगीवाꣳसः स्याम
ऋतस्य गोपाव् अधि तिष्ठथो रथꣳ सत्यधर्माणा परमे व्योमनि । यम् अत्र मित्रावरुणावथो युवꣳ तस्मै वृष्टिर् मधुमत् पिन्वते दिवः
सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा । वृष्टिꣳ वाꣳ राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः
सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी । चित्रेभिर् अभ्रैर् उप तिष्ठथो रवꣳ द्याꣳ वर्षयथो असुरस्य मायया
माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् । तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते
रथꣳ युञ्जते मरुतः शुभे सुखꣳ शूरो न मित्रावरुणा गविष्टिषु । रजाꣳसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम्
वाचꣳ सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्राꣳ वदति त्विषीमतीम् । अभ्रा वसत मरुतः सु मायया द्याꣳ वर्षयतम् अरुणाम् अरेपसम्
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया । ऋतेन विश्वम् भुवनꣳ वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यꣳ रथम्
वरुणꣳ वो रिशादसम् ऋचा मित्रꣳ हवामहे । परि व्रजेव बाह्वोर् जगन्वाꣳसा स्वर्णरम्
ता बाहवा सुचेतुना प्र यन्तम् अस्मा अर्चते । शेवꣳ हि जार्यꣳ वाꣳ विश्वासु क्षासु जोगुवे
यन् नूनम् अश्याꣳ गतिम् मित्रस्य यायाम् पथा । अस्य प्रियस्य शर्मण्य् अहिꣳसानस्य सश्चिरे
युवाभ्याम् मित्रावरुणोपमꣳ धेयाम् ऋचा । यद् ध क्षये मघोनाꣳ स्तोतॄणाꣳ च स्पूर्धसे
आ नो मित्र सुदीतिभिर् वरुणश् च सधस्थ आ । स्वे क्षये मघोनाꣳ सखीनाꣳ च वृधसे
युवꣳ नो येषु वरुण क्षत्रम् बृहच् च बिभृथः । उरु णो वाजसातये कृतꣳ राये स्वस्तये
उच्छन्त्याम् मे यजता देवक्षत्रे रुशद्गवि । सुतꣳ सोमꣳ न हस्तिभिर् आ पड्भिर् धावतꣳ नरा बिभ्रताव् अर्चनानसम्
यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः । वरुणो यस्य दर्शतो मित्रो वा वनते गिरः
ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । ता सत्पती ऋतावृध ऋतावाना जने-जने
ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा । स्वश्वासः सु चेतुना वाजाꣳ अभि प्र दावने
मित्रो अꣳहोश् चिद् आद् उरु क्षयाय गातुꣳ वनते । मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः
वयम् मित्रस्यावसि स्याम सप्रथस्तमे । अनेहसस् त्वोतयः सत्रा वरुणशेषसः
युवम् मित्रेमꣳ जनꣳ यतथः सꣳ च नयथः । मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणाꣳ गोपीथे न उरुष्यतम्
आ चिकितान सुक्रतू देवौ मर्त रिशादसा । वरुणाय ऋतपेशसे दधीत प्रयसे महे
ता हि क्षत्रम् अविह्रुतꣳ सम्यग् असुर्य१म् आशाते । अध व्रतेव मानुषꣳ स्व१र् ण धायि दर्शतम्
ता वाम् एषे रथानाम् उर्वीꣳ गव्यूतिम् एषाम् । रातहव्यस्य सुष्टुतिꣳ दधृक् स्तोमैर् मनामहे
अधा हि काव्या युवꣳ दक्षस्य पूर्भिर् अद्भुता । नि केतुना जनानाꣳ चिकेथे पूतदक्षसा
तद् ऋतम् पृथिवि बृहच् छ्रवएष ऋषीणाम् । ज्रयसानाव् अरम् पृथ्व् अति क्षरन्ति यामभिः
आ यद् वाम् ईयचक्षसा मित्र वयꣳ च सूरयः । व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये
बळ् इत्था देव निष्कृतम् आदित्या यजतम् बृहत् । वरुण मित्रार्यमन् वर्षिष्ठꣳ क्षत्रम् आशाथे
आ यद् योनिꣳ हिरण्ययꣳ वरुण मित्र सदथः । धर्तारा चर्षणीनाꣳ यन्तꣳ सुम्नꣳ रिशादसा
