Ṛgveda Saṃhitā — Maṇḍala 8
Tradição Védica (Ṛṣis)
मण्डल ८ मा चिद् अन्यद् वि शꣳसत सखायो मा रिषण्यत । इन्द्रम् इत् स्तोता वृषणꣳ सचा सुते मुहुर् उक्था च शꣳसत
अवक्रक्षिणꣳ वृषभꣳ यथाजुरꣳ गाꣳ न चर्षणीसहम् । विद्वेषणꣳ सꣳवननोभयꣳकरम् मꣳहिष्ठम् उभयाविनम्
यच् चिद् धि त्वा जना इमे नाना हवन्त ऊतये । अस्माकम् ब्रह्मेदम् इन्द्र भूतु ते ऽहा विश्वा च वर्धनम्
वि तर्तूर्यन्ते मघवन् विपश्चितो ऽर्यो विपो जनानाम् । उप क्रमस्व पुरुरूपम् आ भर वाजꣳ नेदिष्ठम् ऊतये
महे चन त्वाम् अद्रिवः परा शुल्काय देयाम् । न सहस्राय नायुताय वज्रिवो न शताय शतामघ
वस्याꣳ इन्द्रासि मे पितुर् उत भ्रातुर् अभुञ्जतः । माता च मे छदयथः समा वसो वसुत्वनाय राधसे
क्वेयथ क्वेद् असि पुरुत्रा चिद् धि ते मनः । अलर्षि युध्म खजकृत् पुरꣳदर प्र गायत्रा अगासिषुः
प्रास्मै गायत्रम् अर्चत वावातुर् यः पुरꣳदरः । याभिः काण्वस्योप बर्हिर् आसदꣳ यासद् वज्री भिनत् पुरः
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः । अश्वासो ये ते वृषणो रघुद्रुवस् तेभिर् नस् तूयम् आ गहि
आ त्व् अ१द्य सबर्दुघाꣳ हुवे गायत्रवेपसम् । इन्द्रꣳ धेनुꣳ सुदुघाम् अन्याम् इषम् उरुधाराम् अरꣳकृतम्
यत् तुदत् सूर एतशꣳ वङ्कू वातस्य पर्णिना । वहत् कुत्सम् आर्जुनेयꣳ शतक्रतुः त्सरद् गन्धर्वम् अस्तृतम्
य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । सꣳधाता सꣳधिम् मघवा पुरूवसुर् इष्कर्ता विह्रुतम् पुनः
मा भूम निष्ट्या इवेन्द्र त्वद् अरणा इव । वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि
अमन्महीद् अनाशवो ऽनुग्रासश् च वृत्रहन् । सकृत् सु ते महता शूर राधसा अनु स्तोमम् मुदीमहि
यदि स्तोमम् मम श्रवद् अस्माकम् इन्द्रम् इन्दवः । तिरः पवित्रꣳ ससृवाꣳस आशवो मन्दन्तु तुग्र्यावृधः
आ त्व् अ१द्य सधस्तुतिꣳ वावातुः सख्युर् आ गहि । उपस्तुतिर् मघोनाम् प्र त्वावत्व् अधा ते वश्मि सुष्टुतिम्
सोता हि सोमम् अद्रिभिर् एम् एनम् अप्सु धावत । गव्या वस्त्रेव वासयन्त इन् नरो निर् धुक्षन् वक्षणाभ्यः
अध ज्मो अध वा दिवो बृहतो रोचनाद् अधि । अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण
इन्द्राय सु मदिन्तमꣳ सोमꣳ सोता वरेण्यम् । शक्र एणम् पीपयद् विश्वया धिया हिन्वानꣳ न वाजयुम्
मा त्वा सोमस्य गल्दया सदा याचन्न् अहꣳ गिरा । भूर्णिम् मृगꣳ न सवनेषु चुक्रुधꣳ क ईशानꣳ न याचिषत्
मदेनेषितम् मदम् उग्रम् उग्रेण शवसा । विश्वेषाꣳ तरुतारम् मदच्युतम् मदे हि ष्मा ददाति नः
शेवारे वार्या पुरु देवो मर्ताय दाशुषे । स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः
एन्द्र याहि मत्स्व चित्रेण देव राधसा । सरो न प्रास्य् उदरꣳ सपीतिभिर् आ सोमेभिर् उरु स्फिरम्
आ त्वा सहस्रम् आ शतꣳ युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये
आ त्वा रथे हिरण्यये हरी मयूरशेप्या । शितिपृष्ठा वहताम् मध्वो अन्धसो विवक्षणस्य पीतये
पिबा त्व् अ१स्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयम् आसुतिश् चारुर् मदाय पत्यते
य एको अस्ति दꣳसना महाꣳ उग्रो अभि व्रतैः । गमत् स शिप्री न स योषद् आ गमद् धवꣳ न परि वर्जति
त्वम् पुरꣳ चरिष्ण्वꣳ वधैः शुष्णस्य सम् पिणक् । त्वम् भा अनु चरो अध द्विता यद् इन्द्र हव्यो भुवः
मम त्वा सूर उदिते मम मध्यꣳदिने दिवः । मम प्रपित्वे अपिशर्वरे वसव् आ स्तोमासो अवृत्सत
स्तुहि स्तुहीद् एते घा ते मꣳहिष्ठासो मघोनाम् । निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे
आ यद् अश्वान् वनन्वतः श्रद्धयाहꣳ रथे रुहम् । उत वामस्य वसुनश् चिकेतति यो अस्ति याद्वः पशुः
य ऋज्रा मह्यम् मामहे सह त्वचा हिरण्यया । एष विश्वान्य् अभ्य् अस्तु सौभगासङ्गस्य स्वनद्रथः
अध प्लायोगिर् अति दासद् अन्यान् आसङ्गो अग्ने दशभिः सहस्रैः । अधोक्षणो दश मह्यꣳ रुशन्तो नळा इव सरसो निर् अतिष्ठन्
अन्व् अस्य स्थूरꣳ ददृशे पुरस्ताद् अनस्थ ऊरुर् अवरम्बमाणः । शश्वती नार्य् अभिचक्ष्याह सुभद्रम् अर्य भोजनम् बिभर्षि
इदꣳ वसो सुतम् अन्धः पिबा सुपूर्णम् उदरम् । अनाभयिन् ररिमा ते
नृभिर् धूतः सुतो अश्नैर् अव्यो वारैः परिपूतः । अश्वो न निक्तो नदीषु
तꣳ ते यवꣳ यथा गोभिः स्वादुम् अकर्म श्रीणन्तः । इन्द्र त्वास्मिन् सधमादे
इन्द्र इत् सोमपा एक इन्द्रः सुतपा विश्वायुः । अन्तर् देवान् मर्त्याꣳश् च
न यꣳ शुक्रो न दुराशीर् न तृप्रा उरुव्यचसम् । अपस्पृण्वते सुहार्दम्
गोभिर् यद् ईम् अन्ये अस्मन् मृगꣳ न व्रा मृगयन्ते । अभित्सरन्ति धेनुभिः
त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य । स्वे क्षये सुतपाव्नः
त्रयः कोशासः श्चोतन्ति तिस्रश् चम्व१ः सुपूर्णाः । समाने अधि भार्मन्
शुचिर् असि पुरुनिःष्ठाः क्षीरैर् मध्यत आशीर्तः । दध्ना मन्दिष्ठः शूरस्य
इमे त इन्द्र सोमास् तीव्रा अस्मे सुतासः । शुक्रा आशिरꣳ याचन्ते
ताꣳ आशिरम् पुरोळाशम् इन्द्रेमꣳ सोमꣳ श्रीणीहि । रेवन्तꣳ हि त्वा शृणोमि
हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् । ऊधर् न नग्ना जरन्ते
रेवाꣳ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेद् उ हरिवः श्रुतस्य
उक्थꣳ चन शस्यमानम् अगोर् अरिर् आ चिकेत । न गायत्रꣳ गीयमानम्
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः । शिक्षा शचीवः शचीभिः
वयम् उ त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर् जरन्ते
न घेम् अन्यद् आ पपन वज्रिन्न् अपसो नविष्टौ । तवेद् उ स्तोमꣳ चिकेत
इच्छन्ति देवाः सुन्वन्तꣳ न स्वप्नाय स्पृहयन्ति । यन्ति प्रमादम् अतन्द्राः
ओ षु प्र याहि वाजेभिर् मा हृणीथा अभ्य् अ१स्मान् । महाꣳ इव युवजानिः
मो ष्व् अ१द्य दुर्हणावान् सायꣳ करद् आरे अस्मत् । अश्रीर इव जामाता
विद्मा ह्य् अस्य वीरस्य भूरिदावरीꣳ सुमतिम् । त्रिषु जातस्य मनाꣳसि
आ तू षिञ्च कण्वमन्तꣳ न घा विद्म शवसानात् । यशस्तरꣳ शतमूतेः
ज्येष्ठेन सोतर् इन्द्राय सोमꣳ वीराय शक्राय । भरा पिबन् नर्याय
यो वेदिष्ठो अव्यथिष्व् अश्वावन्तꣳ जरितृभ्यः । वाजꣳ स्तोतृभ्यो गोमन्तम्
पन्यम्-पन्यम् इत् सोतार आ धावत मद्याय । सोमꣳ वीराय शूराय
पाता वृत्रहा सुतम् आ घा गमन् नारे अस्मत् । नि यमते शतमूतिः
एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । गीर्भिः श्रुतꣳ गिर्वणसम्
स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि । शिप्रिन्न् ऋषीवः शचीवो नायम् अच्छा सधमादम्
स्तुतश् च यास् त्वा वर्धन्ति महे राधसे नृम्णाय । इन्द्र कारिणꣳ वृधन्तः
गिरश् च यास् ते गिर्वाह उक्था च तुभ्यꣳ तानि । सत्रा दधिरे शवाꣳसि
एवेद् एष तुविकूर्मिर् वाजाꣳ एको वज्रहस्तः । सनाद् अमृक्तो दयते
हन्ता वृत्रꣳ दक्षिणेनेन्द्रः पुरू पुरुहूतः । महान् महीभिः शचीभिः
यस्मिन् विश्वाश् चर्षणय उत च्यौत्ना ज्रयाꣳसि च । अनु घेन् मन्दी मघोनः
एष एतानि चकारेन्द्रो विश्वा यो ऽति शृण्वे । वाजदावा मघोनाम्
प्रभर्ता रथꣳ गव्यन्तम् अपाकाच् चिद् यम् अवति । इनो वसु स हि वोळ्हा
सनिता विप्रो अर्वद्भिर् हन्ता वृत्रꣳ नृभिः शूरः । सत्यो ऽविता विधन्तम्
यजध्वैनम् प्रियमेधा इन्द्रꣳ सत्राचा मनसा । यो भूत् सोमैः सत्यमद्वा
गाथश्रवसꣳ सत्पतिꣳ श्रवस्कामम् पुरुत्मानम् । कण्वासो गात वाजिनम्
य ऋते चिद् गास् पदेभ्यो दात् सखा नृभ्यः शचीवान् । ये अस्मिन् कामम् अश्रियन्
इत्था धीवन्तम् अद्रिवः काण्वम् मेध्यातिथिम् । मेषो भूतो३ ऽभि यन्न् अयः
शिक्षा विभिन्दो अस्मै चत्वार्य् अयुता ददत् । अष्टा परः सहस्रा
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । जनित्वनाय मामहे
पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर् नो बोधि सधमाद्यो वृधे३ ऽस्माꣳ अवन्तु ते धियः
भूयाम ते सुमतौ वाजिनो वयम् मा नः स्तर् अभिमातये । अस्माञ् चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत
अयꣳ सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये
इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रꣳ धनस्य सातये
इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् । इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः । समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम्
अस्येद् इन्द्रो वावृधे वृष्ण्यꣳ शवो मदे सुतस्य विष्णवि । अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा
तत् त्वा यामि सुवीर्यꣳ तद् ब्रह्म पूर्वचित्तये । येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ
येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः । सद्यः सो अस्य महिमा न सꣳनशे यꣳ क्षोणीर् अनुचक्रदे
शग्धी न इन्द्र यत् त्वा रयिꣳ यामि सुवीर्यम् । शग्धि वाजाय प्रथमꣳ सिषासते शग्धि स्तोमाय पूर्व्य
शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः । शग्धि यथा रुशमꣳ श्यावकꣳ कृपम् इन्द्र प्रावः स्वर्णरम्
कन् नव्यो अतसीनाꣳ तुरो गृणीत मर्त्यः । नही न्व् अस्य महिमानम् इन्द्रियꣳ स्वर् गृणन्त आनशुः
कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते । कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः
उद् उ त्ये मधुमत्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव
कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः । इन्द्रꣳ स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन्
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः । अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि
इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये । स त्वꣳ नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम्
निर् इन्द्र बृहतीभ्यो वृत्रꣳ धनुभ्यो अस्फुरः । निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः
निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः । निर् अन्तरिक्षाद् अधमो महाम् अहिꣳ कृषे तद् इन्द्र पौꣳस्यम्
यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः । विश्वेषाꣳ त्मना शोभिष्ठम् उपेव दिवि धावमानम्
रोहितम् मे पाकस्थामा सुधुरꣳ कक्ष्यप्राम् । अदाद् रायो विबोधनम्
यस्मा अन्ये दश प्रति धुरꣳ वहन्ति वह्नयः । अस्तꣳ वयो न तुग्र्यम्
आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् । तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजꣳ दातारम् अब्रवम्
यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे
यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस् त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि
यथा गौरो अपा कृतꣳ तृष्यन्न् एत्य् अवेरिणम् । आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब
मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोमम् अपिबश् चमू सुतꣳ ज्येष्ठꣳ तद् दधिषे सहः
प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा । विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे
सहस्रेणेव सचते यवीयुधा यस् त आनळ् उपस्तुतिम् । पुत्रम् प्रावर्गꣳ कृणुते सुवीर्ये दाश्नोति नमüक्तिभिः
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । महत् ते वृष्णो अभिचक्ष्यꣳ कृतम् पश्येम तुर्वशꣳ यदुम्
सव्याम् अनु स्फिग्यꣳ वावसे वृषा न दानो अस्य रोषति । मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब
अश्वी रथी सुरूप इद् गोमाꣳ इद् इन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप
ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमꣳ वशाꣳ अनु । निमेघमानो मघवन् दिवे-दिव ओजिष्ठꣳ दधिषे सहः
अध्वर्यो द्रावया त्वꣳ सोमम् इन्द्रः पिपासति । उप नूनꣳ युयुजे वृषणा हरी आ च जगाम वृत्रहा
स्वयꣳ चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि । इदꣳ ते अन्नꣳ युज्यꣳ समुक्षितꣳ तस्येहि प्र द्रवा पिब
रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन । अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम्
उप ब्रध्नꣳ वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः । अर्वाञ्चꣳ त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप
प्र पूषणꣳ वृणीमहे युज्याय पुरूवसुम् । स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन
सꣳ नः शिशीहि भुरिजोर् इव क्षुरꣳ रास्व रायो विमोचन । त्वे तन् नः सुवेदम् उस्रियꣳ वसु यꣳ त्वꣳ हिनोषि मर्त्यम्
वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे । न तस्य वेम्य् अरणꣳ हि तद् वसो स्तुषे पज्राय साम्ने
परा गावो यवसꣳ कच् चिद् आघृणे नित्यꣳ रेक्णो अमर्त्य । अस्माकम् पूषन्न् अविता शिवो भव मꣳहिष्ठो वाजसातये
स्थूरꣳ राधः शताश्वꣳ कुरुङ्गस्य दिविष्टिषु । राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि
धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः । षष्टिꣳ सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः
वृक्षाश् चिन् मे अभिपित्वे अरारणुः । गाम् भजन्त मेहनाश्वम् भजन्त मेहना
दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् । वि भानुꣳ विश्वधातनत्
नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा । सचेथे अश्विनोषसम्
युवाभ्याꣳ वाजिनीवसू प्रति स्तोमा अदृक्षत । वाचꣳ दूतो यथोहिषे
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू । स्तुषे कण्वासो अश्विना
मꣳहिष्ठा वाजसातमेषयन्ता शुभस् पती । गन्तारा दाशुषो गृहम्
ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् । घृतैर् गव्यूतिम् उक्षतम्
आ नः स्तोमम् उप द्रवत् तूयꣳ श्येनेभिर् आशुभिः । यातम् अश्वेभिर् अश्विना
येभिस् तिस्रः परावतो दिवो विश्वानि रोचना । त्रीꣳर् अक्तून् परिदीयथः
उत नो गोमतीर् इष उत सातीर् अहर्विदा । वि पथः सातये सितम्
आ नो गोमन्तम् अश्विना सुवीरꣳ सुरथꣳ रयिम् । वोळ्हम् अश्वावतीर् इषः
वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी । पिबतꣳ सोम्यम् मधु
अस्मभ्यꣳ वाजिनीवसू मघवद्भ्यश् च सप्रथः । छर्दिर् यन्तम् अदाभ्यम्
नि षु ब्रह्म जनानाꣳ याविष्टꣳ तूयम् आ गतम् । मो ष्व् अ१न्याꣳ उपारतम्
अस्य पिबतम् अश्विना युवम् मदस्य चारुणः । मध्वो रातस्य धिष्ण्या
अस्मे आ वहतꣳ रयिꣳ शतवन्तꣳ सहस्रिणम् । पुरुक्षुꣳ विश्वधायसम्
पुरुत्रा चिद् धि वाꣳ नरा विह्वयन्ते मनीषिणः । वाघद्भिर् अश्विना गतम्
जनासो वृक्तबर्हिषो हविष्मन्तो अरꣳकृतः । युवाꣳ हवन्ते अश्विना
अस्माकम् अद्य वाम् अयꣳ स्तोमो वाहिष्ठो अन्तमः । युवाभ्याम् भूत्व् अश्विना
यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे । ततः पिबतम् अश्विना
तेन नो वाजिनीवसू पश्वे तोकाय शꣳ गवे । वहतम् पीवरीर् इषः
उत नो दिव्या इष उत सिन्धूꣳर् अहर्विदा । अप द्वारेव वर्षथः
कदा वाꣳ तौग्र्यो विधत् समुद्रे जहितो नरा । यद् वाꣳ रथो विभिष् पतात्
युवꣳ कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये । शश्वद् ऊतीर् दशस्यथः
ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः । यद् वाꣳ वृषण्वसू हुवे
यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् । अत्रिꣳ शिञ्जारम् अश्विना
यथोत कृत्व्ये धने ऽꣳशुꣳ गोष्व् अगस्त्यम् । यथा वाजेषु सोभरिम्
एतावद् वाꣳ वृषण्वसू अतो वा भूयो अश्विना । गृणन्तः सुम्नम् ईमहे
रथꣳ हिरण्यवन्धुरꣳ हिरण्याभीशुम् अश्विना । आ हि स्थाथो दिविस्पृशम्
हिरण्ययी वाꣳ रभिर् ईषा अक्षो हिरण्ययः । उभा चक्रा हिरण्यया
तेन नो वाजिनीवसू परावतश् चिद् आ गतम् । उपेमाꣳ सुष्टुतिम् मम
आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना । इषो दासीर् अमर्त्या
आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना । पुरुश्चन्द्रा नासत्या
एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः । अच्छा स्वध्वरꣳ जनम्
रथꣳ वाम् अनुगायसꣳ य इषा वर्तते सह । न चक्रम् अभि बाधते
हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः । धीजवना नासत्या
युवम् मृगꣳ जागृवाꣳसꣳ स्वदथो वा वृषण्वसू । ता नः पृङ्क्तम् इषा रयिम्
ता मे अश्विना सनीनाꣳ विद्यातꣳ नवानाम् । यथा चिच् चैद्यः कशुः शतम् उष्ट्रानाꣳ ददत् सहस्रा दश गोनाम्
यो मे हिरण्यसꣳदृशो दश राज्ञो अमꣳहत । अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः
माकिर् एना पथा गाद् येनेमे यन्ति चेदयः । अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः
महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर् वत्सस्य वावृधे
प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः । विप्रा ऋतस्य वाहसा
कण्वा इन्द्रꣳ यद् अक्रत स्तोमैर् यज्ञस्य साधनम् । जामि ब्रुवत आयुधम्
सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः
ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् । इन्द्रश् चर्मेव रोदसी
वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा । शिरो बिभेद वृष्णिना
इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः । अग्नेः शोचिर् न दिद्युतः
गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः । कण्वा ऋतस्य धारया
प्र तम् इन्द्र नशीमहि रयिꣳ गोमन्तम् अश्विनम् । प्र ब्रह्म पूर्वचित्तये
अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ । अहꣳ सूर्य इवाजनि
अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शुष्मम् इद् दधे
ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः । ममेद् वर्धस्व सुष्टुतः
यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् । अपः समुद्रम् ऐरयत्
नि शुष्ण इन्द्र धर्णसिꣳ वज्रꣳ जघन्थ दस्यवि । वृषा ह्य् उग्र शृण्विषे
न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् । न विव्यचन्त भूमयः
यस् त इन्द्र महीर् अपः स्तभूयमान आशयत् । नि तम् पद्यासु शिश्नथः
य इमे रोदसी मही समीची समजग्रभीत् । तमोभिर् इन्द्र तꣳ गुहः
य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः । ममेद् उग्र श्रुधी हवम्
इमास् त इन्द्र पृश्नयो घृतꣳ दुहत आशिरम् । एनाम् ऋतस्य पिप्युषीः
या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् । परि धर्मेव सूर्यम्
त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः । त्वाꣳ सुतास इन्दवः
तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः । यज्ञो वितन्तसाय्यः
आ न इन्द्र महीम् इषम् पुरꣳ न दर्षि गोमतीम् । उत प्रजाꣳ सुवीर्यम्
उत त्यद् आश्वश्व्यꣳ यद् इन्द्र नाहुषीष्व् आ । अग्रे विक्षु प्रदीदयत्
अभि व्रजꣳ न तत्निषे सूर उपाकचक्षसम् । यद् इन्द्र मृळयासि नः
यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः । महाꣳ अपार ओजसा
तꣳ त्वा हविष्मतीर् विश उप ब्रुवत ऊतये । उरुज्रयसम् इन्दुभिः
उपह्वरे गिरीणाꣳ सꣳगथे च नदीनाम् । धिया विप्रो अजायत
अतः समुद्रम् उद्वतश् चिकित्वाꣳ अव पश्यति । यतो विपान एजति
आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् । परो यद् इध्यते दिवा
कण्वास इन्द्र ते मतिꣳ विश्वे वर्धन्ति पौꣳस्यम् । उतो शविष्ठ वृष्ण्यम्
इमाम् म इन्द्र सुष्टुतिꣳ जुषस्व प्र सु माम् अव । उत प्र वर्धया मतिम्
उत ब्रह्मण्या वयꣳ तुभ्यम् प्रवृद्ध वज्रिवः । विप्रा अतक्ष्म जीवसे
अभि कण्वा अनूषतापो न प्रवता यतीः । इन्द्रꣳ वनन्वती मतिः
इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः । अनुत्तमन्युम् अजरम्
आ नो याहि परावतो हरिभ्याꣳ हर्यताभ्याम् । इमम् इन्द्र सुतम् पिब
त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः । हवन्ते वाजसातये
अनु त्वा रोदसी उभे चक्रꣳ न वर्त्य् एतशम् । अनु सुवानास इन्दवः
मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति । मत्स्वा विवस्वतो मती
वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् । वृत्रहा सोमपातमः
ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा । इन्द्र चोष्कूयसे वसु
अस्माकꣳ त्वा सुताꣳ उप वीतपृष्ठा अभि प्रयः । शतꣳ वहन्तु हरयः
इमाꣳ सु पूर्व्याꣳ धियम् मधोर् घृतस्य पिप्युषीम् । कण्वा उक्थेन वावृधुः
इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः । इन्द्रꣳ सनिष्युर् ऊतये
अर्वाञ्चꣳ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । सोमपेयाय वक्षतः
शतम् अहꣳ तिरिन्दिरे सहस्रम् पर्शाव् आ ददे । राधाꣳसि याद्वानाम्
त्रीणि शतान्य् अर्वताꣳ सहस्रा दश गोनाम् । ददुष् पज्राय साम्ने
उद् आनट् ककुहो दिवम् उष्ट्राञ् चतुर्युजो ददत् । श्रवसा याद्वꣳ जनम्
प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् । वि पर्वतेषु राजथ
यद् अङ्ग तविषीयवो यामꣳ शुभ्रा अचिध्वम् । नि पर्वता अहासत
उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः । धुक्षन्त पिप्युषीम् इषम्
वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् । यद् यामꣳ यान्ति वायुभिः
नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे । महे शुष्माय येमिरे
युष्माꣳ उ नक्तम् ऊतये युष्मान् दिवा हवामहे । युष्मान् प्रयत्य् अध्वरे
उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते । वाश्रा अधि ष्णुना दिवः
सृजन्ति रश्मिम् ओजसा पन्थाꣳ सूर्याय यातवे । ते भानुभिर् वि तस्थिरे
इमाम् मे मरुतो गिरम् इमꣳ स्तोमम् ऋभुक्षणः । इमम् मे वनता हवम्
त्रीणि सराꣳसि पृश्नयो दुदुह्रे वज्रिणे मधु । उत्सꣳ कवन्धम् उद्रिणम्
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । आ तू न उप गन्तन
यूयꣳ हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे । उत प्रचेतसो मदे
आ नो रयिम् मदच्युतम् पुरुक्षुꣳ विश्वधायसम् । इयर्ता मरुतो दिवः
अधीव यद् गिरीणाꣳ यामꣳ शुभ्रा अचिध्वम् । सुवानैर् मन्दध्व इन्दुभिः