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । व्रता पदेव सश्चिरे पान्ति मर्त्यꣳ रिषः
ते हि सत्या ऋतस्पृश ऋतावानो जने-जने । सुनीथासः सुदानवो ऽꣳहोश् चिद् उरुचक्रयः
को नु वाम् मित्रास्तुतो वरुणो वा तनूनाम् । तत् सु वाम् एषते मतिर् अत्रिभ्य एषते मतिः
प्र वो मित्राय गायत वरुणाय विपा गिरा । महिक्षत्राव् ऋतम् बृहत्
सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च । देवा देवेषु प्रशस्ता
ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य । महि वाꣳ क्षत्रꣳ देवेषु
ऋतम् ऋतेन सपन्तेषिरꣳ दक्षम् आशाते । अद्रुहा देवौ वर्धेते
वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः । बृहन्तꣳ गर्तम् आशाते
त्री रोचना वरुण त्रीꣳर् उत द्यून् त्रीणि मित्र धारयथो रजाꣳसि । वावृधानाव् अमतिꣳ क्षत्रियस्यानु व्रतꣳ रक्षमाणाव् अजुर्यम्
इरावतीर् वरुण धेनवो वाम् मधुमद् वाꣳ सिन्धवो मित्र दुह्रे । त्रयस् तस्थुर् वृषभासस् तिसृणाꣳ धिषणानाꣳ रेतोधा वि द्युमन्तः
प्रातर् देवीम् अदितिꣳ जोहवीमि मध्यꣳदिन उदिता सूर्यस्य । राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शꣳ योः
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । न वाꣳ देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि
पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनꣳ वाꣳ वरुण । मित्र वꣳसि वाꣳ सुमतिम्
ता वाꣳ सम्यग् अद्रुह्वाणेषम् अश्याम धायसे । वयꣳ ते रुद्रा स्याम
पातꣳ नो रुद्रा पायुभिर् उत त्रायेथाꣳ सुत्रात्रा । तुर्याम दस्यून् तनूभिः
मा कस्याद्भुतक्रतू यक्षम् भुजेमा तनूभिः । मा शेषसा मा तनसा
आ नो गन्तꣳ रिशादसा वरुण मित्र बर्हणा । उपेमꣳ चारुम् अध्वरम्
विश्वस्य हि प्रचेतसा वरुण मित्र राजथः । ईशाना पिप्यतꣳ धियः
उप नः सुतम् आ गतꣳ वरुण मित्र दाशुषः । अस्य सोमस्य पीतये
आ मित्रे वरुणे वयꣳ गीर्भिर् जुहुमो अत्रिवत् । नि बर्हिषि सदतꣳ सोमपीतये
व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना । नि बर्हिषि सदतꣳ सोमपीतये
मित्रश् च नो वरुणश् च जुषेताꣳ यज्ञम् इष्टये । नि बर्हिषि सदताꣳ सोमपीतये
यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना । यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम्
इह त्या पुरुभूतमा पुरू दꣳसाꣳसि बिभ्रता । वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे
ईर्मान्यद् वपुषे वपुश् चक्रꣳ रथस्य येमथुः । पर्य् अन्या नाहुषा युगा मह्ना रजाꣳसि दीयथः
तद् ऊ षु वाम् एना कृतꣳ विश्वा यद् वाम् अनु ष्टवे । नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः
आ यद् वाꣳ सूर्या रथꣳ तिष्ठद् रघुष्यदꣳ सदा । परि वाम् अरुषा वयो घृणा वरन्त आतपः
युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा । घर्मꣳ यद् वाम् अरेपसꣳ नासत्यास्ना भुरण्यति
उग्रो वाꣳ ककुहो ययिः शृण्वे यामेषु सꣳतनिः । यद् वाꣳ दꣳसोभिर् अश्विनात्रिर् नराववर्तति
मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम्
सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा । ता यामन् यामहूतमा यामन्न् आ मृळयत्तमा
इमा ब्रह्माणि वर्धनाश्विभ्याꣳ सन्तु शꣳतमा । या तक्षाम रथाꣳ इवावोचाम बृहन् नमः
कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू । तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति
कुह त्या कुह नु श्रुता दिवि देवा नासत्या । कस्मिन्न् आ यतथो जने को वाꣳ नदीनाꣳ सचा
कꣳ याथः कꣳ ह गच्छथः कम् अच्छा युञ्जाथे रथम् । कस्य ब्रह्माणि रण्यथो वयꣳ वाम् उश्मसीष्टये
पौरꣳ चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः । यद् ईꣳ गृभीततातये सिꣳहम् इव द्रुहस् पदे
प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कꣳ न मुञ्चथः । युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः
अस्ति हि वाम् इह स्तोता स्मसि वाꣳ सꣳदृशि श्रिये । नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू
को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् । को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू
आ वाꣳ रथो रथानाꣳ येष्ठो यात्व् अश्विना । पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ
शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः । अर्वाचीना विचेतसा विभिः श्येनेव दीयतम्
अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमꣳ हवम् । वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः
प्रति प्रियतमꣳ रथꣳ वृषणꣳ वसुवाहनम् । स्तोता वाम् अश्विनाव् ऋषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतꣳ हवम्
अत्यायातम् अश्विना तिरो विश्वा अहꣳ सना । दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतꣳ हवम्
आ नो रत्नानि बिभ्रताव् अश्विना गच्छतꣳ युवम् । रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतꣳ हवम्
सुष्टुभो वाꣳ वृषण्वसू रथे वाणीच्य् आहिता । उत वाꣳ ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतꣳ हवम्
बोधिन्मनसा रथ्येषिरा हवनश्रुता । विभिश् च्यवानम् अश्विना नि याथो अद्वयाविनम् माध्वी मम श्रुतꣳ हवम्
आ वाꣳ नरा मनोयुजो ऽश्वासः प्रुषितप्सवः । वयो वहन्तु पीतये सह सुम्नेभिर् अश्विना माध्वी मम श्रुतꣳ हवम्
अश्विनाव् एह गच्छतꣳ नासत्या मा वि वेनतम् । तिरश् चिद् अर्यया परि वर्तिर् यातम् अदाभ्या माध्वी मम श्रुतꣳ हवम्
अस्मिन् यज्ञे अदाभ्या जरितारꣳ शुभस् पती । अवस्युम् अश्विना युवꣳ गृणन्तम् उप भूषथो माध्वी मम श्रुतꣳ हवम्
अभूद् उषा रुशत्पशुर् आग्निर् अधाय्य् ऋत्वियः । अयोजि वाꣳ वृषण्वसू रथो दस्राव् अमर्त्यो माध्वी मम श्रुतꣳ हवम्
आ भात्य् अग्निर् उषसाम् अनीकम् उद् विप्राणाꣳ देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातम् पीपिवाꣳसम् अश्विना घर्मम् अच्छ
न सꣳस्कृतम् प्र मिमीतो गमिष्ठान्ति नूनम् अश्विनोपस्तुतेह । दिवाभिपित्वे ऽवसागमिष्ठा प्रत्य् अवर्तिꣳ दाशुषे शम्भविष्ठा
उता यातꣳ सꣳगवे प्रातर् अह्नो मध्यꣳदिन उदिता सूर्यस्य । दिवा नक्तम् अवसा शꣳतमेन नेदानीम् पीतिर् अश्विना ततान
इदꣳ हि वाम् प्रदिवि स्थानम् ओक इमे गृहा अश्विनेदꣳ दुरोणम् । आ नो दिवो बृहतः पर्वताद् आद्भ्यो यातम् इषम् ऊर्जꣳ वहन्ता
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिꣳ वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
प्रातर्यावाणा प्रथमा यजध्वम् पुरा गृध्राद् अररुषः पिबातः । प्रातर् हि यज्ञम् अश्विना दधाते प्र शꣳसन्ति कवयः पूर्वभाजः