एतावतश् चिद् एषाꣳ सुम्नम् भिक्षेत मर्त्यः । अदाभ्यस्य मन्मभिः
ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः । उत्सꣳ दुहन्तो अक्षितम्
उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः । उत् स्तोमैः पृश्निमातरः
येनाव तुर्वशꣳ यदुꣳ येन कण्वꣳ धनस्पृतम् । राये सु तस्य धीमहि
इमा उ वः सुदानवो घृतꣳ न पिप्युषीर् इषः । वर्धान् काण्वस्य मन्मभिः
क्व नूनꣳ सुदानवो मदथा वृक्तबर्हिषः । ब्रह्मा को वः सपर्यति
नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः । शर्धाꣳ ऋतस्य जिन्वथ
सम् उ त्ये महतीर् अपः सꣳ क्षोणी सम् उ सूर्यम् । सꣳ वज्रम् पर्वशो दधुः
वि वृत्रम् पर्वशो ययुर् वि पर्वताꣳ अराजिनः । चक्राणा वृष्णि पौꣳस्यम्
अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् । अन्व् इन्द्रꣳ वृत्रतूर्ये
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः । शुभ्रा व्य् अञ्जत श्रिये
उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन । द्यौर् न चक्रदद् भिया
आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः । देवास उप गन्तन
यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः । यान्ति शुभ्रा रिणन्न् अपः
सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति । ययुर् निचक्रया नरः
कदा गच्छाथ मरुत इत्था विप्रꣳ हवमानम् । मार्डीकेभिर् नाधमानम्
कद् ध नूनꣳ कधप्रियो यद् इन्द्रम् अजहातन । को वः सखित्व ओहते
सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः । स्तुषे हिरण्यवाशीभिः
ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय । ववृत्याꣳ चित्रवाजान्
गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः । पर्वताश् चिन् नि येमिरे
आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः । धातारः स्तुवते वयः
अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा । ते भानुभिर् वि तस्थिरे
आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतꣳ युवम् । दस्रा हिरण्यवर्तनी पिबतꣳ सोम्यम् मधु
आ नूनꣳ यातम् अश्विना रथेन सूर्यत्वचा । भुजी हिरण्यपेशसा कवी गम्भीरचेतसा
आ यातꣳ नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः । पिबाथो अश्विना मधु कण्वानाꣳ सवने सुतम्
आ नो यातꣳ दिवस् पर्य् आन्तरिक्षाद् अधप्रिया । पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु
आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये । स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा
यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा । आ यातम् अश्विना गतम् उपेमाꣳ सुष्टुतिम् मम
दिवश् चिद् रोचनाद् अध्य् आ नो गन्तꣳ स्वर्विदा । धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता
किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना । पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत्
आ वाꣳ विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना । अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा
आ यद् वाꣳ योषणा रथम् अतिष्ठद् वाजिनीवसू । विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम्
अतः सहस्रनिर्णिजा रथेना यातम् अश्विना । वत्सो वाम् मधुमद् वचो ऽशꣳसीत् काव्यः कविः
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम्
आ नो विश्वान्य् अश्विना धत्तꣳ राधाꣳस्य् अह्रया । कृतꣳ न ऋत्वियावतो मा नो रीरधतꣳ निदे
यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे । अतः सहस्रनिर्णिजा रथेना यातम् अश्विना
यो वाꣳ नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् । तस्मै सहस्रनिर्णिजम् इषꣳ धत्तꣳ घृतश्चुतम्
प्रास्मा ऊर्जꣳ घृतश्चुतम् अश्विना यच्छतꣳ युवम् । यो वाꣳ सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती
आ नो गन्तꣳ रिशादसेमꣳ स्तोमम् पुरुभुजा । कृतꣳ नः सुश्रियो नरेमा दातम् अभिष्टये
आ वाꣳ विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु
आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् । यो वाꣳ विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत्
याभिः कण्वम् मेधातिथिꣳ याभिर् वशꣳ दशव्रजम् । याभिर् गोशर्यम् आवतꣳ ताभिर् नो ऽवतꣳ नरा
याभिर् नरा त्रसदस्युम् आवतꣳ कृत्व्ये धने । ताभिः ष्व् अ१स्माꣳ अश्विना प्रावतꣳ वाजसातये
प्र वाꣳ स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना । पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा
त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः । कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि
आ नूनम् अश्विना युवꣳ वत्सस्य गन्तम् अवसे । प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतꣳ या अरातयः
यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषाꣳ अनु । नृम्णꣳ तद् धत्तम् अश्विना
ये वाꣳ दꣳसाꣳस्य् अश्विना विप्रासः परिमामृशुः । एवेत् काण्वस्य बोधतम्
अयꣳ वाꣳ घर्मो अश्विना स्तोमेन परि षिच्यते । अयꣳ सोमो मधुमान् वाजिनीवसू येन वृत्रꣳ चिकेतथः
यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदꣳससा कृतम् । तेन माविष्टम् अश्विना
यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः । अयꣳ वाꣳ वत्सो मतिभिर् न विन्धते हविष्मन्तꣳ हि गच्छथः
आ नूनम् अश्विनोर् ऋषिः स्तोमꣳ चिकेत वामया । आ सोमम् मधुमत्तमꣳ घर्मꣳ सिञ्चाद् अथर्वणि
आ नूनꣳ रघुवर्तनिꣳ रथꣳ तिष्ठाथो अश्विना । आ वाꣳ स्तोमा इमे मम नभो न चुच्यवीरत
यद् अद्य वाꣳ नासत्योक्थैर् आचुच्युवीमहि । यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम्
यद् वाꣳ कक्षीवाꣳ उत यद् व्यश्व ऋषिर् यद् वाꣳ दीर्घतमा जुहाव । पृथी यद् वाꣳ वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम्
यातꣳ छर्दिष्पा उत नः परस्पा भूतꣳ जगत्पा उत नस् तनूपा । वर्तिस् तोकाय तनयाय यातम्
यद् इन्द्रेण सरथꣳ याथो अश्विना यद् वा वायुना भवथः समोकसा । यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः
यद् अद्याश्विनाव् अहꣳ हुवेय वाजसातये । यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः
आ नूनꣳ यातम् अश्विनेमा हव्यानि वाꣳ हिता । इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ
यन् नासत्या पराके अर्वाके अस्ति भेषजम् । तेन नूनꣳ विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम्
अभुत्स्य् उ प्र देव्या साकꣳ वाचाहम् अश्विनोः । व्य् आवर् देव्य् आ मतिꣳ वि रातिम् मर्त्येभ्यः
प्र बोधयोषो अश्विना प्र देवि सूनृते महि । प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत्
यद् उषो यासि भानुना सꣳ सूर्येण रोचसे । आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम्
यद् आपीतासो अꣳशवो गावो न दुह्र ऊधभिः । यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे । प्र दक्षाय प्रचेतसा
यन् नूनꣳ धीभिर् अश्विना पितुर् योना निषीदथः । यद् वा सुम्नेभिर् उक्थ्या
यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः । यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना
यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् । बृहस्पतिꣳ विश्वान् देवाꣳ अहꣳ हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा
त्या न्व् अ१श्विना हुवे सुदꣳससा गृभे कृता । ययोर् अस्ति प्र णः सख्यꣳ देवेष्व् अध्य् आप्यम्
ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः । ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु
यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू । यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम्
यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु । यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वꣳ यज्ञेष्व् ईड्यः
त्वम् असि प्रशस्यो विदथेषु सहन्त्य । अग्ने रथीर् अध्वराणाम्
स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः । अदेवीर् अग्ने अरातीः
अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः । नोप वेषि जातवेदः
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः
विप्रꣳ विप्रासो ऽवसे देवम् मर्तास ऊतये । अग्निꣳ गीर्भिर् हवामहे
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् । अग्ने त्वाꣳकामया गिरा
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे
समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम्
प्रत्नो हि कम् ईड्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि । स्वाꣳ चाग्ने तन्वम् पिप्रयस्वास्मभ्यꣳ च सौभगम् आ यजस्व
य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्य् अ१त्रिणꣳ तम् ईमहे
येना दशग्वम् अध्रिगुꣳ वेपयन्तꣳ स्वर्णरम् । येना समुद्रम् आविथा तम् ईमहे
येन सिन्धुम् महीर् अपो रथाꣳ इव प्रचोदयः । पन्थाम् ऋतस्य यातवे तम् ईमहे
इमꣳ स्तोमम् अभिष्टये घृतꣳ न पूतम् अद्रिवः । येना नु सद्य ओजसा ववक्षिथ
इमꣳ जुषस्व गिर्वणः समुद्र इव पिन्वते । इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ
यो नो देवः परावतः सखित्वनाय मामहे । दिवो न वृष्टिम् प्रथयन् ववक्षिथ
ववक्षुर् अस्य केतव उत वज्रो गभस्त्योः । यत् सूर्यो न रोदसी अवर्धयत्
यदि प्रवृद्ध सत्पते सहस्रम् महिषाꣳ अघः । आद् इत् त इन्द्रियम् महि प्र वावृधे
इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति । अग्निर् वनेव सासहिः प्र वावृधे
इयꣳ त ऋत्वियावती धीतिर् एति नवीयसी । सपर्यन्ती पुरुप्रिया मिमीत इत्
गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् । स्तोमैर् इन्द्रस्य वावृधे मिमीत इत्
सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये । प्राची वाशीव सुन्वते मिमीत इत्
यꣳ विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः । घृतꣳ न पिप्य आसन्य् ऋतस्य यत्
उत स्वराजे अदितिः स्तोमम् इन्द्राय जीजनत् । पुरुप्रशस्तम् ऊतय ऋतस्य यत्
अभि वह्नय ऊतये ऽनूषत प्रशस्तये । न देव विव्रता हरी ऋतस्य यत्
यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये । यद् वा मरुत्सु मन्दसे सम् इन्दुभिः
यद् वा शक्र परावति समुद्रे अधि मन्दसे । अस्माकम् इत् सुते रणा सम् इन्दुभिः
यद् वासि सुन्वतो वृधो यजमानस्य सत्पते । उक्थे वा यस्य रण्यसि सम् इन्दुभिः
देवꣳ-देवꣳ वो ऽवस इन्द्रम्-इन्द्रꣳ गृणीषणि । अधा यज्ञाय तुर्वणे व्य् आनशुः
यज्ञेभिर् यज्ञवाहसꣳ सोमेभिः सोमपातमम् । होत्राभिर् इन्द्रꣳ वावृधुर् व्य् आनशुः
महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः । विश्वा वसूनि दाशुषे व्य् आनशुः
इन्द्रꣳ वृत्राय हन्तवे देवासो दधिरे पुरः । इन्द्रꣳ वाणीर् अनूषता सम् ओजसे
महान्तम् महिना वयꣳ स्तोमेभिर् हवनश्रुतम् । अर्कैर् अभि प्र णोनुमः सम् ओजसे
न यꣳ विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् । अमाद् इद् अस्य तित्विषे सम् ओजसः
यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः । आद् इत् ते हर्यता हरी ववक्षतुः
यदा वृत्रꣳ नदीवृतꣳ शवसा वज्रिन्न् अवधीः । आद् इत् ते हर्यता हरी ववक्षतुः
यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे । आद् इत् ते हर्यता हरी ववक्षतुः
यदा ते हर्यता हरी वावृधाते दिवे-दिवे । आद् इत् ते विश्वा भुवनानि येमिरे
यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे । आद् इत् ते विश्वा भुवनानि येमिरे
यदा सूर्यम् अमुꣳ दिवि शुक्रꣳ ज्योतिर् अधारयः । आद् इत् ते विश्वा भुवनानि येमिरे
इमाꣳ त इन्द्र सुष्टुतिꣳ विप्र इयर्ति धीतिभिः । जामिम् पदेव पिप्रतीम् प्राध्वरे
यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् । नाभा यज्ञस्य दोहना प्राध्वरे
सुवीर्यꣳ स्वश्व्यꣳ सुगव्यम् इन्द्र दद्धि नः । होतेव पूर्वचित्तये प्राध्वरे
इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् । विदे वृधस्य दक्षसो महान् हि षः
स प्रथमे व्योमनि देवानाꣳ सदने वृधः । सुपारः सुश्रवस्तमः सम् अप्सुजित्
तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे
इयꣳ त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । मन्दानो अस्य बर्हिषो वि राजसि
नूनꣳ तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे । रयिꣳ नश् चित्रम् आ भरा स्वर्विदम्
स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः । वया इवानु रोहते जुषन्त यत्
प्रत्नवज् जनया गिरः शृणुधी जरितुर् हवम् । मदे-मदे ववक्षिथा सुकृत्वने
क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः । अया धिया य उच्यते पतिर् दिवः
उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी । नमोवृधैर् अवस्युभिः सुते रण
स्तुहि श्रुतꣳ विपश्चितꣳ हरी यस्य प्रसक्षिणा । गन्तारा दाशुषो गृहꣳ नमस्विनः
तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः । आ याहि यज्ञम् आशुभिः शम् इद् धि ते
इन्द्र शविष्ठ सत्पते रयिꣳ गृणत्सु धारय । श्रवः सूरिभ्यो अमृतꣳ वसुत्वनम्
हवे त्वा सूर उदिते हवे मध्यꣳदिने दिवः । जुषाण इन्द्र सप्तिभिर् न आ गहि
आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । तन्तुꣳ तनुष्व पूर्व्यꣳ यथा विदे
यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । यद् वा समुद्रे अन्धसो ऽवितेद् असि
इन्द्रꣳ वर्धन्तु नो गिर इन्द्रꣳ सुतास इन्दवः । इन्द्रे हविष्मतीर् विशो अराणिषुः
तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः । इन्द्रꣳ क्षोणीर् अवर्धयन् वया इव
त्रिकद्रुकेषु चेतनꣳ देवासो यज्ञम् अत्नत । तम् इद् वर्धन्तु नो गिरः सदावृधम्
स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे । शुचिः पावक उच्यते सो अद्भुतः
तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु । मनो यत्रा वि तद् दधुर् विचेतसः
यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः । येन विश्वा अति द्विषो अतारिम
कदा त इन्द्र गिर्वणः स्तोता भवाति शꣳतमः । कदा नो गव्ये अश्व्ये वसौ दधः
उत ते सुष्टुता हरी वृषणा वहतो रथम् । अजुर्यस्य मदिन्तमꣳ यम् ईमहे
तम् ईमहे पुरुष्टुतꣳ यह्वम् प्रत्नाभिर् ऊतिभिः । नि बर्हिषि प्रिये सदद् अध द्विता
वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः । धुक्षस्व पिप्युषीम् इषम् अवा च नः
इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः । ऋताद् इयर्मि ते धियम् मनोयुजम्
इह त्या सधमाद्या युजानः सोमपीतये । हरी इन्द्र प्रतद्वसू अभि स्वर
अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् । उतो मरुत्वतीर् विशो अभि प्रयः
इमा अस्य प्रतूर्तयः पदꣳ जुषन्त यद् दिवि । नाभा यज्ञस्य सꣳ दधुर् यथा विदे
अयꣳ दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे । मिमीते यज्ञम् आनुषग् विचक्ष्य
वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी । वृषा त्वꣳ शतक्रतो वृषा हवः
वृषा ग्रावा वृषा मदो वृषा सोमो अयꣳ सुतः । वृषा यज्ञो यम् इन्वसि वृषा हवः
वृषा त्वा वृषणꣳ हुवे वज्रिञ् चित्राभिर् ऊतिभिः । वावन्थ हि प्रतिष्टुतिꣳ वृषा हवः
यद् इन्द्राहꣳ यथा त्वम् ईशीय वस्व एक इत् । स्तोता मे गोषखा स्यात्
शिक्षेयम् अस्मै दित्सेयꣳ शचीपते मनीषिणे । यद् अहꣳ गोपतिः स्याम्
धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते । गाम् अश्वम् पिप्युषी दुहे
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः । यद् दित्ससि स्तुतो मघम्
यज्ञ इन्द्रम् अवर्धयद् यद् भूमिꣳ व्य् अवर्तयत् । चक्राण ओपशꣳ दिवि
वावृधानस्य ते वयꣳ विश्वा धनानि जिग्युषः । ऊतिम् इन्द्रा वृणीमहे
व्य् अ१न्तरिक्षम् अतिरन् मदे सोमस्य रोचना । इन्द्रो यद् अभिनद् वलम्
उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । अर्वाञ्चꣳ नुनुदे वलम्
इन्द्रेण रोचना दिवो दृळ्हानि दृꣳहितानि च । स्थिराणि न पराणुदे
अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते । वि ते मदा अराजिषुः
त्वꣳ हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः । स्तोतॄणाम् उत भद्रकृत्
इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः । उप यज्ञꣳ सुराधसम्
अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः । विश्वा यद् अजयः स्पृधः
मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः । अव दस्यूꣳर् अधूनुथाः
असुन्वाम् इन्द्र सꣳसदꣳ विषूचीꣳ व्य् अनाशयः । सोमपा उत्तरो भवन्
तम् व् अभि प्र गायत पुरुहूतम् पुरुष्टुतम् । इन्द्रꣳ गीर्भिस् तविषम् आ विवासत
यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी । गिरीꣳर् अज्राꣳ अपः स्वर् वृषत्वना
स राजसि पुरुष्टुतꣳ एको वृत्राणि जिघ्नसे । इन्द्र जैत्रा श्रवस्या च यन्तवे
तꣳ ते मदꣳ गृणीमसि वृषणम् पृत्सु सासहिम् । उ लोककृत्नुम् अद्रिवो हरिश्रियम्
येन ज्योतीꣳष्य् आयवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि
तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा । वृषपत्नीर् अपो जया दिवे-दिवे
तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् । वज्रꣳ शिशाति धिषणा वरेण्यम्
तव द्यौर् इन्द्र पौꣳस्यम् पृथिवी वर्धति श्रवः । त्वाम् आपः पर्वतासश् च हिन्विरे
त्वाꣳ विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः । त्वाꣳ शर्धो मदत्य् अनु मारुतम्
त्वꣳ वृषा जनानाम् मꣳहिष्ठ इन्द्र जज्ञिषे । सत्रा विश्वा स्वपत्यानि दधिषे
सत्रा त्वम् पुरुष्टुतꣳ एको वृत्राणि तोशसे । नान्य इन्द्रात् करणम् भूय इन्वति
यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये । अस्माकेभिर् नृभिर् अत्रा स्वर् जय
अरꣳ क्षयाय नो महे विश्वा रूपाण्य् आविशन् । इन्द्रꣳ जैत्राय हर्षया शचीपतिम्
प्र सम्राजꣳ चर्षणीनाम् इन्द्रꣳ स्तोता नव्यꣳ गीर्भिः । नरꣳ नृषाहम् मꣳहिष्ठम्
यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या । अपाम् अवो न समुद्रे
तꣳ सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् । महो वाजिनꣳ सनिभ्यः
यस्यानूना गभीरा मदा उरवस् तरुत्राः । हर्षुमन्तः शूरसातौ
तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते । येषाम् इन्द्रस् ते जयन्ति
तम् इच् च्यौत्नैर् आर्यन्ति तꣳ कृतेभिश् चर्षणयः । एष इन्द्रो वरिवस्कृत्
इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः । महान् महीभिः शचीभिः
स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः । एकश् चित् सन्न् अभिभूतिः
तम् अर्केभिस् तꣳ सामभिस् तꣳ गायत्रैश् चर्षणयः । इन्द्रꣳ वर्धन्ति क्षितयः
प्रणेतारꣳ वस्यो अच्छा कर्तारꣳ ज्योतिः समत्सु । सासह्वाꣳसꣳ युधामित्रान्
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः । इन्द्रो विश्वा अति द्विषः
स त्वꣳ न इन्द्र वाजेभिर् दशस्या च गातुया च । अच्छा च नः सुम्नꣳ नेषि
आ याहि सुषुमा हि त इन्द्र सोमम् पिबा इमम् । एदम् बर्हिः सदो मम
आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना । उप ब्रह्माणि नः शृणु
ब्रह्माणस् त्वा वयꣳ युजा सोमपाम् इन्द्र सोमिनः । सुतावन्तो हवामहे
आ नो याहि सुतावतो ऽस्माकꣳ सुष्टुतीर् उप । पिबा सु शिप्रिन्न् अन्धसः
आ ते सिञ्चामि कुक्ष्योर् अनु गात्रा वि धावतु । गृभाय जिह्वया मधु
स्वादुष् टे अस्तु सꣳसुदे मधुमान् तन्वे३ तव । सोमः शम् अस्तु ते हृदे
अयम् उ त्वा विचर्षणे जनीर् इवाभि सꣳवृतः । प्र सोम इन्द्र सर्पतु
तुविग्रीवो वपोदरः सुबाहुर् अन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते
इन्द्र प्रेहि पुरस् त्वꣳ विश्वस्येशान ओजसा । वृत्राणि वृत्रहञ् जहि
दीर्घस् ते अस्त्व् अङ्कुशो येना वसु प्रयच्छसि । यजमानाय सुन्वते
अयꣳ त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीम् अस्य द्रवा पिब
शाचिगो शाचिपूजनायꣳ रणाय ते सुतः । आखण्डल प्र हूयसे
यस् ते शृङ्गवृषो नपात् प्रणपात् कुण्डपाय्यः । न्य् अस्मिन् दध्र आ मनः
वास्तोष् पते ध्रुवा स्थूणाꣳसत्रꣳ सोम्यानाम् । द्रप्सो भेत्ता पुराꣳ शश्वतीनाम् इन्द्रो मुनीनाꣳ सखा
पृदाकुसानुर् यजतो गवेषण एकः सन्न् अभि भूयसः । भूर्णिम् अश्वꣳ नयत् तुजा पुरो गृभेन्द्रꣳ सोमस्य पीतये
इदꣳ ह नूनम् एषाꣳ सुम्नम् भिक्षेत मर्त्यः । आदित्यानाम् अपूर्व्यꣳ सवीमनि
अनर्वाणो ह्य् एषाम् पन्था आदित्यानाम् । अदब्धाः सन्ति पायवः सुगेवृधः
तत् सु नः सविता भगो वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथो यद् ईमहे
देवेभिर् देव्य् अदिते ऽरिष्टभर्मन्न् आ गहि । स्मत् सूरिभिः पुरुप्रिये सुशर्मभिः
ते हि पुत्रासो अदितेर् विदुर् द्वेषाꣳसि योतवे । अꣳहोश् चिद् उरुचक्रयो ऽनेहसः
अदितिर् नो दिवा पशुम् अदितिर् नक्तम् अद्वयाः । अदितिः पात्व् अꣳहसः सदावृधा
उत स्या नो दिवा मतिर् अदितिर् ऊत्या गमत् । सा शꣳताति मयस् करद् अप स्रिधः
उत त्या दैव्या भिषजा शꣳ नः करतो अश्विना । युयुयाताम् इतो रपो अप स्रिधः
शम् अग्निर् अग्निभिः करच् छꣳ नस् तपतु सूर्यः । शꣳ वातो वात्व् अरपा अप स्रिधः
अपामीवाम् अप स्रिधम् अप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अꣳहसः
युयोता शरुम् अस्मद् आꣳ आदित्यास उतामतिम् । ऋधग् द्वेषः कृणुत विश्ववेदसः
तत् सु नः शर्म यच्छतादित्या यन् मुमोचति । एनस्वन्तꣳ चिद् एनसः सुदानवः
यो नः कश् चिद् रिरिक्षति रक्षस्त्वेन मर्त्यः । स्वैः ष एवै रिरिषीष्ट युर् जनः
सम् इत् तम् अघम् अश्नवद् दुःशꣳसम् मर्त्यꣳ रिपुम् । यो अस्मत्रा दुर्हणावाꣳ उप द्वयुः
पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् । उप द्वयुꣳ चाद्वयुꣳ च वसवः