प्रातर् यजध्वम् अश्विना हिनोत न सायम् अस्ति देवया अजुष्टम् । उतान्यो अस्मद् यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान्
हिरण्यत्वङ् मधुवर्णो घृतस्नुः पृक्षो वहन्न् आ रथो वर्तते वाम् । मनोजवा अश्विना वातरꣳहा येनातियाथो दुरितानि विश्वा
यो भूयिष्ठꣳ नासत्याभ्याꣳ विवेष चनिष्ठम् पित्वो ररते विभागे । स तोकम् अस्य पीपरच् छमीभिर् अनूर्ध्वभासः सदम् इत् तुतुर्यात्
सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम । आ नो रयिꣳ वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि
अश्विनाव् एह गच्छतꣳ नासत्या मा वि वेनतम् । हꣳसाव् इव पततम् आ सुताꣳ उप
अश्विना हरिणाव् इव गौराव् इवानु यवसम् । हꣳसाव् इव पततम् आ सुताꣳ उप
अश्विना वाजिनीवसू जुषेथाꣳ यज्ञम् इष्टये । हꣳसाव् इव पततम् आ सुताꣳ उप
अत्रिर् यद् वाम् अवरोहन्न् ऋबीसम् अजोहवीन् नाधमानेव योषा । श्येनस्य चिज् जवसा नूतनेनागच्छतम् अश्विना शꣳतमेन
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव । श्रुतम् मे अश्विना हवꣳ सप्तवध्रिꣳ च मुञ्चतम्
भीताय नाधमानाय ऋषये सप्तवध्रये । मायाभिर् अश्विना युवꣳ वृक्षꣳ सꣳ च वि चाचथः
यथा वातः पुष्करिणीꣳ समिङ्गयति सर्वतः । एवा ते गर्भ एजतु निरैतु दशमास्यः
यथा वातो यथा वनꣳ यथा समुद्र एजति । एवा त्वꣳ दशमास्य सहावेहि जरायुणा
दश मासाञ् छशयानः कुमारो अधि मातरि । निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः । सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः । यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते
अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः । मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते
यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये । परि चिद् वष्टयो दधुर् ददतो राधो अह्रयꣳ सुजाते अश्वसूनृते
ऐषु धा वीरवद् यश उषो मघोनि सूरिषु । ये नो राधाꣳस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते
तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह । ये नो राधाꣳस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते
उत नो गोमतीर् इष आ वहा दुहितर् दिवः । साकꣳ सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते
व्य् उच्छा दुहितर् दिवो मा चिरꣳ तनुथा अपः । नेत् त्वा स्तेनꣳ यथा रिपुꣳ तपाति सूरो अर्चिषा सुजाते अश्वसूनृते
एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि । या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते
द्युतद्यामानम् बृहतीम् ऋतेन ऋतावरीम् अरुणप्सुꣳ विभातीम् । देवीम् उषसꣳ स्वर् आवहन्तीम् प्रति विप्रासो मतिभिर् जरन्ते
एषा जनꣳ दर्शता बोधयन्ती सुगान् पथः कृण्वती यात्य् अग्रे । बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर् यच्छत्य् अग्रे अह्नाम्
एषा गोभिर् अरुणेभिर् युजानास्रेधन्ती रयिम् अप्रायु चक्रे । पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वम् पुरस्तात् । ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । अप द्वेषो बाधमाना तमाꣳस्य् उषा दिवो दुहिता ज्योतिषागात्
एषा प्रतीची दुहिता दिवो नॄन् योषेव भद्रा नि रिणीते अप्सः । व्यूर्ण्वती दाशुषे वार्याणि पुनर् ज्योतिर् युवतिः पूर्वथाकः
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रꣳ द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति
यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् ओजसा । यः पार्थिवानि विममे स एतशो रजाꣳसि देवः सविता महित्वना
उत यासि सवितस् त्रीणि रोचनोत सूर्यस्य रश्मिभिः सम् उच्यसि । उत रात्रीम् उभयतः परीयस उत मित्रो भवसि देव धर्मभिः
उतेशिषे प्रसवस्य त्वम् एक इद् उत पूषा भवसि देव यामभिः । उतेदꣳ विश्वम् भुवनꣳ वि राजसि श्यावाश्वस् ते सवितः स्तोमम् आनशे
तत् सवितुर् वृणीमहे वयꣳ देवस्य भोजनम् । श्रेष्ठꣳ सर्वधातमꣳ तुरम् भगस्य धीमहि
अस्य हि स्वयशस्तरꣳ सवितुः कच् चन प्रियम् । न मिनन्ति स्वराज्यम्
स हि रत्नानि दाशुषे सुवाति सविता भगः । तम् भागꣳ चित्रम् ईमहे
अद्या नो देव सवितः प्रजावत् सावीः सौभगम् । परा दुष्ष्वप्न्यꣳ सुव
विश्वानि देव सवितर् दुरितानि परा सुव । यद् भद्रꣳ तन् न आ सुव
अनागसो अदितये देवस्य सवितुः सवे । विश्वा वामानि धीमहि
आ विश्वदेवꣳ सत्पतिꣳ सूक्तैर् अद्या वृणीमहे । सत्यसवꣳ सवितारम्
य इमे उभे अहनी पुर एत्य् अप्रयुच्छन् । स्वाधीर् देवः सविता
य इमा विश्वा जातान्य् आश्रावयति श्लोकेन । प्र च सुवाति सविता
अच्छा वद तवसꣳ गीर्भिर् आभिः स्तुहि पर्जन्यꣳ नमसा विवास । कनिक्रदद् वृषभो जीरदानू रेतो दधात्य् ओषधीषु गर्भम्
वि वृक्षान् हन्त्य् उत हन्ति रक्षसो विश्वम् बिभाय भुवनम् महावधात् । उतानागा ईषते वृष्ण्यावतो यत् पर्जन्यः स्तनयन् हन्ति दुष्कृतः
रथीव कशयाश्वाꣳ अभिक्षिपन्न् आविर् दूतान् कृणुते वर्ष्या३ꣳ अह । दूरात् सिꣳहस्य स्तनथा उद् ईरते यत् पर्जन्यः कृणुते वर्ष्य१ꣳ नभः
प्र वाता वान्ति पतयन्ति विद्युत उद् ओषधीर् जिहते पिन्वते स्वः । इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीꣳ रेतसावति
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज् जर्भुरीति । यस्य व्रत ओषधीर् विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ
दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः
अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । दृतिꣳ सु कर्ष विषितꣳ न्यञ्चꣳ समा भवन्तूद्वतो निपादाः
महान्तꣳ कोशम् उद् अचा नि षिञ्च स्यन्दन्ताꣳ कुल्या विषिताः पुरस्तात् । घृतेन द्यावापृथिवी व्य् उन्धि सुप्रपाणम् भवत्व् अघ्न्याभ्यः
यत् पर्जन्य कनिक्रदत् स्तनयन् हꣳसि दुष्कृतः । प्रतीदꣳ विश्वम् मोदते यत् किꣳ च पृथिव्याम् अधि
अवर्षीर् वर्षम् उद् उ षू गृभायाकर् धन्वान्य् अत्येतवा उ । अजीजन ओषधीर् भोजनाय कम् उत प्रजाभ्यो ऽविदो मनीषाम्
बळ् इत्था पर्वतानाꣳ खिद्रम् बिभर्षि पृथिवि । प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि
स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । प्र या वाजꣳ न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि
दृळ्हा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा । यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः
प्र सम्राजे बृहद् अर्चा गभीरम् ब्रह्म प्रियꣳ वरुणाय श्रुताय । वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीꣳ सूर्याय
वनेषु व्य् अ१न्तरिक्षꣳ ततान वाजम् अर्वत्सु पय उस्रियासु । हृत्सु क्रतुꣳ वरुणो अप्स्व् अ१ग्निꣳ दिवि सूर्यम् अदधात् सोमम् अद्रौ