आ शर्म पर्वतानाम् ओतापाꣳ वृणीमहे । द्यावाक्षामारे अस्मद् रपस् कृतम्
ते नो भद्रेण शर्मणा युष्माकꣳ नावा वसवः । अति विश्वानि दुरिता पिपर्तन
तुचे तनाय तत् सु नो द्राघीय आयुर् जीवसे । आदित्यासः सुमहसः कृणोतन
यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । युष्मे इद् वो अपि ष्मसि सजात्ये
बृहद् वरूथम् मरुताꣳ देवꣳ त्रातारम् अश्विना । मित्रम् ईमहे वरुणꣳ स्वस्तये
अनेहो मित्रार्यमन् नृवद् वरुण शꣳस्यम् । त्रिवरूथम् मरुतो यन्त नश् छर्दिः
ये चिद् धि मृत्युबन्धव आदित्या मनवः स्मसि । प्र सू न आयुर् जीवसे तिरेतन
तꣳ गूर्धया स्वर्णरꣳ देवासो देवम् अरतिꣳ दधन्विरे । देवत्रा हव्यम् ओहिरे
विभूतरातिꣳ विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम्
यजिष्ठꣳ त्वा ववृमहे देवꣳ देवत्रा होतारम् अमर्त्यम् । अस्य यज्ञस्य सुक्रतुम्
ऊर्जो नपातꣳ सुभगꣳ सुदीदितिम् अग्निꣳ श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नꣳ यक्षते दिवि
यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । यो नमसा स्वध्वरः
तस्येद् अर्वन्तो रꣳहयन्त आशवस् तस्य द्युम्नितमꣳ यशः । न तम् अꣳहो देवकृतꣳ कुतश् चन न मर्त्यकृतꣳ नशत्
स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते । सुवीरस् त्वम् अस्मयुः
प्रशꣳसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः । त्वे क्षेमासो अपि सन्ति साधवस् त्वꣳ राजा रयीणाम्
सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशꣳस्यः । स धीभिर् अस्तु सनिता
यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते । सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम्
यस्याग्निर् वपुर् गृहे स्तोमꣳ चनो दधीत विश्ववार्यः । हव्या वा वेविषद् विषः
विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । अवोदेवम् उपरिमर्त्यꣳ कृधि वसो विविदुषो वचः
यो अग्निꣳ हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति । गिरा वाजिरशोचिषम्
समिधा यो निशिती दाशद् अदितिꣳ धामभिर् अस्य मर्त्यः । विश्वेत् स धीभिः सुभगो जनाꣳ अति द्युम्नैर् उद्न इव तारिषत्
तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कꣳ चिद् अत्रिणम् । मन्युꣳ जनस्य दूढ्यः
येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । वयꣳ तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि
ते घेद् अग्ने स्वाध्यो३ ये त्वा विप्र निदधिरे नृचक्षसम् । विप्रासो देव सुक्रतुम्
त इद् वेदिꣳ सुभग त आहुतिꣳ ते सोतुꣳ चक्रिरे दिवि । त इद् वाजेभिर् जिग्युर् महद् धनꣳ ये त्वे कामꣳ न्येरिरे
भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः
भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । अव स्थिरा तनुहि भूरि शर्धताꣳ वनेमा ते अभिष्टिभिः
ईळे गिरा मनुर्हितꣳ यꣳ देवा दूतम् अरतिꣳ न्येरिरे । यजिष्ठꣳ हव्यवाहनम्
तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये । यः पिꣳशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः
यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च । असुर इव निर्णिजम्
यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना । विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः
यद् अग्ने मर्त्यस् त्वꣳ स्याम् अहम् मित्रमहो अमर्त्यः । सहसः सूनव् आहुत
न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया
पितुर् न पुत्रः सुभृतो दुरोण आ देवाꣳ एतु प्र णो हविः
तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो । सदा देवस्य मर्त्यः
तव क्रत्वा सनेयꣳ तव रातिभिर् अग्ने तव प्रशस्तिभिः । त्वाम् इद् आहुः प्रमतिꣳ वसो ममाग्ने हर्षस्व दातवे
प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः । यस्य त्वꣳ सख्यम् आवरः
तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे । त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि
तम् आगन्म सोभरयः सहस्रमुष्कꣳ स्वभिष्टिम् अवसे । सम्राजꣳ त्रासदस्यवम्
यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । विपो न द्युम्ना नि युवे जनानाꣳ तव क्षत्राणि वर्धयन्
यम् आदित्यासो अद्रुहः पारꣳ नयथ मर्त्यम् । मघोनाꣳ विश्वेषाꣳ सुदानवः
यूयꣳ राजानः कꣳ चिच् चर्षणीसहः क्षयन्तम् मानुषाꣳ अनु । वयꣳ ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः
अदान् मे पौरुकुत्स्यः पञ्चाशतꣳ त्रसदस्युर् वधूनाम् । मꣳहिष्ठो अर्यः सत्पतिः
उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि । तिसॄणाꣳ सप्ततीनाꣳ श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । स्थिरा चिन् नमयिष्णवः
वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः । इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः
विद्मा हि रुद्रियाणाꣳ शुष्मम् उग्रम् मरुताꣳ शिमीवताम् । विष्णोर् एषस्य मीळ्हुषाम्
वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी । प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः
अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः । भूमिर् यामेषु रेजते
अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् । यत्रा नरो देदिशते तनूष्व् आ त्वक्षाꣳसि बाह्वोजसः
स्वधाम् अनु श्रियꣳ नरो महि त्वेषा अमवन्तो वृषप्सवः । वहन्ते अह्रुतप्सवः
गोभिर् वाणो अज्यते सोभरीणाꣳ रथे कोशे हिरण्यये । गोबन्धवः सुजातास इषे भुजे महान्तो नः स्परसे नु
प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् । हव्या वृषप्रयाव्णे
वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना । आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत
समानम् अञ्ज्य् एषाꣳ वि भ्राजन्ते रुक्मासो अधि बाहुषु । दविद्युतत्य् ऋष्टयः
त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे । स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः
येषाम् अर्णो न सप्रथो नाम त्वेषꣳ शश्वताम् एकम् इद् भुजे । वयो न पित्र्यꣳ सहः
तान् वन्दस्व मरुतस् ताꣳ उप स्तुहि तेषाꣳ हि धुनीनाम् । अराणाꣳ न चरमस् तद् एषाꣳ दाना मह्ना तद् एषाम्
सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु । यो वा नूनम् उतासति
यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ । अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत्
यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः । युवानस् तथेद् असत्
ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये । अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम्
यून ऊ षु नविष्ठया वृष्णः पावकाꣳ अभि सोभरे गिरा । गाय गा इव चर्कृषत्
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह
गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः
मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति । अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । यूयꣳ सखायः सप्तयः
याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् । मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः
यत् सिन्धौ यद् असिक्न्याꣳ यत् समुद्रेषु मरुतः सुबर्हिषः । यत् पर्वतेषु भेषजम्
विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत । क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः
वयम् उ त्वाम् अपूर्व्य स्थूरꣳ न कच् चिद् भरन्तो ऽवस्यवः । वाजे चित्रꣳ हवामहे
उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् । त्वाम् इद् ध्य् अवितारꣳ ववृमहे सखाय इन्द्र सानसिम्
आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते । सोमꣳ सोमपते पिब
वयꣳ हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम । या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये
सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वाम् इन्द्र नोनुमः
अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः । सन्ति कामासो हरिवो ददिष् ट्वꣳ स्मो वयꣳ सन्ति नो धियः
नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः । विद्मा पुरा परीणसः
विद्मा सखित्वम् उत शूर भोज्य१म् आ ते ता वज्रिन्न् ईमहे । उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति
यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ वः स्तुषे । सखाय इन्द्रम् ऊतये
हर्यश्वꣳ सत्पतिꣳ चर्षणीसहꣳ स हि ष्मा यो अमन्दत । आ तु नः स वयति गव्यम् अश्व्यꣳ स्तोतृभ्यो मघवा शतम्
त्वया ह स्विद् युजा वयम् प्रति श्वसन्तꣳ वृषभ ब्रुवीमहि । सꣳस्थे जनस्य गोमतः
जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दूढ्यः । नृभिर् वृत्रꣳ हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः
अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि । युधेद् आपित्वम् इच्छसे
नकी रेवन्तꣳ सख्याय विन्दसे पीयन्ति ते सुराश्वः । यदा कृणोषि नदनुꣳ सम् ऊहस्य् आद् इत् पितेव हूयसे
मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः । नि षदाम सचा सुते
मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि । दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे
इन्द्रो वा घेद् इयन् मघꣳ सरस्वती वा सुभगा ददिर् वसु । त्वꣳ वा चित्र दाशुषे
चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु । पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत्
ओ त्यम् अह्व आ रथम् अद्या दꣳसिष्ठम् ऊतये । यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः
पूर्वायुषꣳ सुहवम् पुरुस्पृहम् भुज्युꣳ वाजेषु पूर्व्यम् । सचनावन्तꣳ सुमतिभिः सोभरे विद्वेषसम् अनेहसम्
इह त्या पुरुभूतमा देवा नमोभिर् अश्विना । अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम्
युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति । अस्माꣳ अच्छा सुमतिर् वाꣳ शुभस् पती आ धेनुर् इव धावतु
रथो यो वाꣳ त्रिवन्धुरो हिरण्याभीशुर् अश्विना । परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम्
दशस्यन्ता मनवे पूर्व्यꣳ दिवि यवꣳ वृकेण कर्षथः । ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि
उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः । येभिस् तृक्षिꣳ वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः
अयꣳ वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू । आ यातꣳ सोमपीतये पिबतꣳ दाशुषो गृहे
आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू । युञ्जाथाम् पीवरीर् इषः
याभिः पक्थम् अवथो याभिर् अध्रिगुꣳ याभिर् बभ्रुꣳ विजोषसम् । ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतꣳ यद् आतुरम्
यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे । वयꣳ गीर्भिर् विपन्यवः
ताभिर् आ यातꣳ वृषणोप मे हवꣳ विश्वप्सुꣳ विश्ववार्यम् । इषा मꣳहिष्ठा पुरुभूतमा नरा याभिः क्रिविꣳ वावृधुस् ताभिर् आ गतम्
ताव् इदा चिद् अहानाꣳ ताव् अश्विना वन्दमान उप ब्रुवे । ता उ नमोभिर् ईमहे
ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी । मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम्
आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी । हुवे पितेव सोभरी
मनोजवसा वृषणा मदच्युता मक्षुꣳगमाभिर् ऊतिभिः । आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा
आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा । गोमद् दस्रा हिरण्यवत्
सुप्रावर्गꣳ सुवीर्यꣳ सुष्ठु वार्यम् अनाधृष्टꣳ रक्षस्विना । अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि
ईळिष्वा हि प्रतीव्य१ꣳ यजस्व जातवेदसम् । चरिष्णुधूमम् अगृभीतशोचिषम्
दामानꣳ विश्वचर्षणे ऽग्निꣳ विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम्
येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे । उपविदा वह्निर् विन्दते वसु
उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अ१जरम् । तपुर्जम्भस्य सुद्युतो गणश्रियः
उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा । अभिख्या भासा बृहता शुशुक्वनिः
अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् । यथा दूतो बभूथ हव्यवाहनः
अग्निꣳ वः पूर्व्यꣳ हुवे होतारꣳ चर्षणीनाम् । तम् अया वाचा गृणे तम् उ वः स्तुषे
यज्ञेभिर् अद्भुतक्रतुꣳ यꣳ कृपा सूदयन्त इत् । मित्रꣳ न जने सुधितम् ऋतावनि
ऋतावानम् ऋतायवो यज्ञस्य साधनꣳ गिरा । उपो एनꣳ जुजुषुर् नमसस् पदे
अच्छा नो अङ्गिरस्तमꣳ यज्ञासो यन्तु सꣳयतः । होता यो अस्ति विक्ष्व् आ यशस्तमः
अग्ने तव त्ये अजरेन्धानासो बृहद् भाः । अश्वा इव वृषणस् तविषीयवः
स त्वꣳ न ऊर्जाम् पते रयिꣳ रास्व सुवीर्यम् । प्राव नस् तोके तनये समत्स्व् आ
यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि । विश्वेद् अग्निः प्रति रक्षाꣳसि सेधति
श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस् तपुषा रक्षसो दह
न तस्य मायया चन रिपुर् ईशीत मर्त्यः । यो अग्नये ददाश हव्यदातिभिः
व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः । महो राये तम् उ त्वा सम् इधीमहि
उशना काव्यस् त्वा नि होतारम् असादयत् । आयजिꣳ त्वा मनवे जातवेदसम्
विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत । श्रुष्टी देव प्रथमो यज्ञियो भुवः
इमꣳ घा वीरो अमृतꣳ दूतꣳ कृण्वीत मर्त्यः । पावकꣳ कृष्णवर्तनिꣳ विहायसम्
तꣳ हुवेम यतस्रुचः सुभासꣳ शुक्रशोचिषम् । विशाम् अग्निम् अजरम् प्रत्नम् ईड्यम्
यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् । भूरि पोषꣳ स धत्ते वीरवद् यशः
प्रथमꣳ जातवेदसम् अग्निꣳ यज्ञेषु पूर्व्यम् । प्रति स्रुग् एति नमसा हविष्मती
आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् । मꣳहिष्ठाभिर् मतिभिः शुक्रशोचिषे
नूनम् अर्च विहायसे स्तोमेभिः स्थूरयूपवत् । ऋषे वैयश्व दम्यायाग्नये
अतिथिम् मानुषाणाꣳ सूनुꣳ वनस्पतीनाम् । विप्रा अग्निम् अवसे प्रत्नम् ईळते
महो विश्वाꣳ अभि षतो३ ऽभि हव्यानि मानुषा । अग्ने नि षत्सि नमसाधि बर्हिषि
वꣳस्वा नो वार्या पुरु वꣳस्व रायः पुरुस्पृहः । सुवीर्यस्य प्रजावतो यशस्वतः
त्वꣳ वरो सुषाम्णे ऽग्ने जनाय चोदय । सदा वसो रातिꣳ यविष्ठ शश्वते
त्वꣳ हि सुप्रतूर् असि त्वꣳ नो गोमतीर् इषः । महो रायः सातिम् अग्ने अपा वृधि
अग्ने त्वꣳ यशा अस्य् आ मित्रावरुणा वह । ऋतावाना सम्राजा पूतदक्षसा
सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे । स्तुष ऊ षु वो नृतमाय धृष्णवे
शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा । मघैर् मघोनो अति शूर दाशसि
स नः स्तवान आ भर रयिꣳ चित्रश्रवस्तमम् । निरेके चिद् यो हरिवो वसुर् ददिः
आ निरेकम् उत प्रियम् इन्द्र दर्षि जनानाम् । धृषता धृष्णो स्तवमान आ भर
न ते सव्यꣳ न दक्षिणꣳ हस्तꣳ वरन्त आमुरः । न परिबाधो हरिवो गविष्टिषु
आ त्वा गोभिर् इव व्रजꣳ गीर्भिर् ऋणोम्य् अद्रिवः । आ स्मा कामꣳ जरितुर् आ मनः पृण
विश्वानि विश्वमनसो धिया नो वृत्रहन्तम । उग्र प्रणेतर् अधि षू वसो गहि
वयꣳ ते अस्य वृत्रहन् विद्याम शूर नव्यसः । वसोः स्पार्हस्य पुरुहूत राधसः
इन्द्र यथा ह्य् अस्ति ते ऽपरीतꣳ नृतो शवः । अमृक्ता रातिः पुरुहूत दाशुषे
आ वृषस्व महामह महे नृतम राधसे । दृळ्हश् चिद् दृह्य मघवन् मघत्तये
नू अन्यत्रा चिद् अद्रिवस् त्वन् नो जग्मुर् आशसः । मघवञ् छग्धि तव तन् न ऊतिभिः
नह्य् अ१ङ्ग नृतो त्वद् अन्यꣳ विन्दामि राधसे । राये द्युम्नाय शवसे च गिर्वणः
एन्दुम् इन्द्राय सिञ्चत पिबाति सोम्यम् मधु । प्र राधसा चोदयाते महित्वना
उपो हरीणाम् पतिꣳ दक्षम् पृञ्चन्तम् अब्रवम् । नूनꣳ श्रुधि स्तुवतो अश्व्यस्य
नह्य् अ१ङ्ग पुरा चन जज्ञे वीरतरस् त्वत् । नकी राया नैवथा न भन्दना
एद् उ मध्वो मदिन्तरꣳ सिञ्च वाध्वर्यो अन्धसः । एवा हि वीरः स्तवते सदावृधः
इन्द्र स्थातर् हरीणाꣳ नकिष् टे पूर्व्यस्तुतिम् । उद् आनꣳश शवसा न भन्दना
तꣳ वो वाजानाम् पतिम् अहूमहि श्रवस्यवः । अप्रायुभिर् यज्ञेभिर् वावृधेन्यम्
एतो न्व् इन्द्रꣳ स्तवाम सखायः स्तोम्यꣳ नरम् । कृष्टीर् यो विश्वा अभ्य् अस्त्य् एक इत्
अगोरुधाय गविषे द्युक्षाय दस्म्यꣳ वचः । घृतात् स्वादीयो मधुनश् च वोचत
यस्यामितानि वीर्या३ न राधः पर्येतवे । ज्योतिर् न विश्वम् अभ्य् अस्ति दक्षिणा
स्तुहीन्द्रꣳ व्यश्ववद् अनूर्मिꣳ वाजिनꣳ यमम् । अर्यो गयम् मꣳहमानꣳ वि दाशुषे
एवा नूनम् उप स्तुहि वैयश्व दशमꣳ नवम् । सुविद्वाꣳसꣳ चर्कृत्यꣳ चरणीनाम्
वेत्था हि निरृतीनाꣳ वज्रहस्त परिवृजम् । अहर्-अहः शुन्ध्युः परिपदाम् इव
तद् इन्द्राव आ भर येना दꣳसिष्ठ कृत्वने । द्विता कुत्साय शिश्नथो नि चोदय
तम् उ त्वा नूनम् ईमहे नव्यꣳ दꣳसिष्ठ सन्यसे । स त्वꣳ नो विश्वा अभिमातीः सक्षणिः
य ऋक्षाद् अꣳहसो मुचद् यो वार्यात् सप्त सिन्धुषु । वधर् दासस्य तुविनृम्ण नीनमः
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । व्यश्वेभ्यः सुभगे वाजिनीवति
आ नार्यस्य दक्षिणा व्यश्वाꣳ एतु सोमिनः । स्थूरꣳ च राधः शतवत् सहस्रवत्
यत् त्वा पृच्छाद् ईजानः कुहया कुहयाकृते । एषो अपश्रितो वलो गोमतीम् अव तिष्ठति
ता वाꣳ विश्वस्य गोपा देवा देवेषु यज्ञिया । ऋतावाना यजसे पूतदक्षसा
मित्रा तना न रथ्या३ वरुणो यश् च सुक्रतुः । सनात् सुजाता तनया धृतव्रता
ता माता विश्ववेदसासुर्याय प्रमहसा । मही जजानादितिर् ऋतावरी
महान्ता मित्रावरुणा सम्राजा देवाव् असुरा । ऋतावानाव् ऋतम् आ घोषतो बृहत्
नपाता शवसो महः सूनू दक्षस्य सुक्रतू । सृप्रदानू इषो वास्त्व् अधि क्षितः
सꣳ या दानूनि येमथुर् दिव्याः पार्थिवीर् इषः । नभस्वतीर् आ वाꣳ चरन्तु वृष्टयः
अधि या बृहतो दिवो३ ऽभि यूथेव पश्यतः । ऋतावाना सम्राजा नमसे हिता
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । धृतव्रता क्षत्रिया क्षत्रम् आशतुः
अक्ष्णश् चिद् गातुवित्तरानुल्बणेन चक्षसा । नि चिन् मिषन्ता निचिरा नि चिक्यतुः
उत नो देव्य् अदितिर् उरुष्यताꣳ नासत्या । उरुष्यन्तु मरुतो वृद्धशवसः
ते नो नावम् उरुष्यत दिवा नक्तꣳ सुदानवः । अरिष्यन्तो नि पायुभिः सचेमहि
अघ्नते विष्णवे वयम् अरिष्यन्तः सुदानवे । श्रुधि स्वयावन् सिन्धो पूर्वचित्तये
तद् वार्यꣳ वृणीमहे वरिष्ठꣳ गोपयत्यम् । मित्रो यत् पान्ति वरुणो यद् अर्यमा
उत नः सिन्धुर् अपाꣳ तन् मरुतस् तद् अश्विना । इन्द्रो विष्णुर् मीढ्वाꣳसः सजोषसः
ते हि ष्मा वनुषो नरो ऽभिमातिꣳ कयस्य चित् । तिग्मꣳ न क्षोदः प्रतिघ्नन्ति भूर्णयः
अयम् एक इत्था पुरूरु चष्टे वि विश्पतिः । तस्य व्रतान्य् अनु वश् चरामसि
अनु पूर्वाण्य् ओक्या साम्राज्यस्य सश्चिम । मित्रस्य व्रता वरुणस्य दीर्घश्रुत्
परि यो रश्मिना दिवो ऽन्तान् ममे पृथिव्याः । उभे आ पप्रौ रोदसी महित्वा
उद् उ ष्य शरणे दिवो ज्योतिर् अयꣳस्त सूर्यः । अग्निर् न शुक्रः समिधान आहुतः
वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः । ईशे हि पित्वो ऽविषस्य दावने
तत् सूर्यꣳ रोदसी उभे दोषा वस्तोर् उप ब्रुवे । भोजेष्व् अस्माꣳ अभ्य् उच् चरा सदा
ऋज्रम् उक्षण्यायने रजतꣳ हरयाणे । रथꣳ युक्तम् असनाम सुषामणि
ता मे अश्व्यानाꣳ हरीणाꣳ नितोशना । उतो नु कृत्व्यानाꣳ नृवाहसा
स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । महो वाजिनाव् अर्वन्ता सचासनम्
युवोर् उ षू रथꣳ हुवे सधस्तुत्याय सूरिषु । अतूर्तदक्षा वृषणा वृषण्वसू
युवꣳ वरो सुषाम्णे महे तने नासत्या । अवोभिर् याथो वृषणा वृषण्वसू
ता वाम् अद्य हवामहे हव्येभिर् वाजिनीवसू । पूर्वीर् इष इषयन्ताव् अति क्षपः
आ वाꣳ वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । उप स्तोमान् तुरस्य दर्शथः श्रिये
जुहुराणा चिद् अश्विना मन्येथाꣳ वृषण्वसू । युवꣳ हि रुद्रा पर्षथो अति द्विषः
दस्रा हि विश्वम् आनुषङ् मक्षूभिः परिदीयथः । धियꣳजिन्वा मधुवर्णा शुभस् पती
उप नो यातम् अश्विना राया विश्वपुषा सह । मघवाना सुवीराव् अनपच्युता
आ मे अस्य प्रतीव्य१म् इन्द्रनासत्या गतम् । देवा देवेभिर् अद्य सचनस्तमा
वयꣳ हि वाꣳ हवामह उक्षण्यन्तो व्यश्ववत् । सुमतिभिर् उप विप्राव् इहा गतम्
अश्विना स्व् ऋषे स्तुहि कुवित् ते श्रवतो हवम् । नेदीयसः कूळयातः पणीꣳर् उत
वैयश्वस्य श्रुतꣳ नरोतो मे अस्य वेदथः । सजोषसा वरुणो मित्रो अर्यमा
युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः । अहर्-अहर् वृषण मह्यꣳ शिक्षतम्
यो वाꣳ यज्ञेभिर् आवृतो ऽधिवस्त्रा वधूर् इव । सपर्यन्ता शुभे चक्राते अश्विना
यो वाम् उरुव्यचस्तमꣳ चिकेतति नृपाय्यम् । वर्तिर् अश्विना परि यातम् अस्मयू
अस्मभ्यꣳ सु वृषण्वसू यातꣳ वर्तिर् नृपाय्यम् । विषुद्रुहेव यज्ञम् ऊहथुर् गिरा
वाहिष्ठो वाꣳ हवानाꣳ स्तोमो दूतो हुवन् नरा । युवाभ्याम् भूत्व् अश्विना
यद् अदो दिवो अर्णव इषो वा मदथो गृहे । श्रुतम् इन् मे अमर्त्या
उत स्या श्वेतयावरी वाहिष्ठा वाꣳ नदीनाम् । सिन्धुर् हिरण्यवर्तनिः
स्मद् एतया सुकीर्त्याश्विना श्वेतया धिया । वहेथे शुभ्रयावाना
युक्ष्वा हि त्वꣳ रथासहा युवस्व पोष्या वसो । आन् नो वायो मधु पिबास्माकꣳ सवना गहि
तव वायव् ऋतस्पते त्वष्टुर् जामातर् अद्भुत । अवाꣳस्य् आ वृणीमहे
त्वष्टुर् जामातरꣳ वयम् ईशानꣳ राय ईमहे । सुतावन्तो वायुꣳ द्युम्ना जनासः
वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् । वहस्व महः पृथुपक्षसा रथे
त्वाꣳ हि सुप्सरस्तमꣳ नृषदनेषु हूमहे । ग्रावाणꣳ नाश्वपृष्ठम् मꣳहना
स त्वꣳ नो देव मनसा वायो मन्दानो अग्रियः । कृधि वाजाꣳ अपो धियः
अग्निर् उक्थे पुरोहितो ग्रावाणो बर्हिर् अध्वरे । ऋचा यामि मरुतो ब्रह्मणस् पतिꣳ देवाꣳ अवो वरेण्यम्
आ पशुꣳ गासि पृथिवीꣳ वनस्पतीन् उषासा नक्तम् ओषधीः । विश्वे च नो वसवो विश्ववेदसो धीनाम् भूत प्रावितारः
प्र सू न एत्व् अध्वरो३ ऽग्ना देवेषु पूर्व्यः । आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु
विश्वे हि ष्मा मनवे विश्ववेदसो भुवन् वृधे रिशादसः । अरिष्टेभिः पायुभिर् विश्ववेदसो यन्ता नो ऽवृकꣳ छर्दिः
आ नो अद्य समनसो गन्ता विश्वे सजोषसः । ऋचा गिरा मरुतो देव्य् अदिते सदने पस्त्ये महि
अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन । आ बर्हिर् इन्द्रो वरुणस् तुरा नर आदित्यासः सदन्तु नः
वयꣳ वो वृक्तबर्हिषो हितप्रयस आनुषक् । सुतसोमासो वरुण हवामहे मनुष्वद् इद्धाग्नयः
आ प्र यात मरुतो विष्णो अश्विना पूषन् माकीनया धिया । इन्द्र आ यातु प्रथमः सनिष्युभिर् वृषा यो वृत्रहा गृणे
वि नो देवासो अद्रुहो ऽच्छिद्रꣳ शर्म यच्छत । न यद् दूराद् वसवो नू चिद् अन्तितो वरूथम् आदधर्षति
अस्ति हि वः सजात्यꣳ रिशादसो देवासो अस्त्य् आप्यम् । प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे
इदा हि व उपस्तुतिम् इदा वामस्य भक्तये । उप वो विश्ववेदसो नमस्युर् आꣳ असृक्ष्य् अन्याम् इव
उद् उ ष्य वः सविता सुप्रणीतयो ऽस्थाद् ऊर्ध्वो वरेण्यः । नि द्विपादश् चतुष्पादो अर्थिनो ऽविश्रन् पतयिष्णवः
देवꣳ-देवꣳ वो ऽवसे देवꣳ-देवम् अभिष्टये । देवꣳ-देवꣳ हुवेम वाजसातये गृणन्तो देव्या धिया
देवासो हि ष्मा मनवे समन्यवो विश्वे साकꣳ सरातयः । ते नो अद्य ते अपरꣳ तुचे तु नो भवन्तु वरिवोविदः
प्र वः शꣳसाम्य् अद्रुहः सꣳस्थ उपस्तुतीनाम् । न तꣳ धूर्तिर् वरुण मित्र मर्त्यꣳ यो वो धामभ्यो ऽविधत्
प्र स क्षयꣳ तिरते वि महीर् इषो यो वो वराय दाशति । प्र प्रजाभिर् जायते धर्मणस् पर्य् अरिष्टः सर्व एधते
ऋते स विन्दते युधः सुगेभिर् यात्य् अध्वनः । अर्यमा मित्रो वरुणः सरातयो यꣳ त्रायन्ते सजोषसः
अज्रे चिद् अस्मै कृणुथा न्यञ्चनꣳ दुर्गे चिद् आ सुसरणम् । एषा चिद् अस्माद् अशनिः परो नु सास्रेधन्ती वि नश्यतु
यद् अद्य सूर्य उद्यति प्रियक्षत्रा ऋतꣳ दध । यन् निम्रुचि प्रबुधि विश्ववेदसो यद् वा मध्यꣳदिने दिवः
यद् वाभिपित्वे असुरा ऋतꣳ यते छर्दिर् येम वि दाशुषे । वयꣳ तद् वो वसवो विश्ववेदस उप स्थेयाम मध्य आ
यद् अद्य सूर उदिते यन् मध्यꣳदिन आतुचि । वामꣳ धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे
वयꣳ तद् वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् । अश्याम तद् आदित्या जुह्वतो हविर् येन वस्यो ऽनशामहै
ये त्रिꣳशति त्रयस् परो देवासो बर्हिर् आसदन् । विदन्न् अह द्वितासनन्
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः । पत्नीवन्तो वषट्कृताः
ते नो गोपा अपाच्यास् त उदक् त इत्था न्यक् । पुरस्तात् सर्वया विशा
यथा वशन्ति देवास् तथेद् असत् तद् एषाꣳ नकिर् आ मिनत् । अरावा चन मर्त्यः
सप्तानाꣳ सप्त ऋष्टयः सप्त द्युम्नान्य् एषाम् । सप्तो अधि श्रियो धिरे
बभ्रुर् एको विषुणः सूनरो युवाञ्ज्य् अङ्क्ते हिरण्ययम्
योनिम् एक आ ससाद द्योतनो ऽन्तर् देवेषु मेधिरः
वाशीम् एको बिभर्ति हस्त आयसीम् अन्तर् देवेषु निध्रुविः
वज्रम् एको बिभर्ति हस्त आहितꣳ तेन वृत्राणि जिघ्नते
तिग्मम् एको बिभर्ति हस्त आयुधꣳ शुचिर् उग्रो जलाषभेषजः
पथ एकः पीपाय तस्करो यथाꣳ एष वेद निधीनाम्
त्रीण्य् एक उरुगायो वि चक्रमे यत्र देवासो मदन्ति
विभिर् द्वा चरत एकया सह प्र प्रवासेव वसतः
सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती
अर्चन्त एके महि साम मन्वत तेन सूर्यम् अरोचयन्
नहि वो अस्त्य् अर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत्
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश् च त्रिꣳशच् च । मनोर् देवा यज्ञियासः
ते नस् त्राध्वꣳ ते ऽवत त उ नो अधि वोचत । मा नः पथः पित्र्यान् मानवाद् अधि दूरꣳ नैष्ट परावतः
ये देवास इह स्थन विश्वे वैश्वानरा उत । अस्मभ्यꣳ शर्म सप्रथो गवे ऽश्वाय यच्छत
यो यजाति यजात इत् सुनवच् च पचाति च । ब्रह्मेद् इन्द्रस्य चाकनत्
पुरोळाशꣳ यो अस्मै सोमꣳ ररत आशिरम् । पाद् इत् तꣳ शक्रो अꣳहसः
तस्य द्युमाꣳ असद् रथो देवजूतः स शूशुवत् । विश्वा वन्वन्न् अमित्रिया
अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे । इळा धेनुमती दुहे
या दम्पती समनसा सुनुत आ च धावतः । देवासो नित्ययाशिरा
प्रति प्राशव्याꣳ इतः सम्यञ्चा बर्हिर् आशाते । न ता वाजेषु वायतः
न देवानाम् अपि ह्नुतः सुमतिꣳ न जुगुक्षतः । श्रवो बृहद् विवासतः
पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः । उभा हिरण्यपेशसा
वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् । सम् ऊधो रोमशꣳ हतो देवेषु कृणुतो दुवः
आ शर्म पर्वतानाꣳ वृणीमहे नदीनाम् । आ विष्णोः सचाभुवः
ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः । उरुर् अध्वा स्वस्तये
अरमतिर् अनर्वणो विश्वो देवस्य मनसा । आदित्यानाम् अनेह इत्
यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः । सुगा ऋतस्य पन्थाः
अग्निꣳ वः पूर्व्यꣳ गिरा देवम् ईळे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रꣳ न क्षेत्रसाधसम्
मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् । देवानाꣳ य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत्
न यजमान रिष्यसि न सुन्वान न देवयो । देवानाꣳ य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत्
नकिष् टꣳ कर्मणा नशन् न प्र योषन् न योषति । देवानाꣳ य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत्
असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् । देवानाꣳ य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत्
प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत
यः सृबिन्दम् अनर्शनिम् पिप्रुꣳ दासम् अहीशुवम् । वधीद् उग्रो रिणन्न् अपः
न्य् अर्बुदस्य विष्टपꣳ वर्ष्माणम् बृहतस् तिर । कृषे तद् इन्द्र पौꣳस्यम्
प्रति श्रुताय वो धृषत् तूर्णाशꣳ न गिरेर् अधि । हुवे सुशिप्रम् ऊतये
स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः । पुरꣳ न शूर दर्षसि
यदि मे रारणः सुत उक्थे वा दधसे चनः । आराद् उप स्वधा गहि
वयꣳ घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः । त्वꣳ नो जिन्व सोमपाः
उत नः पितुम् आ भर सꣳरराणो अविक्षितम् । मघवन् भूरि ते वसु
उत नो गोमतस् कृधि हिरण्यवतो अश्विनः । इळाभिः सꣳ रभेमहि
बृबदुक्थꣳ हवामहे सृप्रकरस्नम् ऊतये । साधु कृण्वन्तम् अवसे
यः सꣳस्थे चिच् छतक्रतुर् आद् ईꣳ कृणोति वृत्रहा । जरितृभ्यः पुरूवसुः
स नः शक्रश् चिद् आ शकद् दानवाꣳ अन्तराभरः । इन्द्रो विश्वाभिर् ऊतिभिः
यो रायो३ ऽवनिर् महान् सुपारः सुन्वतः सखा । तम् इन्द्रम् अभि गायत
आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् । भूरेर् ईशानम् ओजसा
नकिर् अस्य शचीनाꣳ नियन्ता सूनृतानाम् । नकिर् वक्ता न दाद् इति
न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् । न सोमो अप्रता पपे
पन्य इद् उप गायत पन्य उक्थानि शꣳसत । ब्रह्मा कृणोत पन्य इत्
पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः । इन्द्रो यो यज्वनो वृधः
वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः । इन्द्र पिब सुतानाम्
पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा । उतायम् इन्द्र यस् तव
अतीहि मन्युषाविणꣳ सुषुवाꣳसम् उपारणे । इमꣳ रातꣳ सुतम् पिब
इहि तिस्रः परावत इहि पञ्च जनाꣳ अति । धेना इन्द्रावचाकशत्
सूर्यो रश्मिꣳ यथा सृजा त्वा यच्छन्तु मे गिरः । निम्नम् आपो न सध्र्यक्
अध्वर्यव् आ तु हि षिञ्च सोमꣳ वीराय शिप्रिणे । भरा सुतस्य पीतये
य उद्नः फलिगम् भिनन् न्य१क् सिन्धूꣳर् अवासृजत् । यो गोषु पक्वꣳ धारयत्
अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् । हिमेनाविध्यद् अर्बुदम्
प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे । देवत्तम् ब्रह्म गायत
यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः । इन्द्रो देवेषु चेतति
इह त्या सधमाद्या हरी हिरण्यकेश्या । वोळ्हाम् अभि प्रयो हितम्
अर्वाञ्चꣳ त्वा पुरुष्टुत प्रियमेधस्तुता हरी । सोमपेयाय वक्षतः
वयꣳ घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । कदा सुतꣳ तृषाण ओक आ गम इन्द्र स्वब्दीव वꣳसगः
कण्वेभिर् धृष्णव् आ धृषद् वाजꣳ दर्षि सहस्रिणम् । पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे । यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे । य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः
यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः । विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः
क ईꣳ वेद सुते सचा पिबन्तꣳ कद् वयो दधे । अयꣳ यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः
दाना मृगो न वारणः पुरुत्रा चरथꣳ दधे । नकिष् ट्वा नि यमद् आ सुते गमो महाꣳश् चरस्य् ओजसा
य उग्रः सन्न् अनिष्टृतः स्थिरो रणाय सꣳस्कृतः । यदि स्तोतुर् मघवा शृणवद् धवꣳ नेन्द्रो योषत्य् आ गमत्
सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः । वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः
वृषणस् ते अभीशवो वृषा कशा हिरण्ययी । वृषा रथो मघवन् वृषणा हरी वृषा त्वꣳ शतक्रतो
वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर । वृषा दधन्वे वृषणꣳ नदीष्व् आ तुभ्यꣳ स्थातर् हरीणाम्
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् । नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः
वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः । तिरश् चिद् अर्यꣳ सवनानि वृत्रहन्न् अन्येषाꣳ या शतक्रतो
अस्माकम् अद्यान्तमꣳ स्तोमꣳ धिष्व महामह । अस्माकꣳ ते सवना सन्तु शꣳतमा मदाय द्युक्ष सोमपाः
नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति । यो अस्मान् वीर आनयत्
इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः । उतो अह क्रतुꣳ रघुम्
सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् । एवेद् धूर् वृष्ण उत्तरा
अधः पश्यस्व मोपरि सꣳतराम् पादकौ हर । मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ
एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
अत्रा वि नेमिर् एषाम् उराꣳ न धूनुते वृकः । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ त्वा कण्वा इहावसे हवन्ते वाजसातये । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
दधामि ते सुतानाꣳ वृष्णे न पूर्वपाय्यम् । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
स्मत्पुरꣳधिर् न आ गहि विश्वतोधीर् न ऊतये । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ नो याहि महेमते सहस्रोते शतामघ । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ त्वा होता मनुर्हितो देवत्रा वक्षद् ईड्यः । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ नः सहस्रशो भरायुतानि शतानि च । दिवो अमुष्य शासतो दिवꣳ यय दिवावसो
आ यद् इन्द्रश् च दद्वहे सहस्रꣳ वसुरोचिषः । ओजिष्ठम् अश्व्यम् पशुम्
य ऋज्रा वातरꣳहसो ऽरुषासो रघुष्यदः । भ्राजन्ते सूर्या इव
पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु । तिष्ठꣳ वनस्य मध्य आ
अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना
विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना
विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना
जुषेथाꣳ यज्ञम् बोधतꣳ हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषꣳ नो वोळ्हम् अश्विना
स्तोमꣳ जुषेथाꣳ युवशेव कन्यनाꣳ विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषꣳ नो वोळ्हम् अश्विना
गिरो जुषेथाम् अध्वरꣳ जुषेथाꣳ विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषꣳ नो वोळ्हम् अश्विना
हारिद्रवेव पतथो वनेद् उप सोमꣳ सुतम् महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना
हꣳसाव् इव पतथो अध्वगाव् इव सोमꣳ सुतम् महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना
श्येनाव् इव पतथो हव्यदातये सोमꣳ सुतम् महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना
पिबतꣳ च तृप्णुतꣳ चा च गच्छतम् प्रजाꣳ च धत्तꣳ द्रविणꣳ च धत्तम् । सजोषसा उषसा सूर्येण चोर्जꣳ नो धत्तम् अश्विना
जयतꣳ च प्र स्तुतꣳ च प्र चावतम् प्रजाꣳ च धत्तꣳ द्रविणꣳ च धत्तम् । सजोषसा उषसा सूर्येण चोर्जꣳ नो धत्तम् अश्विना
हतꣳ च शत्रून् यततꣳ च मित्रिणः प्रजाꣳ च धत्तꣳ द्रविणꣳ च धत्तम् । सजोषसा उषसा सूर्येण चोर्जꣳ नो धत्तम् अश्विना
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना
अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना
ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना
ब्रह्म जिन्वतम् उत जिन्वतꣳ धियो हतꣳ रक्षाꣳसि सेधतम् अमीवाः । सजोषसा उषसा सूर्येण च सोमꣳ सुन्वतो अश्विना
क्षत्रꣳ जिन्वतम् उत जिन्वतꣳ नॄन् हतꣳ रक्षाꣳसि सेधतम् अमीवाः । सजोषसा उषसा सूर्येण च सोमꣳ सुन्वतो अश्विना
धेनूर् जिन्वतम् उत जिन्वतꣳ विशो हतꣳ रक्षाꣳसि सेधतम् अमीवाः । सजोषसा उषसा सूर्येण च सोमꣳ सुन्वतो अश्विना
अत्रेर् इव शृणुतम् पूर्व्यस्तुतिꣳ श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्
सर्गाꣳ इव सृजतꣳ सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्
रश्मीꣳर् इव यच्छतम् अध्वराꣳ उप श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम्
अर्वाग् रथꣳ नि यच्छतम् पिबतꣳ सोम्यम् मधु । आ यातम् अश्विना गतम् अवस्युर् वाम् अहꣳ हुवे धत्तꣳ रत्नानि दाशुषे
नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । आ यातम् अश्विना गतम् अवस्युर् वाम् अहꣳ हुवे धत्तꣳ रत्नानि दाशुषे
स्वाहाकृतस्य तृम्पतꣳ सुतस्य देवाव् अन्धसः । आ यातम् अश्विना गतम् अवस्युर् वाम् अहꣳ हुवे धत्तꣳ रत्नानि दाशुषे
अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
ऊर्जा देवाꣳ अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
जनिताश्वानाꣳ जनिता गवाम् असि पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
अत्रीणाꣳ स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कꣳ शतक्रतो । यꣳ ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाꣳ इन्द्र सत्पते
श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन्
प्रेदम् ब्रह्म वृत्रतूर्येष्व् आविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
सस्थावाना यवयसि त्वम् एक इच् छचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
क्षेमस्य च प्रयुजश् च त्वम् ईशिषे शचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
क्षत्राय त्वम् अवसि न त्वम् आविथ शचीपत इन्द्र विश्वाभिर् ऊतिभिः । माध्यꣳदिनस्य सवनस्य वृत्रहन्न् अनेद्य पिबा सोमस्य वज्रिवः
श्यावाश्वस्य रेभतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः । प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र क्षत्राणि वर्धयन्
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम्
तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम्
इदꣳ वाम् मदिरम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । इन्द्राग्नी तस्य बोधतम्
जुषेथाꣳ यज्ञम् इष्टये सुतꣳ सोमꣳ सधस्तुती । इन्द्राग्नी आ गतꣳ नरा
इमा जुषेथाꣳ सवना येभिर् हव्यान्य् ऊहथुः । इन्द्राग्नी आ गतꣳ नरा
इमाꣳ गायत्रवर्तनिꣳ जुषेथाꣳ सुष्टुतिम् मम । इन्द्राग्नी आ गतꣳ नरा
प्रातर्यावभिर् आ गतꣳ देवेभिर् जेन्यावसू । इन्द्राग्नी सोमपीतये
श्यावाश्वस्य सुन्वतो ऽत्रीणाꣳ शृणुतꣳ हवम् । इन्द्राग्नी सोमपीतये
एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । इन्द्राग्नी सोमपीतये
आहꣳ सरस्वतीवतोर् इन्द्राग्न्योर् अवो वृणे । याभ्याꣳ गायत्रम् ऋच्यते
अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईळा यजध्यै । अग्निर् देवाꣳ अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्य१ꣳ नभन्ताम् अन्यके समे
न्य् अग्ने नव्यसा वचस् तनूषु शꣳसम् एषाम् । न्य् अराती रराव्णाꣳ विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे
अग्ने मन्मानि तुभ्यꣳ कꣳ घृतꣳ न जुह्व आसनि । स देवेषु प्र चिकिद्धि त्वꣳ ह्य् असि पूर्व्यः शिवो दूतो विवस्वतो नभन्ताम् अन्यके समे
तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति । ऊर्जाहुतिर् वसूनाꣳ शꣳ च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे
स चिकेत सहीयसाग्निश् चित्रेण कर्मणा । स होता शश्वतीनाꣳ दक्षिणाभिर् अभीवृत इनोति च प्रतीव्य१ꣳ नभन्ताम् अन्यके समे
अग्निर् जाता देवानाम् अग्निर् वेद मर्तानाम् अपीच्यम् । अग्निः स द्रविणोदा अग्निर् द्वारा व्य् ऊर्णुते स्वाहुतो नवीयसा नभन्ताम् अन्यके समे
अग्निर् देवेषु सꣳवसुः स विक्षु यज्ञियास्व् आ । स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे
यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निꣳ यज्ञेषु पूर्व्यꣳ नभन्ताम् अन्यके समे
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे
त्वꣳ नो अग्न आयुषु त्वꣳ देवेषु पूर्व्य वस्व एक इरज्यसि । त्वाम् आपः परिस्रुतः परि यन्ति स्वसेतवो नभन्ताम् अन्यके समे
इन्द्राग्नी युवꣳ सु नः सहन्ता दासथो रयिम् । येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे
नहि वाꣳ वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठꣳ नृणाꣳ नरम् । स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे
ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सꣳ धीतम् अश्नुतꣳ नरा नभन्ताम् अन्यके समे
अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा । ययोर् विश्वम् इदꣳ जगद् इयꣳ द्यौः पृथिवी मह्य् उ१पस्थे बिभृतो वसु नभन्ताम् अन्यके समे
प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत । या सप्तबुध्नम् अर्णवꣳ जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे
अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय । वयꣳ तद् अस्य सम्भृतꣳ वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे
यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । अस्माकेभिर् नृभिर् वयꣳ सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे
या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः । इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चताꣳ नभन्ताम् अन्यके समे
पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः । वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे
तꣳ शिशीता सुवृक्तिभिस् त्वेषꣳ सत्वानम् ऋग्मियम् । उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे
तꣳ शिशीता स्वध्वरꣳ सत्यꣳ सत्वानम् ऋत्वियम् । उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे
एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि । त्रिधातुना शर्मणा पातम् अस्मान् वयꣳ स्याम पतयो रयीणाम्
अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः । यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे
तम् ऊ षु समना गिरा पितॄणाꣳ च मन्मभिः । नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे
स क्षपः परि षस्वजे न्य् उ१स्रो मायया दधे स विश्वम् परि दर्शतः । तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे
यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः । स माता पूर्व्यम् पदꣳ तद् वरुणस्य सप्त्यꣳ स हि गोपा इवेर्यो नभन्ताम् अन्यके समे
यो धर्ता भुवनानाꣳ य उस्राणाम् अपीच्या३ वेद नामानि गुह्या । स कविः काव्या पुरु रूपꣳ द्यौर् इव पुष्यति नभन्ताम् अन्यके समे
यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता । त्रितꣳ जूती सपर्यत व्रजे गावो न सꣳयुजे युजे अश्वाꣳ अयुक्षत नभन्ताम् अन्यके समे
य आस्व् अत्क आशये विश्वा जातान्य् एषाम् । परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतꣳ नभन्ताम् अन्यके समे
स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे । स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे
यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः । त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवꣳ सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे
यः श्वेताꣳ अधिनिर्णिजश् चक्रे कृष्णाꣳ अनु व्रता । स धाम पूर्व्यम् ममे यः स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे
अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि
एवा वन्दस्व वरुणम् बृहन्तꣳ नमस्या धीरम् अमृतस्य गोपाम् । स नः शर्म त्रिवरूथꣳ वि यꣳसत् पातꣳ नो द्यावापृथिवी उपस्थे
इमाꣳ धियꣳ शिक्षमाणस्य देव क्रतुꣳ दक्षꣳ वरुण सꣳ शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावꣳ रुहेम
आ वाꣳ ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः । नासत्या सोमपीतये नभन्ताम् अन्यके समे
यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् । नासत्या सोमपीतये नभन्ताम् अन्यके समे
एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः । नासत्या सोमपीतये नभन्ताम् अन्यके समे
इमे विप्रस्य वेधसो ऽग्नेर् अस्तृतयज्वनः । गिरः स्तोमास ईरते
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम्
आरोका इव घेद् अह तिग्मा अग्ने तव त्विषः । दद्भिर् वनानि बप्सति
हरयो धूमकेतवो वातजूता उप द्यवि । यतन्ते वृथग् अग्नयः