नीचीनबारꣳ वरुणः कवन्धम् प्र ससर्ज रोदसी अन्तरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवꣳ न वृष्टिर् व्य् उनत्ति भूम
उनत्ति भूमिम् पृथिवीम् उत द्याꣳ यदा दुग्धꣳ वरुणो वष्ट्य् आद् इत् । सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः
इमाम् ऊ ष्व् आसुरस्य श्रुतस्य महीम् मायाꣳ वरुणस्य प्र वोचम् । मानेनेव तस्थिवाꣳ अन्तरिक्षे वि यो ममे पृथिवीꣳ सूर्येण
इमाम् ऊ नु कवितमस्य मायाम् महीꣳ देवस्य नकिर् आ दधर्ष । एकꣳ यद् उद्ना न पृणन्त्य् एनीर् आसिञ्चन्तीर् अवनयः समुद्रम्
अर्यम्यꣳ वरुण मित्र्यꣳ वा सखायꣳ वा सदम् इद् भ्रातरꣳ वा । वेशꣳ वा नित्यꣳ वरुणारणꣳ वा यत् सीम् आगश् चकृमा शिश्रथस् तत्
कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः
इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् । दृळ्हा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः
या पृतनासु दुष्टरा या वाजेषु श्रवाय्या । या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे
तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः । प्रति द्रुणा गभस्त्योर् गवाꣳ वृत्रघ्न एषते
ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे । पती तुरस्य राधसो विद्वाꣳसा गिर्वणस्तमा
ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा । अर्हन्ता चित् पुरो दधे ऽꣳशेव देवाव् अर्वते
एवेन्द्राग्निभ्याम् अहावि हव्यꣳ शूष्यꣳ घृतꣳ न पूतम् अद्रिभिः । ता सूरिषु श्रवो बृहद् रयिꣳ गृणत्सु दिधृतम् इषꣳ गृणत्सु दिधृतम्
प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे
प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् । क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः
प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् । न येषाम् इरी सधस्थ ईष्ट आꣳ अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम्
स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् । यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः
स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् । येना सहन्त ऋञ्जत स्वरोचिषः स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः
अपारो वो महिमा वृद्धशवसस् त्वेषꣳ शवो ऽवत्व् एवयामरुत् । स्थातारो हि प्रसितौ सꣳदृशि स्थन ते न उरुष्यता निदः शुशुक्वाꣳसो नाग्नयः
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् । दीर्घम् पृथु पप्रथे सद्म पार्थिवꣳ येषाम् अज्मेष्व् आ महः शर्धाꣳस्य् अद्भुतैनसाम्
अद्वेषो नो मरुतो गातुम् एतन श्रोता हवꣳ जरितुर् एवयामरुत् । विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो३ न दꣳसनाप द्वेषाꣳसि सनुतः
गन्ता नो यज्ञꣳ यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् । ज्येष्ठासो न पर्वतासो व्योमनि यूयꣳ तस्य प्रचेतसः स्यात दुर्धर्तवो निदः
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 5. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-5
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 5." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-5.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 5." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-5.