एते त्ये वृथग् अग्नय इद्धासः सम् अदृक्षत । उषसाम् इव केतवः
कृष्णा रजाꣳसि पत्सुतः प्रयाणे जातवेदसः । अग्निर् यद् रोधति क्षमि
धासिꣳ कृण्वान ओषधीर् बप्सद् अग्निर् न वायति । पुनर् यन् तरुणीर् अपि
जिह्वाभिर् अह नन्नमद् अर्चिषा जञ्जणाभवन् । अग्निर् वनेषु रोचते
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे । गर्भे सञ् जायसे पुनः
उद् अग्ने तव तद् घृताद् अर्ची रोचत आहुतम् । निꣳसानꣳ जुह्वो३ मुखे
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर् विधेमाग्नये
उत त्वा नमसा वयꣳ होतर् वरेण्यक्रतो । अग्ने समिद्भिर् ईमहे
उत त्वा भृगुवच् छुचे मनुष्वद् अग्न आहुत । अङ्गिरस्वद् धवामहे
त्वꣳ ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे
स त्वꣳ विप्राय दाशुषे रयिꣳ देहि सहस्रिणम् । अग्ने वीरवतीम् इषम्
अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत । इमꣳ स्तोमꣳ जुषस्व मे
उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते । गोष्ठꣳ गाव इवाशत
तुभ्यꣳ ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे
अग्निꣳ धीभिर् मनीषिणो मेधिरासो विपश्चितः । अद्मसद्याय हिन्विरे
तꣳ त्वाम् अज्मेषु वाजिनꣳ तन्वाना अग्ने अध्वरम् । वह्निꣳ होतारम् ईळते
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे
तम् ईळिष्व य आहुतो ऽग्निर् विभ्राजते घृतैः । इमꣳ नः शृणवद् धवम्
तꣳ त्वा वयꣳ हवामहे शृण्वन्तꣳ जातवेदसम् । अग्ने घ्नन्तम् अप द्विषः
विशाꣳ राजानम् अद्भुतम् अध्यक्षꣳ धर्मणाम् इमम् । अग्निम् ईळे स उ श्रवत्
अग्निꣳ विश्वायुवेपसम् मर्यꣳ न वाजिनꣳ हितम् । सप्तिꣳ न वाजयामसि
घ्नन् मृध्राण्य् अप द्विषो दहन् रक्षाꣳसि विश्वहा । अग्ने तिग्मेन दीदिहि
यꣳ त्वा जनास इन्धते मनुष्वद् अङ्गिरस्तम । अग्ने स बोधि मे वचः
यद् अग्ने दिविजा अस्य् अप्सुजा वा सहस्कृत । तꣳ त्वा गीर्भिर् हवामहे
तुभ्यꣳ घेत् ते जना इमे विश्वाः सुक्षितयः पृथक् । धासिꣳ हिन्वन्त्य् अत्तवे
ते घेद् अग्ने स्वाध्यो ऽहा विश्वा नृचक्षसः । तरन्तः स्याम दुर्गहा
अग्निम् मन्द्रम् पुरुप्रियꣳ शीरम् पावकशोचिषम् । हृद्भिर् मन्द्रेभिर् ईमहे
स त्वम् अग्ने विभावसुः सृजन् सूर्यो न रश्मिभिः । शर्धन् तमाꣳसि जिघ्नसे
तत् ते सहस्व ईमहे दात्रꣳ यन् नोपदस्यति । त्वद् अग्ने वार्यꣳ वसु
समिधाग्निꣳ दुवस्यत घृतैर् बोधयतातिथिम् । आस्मिन् हव्या जुहोतन
अग्ने स्तोमꣳ जुषस्व मे वर्धस्वानेन मन्मना । प्रति सूक्तानि हर्य नः
अग्निꣳ दूतम् पुरो दधे हव्यवाहम् उप ब्रुवे । देवाꣳ आ सादयाद् इह
उत् ते बृहन्तो अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते
उप त्वा जुह्वो३ मम घृताचीर् यन्तु हर्यत । अग्ने हव्या जुषस्व नः
मन्द्रꣳ होतारम् ऋत्विजꣳ चित्रभानुꣳ विभावसुम् । अग्निम् ईळे स उ श्रवत्
प्रत्नꣳ होतारम् ईड्यꣳ जुष्टम् अग्निꣳ कविक्रतुम् । अध्वराणाम् अभिश्रियम्
जुषाणो अङ्गिरस्तमेमा हव्यान्य् आनुषक् । अग्ने यज्ञꣳ नय ऋतुथा
समिधान उ सन्त्य शुक्रशोच इहा वह । चिकित्वान् दैव्यꣳ जनम्
विप्रꣳ होतारम् अद्रुहꣳ धूमकेतुꣳ विभावसुम् । यज्ञानाꣳ केतुम् ईमहे
अग्ने नि पाहि नस् त्वम् प्रति ष्म देव रीषतः । भिन्धि द्वेषः सहस्कृत
अग्निः प्रत्नेन मन्मना शुम्भानस् तन्व१ꣳ स्वाम् । कविर् विप्रेण वावृधे
ऊर्जो नपातम् आ हुवे ऽग्निम् पावकशोचिषम् । अस्मिन् यज्ञे स्वध्वरे
स नो मित्रमहस् त्वम् अग्ने शुक्रेण शोचिषा । देवैर् आ सत्सि बर्हिषि
यो अग्निꣳ तन्वो३ दमे देवम् मर्तः सपर्यति । तस्मा इद् दीदयद् वसु
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीꣳष्य् अर्चयः
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः । स्तोता स्याꣳ तव शर्मणि
त्वाम् अग्ने मनीषिणस् त्वाꣳ हिन्वन्ति चित्तिभिः । त्वाꣳ वर्धन्तु नो गिरः
अदब्धस्य स्वधावतो दूतस्य रेभतः सदा । अग्नेः सख्यꣳ वृणीमहे
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः
उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । अग्ने सख्यस्य बोधि नः
यद् अग्ने स्याम् अहꣳ त्वꣳ त्वꣳ वा घा स्या अहम् । स्युष् टे सत्या इहाशिषः
वसुर् वसुपतिर् हि कम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि
अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः । गिरो वाश्रास ईरते
युवानꣳ विश्पतिꣳ कविꣳ विश्वादम् पुरुवेपसम् । अग्निꣳ शुम्भामि मन्मभिः
यज्ञानाꣳ रथ्ये वयꣳ तिग्मजम्भाय वीळवे । स्तोमैर् इषेमाग्नये
अयम् अग्ने त्वे अपि जरिता भूतु सन्त्य । तस्मै पावक मृळय
धीरो ह्य् अस्य् अद्मसद् विप्रो न जागृविः सदा । अग्ने दीदयसि द्यवि
पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे । प्र ण आयुर् वसो तिर
आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् । येषाम् इन्द्रो युवा सखा
बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः । येषाम् इन्द्रो युवा सखा
अयुद्ध इद् युधा वृतꣳ शूर आजति सत्वभिः । येषाम् इन्द्रो युवा सखा
आ बुन्दꣳ वृत्रहा ददे जातः पृच्छद् वि मातरम् । क उग्राः के ह शृण्विरे
प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् । यस् ते शत्रुत्वम् आचके
उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् । यद् वीळयासि वीळु तत्
यद् आजिꣳ यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप । रथीतमो रथीनाम्
वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह । भवा नः सुश्रवस्तमः
अस्माकꣳ सु रथम् पुर इन्द्रः कृणोतु सातये । न यꣳ धूर्वन्ति धूर्तयः
वृज्याम ते परि द्विषो ऽरꣳ ते शक्र दावने । गमेमेद् इन्द्र गोमतः
शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः । विवक्षणा अनेहसः
ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता । जरितृभ्यो विमꣳहते
विद्मा हि त्वा धनꣳजयम् इन्द्र दृळ्हा चिद् आरुजम् । आदारिणꣳ यथा गयम्
ककुहꣳ चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः । आ त्वा पणिꣳ यद् ईमहे
यस् ते रेवाꣳ अदाशुरिः प्रममर्ष मघत्तये । तस्य नो वेद आ भर
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम्
उत त्वाबधिरꣳ वयꣳ श्रुत्कर्णꣳ सन्तम् ऊतये । दूराद् इह हवामहे
यच् छुश्रूया इमꣳ हवꣳ दुर्मर्षꣳ चक्रिया उत । भवेर् आपिर् नो अन्तमः
यच् चिद् धि ते अपि व्यथिर् जगन्वाꣳसो अमन्महि । गोदा इद् इन्द्र बोधि नः
आ त्वा रम्भꣳ न जिव्रयो ररभ्मा शवसस् पते । उश्मसि त्वा सधस्थ आ
स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने । नकिर् यꣳ वृण्वते युधि
अभि त्वा वृषभा सुते सुतꣳ सृजामि पीतये । तृम्पा व्य् अश्नुही मदम्
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् । माकीम् ब्रह्मद्विषो वनः
इह त्वा गोपरीणसा महे मन्दन्तु राधसे । सरो गौरो यथा पिब
या वृत्रहा परावति सना नवा च चुच्युवे । ता सꣳसत्सु प्र वोचत
अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे । अत्रादेदिष्ट पौꣳस्यम्
सत्यꣳ तत् तुर्वशे यदौ विदानो अह्नवाय्यम् । व्य् आनट् तुर्वणे शमि
तरणिꣳ वो जनानाꣳ त्रदꣳ वाजस्य गोमतः । समानम् उ प्र शꣳसिषम्
ऋभुक्षणꣳ न वर्तव उक्थेषु तुग्र्यावृधम् । इन्द्रꣳ सोमे सचा सुते
यः कृन्तद् इद् वि योन्यꣳ त्रिशोकाय गिरिम् पृथुम् । गोभ्यो गातुꣳ निरेतवे
यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि । मा तत् कर् इन्द्र मृळय
दभ्रꣳ चिद् धि त्वावतः कृतꣳ शृण्वे अधि क्षमि । जिगात्व् इन्द्र ते मनः
तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः । यद् इन्द्र मृळयासि नः
मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु । वधीर् मा शूर भूरिषु
बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः । दस्माद् अहम् ऋतीषहः
मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो । आवृत्वद् भूतु ते मनः
को नु मर्या अमिथितः सखा सखायम् अब्रवीत् । जहा को अस्मद् ईषते
एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः । श्वघ्नीव निवता चरन्
आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा । यद् ईम् ब्रह्मभ्य इद् ददः
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हꣳ तद् आ भर
यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् । वसु स्पार्हꣳ तद् आ भर
यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति । वसु स्पार्हꣳ तद् आ भर
त्वावतः पुरूवसो वयम् इन्द्र प्रणेतः । स्मसि स्थातर् हरीणाम्
त्वाꣳ हि सत्यम् अद्रिवो विद्म दातारम् इषाम् । विद्म दातारꣳ रयीणाम्
आ यस्य ते महिमानꣳ शतमूते शतक्रतो । गीर्भिर् गृणन्ति कारवः
सुनीथो घा स मर्त्यो यम् मरुतो यम् अर्यमा । मित्रः पान्त्य् अद्रुहः
दधानो गोमद् अश्ववत् सुवीर्यम् आदित्यजूत एधते । सदा राया पुरुस्पृहा
तम् इन्द्रꣳ दानम् ईमहे शवसानम् अभीर्वम् । ईशानꣳ राय ईमहे
तस्मिन् हि सन्त्य् ऊतयो विश्वा अभीरवः सचा । तम् आ वहन्तु सप्तयः पुरूवसुम् मदाय हरयः सुतम्
यस् ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । य आददिः स्व१र् नृभिर् यः पृतनासु दुष्टरः
यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्व् अस्ति तरुता । स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे
गव्यो षु णो यथा पुराश्वयोत रथया । वरिवस्य महामह
नहि ते शूर राधसो ऽन्तꣳ विन्दामि सत्रा । दशस्या नो मघवन् नू चिद् अद्रिवो धियो वाजेभिर् आविथ
य ऋष्वः श्रावयत्सखा विश्वेत् स वेद जनिमा पुरुष्टुतः । तꣳ विश्वे मानुषा युगेन्द्रꣳ हवन्ते तविषꣳ यतस्रुचः
स नो वाजेष्व् अविता पुरूवसुः पुरःस्थाता मघवा वृत्रहा भुवत्
अभि वो वीरम् अन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रꣳ नाम श्रुत्यꣳ शाकिनꣳ वचो यथा
ददी रेक्णस् तन्वे ददिर् वसु ददिर् वाजेषु पुरुहूत वाजिनम् । नूनम् अथ
विश्वेषाम् इरज्यन्तꣳ वसूनाꣳ सासह्वाꣳसꣳ चिद् अस्य वर्पसः । कृपयतो नूनम् अत्य् अथ
महः सु वो अरम् इषे स्तवामहे मीळ्हुषे अरꣳगमाय जग्मये । यज्ञेभिर् गीर्भिर् विश्वमनुषाम् मरुताम् इयक्षसि गाये त्वा नमसा गिरा
ये पातयन्ते अज्मभिर् गिरीणाꣳ स्नुभिर् एषाम् । यज्ञम् महिष्वणीनाꣳ सुम्नꣳ तुविष्वणीनाम् प्राध्वरे
प्रभङ्गꣳ दुर्मतीनाम् इन्द्र शविष्ठा भर । रयिम् अस्मभ्यꣳ युज्यꣳ चोदयन्मते ज्येष्ठꣳ चोदयन्मते
सनितः सुसनितर् उग्र चित्र चेतिष्ठ सूनृत । प्रासहा सम्राट् सहुरिꣳ सहन्तम् भुज्युꣳ वाजेषु पूर्व्यम्
आ स एतु य ईवद् आꣳ अदेवः पूर्तम् आददे । यथा चिद् वशो अश्व्यः पृथुश्रवसि कानीते३ ऽस्या व्युष्य् आददे
षष्टिꣳ सहस्राश्व्यस्यायुतासनम् उष्ट्रानाꣳ विꣳशतिꣳ शता । दश श्यावीनाꣳ शता दश त्र्यरुषीणाꣳ दश गवाꣳ सहस्रा
दश श्यावा ऋधद्रयो वीतवारास आशवः । मथ्रा नेमिꣳ नि वावृतुः
दानासः पृथुश्रवसः कानीतस्य सुराधसः । रथꣳ हिरण्ययꣳ ददन् मꣳहिष्ठः सूरिर् अभूद् वर्षिष्ठम् अकृत श्रवः
आ नो वायो महे तने याहि मखाय पाजसे । वयꣳ हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने
यो अश्वेभिर् वहते वस्त उस्रास् त्रिः सप्त सप्ततीनाम् । एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः
यो म इमꣳ चिद् उ त्मनामन्दच् चित्रꣳ दावने । अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः
उचथ्ये३ वपुषि यः स्वराळ् उत वायो घृतस्नाः । अश्वेषितꣳ रजेषितꣳ शुनेषितम् प्राज्म तद् इदꣳ नु तत्
अध प्रियम् इषिराय षष्टिꣳ सहस्रासनम् । अश्वानाम् इन् न वृष्णाम्
गावो न यूथम् उप यन्ति वध्रय उप मा यन्ति वध्रयः
अध यच् चारथे गणे शतम् उष्ट्राꣳ अचिक्रदत् । अध श्वित्नेषु विꣳशतिꣳ शता
शतꣳ दासे बल्बूथे विप्रस् तरुक्ष आ ददे । ते ते वायव् इमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः
अध स्या योषणा मही प्रतीची वशम् अश्व्यम् । अधिरुक्मा वि नीयते
महि वो महताम् अवो वरुण मित्र दाशुषे । यम् आदित्या अभि द्रुहो रक्षथा नेम् अघꣳ नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः
विदा देवा अघानाम् आदित्यासो अपाकृतिम् । पक्षा वयो यथोपरि व्य् अ१स्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः
व्य् अ१स्मे अधि शर्म तत् पक्षा वयो न यन्तन । विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः
यस्मा अरासत क्षयꣳ जीवातुꣳ च प्रचेतसः । मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः
परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा । स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः
परिह्वृतेद् अना जनो युष्मादत्तस्य वायति । देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः
न तꣳ तिग्मꣳ चन त्यजो न द्रासद् अभि तꣳ गुरु । यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः
युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः
अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः
यद् देवाः शर्म शरणꣳ यद् भद्रꣳ यद् अनातुरम् । त्रिधातु यद् वरूथ्य१ꣳ तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः
आदित्या अव हि ख्यताधि कूलाद् इव स्पशः । सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः
नेह भद्रꣳ रक्षस्विने नावयै नोपया उत । गवे च भद्रꣳ धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः
यद् आविर् यद् अपीच्य१ꣳ देवासो अस्ति दुष्कृतम् । त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः
यच् च गोषु दुष्ष्वप्न्यꣳ यच् चास्मे दुहितर् दिवः । त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः
निष्कꣳ वा घा कृणवते स्रजꣳ वा दुहितर् दिवः । त्रिते दुष्ष्वप्न्यꣳ सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः
तदन्नाय तदपसे तम् भागम् उपसेदुषे । त्रिताय च द्विताय चोषो दुष्ष्वप्न्यꣳ वहानेहसो व ऊतयः सुऊतयो व ऊतयः
यथा कलाꣳ यथा शफꣳ यथ ऋणꣳ सꣳनयामसि । एवा दुष्ष्वप्न्यꣳ सर्वम् आप्त्ये सꣳ नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः
अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः
स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य । विश्वे यꣳ देवा उत मर्त्यासो मधु ब्रुवन्तो अभि सꣳचरन्ति
अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य । इन्दव् इन्द्रस्य सख्यꣳ जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः
अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् । किꣳ नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य
शꣳ नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशꣳस धीरः प्र ण आयुर् जीवसे सोम तारीः
इमे मा पीता यशस उरुष्यवो रथꣳ न गावः सम् अनाह पर्वसु । ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः
अग्निꣳ न मा मथितꣳ सꣳ दिदीपः प्र चक्षय कृणुहि वस्यसो नः । अथा हि ते मद आ सोम मन्ये रेवाꣳ इव प्र चरा पुष्टिम् अच्छ
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः । सोम राजन् प्र ण आयूꣳषि तारीर् अहानीव सूर्यो वासराणि
सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्या३स् तस्य विद्धि । अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः
त्वꣳ हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः । यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः
ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः । अयꣳ यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः
अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः । आ सोमो अस्माꣳ अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः
यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्याꣳ आविवेश । तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम
त्वꣳ सोम पितृभिः सꣳविदानो ऽनु द्यावापृथिवी आ ततन्थ । तस्मै त इन्दो हविषा विधेम वयꣳ स्याम पतयो रयीणाम्
त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः । वयꣳ सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम
त्वꣳ नः सोम विश्वतो वयोधास् त्वꣳ स्वर्विद् आ विशा नृचक्षाः । त्वꣳ न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात्
अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः
आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः । आपो न वज्रिन्न् अन्व् ओक्य१ꣳ सरः पृणन्ति शूर राधसे
अनेहसम् प्रतरणꣳ विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब । आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत्
आ नः स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः । यꣳ ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः
उग्रꣳ न वीरꣳ नमसोप सेदिम विभूतिम् अक्षितावसुम् । उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः
यद् ध नूनꣳ यद् वा यज्ञे यद् वा पृथिव्याम् अधि । अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि
अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वꣳ स्वर् दृशे
एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः । यथा प्रावो मघवन् मेध्यातिथिꣳ यथा नीपातिथिꣳ धने
यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे । यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत्
प्र सु श्रुतꣳ सुराधसम् अर्चा शक्रम् अभिष्टये । यः सुन्वते स्तुवते काम्यꣳ वसु सहस्रेणेव मꣳहते
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईꣳ सुता अमन्दिषुः
यद् ईꣳ सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः । आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे
अनेहसꣳ वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः । आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे
आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । यꣳ ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम्
प्र वीरम् उग्रꣳ विविचिꣳ धनस्पृतꣳ विभूतिꣳ राधसो महः । उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे
यद् ध नूनम् परावति यद् वा पृथिव्याꣳ दिवि । युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि
रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति । येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे
एतावतस् ते वसो विद्याम शूर नव्यसः । यथा प्राव एतशꣳ कृत्व्ये धने यथा वशꣳ दशव्रजे
यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि । यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रꣳ हरिश्रियम्
यथा मनौ साꣳवरणौ सोमम् इन्द्रापिबः सुतम् । नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा
पार्षद्वाणः प्रस्कण्वꣳ सम् असादयच् छयानꣳ जिव्रिम् उद्धितम् । सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः
य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः । इन्द्रꣳ तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तꣳ न भोजसे
यस्मा अर्कꣳ सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे । स त्व् इ१मा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौꣳस्यम्
यो नो दाता वसूनाम् इन्द्रꣳ तꣳ हूमहे वयम् । विद्मा ह्य् अस्य सुमतिꣳ नवीयसीꣳ गमेम गोमति व्रजे
यस्मै त्वꣳ वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते । तꣳ त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानꣳ देवस्य पृच्यते
प्र यो ननक्षे अभ्य् ओजसा क्रिविꣳ वधैः शुष्णꣳ निघोषयन् । यदेद् अस्तम्भीत् प्रथयन्न् अमूꣳ दिवम् आद् इज् जनिष्ट पार्थिवः
यस्यायꣳ विश्व आर्यो दासः शेवधिपा अरिः । तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः
तुरण्यवो मधुमन्तꣳ घृतश्चुतꣳ विप्रासो अर्कम् आनृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवो ऽस्मे सुवानास इन्दवः
यथा मनौ विवस्वति सोमꣳ शक्रापिबः सुतम् । यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा
पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । यथा सोमꣳ दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि
य उक्था केवला दधे यः सोमꣳ धृषितापिबत् । यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः
यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो । तꣳ त्वा वयꣳ सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः
यो नो दाता स नः पिता महाꣳ उग्र ईशानकृत् । अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः
यस्मै त्वꣳ वसो दानाय मꣳहसे स रायस् पोषम् इन्वति । वसूयवो वसुपतिꣳ शतक्रतुꣳ स्तोमैर् इन्द्रꣳ हवामहे
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य हवनꣳ त इन्द्रियम् आ तस्थाव् अमृतꣳ दिवि
यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे । अस्माकꣳ गिर उत सुष्टुतिꣳ वसो कण्ववच् छृणुधी हवम्
अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत । पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत
सम् इन्द्रो रायो बृहतीर् अधूनुत सꣳ क्षोणी सम् उ सूर्यम् । सꣳ शुक्रासः शुचयः सꣳ गवाशिरः सोमा इन्द्रम् अमन्दिषुः
उपमꣳ त्वा मघोनाꣳ ज्येष्ठꣳ च वृषभाणाम् । पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानꣳ राय ईमहे
य आयुꣳ कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे । तꣳ त्वा वयꣳ हर्यश्वꣳ शतक्रतुꣳ वाजयन्तो हवामहे
आ नो विश्वेषाꣳ रसम् मध्वः सिञ्चन्त्व् अद्रयः । ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः
विश्वा द्वेषाꣳसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु । शीष्टेषु चित् ते मदिरासो अꣳशवो यत्रा सोमस्य तृम्पसि
इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः । आ शꣳतम शꣳतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः
आजितुरꣳ सत्पतिꣳ विश्वचर्षणिꣳ कृधि प्रजास्व् आभगम् । प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक्
यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते । वयꣳ होत्राभिर् उत देवहूतिभिः ससवाꣳसो मनामहे
अहꣳ हि ते हरिवो ब्रह्म वाजयुर् आजिꣳ यामि सदोतिभिः । त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम्
एतत् त इन्द्र वीर्यꣳ गीर्भिर् गृणन्ति कारवः । ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः
नक्षन्त इन्द्रम् अवसे सुकृत्यया येषाꣳ सुतेषु मन्दसे । यथा सꣳवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व
आ नो विश्वे सजोषसो देवासो गन्तनोप नः । वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम्
पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः । आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम्
यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम । तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन्
आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो । वीती होत्राभिर् उत देववीतिभिः ससवाꣳसो वि शृण्विरे
सन्ति ह्य् अ१र्य आशिष इन्द्र आयुर् जनानाम् । अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम्
वयꣳ त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकꣳ शतक्रतो । महि स्थूरꣳ शशयꣳ राधो अह्रयम् प्रस्कण्वाय नि तोशय
भूरीद् इन्द्रस्य वीर्य१ꣳ व्य् अख्यम् अभ्य् आयति । राधस् ते दस्यवे वृक
शतꣳ श्वेतास उक्षणो दिवि तारो न रोचन्ते । मह्ना दिवꣳ न तस्तभुः
शतꣳ वेणूञ् छतꣳ शुनः शतꣳ चर्माणि म्लातानि । शतम् मे बल्बजस्तुका अरुषीणाꣳ चतुःशतम्
सुदेवाः स्थ काण्वायना वयो-वयो विचरन्तः । अश्वासो न चङ्क्रमत
आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः । श्यावीर् अतिध्वसन् पथश् चक्षुषा चन सꣳनशे
प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् । द्यौर् न प्रथिना शवः
दश मह्यम् पौतक्रतः सहस्रा दस्यवे वृकः । नित्याद् रायो अमꣳहत
शतम् मे गर्दभानाꣳ शतम् ऊर्णावतीनाम् । शतꣳ दासाꣳ अति स्रजः
तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता । अश्वानाम् इन् न यूथ्याम्
अचेत्य् अग्निश् चिकितुर् हव्यवाट् स सुमद्रथः । अग्निः शुक्रेण शोचिषा बृहत् सूरो अरोचत दिवि सूर्यो अरोचत
युवꣳ देवा क्रतुना पूर्व्येण युक्ता रथेन तविषꣳ यजत्रा । आगच्छतꣳ नासत्या शचीभिर् इदꣳ तृतीयꣳ सवनम् पिबाथः
युवाꣳ देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । अस्माकꣳ यज्ञꣳ सवनꣳ जुषाणा पातꣳ सोमम् अश्विना दीद्यग्नी
पनाय्यꣳ तद् अश्विना कृतꣳ वाꣳ वृषभो दिवो रजसः पृथिव्याः । सहस्रꣳ शꣳसा उत ये गविष्टौ सर्वाꣳ इत् ताꣳ उप याता पिबध्यै
अयꣳ वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् । पिबतꣳ सोमम् मधुमन्तम् अस्मे प्र दाश्वाꣳसम् अवतꣳ शचीभिः
यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमꣳ वहन्ति । यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य सꣳवित्
एक एवाग्निर् बहुधा समिद्ध एकः सूर्यो विश्वम् अनु प्रभूतः । एकैवोषाः सर्वम् इदꣳ वि भात्य् एकꣳ वा इदꣳ वि बभूव सर्वम्
ज्योतिष्मन्तꣳ केतुमन्तꣳ त्रिचक्रꣳ सुखꣳ रथꣳ सुषदम् भूरिवारम् । चित्रामघा यस्य योगे ऽधिजज्ञे तꣳ वाꣳ हुवे अति रिक्तम् पिबध्यै
इमानि वाम् भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञे-यज्ञे ह सवना भुरण्यथो यत् सुन्वते यजमानाय शिक्षथः
निष्षिध्वरीर् ओषधीर् आप आस्ताम् इन्द्रावरुणा महिमानम् आशत । या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर् नकिर् आदेव ओहते
सत्यꣳ तद् इन्द्रावरुणा कृशस्य वाम् मध्व ऊर्मिꣳ दुहते सप्त वाणीः । ताभिर् दाश्वाꣳसम् अवतꣳ शुभस् पती यो वाम् अदब्धो अभि पाति चित्तिभिः
घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । या ह वाम् इन्द्रावरुणा घृतश्चुतस् ताभिर् धत्तꣳ यजमानाय शिक्षतम्
अवोचाम महते सौभगाय सत्यꣳ त्वेषाभ्याम् महिमानम् इन्द्रियम् । अस्मान् स्व् इन्द्रावरुणा घृतश्चुतस् त्रिभिः साप्तेभिर् अवतꣳ शुभस् पती
इन्द्रावरुणा यद् ऋषिभ्यो मनीषाꣳ वाचो मतिꣳ श्रुतम् अदत्तम् अग्रे । यानि स्थानान्य् असृजन्त धीरा यज्ञꣳ तन्वानास् तपसाभ्य् अपश्यम्
इन्द्रावरुणा सौमनसम् अदृप्तꣳ रायस् पोषꣳ यजमानेषु धत्तम् । प्रजाम् पुष्टिम् भूतिम् अस्मासु धत्तꣳ दीर्घायुत्वाय प्र तिरतꣳ न आयुः
अग्न आ याह्य् अग्निभिर् होतारꣳ त्वा वृणीमहे । आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिर् आसदे
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश् चरन्त्य् अध्वरे । ऊर्जो नपातꣳ घृतकेशम् ईमहे ऽग्निꣳ यज्ञेषु पूर्व्यम्
अग्ने कविर् वेधा असि होता पावक यक्ष्यः । मन्द्रो यजिष्ठो अध्वरेष्व् ईड्यो विप्रेभिः शुक्र मन्मभिः
अद्रोघम् आ वहोशतो यविष्ठ्य देवाꣳ अजस्र वीतये । अभि प्रयाꣳसि सुधिता वसो गहि मन्दस्व धीतिभिर् हितः
त्वम् इत् सप्रथा अस्य् अग्ने त्रातर् ऋतस् कविः । त्वाꣳ विप्रासः समिधान दीदिव आ विवासन्ति वेधसः
शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाꣳ असि । देवानाꣳ शर्मन् मम सन्तु सूरयः शत्रूषाहः स्वग्नयः
यथा चिद् वृद्धम् अतसम् अग्ने सꣳजूर्वसि क्षमि । एवा दह मित्रमहो यो अस्मध्रुग् दुर्मन्मा कश् च वेनति
मा नो मर्ताय रिपवे रक्षस्विने माघशꣳसाय रीरधः । अस्रेधद्भिस् तरणिभिर् यविष्ठ्य शिवेभिः पाहि पायुभिः
पाहि नो अग्न एकया पाह्य् उ१त द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जाम् पते पाहि चतसृभिर् वसो
पाहि विश्वस्माद् रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव । त्वाम् इद् धि नेदिष्ठꣳ देवतातय आपिꣳ नक्षामहे वृधे
आ नो अग्ने वयोवृधꣳ रयिम् पावक शꣳस्यम् । रास्वा च न उपमाते पुरुस्पृहꣳ सुनीती स्वयशस्तरम्
येन वꣳसाम पृतनासु शर्धतस् तरन्तो अर्य आदिशः । स त्वꣳ नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः
शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः
नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद् वितिष्ठसे । स त्वꣳ नो होतः सुहुतꣳ हविष् कृधि वꣳस्वा नो वार्या पुरु
शेषे वनेषु मात्रोः सꣳ त्वा मर्तास इन्धते । अतन्द्रो हव्या वहसि हविष्कृत आद् इद् देवेषु राजसि
सप्त होतारस् तम् इद् ईळते त्वाग्ने सुत्यजम् अह्रयम् । भिनत्स्य् अद्रिꣳ तपसा वि शोचिषा प्राग्ने तिष्ठ जनाꣳ अति
अग्निम्-अग्निꣳ वो अध्रिगुꣳ हुवेम वृक्तबर्हिषः । अग्निꣳ हितप्रयसः शश्वतीष्व् आ होतारꣳ चर्षणीनाम्
केतेन शर्मन् सचते सुषामण्य् अग्ने तुभ्यꣳ चिकित्वना । इषण्यया नः पुरुरूपम् आ भर वाजꣳ नेदिष्ठम् ऊतये
अग्ने जरितर् विश्पतिस् तेपानो देव रक्षसः । अप्रोषिवान् गृहपतिर् महाꣳ असि दिवस् पायुर् दुरोणयुः
मा नो रक्ष आ वेशीद् आघृणीवसो मा यातुर् यातुमावताम् । परोगव्यूत्य् अनिराम् अप क्षुधम् अग्ने सेध रक्षस्विनः
उभयꣳ शृणवच् च न इन्द्रो अर्वाग् इदꣳ वचः । सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्
तꣳ हि स्वराजꣳ वृषभꣳ तम् ओजसे धिषणे निष्टतक्षतुः । उतोपमानाम् प्रथमो नि षीदसि सोमकामꣳ हि ते मनः
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । विद्मा हि त्वा हरिवः पृत्सु सासहिम् अधृष्टꣳ चिद् दधृष्वणिम्
अप्रामिसत्य मघवन् तथेद् असद् इन्द्र क्रत्वा यथा वशः । सनेम वाजꣳ तव शिप्रिन्न् अवसा मक्षू चिद् यन्तो अद्रिवः
शग्ध्य् ऊ३ षु शचीपत इन्द्र विश्वाभिर् ऊतिभिः । भगꣳ न हि त्वा यशसꣳ वसुविदम् अनु शूर चरामसि
पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः । नकिर् हि दानम् परिमर्धिषत् त्वे यद्-यद् यामि तद् आ भर
त्वꣳ ह्य् एहि चेरवे विदा भगꣳ वसुत्तये । उद् वावृषस्व मघवन् गविष्टय उद् इन्द्राश्वमिष्टये
त्वम् पुरू सहस्राणि शतानि च यूथा दानाय मꣳहसे । आ पुरꣳदरꣳ चकृम विप्रवचस इन्द्रꣳ गायन्तो ऽवसे
अविप्रो वा यद् अविधद् विप्रो वेन्द्र ते वचः । स प्र ममन्दत् त्वाया शतक्रतो प्राचामन्यो अहꣳसन
उग्रबाहुर् म्रक्षकृत्वा पुरꣳदरो यदि मे शृणवद् धवम् । वसूयवो वसुपतिꣳ शतक्रतुꣳ स्तोमैर् इन्द्रꣳ हवामहे
न पापासो मनामहे नारायासो न जळ्हवः । यद् इन् न्व् इन्द्रꣳ वृषणꣳ सचा सुते सखायꣳ कृणवामहै
उग्रꣳ युयुज्म पृतनासु सासहिम् ऋणकातिम् अदाभ्यम् । वेदा भृमꣳ चित् सनिता रथीतमो वाजिनꣳ यम् इद् ऊ नशत्
यत इन्द्र भयामहे ततो नो अभयꣳ कृधि । मघवञ् छग्धि तव तन् न ऊतिभिर् वि द्विषो वि मृधो जहि
त्वꣳ हि राधस्पते राधसो महः क्षयस्यासि विधतः । तꣳ त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे
इन्द्रः स्पळ् उत वृत्रहा परस्पा नो वरेण्यः । स नो रक्षिषच् चरमꣳ स मध्यमꣳ स पश्चात् पातु नः पुरः
त्वꣳ नः पश्चाद् अधराद् उत्तरात् पुर इन्द्र नि पाहि विश्वतः । आरे अस्मत् कृणुहि दैव्यम् भयम् आरे हेतीर् अदेवीः
अद्याद्या श्वः-श्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन् सत्पते अहा दिवा नक्तꣳ च रक्षिषः
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रम् मिमिक्षतुः
प्रो अस्मा उपस्तुतिम् भरता यज् जुजोषति । उक्थैर् इन्द्रस्य माहिनꣳ वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः
अयुजो असमो नृभिर् एकः कृष्टीर् अयास्यः । पूर्वीर् अति प्र वावृधे विश्वा जातान्य् ओजसा भद्रा इन्द्रस्य रातयः
अहितेन चिद् अर्वता जीरदानुः सिषासति । प्रवाच्यम् इन्द्र तत् तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः
आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना । येभिः शविष्ठ चाकनो भद्रम् इह श्रवस्यते भद्रा इन्द्रस्य रातयः
धृषतश् चिद् धृषन् मनः कृणोषीन्द्र यत् त्वम् । तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः
अव चष्ट ऋचीषमो ऽवताꣳ इव मानुषः । जुष्ट्वी दक्षस्य सोमिनः सखायꣳ कृणुते युजम् भद्रा इन्द्रस्य रातयः
विश्वे त इन्द्र वीर्यꣳ देवा अनु क्रतुꣳ ददुः । भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः
गृणे तद् इन्द्र ते शव उपमꣳ देवतातये । यद् धꣳसि वृत्रम् ओजसा शचीपते भद्रा इन्द्रस्य रातयः
समनेव वपुष्यतः कृणवन् मानुषा युगा । विदे तद् इन्द्रश् चेतनम् अध श्रुतो भद्रा इन्द्रस्य रातयः
उज् जातम् इन्द्र ते शव उत् त्वाम् उत् तव क्रतुम् । भूरिगो भूरि वावृधुर् मघवन् तव शर्मणि भद्रा इन्द्रस्य रातयः
अहꣳ च त्वꣳ च वृत्रहन् सꣳ युज्याव सनिभ्य आ । अरातीवा चिद् अद्रिवो ऽनु नौ शूर मꣳसते भद्रा इन्द्रस्य रातयः
सत्यम् इद् वा उ तꣳ वयम् इन्द्रꣳ स्तवाम नानृतम् । महाꣳ असुन्वतो वधो भूरि ज्योतीꣳषि सुन्वतो भद्रा इन्द्रस्य रातयः
स पूर्व्यो महानाꣳ वेनः क्रतुभिर् आनजे । यस्य द्वारा मनुष् पिता देवेषु धिय आनजे
दिवो मानꣳ नोत् सदन् सोमपृष्ठासो अद्रयः । उक्था ब्रह्म च शꣳस्या
स विद्वाꣳ अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप । स्तुषे तद् अस्य पौꣳस्यम्
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे
आद् ऊ नु ते अनु क्रतुꣳ स्वाहा वरस्य यज्यवः । श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । यम् अर्का अध्वरꣳ विदुः
यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । अस्तृणाद् बर्हणा विपो३ ऽर्यो मानस्य स क्षयः
इयम् उ ते अनुष्टुतिश् चकृषे तानि पौꣳस्या । प्रावश् चक्रस्य वर्तनिम्
अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे । यवꣳ न पश्व आ ददे
तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः । स्याम मरुत्वतो वृधे
बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः । जेषामेन्द्र त्वया युजा
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शꣳसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माꣳ अवन्तु देवाः
उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि
पदा पणीꣳर् अराधसो नि बाधस्व महाꣳ असि । नहि त्वा कश् चन प्रति
त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् । त्वꣳ राजा जनानाम्
एहि प्रेहि क्षयो दिव्य् आ३घोषञ् चर्षणीनाम् । ओभे पृणासि रोदसी
त्यꣳ चित् पर्वतꣳ गिरिꣳ शतवन्तꣳ सहस्रिणम् । वि स्तोतृभ्यो रुरोजिथ
वयम् उ त्वा दिवा सुते वयꣳ नक्तꣳ हवामहे । अस्माकꣳ कामम् आ पृण
क्व१ स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस् तꣳ सपर्यति
कस्य स्वित् सवनꣳ वृषा जुजुष्वाꣳ अव गच्छति । इन्द्रꣳ क उ स्विद् आ चके
कꣳ ते दाना असक्षत वृत्रहन् कꣳ सुवीर्या । उक्थे क उ स्विद् अन्तमः
अयꣳ ते मानुषे जने सोमः पूरुषु सूयते । तस्येहि प्र द्रवा पिब
अयꣳ ते शर्यणावति सुषोमायाम् अधि प्रियः । आर्जीकीये मदिन्तमः
तम् अद्य राधसे महे चारुम् मदाय घृष्वये । एहीम् इन्द्र द्रवा पिब
यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः । आ याहि तूयम् आशुभिः
यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे । यद् वा समुद्रे अन्धसः
आ त्वा गीर्भिर् महाम् उरुꣳ हुवे गाम् इव भोजसे । इन्द्र सोमस्य पीतये
आ त इन्द्र महिमानꣳ हरयो देव ते महः । रथे वहन्तु बिभ्रतः
इन्द्र गृणीष उ स्तुषे महाꣳ उग्र ईशानकृत् । एहि नः सुतम् पिब
सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे । इदꣳ नो बर्हिर् आसदे
यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् । तꣳ त्वा वयꣳ हवामहे
इदꣳ ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः । जुषाण इन्द्र तत् पिब
विश्वाꣳ अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि । अस्मे धेहि श्रवो बृहत्
दाता मे पृषतीनाꣳ राजा हिरण्यवीनाम् । मा देवा मघवा रिषत्
सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु । शुक्रꣳ हिरण्यम् आ ददे
नपातो दुर्गहस्य मे सहस्रेण सुराधसः । श्रवो देवेष्व् अक्रत
तरोभिर् वो विदद्वसुम् इन्द्रꣳ सबाध ऊतये । बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरꣳ न कारिणम्
न यꣳ दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम्
यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः । स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा
निखातꣳ चिद् यः पुरुसम्भृतꣳ वसूद् इद् वपति दाशुषे । वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत्
यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् । वयꣳ तत् त इन्द्र सम् भरामसि यज्ञम् उक्थꣳ तुरꣳ वचः
सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः । त्वम् इद् धि ब्रह्मकृते काम्यꣳ वसु देष्ठः सुन्वते भुवः
वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् । तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते
वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति । सेमꣳ नः स्तोमꣳ जुजुषाण आ गहीन्द्र प्र चित्रया धिया
कद् ऊ न्व् अ१स्याकृतम् इन्द्रस्यास्ति पौꣳस्यम् । केनो नु कꣳ श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा
कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् । इन्द्रो विश्वान् बेकनाटाꣳ अहर्दृश उत क्रत्वा पणीꣳर् अभि
वयꣳ घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । पुरूतमासः पुरुहूत वज्रिवो भृतिꣳ न प्र भरामसि
पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः । तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम्
वयꣳ घा ते त्वे इद् व् इन्द्र विप्रा अपि ष्मसि । नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता
त्वꣳ नो अस्या अमतेर् उत क्षुधो३ ऽभिशस्तेर् अव स्पृधि । त्वꣳ न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित्
सोम इद् वः सुतो अस्तु कलयो मा बिभीतन । अपेद् एष ध्वस्मायति स्वयꣳ घैषो अपायति
त्यान् नु क्षत्रियाꣳ अव आदित्यान् याचिषामहे । सुमृळीकाꣳ अभिष्टये
मित्रो नो अत्य् अꣳहतिꣳ वरुणः पर्षद् अर्यमा । आदित्यासो यथा विदुः
तेषाꣳ हि चित्रम् उक्थ्य१ꣳ वरूथम् अस्ति दाशुषे । आदित्यानाम् अरꣳकृते
महि वो महताम् अवो वरुण मित्रार्यमन् । अवाꣳस्य् आ वृणीमहे
जीवान् नो अभि धेतनादित्यासः पुरा हथात् । कद् ध स्थ हवनश्रुतः
यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः । तेना नो अधि वोचत
अस्ति देवा अꣳहोर् उर्व् अस्ति रत्नम् अनागसः । आदित्या अद्भुतैनसः
मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि । इन्द्र इद् धि श्रुतो वशी
मा नो मृचा रिपूणाꣳ वृजिनानाम् अविष्यवः । देवा अभि प्र मृक्षत
उत त्वाम् अदिते मह्य् अहꣳ देव्य् उप ब्रुवे । सुमृळीकाम् अभिष्टये
पर्षि दीने गभीर आꣳ उग्रपुत्रे जिघाꣳसतः । माकिस् तोकस्य नो रिषत्
अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । कृधि तोकाय जीवसे
ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः । व्रता रक्षन्ते अद्रुहः
ते न आस्नो वृकाणाम् आदित्यासो मुमोचत । स्तेनम् बद्धम् इवादिते
अपो षु ण इयꣳ शरुर् आदित्या अप दुर्मतिः । अस्मद् एत्व् अजघ्नुषी
शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् । पुरा नूनम् बुभुज्महे
शश्वन्तꣳ हि प्रचेतसः प्रतियन्तꣳ चिद् एनसः । देवाः कृणुथ जीवसे
तत् सु नो नव्यꣳ सन्यस आदित्या यन् मुमोचति । बन्धाद् बद्धम् इवादिते
नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे । यूयम् अस्मभ्यम् मृळत
मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः । पुरा नु जरसो वधीत्
वि षु द्वेषो व्य् अꣳहतिम् आदित्यासो वि सꣳहितम् । विष्वग् वि वृहता रपः
आ त्वा रथꣳ यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते
तुविशुष्म तुविक्रतो शचीवो विश्वया मते । आ पप्राथ महित्वना
यस्य ते महिना महः परि ज्मायन्तम् ईयतुः । हस्ता वज्रꣳ हिरण्ययम्
विश्वानरस्य वस् पतिम् अनानतस्य शवसः । एवैश् च चर्षणीनाम् ऊती हुवे रथानाम्
अभिष्टये सदावृधꣳ स्वर्मीळ्हेषु यꣳ नरः । नाना हवन्त ऊतये
परोमात्रम् ऋचीषमम् इन्द्रम् उग्रꣳ सुराधसम् । ईशानꣳ चिद् वसूनाम्
तꣳ-तम् इद् राधसे मह इन्द्रꣳ चोदामि पीतये । यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनाꣳ नृतुः
न यस्य ते शवसान सख्यम् आनꣳश मर्त्यः । नकिः शवाꣳसि ते नशत्
त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् । जयेम पृत्सु वज्रिवः
तꣳ त्वा यज्ञेभिर् ईमहे तꣳ गीर्भिर् गिर्वणस्तम । इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम्
यस्य ते स्वादु सख्यꣳ स्वाद्वी प्रणीतिर् अद्रिवः । यज्ञो वितन्तसाय्यः
उरु णस् तन्वे३ तन उरु क्षयाय नस् कृधि । उरु णो यन्धि जीवसे
उरुꣳ नृभ्य उरुꣳ गव उरुꣳ रथाय पन्थाम् । देववीतिम् मनामहे
उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या । तिष्ठन्ति स्वादुरातयः
ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि । आश्वमेधस्य रोहिता
सुरथाꣳ आतिथिग्वे स्वभीशूꣳर् आर्क्षे । आश्वमेधे सुपेशसः
षळ् अश्वाꣳ आतिथिग्व इन्द्रोते वधूमतः । सचा पूतक्रतौ सनम्
ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी । स्वभीशुः कशावती
न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः । अवद्यम् अधि दीधरत्
प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरꣳध्या विवासति
नदꣳ व ओदतीनाꣳ नदꣳ योयुवतीनाम् । पतिꣳ वो अघ्न्यानाꣳ धेनूनाम् इषुध्यसि
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानाꣳ विशस् त्रिष्व् आ रोचने दिवः
अभि प्र गोपतिꣳ गिरेन्द्रम् अर्च यथा विदे । सूनुꣳ सत्यस्य सत्पतिम्
आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि । यत्राभि सꣳनवामहे
इन्द्राय गाव आशिरꣳ दुदुह्रे वज्रिणे मधु । यत् सीम् उपह्वरे विदत्
उद् यद् ब्रध्नस्य विष्टपꣳ गृहम् इन्द्रश् च गन्वहि । मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे
अर्चत प्रार्चत प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरꣳ न धृष्ण्व् अर्चत
अव स्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम्
आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः । अपस्फुरꣳ गृभायत सोमम् इन्द्राय पातवे
अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत । वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सꣳ सꣳशिश्वरीर् इव
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदꣳ सूर्म्यꣳ सुषिराम् इव
यो व्यतीꣳर् अफाणयत् सुयुक्ताꣳ उप दाशुषे । तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत
अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत् कनीन ओदनम् पच्यमानम् परो गिरा
अर्भको न कुमारको ऽधि तिष्ठन् नवꣳ रथम् । स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम्
आ तू सुशिप्र दम्पते रथꣳ तिष्ठा हिरण्ययम् । अध द्युक्षꣳ सचेवहि सहस्रपादम् अरुषꣳ स्वस्तिगाम् अनेहसम्
तꣳ घेम् इत्था नमस्विन उप स्वराजम् आसते । अर्थꣳ चिद् अस्य सुधितꣳ यद् एतव आवर्तयन्ति दावने
अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । पूर्वाम् अनु प्रयतिꣳ वृक्तबर्हिषो हितप्रयस आशत
यो राजा चर्षणीनाꣳ याता रथेभिर् अध्रिगुः । विश्वासाꣳ तरुता पृतनानाꣳ ज्येष्ठो यो वृत्रहा गृणे
इन्द्रꣳ तꣳ शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि । हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः
नकिष् टꣳ कर्मणा नशद् यश् चकार सदावृधम् । इन्द्रꣳ न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टꣳ धृष्ण्वोजसम्
अषाळ्हम् उग्रम् पृतनासु सासहिꣳ यस्मिन् महीर् उरुज्रयः । सꣳ धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः
यद् द्याव इन्द्र ते शतꣳ शतम् भूमीर् उत स्युः । न त्वा वज्रिन् सहस्रꣳ सूर्या अनु न जातम् अष्ट रोदसी
आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा । अस्माꣳ अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः
न सीम् अदेव आपद् इषꣳ दीर्घायो मर्त्यः । एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते
तꣳ वो महो महाय्यम् इन्द्रꣳ दानाय सक्षणिम् । यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः
उद् ऊ षु णो वसो महे मृशस्व शूर राधसे । उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे
त्वꣳ न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि । मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासꣳ शिश्नथो हथैः
अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् । अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः
त्वꣳ न इन्द्रासाꣳ हस्ते शविष्ठ दावने । धानानाꣳ न सꣳ गृभायास्मयुर् द्विः सꣳ गृभायास्मयुः
सखायः क्रतुम् इच्छत कथा राधाम शरस्य । उपस्तुतिम् भोजः सूरिर् यो अह्रयः
भूरिभिः समह ऋषिभिर् बर्हिष्मद्भिः स्तविष्यसे । यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः
कर्णगृह्या मघवा शौरदेव्यो वत्सꣳ नस् त्रिभ्य आनयत् । अजाꣳ सूरिर् न धातवे
त्वꣳ नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य
नहि मन्युः पौरुषेय ईशे हि वः प्रियजात । त्वम् इद् असि क्षपावान्
स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे । रयिꣳ देहि विश्ववारम्
न तम् अग्ने अरातयो मर्तꣳ युवन्त रायः । यꣳ त्रायसे दाश्वाꣳसम्
यꣳ त्वꣳ विप्र मेधसाताव् अग्ने हिनोषि धनाय । स तवोती गोषु गन्ता
त्वꣳ रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय । प्र णो नय वस्यो अच्छ
उरुष्या णो मा परा दा अघायते जातवेदः । दुराध्ये३ मर्ताय
अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत । त्वम् ईशिषे वसूनाम्
स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य । सखे वसो जरितृभ्यः
अच्छा नः शीरशोचिषꣳ गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये
अग्निꣳ सूनुꣳ सहसो जातवेदसꣳ दानाय वार्याणाम् । द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि
अग्निꣳ वो देवयज्ययाग्निम् प्रयत्य् अध्वरे । अग्निꣳ धीषु प्रथमम् अग्निम् अर्वत्य् अग्निꣳ क्षैत्राय साधसे
अग्निर् इषाꣳ सख्ये ददातु न ईशे यो वार्याणाम् । अग्निꣳ तोके तनये शश्वद् ईमहे वसुꣳ सन्तꣳ तनूपाम्
अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् । अग्निꣳ राये पुरुमीळ्ह श्रुतꣳ नरो ऽग्निꣳ सुदीतये छर्दिः
अग्निꣳ द्वेषो योतवै नो गृणीमस्य् अग्निꣳ शꣳ योश् च दातवे । विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम्
हविष् कृणुध्वम् आ गमद् अध्वर्युर् वनते पुनः । विद्वाꣳ अस्य प्रशासनम्
नि तिग्मम् अभ्य् अ१ꣳशुꣳ सीदद् धोता मनाव् अधि । जुषाणो अस्य सख्यम्
अन्तर् इच्छन्ति तꣳ जने रुद्रम् परो मनीषया । गृभ्णन्ति जिह्वया ससम्
जाम्य् अतीतपे धनुर् वयोधा अरुहद् वनम् । दृषदꣳ जिह्वयावधीत्
चरन् वत्सो रुशन्न् इह निदातारꣳ न विन्दते । वेति स्तोतव अम्ब्यम्
उतो न्व् अस्य यन् महद् अश्वावद् योजनम् बृहद् । दामा रथस्य ददृशे
दुहन्ति सप्तैकाम् उप द्वा पञ्च सृजतः । तीर्थे सिन्धोर् अधि स्वरे
आ दशभिर् विवस्वत इन्द्रः कोशम् अचुच्यवीत् । खेदया त्रिवृता दिवः
परि त्रिधातुर् अध्वरꣳ जूर्णिर् एति नवीयसी । मध्वा होतारो अञ्जते
सिञ्चन्ति नमसावतम् उच्चाचक्रम् परिज्मानम् । नीचीनबारम् अक्षितम्
अभ्यारम् इद् अद्रयो निषिक्तम् पुष्करे मधु । अवतस्य विसर्जने
गाव उपावतावतम् मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया
आ सुते सिञ्चत श्रियꣳ रोदस्योर् अभिश्रियम् । रसा दधीत वृषभम्
ते जानत स्वम् ओक्य१ꣳ सꣳ वत्सासो न मातृभिः । मिथो नसन्त जामिभिः
उप स्रक्वेषु बप्सतः कृण्वते धरुणꣳ दिवि । इन्द्रे अग्ना नमः स्वः
अधुक्षत् पिप्युषीम् इषम् ऊर्जꣳ सप्तपदीम् अरिः । सूर्यस्य सप्त रश्मिभिः
सोमस्य मित्रावरुणोदिता सूर आ ददे । तद् आतुरस्य भेषजम्
उतो न्व् अस्य यत् पदꣳ हर्यतस्य निधान्यम् । परि द्याꣳ जिह्वयातनत्
उद् ईराथाम् ऋतायते युञ्जाथाम् अश्विना रथम् । अन्ति षद् भूतु वाम् अवः
निमिषश् चिज् जवीयसा रथेना यातम् अश्विना । अन्ति षद् भूतु वाम् अवः
उप स्तृणीतम् अत्रये हिमेन घर्मम् अश्विना । अन्ति षद् भूतु वाम् अवः
कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः । अन्ति षद् भूतु वाम् अवः
यद् अद्य कर्हि कर्हि चिच् छुश्रूयातम् इमꣳ हवम् । अन्ति षद् भूतु वाम् अवः
अश्विना यामहूतमा नेदिष्ठꣳ याम्य् आप्यम् । अन्ति षद् भूतु वाम् अवः
अवन्तम् अत्रये गृहꣳ कृणुतꣳ युवम् अश्विना । अन्ति षद् भूतु वाम् अवः
वरेथे अग्निम् आतपो वदते वल्ग्व् अत्रये । अन्ति षद् भूतु वाम् अवः
प्र सप्तवध्रिर् आशसा धाराम् अग्नेर् अशायत । अन्ति षद् भूतु वाम् अवः
इहा गतꣳ वृषण्वसू शृणुतम् म इमꣳ हवम् । अन्ति षद् भूतु वाम् अवः
किम् इदꣳ वाम् पुराणवज् जरतोर् इव शस्यते । अन्ति षद् भूतु वाम् अवः
समानꣳ वाꣳ सजात्यꣳ समानो बन्धुर् अश्विना । अन्ति षद् भूतु वाम् अवः
यो वाꣳ रजाꣳस्य् अश्विना रथो वियाति रोदसी । अन्ति षद् भूतु वाम् अवः
आ नो गव्येभिर् अश्व्यैः सहस्रैर् उप गच्छतम् । अन्ति षद् भूतु वाम् अवः
मा नो गव्येभिर् अश्व्यैः सहस्रेभिर् अति ख्यतम् । अन्ति षद् भूतु वाम् अवः
अरुणप्सुर् उषा अभूद् अकर् ज्योतिर् ऋतावरी । अन्ति षद् भूतु वाम् अवः
अश्विना सु विचाकशद् वृक्षम् परशुमाꣳ इव । अन्ति षद् भूतु वाम् अवः
पुरꣳ न धृष्णव् आ रुज कृष्णया बाधितो विशा । अन्ति षद् भूतु वाम् अवः
विशो-विशो वो अतिथिꣳ वाजयन्तः पुरुप्रियम् । अग्निꣳ वो दुर्यꣳ वचः स्तुषे शूषस्य मन्मभिः
यꣳ जनासो हविष्मन्तो मित्रꣳ न सर्पिरासुतिम् । प्रशꣳसन्ति प्रशस्तिभिः
पन्याꣳसꣳ जातवेदसꣳ यो देवतात्य् उद्यता । हव्यान्य् ऐरयद् दिवि
आगन्म वृत्रहन्तमꣳ ज्येष्ठम् अग्निम् आनवम् । यस्य श्रुतर्वा बृहन्न् आर्क्षो अनीक एधते
अमृतꣳ जातवेदसꣳ तिरस् तमाꣳसि दर्शतम् । घृताहवनम् ईड्यम्
सबाधो यꣳ जना इमे३ ऽग्निꣳ हव्येभिर् ईळते । जुह्वानासो यतस्रुचः
इयꣳ ते नव्यसी मतिर् अग्ने अधाय्य् अस्मद् आ । मन्द्र सुजात सुक्रतो ऽमूर दस्मातिथे
सा ते अग्ने शꣳतमा चनिष्ठा भवतु प्रिया । तया वर्धस्व सुष्टुतः
सा द्युम्नैर् द्युम्निनी बृहद् उपोप श्रवसि श्रवः । दधीत वृत्रतूर्ये
अश्वम् इद् गाꣳ रथप्राꣳ त्वेषम् इन्द्रꣳ न सत्पतिम् । यस्य श्रवाꣳसि तूर्वथ पन्यम्-पन्यꣳ च कृष्टयः
यꣳ त्वा गोपवनो गिरा चनिष्ठद् अग्ने अङ्गिरः । स पावक श्रुधी हवम्
यꣳ त्वा जनास ईळते सबाधो वाजसातये । स बोधि वृत्रतूर्ये
अहꣳ हुवान आर्क्षे श्रुतर्वणि मदच्युति । शर्धाꣳसीव स्तुकाविनाम् मृक्षा शीर्षा चतुर्णाम्
माꣳ चत्वार आशवः शविष्ठस्य द्रवित्नवः । सुरथासो अभि प्रयो वक्षन् वयो न तुग्र्यम्
सत्यम् इत् त्वा महेनदि परुष्ण्य् अव देदिशम् । नेम् आपो अश्वदातरः शविष्ठाद् अस्ति मर्त्यः
युक्ष्वा हि देवहूतमाꣳ अश्वाꣳ अग्ने रथीर् इव । नि होता पूर्व्यः सदः
उत नो देव देवाꣳ अच्छा वोचो विदुष्टरः । श्रद् विश्वा वार्या कृधि
त्वꣳ ह यद् यविष्ठ्य सहसः सूनव् आहुत । ऋतावा यज्ञियो भुवः
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम्
तꣳ नेमिम् ऋभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञम् अङ्गिरः
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम्
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । पणिꣳ गोषु स्तरामहे
मा नो देवानाꣳ विशः प्रस्नातीर् इवोस्राः । कृशꣳ न हासुर् अघ्न्याः
मा नः समस्य दूढ्य१ः परिद्वेषसो अꣳहतिः । ऊर्मिर् न नावम् आ वधीत्
नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैर् अमित्रम् अर्दय
कुवित् सु नो गविष्टये ऽग्ने सꣳवेषिषो रयिम् । उरुकृद् उरु णस् कृधि
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । सꣳवर्गꣳ सꣳ रयिꣳ जय
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच् छवः
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । तꣳ घेद् अग्निर् वृधावति
परस्या अधि सꣳवतो ऽवराꣳ अभ्य् आ तर । यत्राहम् अस्मि ताꣳ अव
विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । अधा ते सुम्नम् ईमहे
इमꣳ नु मायिनꣳ हुव इन्द्रम् ईशानम् ओजसा । मरुत्वन्तꣳ न वृञ्जसे
अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः । वज्रेण शतपर्वणा
वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् । सृजन् समुद्रिया अपः
अयꣳ ह येन वा इदꣳ स्वर् मरुत्वता जितम् । इन्द्रेण सोमपीतये
मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तꣳ विरप्शिनम् । इन्द्रꣳ गीर्भिर् हवामहे
इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तꣳ हवामहे । अस्य सोमस्य पीतये
मरुत्वाꣳ इन्द्र मीढ्वः पिबा सोमꣳ शतक्रतो । अस्मिन् यज्ञे पुरुष्टुत
तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः । हृदा हूयन्त उक्थिनः
पिबेद् इन्द्र मरुत्सखा सुतꣳ सोमꣳ दिविष्टिषु । वज्रꣳ शिशान ओजसा
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम्
अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् । इन्द्र यद् दस्युहाभवः
वाचम् अष्टापदीम् अहꣳ नवस्रक्तिम् ऋतस्पृशम् । इन्द्रात् परि तन्वम् ममे
जज्ञानो नु शतक्रतुर् वि पृच्छद् इति मातरम् । क उग्राः के ह शृण्विरे
आद् ईꣳ शवस्य् अब्रवीद् और्णवाभम् अहीशुवम् । ते पुत्र सन्तु निष्टुरः
सम् इत् तान् वृत्रहाखिदत् खे अराꣳ इव खेदया । प्रवृद्धो दस्युहाभवत्
एकया प्रतिधापिबत् साकꣳ सराꣳसि त्रिꣳशतम् । इन्द्रः सोमस्य काणुका
अभि गन्धर्वम् अतृणद् अबुध्नेषु रजःस्व् आ । इन्द्रो ब्रह्मभ्य इद् वृधे
निर् आविध्यद् गिरिभ्य आ धारयत् पक्वम् ओदनम् । इन्द्रो बुन्दꣳ स्वाततम्
शतब्रध्न इषुस् तव सहस्रपर्ण एक इत् । यम् इन्द्र चकृषे युजम्
तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे । सद्यो जात ऋभुष्ठिर
एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा । हृदा वीड्व् अधारयः
विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः । शतम् महिषान् क्षीरपाकम् ओदनꣳ वराहम् इन्द्र एमुषम्
तुविक्षꣳ ते सुकृतꣳ सूमयꣳ धनुः साधुर् बुन्दो हिरण्ययः । उभा ते बाहू रण्या सुसꣳस्कृत ऋदूपे चिद् ऋदूवृधा
पुरोळाशꣳ नो अन्धस इन्द्र सहस्रम् आ भर । शता च शूर गोनाम्
आ नो भर व्यञ्जनꣳ गाम् अश्वम् अभ्यञ्जनम् । सचा मना हिरण्यया
उत नः कर्णशोभना पुरूणि धृष्णव् आ भर । त्वꣳ हि शृण्विषे वसो
नकीꣳ वृधीक इन्द्र ते न सुषा न सुदा उत । नान्यस् त्वच् छूर वाघतः
नकीम् इन्द्रो निकर्तवे न शक्रः परिशक्तवे । विश्वꣳ शृणोति पश्यति
स मन्युम् मर्त्यानाम् अदब्धो नि चिकीषते । पुरा निदश् चिकीषते
क्रत्व इत् पूर्णम् उदरꣳ तुरस्यास्ति विधतः । वृत्रघ्नः सोमपाव्नः
त्वे वसूनि सꣳगता विश्वा च सोम सौभगा । सुदात्व् अपरिह्वृता
त्वाम् इद् यवयुर् मम कामो गव्युर् हिरण्ययुः । त्वाम् अश्वयुर् एषते
तवेद् इन्द्राहम् आशसा हस्ते दात्रꣳ चना ददे । दिनस्य वा मघवन् सम्भृतस्य वा पूर्धि यवस्य काशिना
अयꣳ कृत्नुर् अगृभीतो विश्वजिद् उद्भिद् इत् सोमः । ऋषिर् विप्रः काव्येन
अभ्य् ऊर्णोति यन् नग्नम् भिषक्ति विश्वꣳ यत् तुरम् । प्रेम् अन्धः ख्यन् निः श्रोणो भूत्
त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः । उरु यन्तासि वरूथम्
त्वꣳ चित्ती तव दक्षैर् दिव आ पृथिव्या ऋजीषिन् । यावीर् अघस्य चिद् द्वेषः
अर्थिनो यन्ति चेद् अर्थꣳ गच्छान् इद् ददुषो रातिम् । ववृज्युस् तृष्यतः कामम्
विदद् यत् पूर्व्यꣳ नष्टम् उद् ईम् ऋतायुम् ईरयत् । प्रेम् आयुस् तारीद् अतीर्णम्
सुशेवो नो मृळयाकुर् अदृप्तक्रतुर् अवातः । भवा नः सोम शꣳ हृदे
मा नः सोम सꣳ वीविजो मा वि बीभिषथा राजन् । मा नो हार्दि त्विषा वधीः
अव यत् स्वे सधस्थे देवानाꣳ दुर्मतीर् ईक्षे । राजन्न् अप द्विषः सेध मीढ्वो अप स्रिधः सेध
नह्य् अ१न्यम् बळाकरम् मर्डितारꣳ शतक्रतो । त्वꣳ न इन्द्र मृळय
यो नः शश्वत् पुराविथामृध्रो वाजसातये । स त्वꣳ न इन्द्र मृळय
किम् अङ्ग रध्रचोदनः सुन्वानस्यावितेद् असि । कुवित् स्व् इन्द्र णः शकः
इन्द्र प्र णो रथम् अव पश्चाच् चित् सन्तम् अद्रिवः । पुरस्ताद् एनम् मे कृधि
हन्तो नु किम् आससे प्रथमꣳ नो रथꣳ कृधि । उपमꣳ वाजयु श्रवः
अवा नो वाजयुꣳ रथꣳ सुकरꣳ ते किम् इत् परि । अस्मान् सु जिग्युषस् कृधि
इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् । इयꣳ धीर् ऋत्वियावती
मा सीम् अवद्य आ भाग् उर्वी काष्ठा हितꣳ धनम् । अपावृक्ता अरत्नयः
तुरीयꣳ नाम यज्ञियꣳ यदा करस् तद् उश्मसि । आद् इत् पतिर् न ओहसे
अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः । तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात्
आ तू न इन्द्र क्षुमन्तꣳ चित्रꣳ ग्राभꣳ सꣳ गृभाय । महाहस्ती दक्षिणेन
विद्मा हि त्वा तुविकूर्मिꣳ तुविदेष्णꣳ तुवीमघम् । तुविमात्रम् अवोभिः
नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । भीमꣳ न गाꣳ वारयन्ते
एतो न्व् इन्द्रꣳ स्तवामेशानꣳ वस्वः स्वराजम् । न राधसा मर्धिषन् नः
प्र स्तोषद् उप गासिषच् छ्रवत् साम गीयमानम् । अभि राधसा जुगुरत्
आ नो भर दक्षिणेनाभि सव्येन प्र मृश । इन्द्र मा नो वसोर् निर् भाक्
उप क्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशूष्टरस्य वेदः
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । अस्माभिः सु तꣳ सनुहि
सद्योजुवस् ते वाजा अस्मभ्यꣳ विश्वश्चन्द्राः । वशैश् च मक्षू जरन्ते
आ प्र द्रव परावतो ऽर्वावतश् च वृत्रहन् । मध्वः प्रति प्रभर्मणि
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः । पिबा दधृग् यथोचिषे
इषा मन्दस्वाद् उ ते ऽरꣳ वराय मन्यवे । भुवत् त इन्द्र शꣳ हृदे
आ त्व् अशत्रव् आ गहि न्य् उ१क्थानि च हूयसे । उपमे रोचने दिवः
तुभ्यायम् अद्रिभिः सुतो गोभिः श्रीतो मदाय कम् । प्र सोम इन्द्र हूयते
इन्द्र श्रुधि सु मे हवम् अस्मे सुतस्य गोमतः । वि पीतिꣳ तृप्तिम् अश्नुहि
य इन्द्र चमसेष्व् आ सोमश् चमूषु ते सुतः । पिबेद् अस्य त्वम् ईशिषे
यो अप्सु चन्द्रमा इव सोमश् चमूषु ददृशे । पिबेद् अस्य त्वम् ईशिषे
यꣳ ते श्येनः पदाभरत् तिरो रजाꣳस्य् अस्पृतम् । पिबेद् अस्य त्वम् ईशिषे
देवानाम् इद् अवो महत् तद् आ वृणीमहे वयम् । वृष्णाम् अस्मभ्यम् ऊतये
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा । वृधासश् च प्रचेतसः
अति नो विष्पिता पुरु नौभिर् अपो न पर्षथ । यूयम् ऋतस्य रथ्यः
वामꣳ नो अस्त्व् अर्यमन् वामꣳ वरुण शꣳस्यम् । वामꣳ ह्य् आवृणीमहे
वामस्य हि प्रचेतस ईशानाशो रिशादसः । नेम् आदित्या अघस्य यत्
वयम् इद् वः सुदानवः क्षियन्तो यान्तो अध्वन्न् आ । देवा वृधाय हूमहे
अधि न इन्द्रैषाꣳ विष्णो सजात्यानाम् । इता मरुतो अश्विना
प्र भ्रातृत्वꣳ सुदानवो ऽध द्विता समान्या । मातुर् गर्भे भरामहे
यूयꣳ हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः । अधा चिद् व उत ब्रुवे
प्रेष्ठꣳ वो अतिथिꣳ स्तुषे मित्रम् इव प्रियम् । अग्निꣳ रथꣳ न वेद्यम्
कविम् इव प्रचेतसꣳ यꣳ देवासो अध द्विता । नि मर्त्येष्व् आदधुः
त्वꣳ यविष्ठ दाशुषो नॄꣳः पाहि शृणुधी गिरः । रक्षा तोकम् उत त्मना
कया ते अग्ने अङ्गिर ऊर्जो नपाद् उपस्तुतिम् । वराय देव मन्यवे
दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कद् उ वोच इदꣳ नमः
अधा त्वꣳ हि नस् करो विश्वा अस्मभ्यꣳ सुक्षितीः । वाजद्रविणसो गिरः
कस्य नूनम् परीणसो धियो जिन्वसि दम्पते । गोषाता यस्य ते गिरः
तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । स्वेषु क्षयेषु वाजिनम्
क्षेति क्षेमेभिः साधुभिर् नकिर् यꣳ घ्नन्ति हन्ति यः । अग्ने सुवीर एधते
आ मे हवꣳ नासत्याश्विना गच्छतꣳ युवम् । मध्वः सोमस्य पीतये
इमम् मे स्तोमम् अश्विनेमम् मे शृणुतꣳ हवम् । मध्वः सोमस्य पीतये
अयꣳ वाꣳ कृष्णो अश्विना हवते वाजिनीवसू । मध्वः सोमस्य पीतये
शृणुतꣳ जरितुर् हवꣳ कृष्णस्य स्तुवतो नरा । मध्वः सोमस्य पीतये
छर्दिर् यन्तम् अदाभ्यꣳ विप्राय स्तुवते नरा । मध्वः सोमस्य पीतये
गच्छतꣳ दाशुषो गृहम् इत्था स्तुवतो अश्विना । मध्वः सोमस्य पीतये
युञ्जाथाꣳ रासभꣳ रथे वीड्वङ्गे वृषण्वसू । मध्वः सोमस्य पीतये
त्रिवन्धुरेण त्रिवृता रथेना यातम् अश्विना । मध्वः सोमस्य पीतये
नू मे गिरो नासत्याश्विना प्रावतꣳ युवम् । मध्वः सोमस्य पीतये
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । ता वाꣳ विश्वको हवते तनूकृथे मा नो वि यौष्टꣳ सख्या मुमोचतम्
कथा नूनꣳ वाꣳ विमना उप स्तवद् युवꣳ धियꣳ ददथुर् वस्यईष्टये । ता वाꣳ विश्वको हवते तनूकृथे मा नो वि यौष्टꣳ सख्या मुमोचतम्
युवꣳ हि ष्मा पुरुभुजेमम् एधतुꣳ विष्णाप्वे ददथुर् वस्यईष्टये । ता वाꣳ विश्वको हवते तनूकृथे मा नो वि यौष्टꣳ सख्या मुमोचतम्
उत त्यꣳ वीरꣳ धनसाम् ऋजीषिणꣳ दूरे चित् सन्तम् अवसे हवामहे । यस्य स्वादिष्ठा सुमतिः पितुर् यथा मा नो वि यौष्टꣳ सख्या मुमोचतम्
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गम् उर्विया वि पप्रथे । ऋतꣳ सासाह महि चित् पृतन्यतो मा नो वि यौष्टꣳ सख्या मुमोचतम्
द्युम्नी वाꣳ स्तोमो अश्विना क्रिविर् न सेक आ गतम् । मध्वः सुतस्य स दिवि प्रियो नरा पातꣳ गौराव् इवेरिणे
पिबतꣳ घर्मम् मधुमन्तम् अश्विना बर्हिः सीदतꣳ नरा । ता मन्दसाना मनुषो दुरोण आ नि पातꣳ वेदसा वयः
आ वाꣳ विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत । ता वर्तिर् यातम् उप वृक्तबर्हिषो जुष्टꣳ यज्ञꣳ दिविष्टिषु
पिबतꣳ सोमम् मधुमन्तम् अश्विना बर्हिः सीदतꣳ सुमत् । ता वावृधाना उप सुष्टुतिꣳ दिवो गन्तꣳ गौराव् इवेरिणम्
आ नूनꣳ यातम् अश्विनाश्वेभिः प्रुषितप्सुभिः । दस्रा हिरण्यवर्तनी शुभस् पती पातꣳ सोमम् ऋतावृधा
वयꣳ हि वाꣳ हवामहे विपन्यवो विप्रासो वाजसातये । ता वल्गू दस्रा पुरुदꣳससा धियाश्विना श्रुष्ट्य् आ गतम्
तꣳ वो दस्मम् ऋतीषहꣳ वसोर् मन्दानम् अन्धसः । अभि वत्सꣳ न स्वसरेषु धेनव इन्द्रꣳ गीर्भिर् नवामहे
द्युक्षꣳ सुदानुꣳ तविषीभिर् आवृतꣳ गिरिꣳ न पुरुभोजसम् । क्षुमन्तꣳ वाजꣳ शतिनꣳ सहस्रिणम् मक्षू गोमन्तम् ईमहे
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । यद् दित्ससि स्तुवते मावते वसु नकिष् टद् आ मिनाति ते
योद्धासि क्रत्वा शवसोत दꣳसना विश्वा जाताभि मज्मना । आ त्वायम् अर्क ऊतये ववर्तति यꣳ गोतमा अजीजनन्
प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस् परि । न त्वा विव्याच रज इन्द्र पार्थिवम् अनु स्वधाꣳ ववक्षिथ
नकिः परिष्टिर् मघवन् मघस्य ते यद् दाशुषे दशस्यसि । अस्माकम् बोध्य् उचथस्य चोदिता मꣳहिष्ठो वाजसातये
बृहद् इन्द्राय गायत मरुतो वृत्रहꣳतमम् । येन ज्योतिर् अजनयन्न् ऋतावृधो देवꣳ देवाय जागृवि
अपाधमद् अभिशस्तीर् अशस्तिहाथेन्द्रो द्युम्न्य् आभवत् । देवास् त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत । वृत्रꣳ हनति वृत्रहा शतक्रतुर् वज्रेण शतपर्वणा
अभि प्र भर धृषता धृषन्मनः श्रवश् चित् ते असद् बृहत् । अर्षन्त्व् आपो जवसा वि मातरो हनो वृत्रꣳ जया स्वः
यज् जायथा अपूर्व्य मघवन् वृत्रहत्याय । तत् पृथिवीम् अप्रथयस् तद् अस्तभ्ना उत द्याम्
तत् ते यज्ञो अजायत तद् अर्क उत हस्कृतिः । तद् विश्वम् अभिभूर् असि यज् जातꣳ यच् च जन्त्वम्
आमासु पक्वम् ऐरय आ सूर्यꣳ रोहयो दिवि । घर्मꣳ न सामन् तपता सुवृक्तिभिर् जुष्टꣳ गिर्वणसे बृहत्
आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु । उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः
त्वꣳ दाता प्रथमो राधसाम् अस्य् असि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः
ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता । इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि
त्वꣳ हि सत्यो मघवन्न् अनानतो वृत्रा भूरि न्यृञ्जसे । स त्वꣳ शविष्ठ वज्रहस्त दाशुषे ऽर्वाञ्चꣳ रयिम् आ कृधि
त्वम् इन्द्र यशा अस्य् ऋजीषी शवसस् पते । त्वꣳ वृत्राणि हꣳस्य् अप्रतीन्य् एक इद् अनुत्ता चर्षणीधृता
तम् उ त्वा नूनम् असुर प्रचेतसꣳ राधो भागम् इवेमहे । महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन्
कन्या३ वार् अवायती सोमम् अपि स्रुताविदत् । अस्तम् भरन्त्य् अब्रवीद् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा
असौ य एषि वीरको गृहꣳ-गृहꣳ विचाकशद् । इमꣳ जम्भसुतम् पिब धानावन्तꣳ करम्भिणम् अपूपवन्तम् उक्थिनम्
आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि । शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव
कुविच् छकत् कुवित् करत् कुविन् नो वस्यसस् करत् । कुवित् पतिद्विषो यतीर् इन्द्रेण सꣳगमामहै
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय । शिरस् ततस्योर्वराम् आद् इदम् म उपोदरे
असौ च या न उर्वराद् इमाꣳ तन्व१म् मम । अथो ततस्य यच् छिरः सर्वा ता रोमशा कृधि
खे रथस्य खे ऽनसः खे युगस्य शतक्रतो । अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोः सूर्यत्वचम्
पान्तम् आ वो अन्धस इन्द्रम् अभि प्र गायत । विश्वासाहꣳ शतक्रतुम् मꣳहिष्ठꣳ चर्षणीनाम्
पुरुहूतम् पुरुष्टुतꣳ गाथान्य१ꣳ सनश्रुतम् । इन्द्र इति ब्रवीतन
इन्द्र इन् नो महानाꣳ दाता वाजानाꣳ नृतुः । महाꣳ अभिज्ञ्व् आ यमत्
अपाद् उ शिप्र्य् अन्धसः सुदक्षस्य प्रहोषिणः । इन्दोर् इन्द्रो यवाशिरः
तम् व् अभि प्रार्चतेन्द्रꣳ सोमस्य पीतये । तद् इद् ध्य् अस्य वर्धनम्
अस्य पीत्वा मदानाꣳ देवो देवस्यौजसा । विश्वाभि भुवना भुवत्
त्यम् उ वः सत्रासाहꣳ विश्वासु गीर्ष्व् आयतम् । आ च्यावयस्य् ऊतये
युध्मꣳ सन्तम् अनर्वाणꣳ सोमपाम् अनपच्युतम् । नरम् अवार्यक्रतुम्
शिक्षा ण इन्द्र राय आ पुरु विद्वाꣳ ऋचीषम । अवा नः पार्ये धने
अतश् चिद् इन्द्र ण उपा याहि शतवाजया । इषा सहस्रवाजया
अयाम धीवतो धियो ऽर्वद्भिः शक्र गोदरे । जयेम पृत्सु वज्रिवः
वयम् उ त्वा शतक्रतो गावो न यवसेष्व् आ । उक्थेषु रणयामसि
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो । अगन्म वज्रिन्न् आशसः
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते
स नो वृषन् सनिष्ठया सꣳ घोरया द्रवित्न्वा । धियाविड्ढि पुरꣳध्या
यस् ते नूनꣳ शतक्रतव् इन्द्र द्युम्नितमो मदः । तेन नूनम् मदे मदेः
यस् ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः । य ओजोदातमो मदः
विद्मा हि यस् ते अद्रिवस् त्वादत्तः सत्य सोमपाः । विश्वासु दस्म कृष्टिषु
इन्द्राय मद्वने सुतम् परि ष्टोभन्तु नो गिरः । अर्कम् अर्चन्तु कारवः
यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त सꣳसदः । इन्द्रꣳ सुते हवामहे
त्रिकद्रुकेषु चेतनꣳ देवासो यज्ञम् अत्नत । तम् इद् वर्धन्तु नो गिरः
आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः । न त्वाम् इन्द्राति रिच्यते
विव्यक्थ महिना वृषन् भक्षꣳ सोमस्य जागृवे । य इन्द्र जठरेषु ते
अरꣳ त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरꣳ धामभ्य इन्दवः
अरम् अश्वाय गायति श्रुतकक्षो अरꣳ गवे । अरम् इन्द्रस्य धाम्ने
अरꣳ हि ष्म सुतेषु णः सोमेष्व् इन्द्र भूषसि । अरꣳ ते शक्र दावने
पराकात्ताच् चिद् अद्रिवस् त्वाꣳ नक्षन्त नो गिरः । अरꣳ गमाम ते वयम्
एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः । एवा ते राध्यम् मनः
एवा रातिस् तुवीमघ विश्वेभिर् धायि धातृभिः । अधा चिद् इन्द्र मे सचा
मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानाम् पते । मत्स्वा सुतस्य गोमतः
मा न इन्द्राभ्य् आ३दिशः सूरो अक्तुष्व् आ यमन् । त्वा युजा वनेम तत्
त्वयेद् इन्द्र युजा वयम् प्रति ब्रुवीमहि स्पृधः । त्वम् अस्माकꣳ तव स्मसि
त्वाम् इद् धि त्वायवो ऽनुनोनुवतश् चरान् । सखाय इन्द्र कारवः
उद् घेद् अभि श्रुतामघꣳ वृषभꣳ नर्यापसम् । अस्तारम् एषि सूर्य
नव यो नवतिम् पुरो बिभेद बाह्वोजसा । अहिꣳ च वृत्रहावधीत्
स न इन्द्रः शिवः सखाश्वावद् गोमद् यवमत् । उरुधारेव दोहते
यद् अद्य कच् च वृत्रहन्न् उदगा अभि सूर्य । सर्वꣳ तद् इन्द्र ते वशे
यद् वा प्रवृद्ध सत्पते न मरा इति मन्यसे । उतो तत् सत्यम् इत् तव
ये सोमासः परावति ये अर्वावति सुन्विरे । सर्वाꣳस् ताꣳ इन्द्र गच्छसि
तम् इन्द्रꣳ वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत्
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । द्युम्नी श्लोकी स सोम्यः
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ववक्ष ऋष्वो अस्तृतः
दुर्गे चिन् नः सुगꣳ कृधि गृणान इन्द्र गिर्वणः । त्वꣳ च मघवन् वशः
यस्य ते नू चिद् आदिशꣳ न मिनन्ति स्वराज्यम् । न देवो नाध्रिगुर् जनः
अधा ते अप्रतिष्कुतꣳ देवी शुष्मꣳ सपर्यतः । उभे सुशिप्र रोदसी
त्वम् एतद् अधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत् पयः
वि यद् अहेर् अध त्विषो विश्वे देवासो अक्रमुः । विदन् मृगस्य ताꣳ अमः
आद् उ मे निवरो भुवद् वृत्रहादिष्ट पौꣳस्यम् । अजातशत्रुर् अस्तृतः
श्रुतꣳ वो वृत्रहन्तमम् प्र शर्धꣳ चर्षणीनाम् । आ शुषे राधसे महे
अया धिया च गव्यया पुरुणामन् पुरुष्टुत । यत् सोमे-सोम आभवः
बोधिन्मना इद् अस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम्
कया त्वꣳ न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर
कस्य वृषा सुते सचा नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतये
अभी षु णस् त्वꣳ रयिम् मन्दसानः सहस्रिणम् । प्रयन्ता बोधि दाशुषे
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । अपाꣳ जग्मिर् निचुम्पुणः
इष्टा होत्रा असृक्षतेन्द्रꣳ वृधासो अध्वरे । अच्छावभृथम् ओजसा
इह त्या सधमाद्या हरी हिरण्यकेश्या । वोळ्हाम् अभि प्रयो हितम्
तुभ्यꣳ सोमाः सुता इमे स्तीर्णम् बर्हिर् विभावसो । स्तोतृभ्य इन्द्रम् आ वह
आ ते दक्षꣳ वि रोचना दधद् रत्ना वि दाशुषे । स्तोतृभ्य इन्द्रम् अर्चत
आ ते दधामीन्द्रियम् उक्था विश्वा शतक्रतो । स्तोतृभ्य इन्द्र मृळय
भद्रम्-भद्रꣳ न आ भरेषम् ऊर्जꣳ शतक्रतो । यद् इन्द्र मृळयासि नः
स नो विश्वान्य् आ भर सुवितानि शतक्रतो । यद् इन्द्र मृळयासि नः
त्वाम् इद् वृत्रहन्तम सुतावन्तो हवामहे । यद् इन्द्र मृळयासि नः
उप नो हरिभिः सुतꣳ याहि मदानाम् पते । उप नो हरिभिः सुतम्
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम्
त्वꣳ हि वृत्रहन्न् एषाम् पाता सोमानाम् असि । उप नो हरिभिः सुतम्
इन्द्र इषे ददातु न ऋभुक्षणम् ऋभुꣳ रयिम् । वाजी ददातु वाजिनम्
गौर् धयति मरुताꣳ श्रवस्युर् माता मघोनाम् । युक्ता वह्नी रथानाम्
यस्या देवा उपस्थे व्रता विश्वे धारयन्ते । सूर्यामासा दृशे कम्
तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः । मरुतः सोमपीतये
अस्ति सोमो अयꣳ सुतः पिबन्त्य् अस्य मरुतः । उत स्वराजो अश्विना
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । त्रिषधस्थस्य जावतः
उतो न्व् अस्य जोषम् आꣳ इन्द्रः सुतस्य गोमतः । प्रातर् होतेव मत्सति
कद् अत्विषन्त सूरयस् तिर आप इव स्रिधः । अर्षन्ति पूतदक्षसः
कद् वो अद्य महानाꣳ देवानाम् अवो वृणे । त्मना च दस्मवर्चसाम्
आ ये विश्वा पार्थिवानि पप्रथन् रोचना दिवः । मरुतः सोमपीतये
त्यान् नु पूतदक्षसो दिवो वो मरुतो हुवे । अस्य सोमस्य पीतये
त्यान् नु ये वि रोदसी तस्तभुर् मरुतो हुवे । अस्य सोमस्य पीतये
त्यꣳ नु मारुतꣳ गणꣳ गिरिष्ठाꣳ वृषणꣳ हुवे । अस्य सोमस्य पीतये
आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः । अभि त्वा सम् अनूषतेन्द्र वत्सꣳ न मातरः
आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः । पिबा त्व् अ१स्यान्धस इन्द्र विश्वासु ते हितम्
पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतꣳ सुतम् । त्वꣳ हि शश्वतीनाम् पती राजा विशाम् असि
श्रुधी हवꣳ तिरश्च्या इन्द्र यस् त्वा सपर्यति । सुवीर्यस्य गोमतो रायस् पूर्धि महाꣳ असि
इन्द्र यस् ते नवीयसीꣳ गिरम् मन्द्राम् अजीजनत् । चिकित्विन्मनसꣳ धियम् प्रत्नाम् ऋतस्य पिप्युषीम्
तम् उ ष्टवाम यꣳ गिर इन्द्रम् उक्थानि वावृधुः । पुरूण्य् अस्य पौꣳस्या सिषासन्तो वनामहे
एतो न्व् इन्द्रꣳ स्तवाम शुद्धꣳ शुद्धेन साम्ना । शुद्धैर् उक्थैर् वावृध्वाꣳसꣳ शुद्ध आशीर्वान् ममत्तु
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः । शुद्धो रयिꣳ नि धारय शुद्धो ममद्धि सोम्यः
इन्द्र शुद्धो हि नो रयिꣳ शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजꣳ सिषाससि
अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः । अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः
अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु सꣳहिता गिरीणाम् । न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः । शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके
मन्ये त्वा यज्ञियꣳ यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् । मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभꣳ चर्षणीनाम्
आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ । प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम्
तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् । इन्द्रेण मित्रꣳ दिधिषेम गीर्भिर् उपो नमोभिर् वृषभꣳ विशेम
वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः । मरुद्भिर् इन्द्र सख्यꣳ ते अस्त्व् अथेमा विश्वाः पृतना जयासि
त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । उप त्वेमः कृधि नो भागधेयꣳ शुष्मꣳ त एना हविषा विधेम
तिग्मम् आयुधम् मरुताम् अनीकꣳ कस् त इन्द्र प्रति वज्रꣳ दधर्ष । अनायुधासो असुरा अदेवाश् चक्रेण ताꣳ अप वप ऋजीषिन्
मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः । गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत्
उक्थवाहसे विभ्वे मनीषाꣳ द्रुणा न पारम् ईरया नदीनाम् । नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत्
तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिꣳ नमसा विवास । उप भूष जरितर् मा रुवण्यः श्रावया वाचꣳ कुविद् अङ्ग वेदत्
अव द्रप्सो अꣳशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः । आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त
द्रप्सम् अपश्यꣳ विषुणे चरन्तम् उपह्वरे नद्यो अꣳशुमत्याः । नभो न कृष्णम् अवतस्थिवाꣳसम् इष्यामि वो वृषणो युध्यताजौ
अध द्रप्सो अꣳशुमत्या उपस्थे ऽधारयत् तन्वꣳ तित्विषाणः । विशो अदेवीर् अभ्य् आ३चरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे
त्वꣳ ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र । गूळ्हे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणꣳ धाः
त्वꣳ ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ । त्वꣳ शुष्णस्यावातिरो वधत्रैस् त्वꣳ गा इन्द्र शच्येद् अविन्दः
त्वꣳ ह त्यद् वृषभ चर्षणीनाꣳ घनो वृत्राणाꣳ तविषो बभूथ । त्वꣳ सिन्धूꣳर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः
स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् । य एक इन् नर्य् अपाꣳसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः
स वृत्रहेन्द्रश् चर्षणीधृत् तꣳ सुष्टुत्या हव्यꣳ हुवेम । स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता
स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । कृण्वन्न् अपाꣳसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः
या इन्द्र भुज आभरः स्वर्वाꣳ असुरेभ्यः । स्तोतारम् इन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः
यम् इन्द्र दधिषे त्वम् अश्वꣳ गाम् भागम् अव्ययम् । यजमाने सुन्वति दक्षिणावति तस्मिन् तꣳ धेहि मा पणौ
य इन्द्र सस्त्य् अव्रतो ऽनुष्वापम् अदेवयुः । स्वैः ष एवैर् मुमुरत् पोष्यꣳ रयिꣳ सनुतर् धेहि तꣳ ततः
यच् छक्रासि परावति यद् अर्वावति वृत्रहन् । अतस् त्वा गीर्भिर् द्युगद् इन्द्र केशिभिः सुतावाꣳ आ विवासति
यद् वासि रोचने दिवः समुद्रस्याधि विष्टपि । यत् पार्थिवे सदने वृत्रहन्तम यद् अन्तरिक्ष आ गहि
स नः सोमेषु सोमपाः सुतेषु शवसस् पते । मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा
मा न इन्द्र परा वृणग् भवा नः सधमाद्यः । त्वꣳ न ऊती त्वम् इन् न आप्यम् मा न इन्द्र परा वृणक्
अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । कृधी जरित्रे मघवन्न् अवो महद् अस्मे इन्द्र सचा सुते
न त्वा देवास आशत न मर्त्यासो अद्रिवः । विश्वा जातानि शवसाभिभूर् असि न त्वा देवास आशत
विश्वाः पृतना अभिभूतरꣳ नरꣳ सजूस् ततक्षुर् इन्द्रꣳ जजनुश् च राजसे । क्रत्वा वरिष्ठꣳ वर आमुरिम् उतोग्रम् ओजिष्ठꣳ तवसꣳ तरस्विनम्
सम् ईꣳ रेभासो अस्वरन्न् इन्द्रꣳ सोमस्य पीतये । स्वर्पतिꣳ यद् ईꣳ वृधे धृतव्रतो ह्य् ओजसा सम् ऊतिभिः
नेमिꣳ नमन्ति चक्षसा मेषꣳ विप्रा अभिस्वरा । सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः सम् ऋक्वभिः
तम् इन्द्रꣳ जोहवीमि मघवानम् उग्रꣳ सत्रा दधानम् अप्रतिष्कुतꣳ शवाꣳसि । मꣳहिष्ठो गीर्भिर् आ च यज्ञियो ववर्तद् राये नो विश्वा सुपथा कृणोतु वज्री
त्वम् पुर इन्द्र चिकिद् एना व्य् ओजसा शविष्ठ शक्र नाशयध्यै । त्वद् विश्वानि भुवनानि वज्रिन् द्यावा रेजेते पृथिवी च भीषा
तन् म ऋतम् इन्द्र शूर चित्र पात्व् अपो न वज्रिन् दुरिताति पर्षि भूरि । कदा न इन्द्र राय आ दशस्येर् विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन्
इन्द्राय साम गायत विप्राय बृहते बृहत् । धर्मकृते विपश्चिते पनस्यवे
त्वम् इन्द्राभिभूर् असि त्वꣳ सूर्यम् अरोचयः । विश्वकर्मा विश्वदेवो महाꣳ असि
विभ्राजञ् ज्योतिषा स्व१र् अगच्छो रोचनꣳ दिवः । देवास् त इन्द्र सख्याय येमिरे
एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः । गिरिर् न विश्वतस् पृथुः पतिर् दिवः
अभि हि सत्य सोमपा उभे बभूथ रोदसी । इन्द्रासि सुन्वतो वृधः पतिर् दिवः
त्वꣳ हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि । हन्ता दस्योर् मनोर् वृधः पतिर् दिवः
अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे । उदेव यन्त उदभिः
वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि । वावृध्वाꣳसꣳ चिद् अद्रिवो दिवे-दिवे
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे । इन्द्रवाहा वचोयुजा
त्वꣳ न इन्द्रा भरꣳ ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरम् पृतनाषहम्
त्वꣳ हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ । अधा ते सुम्नम् ईमहे
त्वाꣳ शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो । स नो रास्व सुवीर्यम्
त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः । स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि
मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः । तव श्रवाꣳस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः
श्रायन्त इव सूर्यꣳ विश्वेद् इन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रति भागꣳ न दीधिम
अनर्शरातिꣳ वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः । सो अस्य कामꣳ विधतो न रोषति मनो दानाय चोदयन्
त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः । अशस्तिहा जनिता विश्वतूर् असि त्वꣳ तूर्य तरुष्यतः
अनु ते शुष्मꣳ तुरयन्तम् ईयतुः क्षोणी शिशुꣳ न मातरा । विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रꣳ यद् इन्द्र तूर्वसि
इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् । आशुꣳ जेतारꣳ हेतारꣳ रथीतमम् अतूर्तꣳ तुग्र्यावृधम्
इष्कर्तारम् अनिष्कृतꣳ सहस्कृतꣳ शतमूतिꣳ शतक्रतुम् । समानम् इन्द्रम् अवसे हवामहे वसवानꣳ वसूजुवम्
अयꣳ त एमि तन्वा पुरस्ताद् विश्वे देवा अभि मा यन्ति पश्चात् । यदा मह्यꣳ दीधरो भागम् इन्द्राद् इन् मया कृणवो वीर्याणि
दधामि ते मधुनो भक्षम् अग्रे हितस् ते भागः सुतो अस्तु सोमः । असश् च त्वꣳ दक्षिणतः सखा मे ऽधा वृत्राणि जङ्घनाव भूरि
प्र सु स्तोमम् भरत वाजयन्त इन्द्राय सत्यꣳ यदि सत्यम् अस्ति । नेन्द्रो अस्तीति नेम उ त्व आह क ईꣳ ददर्श कम् अभि ष्टवाम
अयम् अस्मि जरितः पश्य मेह विश्वा जातान्य् अभ्य् अस्मि मह्ना । ऋतस्य मा प्रदिशो वर्धयन्त्य् आदर्दिरो भुवना दर्दरीमि
आ यन् मा वेना अरुहन्न् ऋतस्यꣳ एकम् आसीनꣳ हर्यतस्य पृष्ठे । मनश् चिन् मे हृद आ प्रत्य् अवोचद् अचिक्रदञ् छिशुमन्तः सखायः
विश्वेत् ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्न् इन्द्र सुन्वते । पारावतꣳ यत् पुरुसम्भृतꣳ वस्व् अपावृणोः शरभाय ऋषिबन्धवे
प्र नूनꣳ धावता पृथङ् नेह यो वो अवावरीत् । नि षीꣳ वृत्रस्य मर्मणि वज्रम् इन्द्रो अपीपतत्
मनोजवा अयमान आयसीम् अतरत् पुरम् । दिवꣳ सुपर्णो गत्वाय सोमꣳ वज्रिण आभरत्
समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । भरन्त्य् अस्मै सꣳयतः पुरःप्रस्रवणा बलिम्
यद् वाग् वदन्त्य् अविचेतनानि राष्ट्री देवानाꣳ निषसाद मन्द्रा । चतस्र ऊर्जꣳ दुदुहे पयाꣳसि क्व स्विद् अस्याः परमꣳ जगाम
देवीꣳ वाचम् अजनयन्त देवास् ताꣳ विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषम् ऊर्जꣳ दुहाना धेनुर् वाग् अस्मान् उप सुष्टुतैतु
सखे विष्णो वितरꣳ वि क्रमस्व द्यौर् देहि लोकꣳ वज्राय विष्कभे । हनाव वृत्रꣳ रिणचाव सिन्धून् इन्द्रस्य यन्तु प्रसवे विसृष्टाः
ऋधग् इत्था स मर्त्यः शशमे देवतातये । यो नूनम् मित्रावरुणाव् अभिष्टय आचक्रे हव्यदातये
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । ता बाहुता न दꣳसना रथर्यतः साकꣳ सूर्यस्य रश्मिभिः
प्र यो वाम् मित्रावरुणाजिरो दूतो अद्रवत् । अयःशीर्षा मदेरघुः
न यः सम्पृच्छे न पुनर् हवीतवे न सꣳवादाय रमते । तस्मान् नो अद्य समृतेर् उरुष्यतम् बाहुभ्याꣳ न उरुष्यतम्
प्र मित्राय प्रार्यम्णे सचथ्यम् ऋतावसो । वरूथ्य१ꣳ वरुणे छन्द्यꣳ वचः स्तोत्रꣳ राजसु गायत
ते हिन्विरे अरुणꣳ जेन्यꣳ वस्व् एकम् पुत्रꣳ तिसॄणाम् । ते धामान्य् अमृता मर्त्यानाम् अदब्धा अभि चक्षते
आ मे वचाꣳस्य् उद्यता द्युमत्तमानि कर्त्वा । उभा यातꣳ नासत्या सजोषसा प्रति हव्यानि वीतये
रातिꣳ यद् वाम् अरक्षसꣳ हवामहे युवाभ्याꣳ वाजिनीवसू । प्राचीꣳ होत्राम् प्रतिरन्ताव् इतꣳ नरा गृणाना जमदग्निना
आ नो यज्ञꣳ दिविस्पृशꣳ वायो याहि सुमन्मभिः । अन्तः पवित्र उपरि श्रीणानो३ ऽयꣳ शुक्रो अयामि ते
वेत्य् अध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । अधा नियुत्व उभयस्य नः पिब शुचिꣳ सोमꣳ गवाशिरम्
बण् महाꣳ असि सूर्य बळ् आदित्य महाꣳ असि । महस् ते सतो महिमा पनस्यते ऽद्धा देव महाꣳ असि
बट् सूर्य श्रवसा महाꣳ असि सत्रा देव महाꣳ असि । मह्ना देवानाम् असुर्यः पुरोहितो विभु ज्योतिर् अदाभ्यम्
इयꣳ या नीच्य् अर्किणी रूपा रोहिण्या कृता । चित्रेव प्रत्य् अदर्श्य् आयत्य् अ१न्तर् दशसु बाहुषु
प्रजा ह तिस्रो अत्यायम् ईयुर् न्य् अ१न्या अर्कम् अभितो विविश्रे । बृहद् ध तस्थौ भुवनेष्व् अन्तः पवमानो हरित आ विवेश
माता रुद्राणाꣳ दुहिता वसूनाꣳ स्वसादित्यानाम् अमृतस्य नाभिः । प्र नु वोचꣳ चिकितुषे जनाय मा गाम् अनागाम् अदितिꣳ वधिष्ट
वचोविदꣳ वाचम् उदीरयन्तीꣳ विश्वाभिर् धीभिर् उपतिष्ठमानाम् । देवीꣳ देवेभ्यः पर्य् एयुषीꣳ गाम् आ मावृक्त मर्त्यो दभ्रचेताः
त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । कविर् गृहपतिर् युवा
स न ईळानया सह देवाꣳ अग्ने दुवस्युवा । चिकिद् विभानव् आ वह
त्वया ह स्विद् युजा वयꣳ चोदिष्ठेन यविष्ठ्य । अभि ष्मो वाजसातये
और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । अग्निꣳ समुद्रवाससम्
हुवे वातस्वनꣳ कविम् पर्जन्यक्रन्द्यꣳ सहः । अग्निꣳ समुद्रवाससम्
आ सवꣳ सवितुर् यथा भगस्येव भुजिꣳ हुवे । अग्निꣳ समुद्रवाससम्
अग्निꣳ वो वृधन्तम् अध्वराणाम् पुरूतमम् । अच्छा नप्त्रे सहस्वते
अयꣳ यथा न आभुवत् त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः
अयꣳ विश्वा अभि श्रियो ऽग्निर् देवेषु पत्यते । आ वाजैर् उप नो गमत्
विश्वेषाम् इह स्तुहि होतॄणाꣳ यशस्तमम् । अग्निꣳ यज्ञेषु पूर्व्यम्
शीरम् पावकशोचिषꣳ ज्येष्ठो यो दमेष्व् आ । दीदाय दीर्घश्रुत्तमः
तम् अर्वन्तꣳ न सानसिꣳ गृणीहि विप्र शुष्मिणम् । मित्रꣳ न यातयज्जनम्
उप त्वा जामयो गिरो देदिशतीर् हविष्कृतः । वायोर् अनीके अस्थिरन्
यस्य त्रिधात्व् अवृतम् बर्हिस् तस्थाव् असꣳदिनम् । आपश् चिन् नि दधा पदम्
पदꣳ देवस्य मीळ्हुषो ऽनाधृष्टाभिर् ऊतिभिः । भद्रा सूर्य इवोपदृक्
अग्ने घृतस्य धीतिभिस् तेपानो देव शोचिषा । आ देवान् वक्षि यक्षि च
तꣳ त्वाजनन्त मातरः कविꣳ देवासो अङ्गिरः । हव्यवाहम् अमर्त्यम्
प्रचेतसꣳ त्वा कवे ऽग्ने दूतꣳ वरेण्यम् । हव्यवाहꣳ नि षेदिरे
नहि मे अस्त्य् अघ्न्या न स्वधितिर् वनन्वति । अथैतादृग् भरामि ते
यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि । ता जुषस्व यविष्ठ्य
यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । सर्वꣳ तद् अस्तु ते घृतम्
अग्निम् इन्धानो मनसा धियꣳ सचेत मर्त्यः । अग्निम् ईधे विवस्वभिः
अदर्शि गातुवित्तमो यस्मिन् व्रतान्य् आदधुः । उपो षु जातम् आर्यस्य वर्धनम् अग्निꣳ नक्षन्त नो गिरः
प्र दैवोदासो अग्निर् देवाꣳ अच्छा न मज्मना । अनु मातरम् पृथिवीꣳ वि वावृते तस्थौ नाकस्य सानवि
यस्माद् रेजन्त कृष्टयश् चर्कृत्यानि कृण्वतः । सहस्रसाम् मेधसाताव् इव त्मनाग्निꣳ धीभिः सपर्यत
प्र यꣳ राये निनीषसि मर्तो यस् ते वसो दाशत् । स वीरꣳ धत्ते अग्न उक्थशꣳसिनꣳ त्मना सहस्रपोषिणम्
स दृळ्हे चिद् अभि तृणत्ति वाजम् अर्वता स धत्ते अक्षिति श्रवः । त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि
यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर् न पात्रा प्रथमान्य् अस्मै प्र स्तोमा यन्त्य् अग्नये
अश्वꣳ न गीर्भी रथ्यꣳ सुदानवो मर्मृज्यन्ते देवयवः । उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम्
प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये
आ वꣳसते मघवा वीरवद् यशः समिद्धो द्युम्न्य् आहुतः । कुविन् नो अस्य सुमतिर् नवीयस्य् अच्छा वाजेभिर् आगमत्
प्रेष्ठम् उ प्रियाणाꣳ स्तुह्य् आसावातिथिम् । अग्निꣳ रथानाꣳ यमम्
उदिता यो निदिता वेदिता वस्व् आ यज्ञियो ववर्तति । दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजꣳ सिषासतः
मा नो हृणीताम् अतिथिर् वसुर् अग्निः पुरुप्रशस्त एषः । यः सुहोता स्वध्वरः
मो ते रिषन् ये अच्छोक्तिभिर् वसो ऽग्ने केभिश् चिद् एवैः । कीरिश् चिद् धि त्वाम् ईट्टे दूत्याय रातहव्यः स्वध्वरः
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । सोभर्या उप सुष्टुतिम् मादयस्व स्वर्णरे
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 8. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-8
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 8." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-8.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 8." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-8.