Ṛgveda Saṃhitā — Maṇḍala 9
Tradição Védica (Ṛṣis)
मण्डल ९ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः
रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् । द्रुणा सधस्थम् आसदत्
वरिवोधातमो भव मꣳहिष्ठो वृत्रहन्तमः । पर्षि राधो मघोनाम्
अभ्य् अर्ष महानाꣳ देवानाꣳ वीतिम् अन्धसा । अभि वाजम् उत श्रवः
त्वाम् अच्छा चरामसि तद् इद् अर्थꣳ दिवे-दिवे । इन्दो त्वे न आशसः
पुनाति ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना
तम् ईम् अण्वीः समर्य आ गृभ्णन्ति योषणो दश । स्वसारः पार्ये दिवि
तम् ईꣳ हिन्वन्त्य् अग्रुवो धमन्ति बाकुरꣳ दृतिम् । त्रिधातु वारणम् मधु
अभी३मम् अघ्न्या उत श्रीणन्ति धेनवः शिशुम् । सोमम् इन्द्राय पातवे
अस्येद् इन्द्रो मदेष्व् आ विश्वा वृत्राणि जिघ्नते । शूरो मघा च मꣳहते
पवस्व देववीर् अति पवित्रꣳ सोम रꣳह्या । इन्द्रम् इन्दो वृषा विश
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिꣳ धर्णसिः सदः
अधुक्षत प्रियम् मधु धारा सुतस्य वेधसः । अपो वसिष्ट सुक्रतुः
महान्तꣳ त्वा महीर् अन्व् आपो अर्षन्ति सिन्धवः । यद् गोभिर् वासयिष्यसे
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः
अचिक्रदद् वृषा हरिर् महान् मित्रो न दर्शतः । सꣳ सूर्येण रोचते
गिरस् त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर् मदाय शुम्भसे
तꣳ त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे । तव प्रशस्तयो महीः
अस्मभ्यम् इन्दव् इन्द्रयुर् मध्वः पवस्व धारया । पर्जन्यो वृष्टिमाꣳ इव
गोषा इन्दो नृषा अस्य् अश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः
एष देवो अमर्त्यः पर्णवीर् इव दीयति । अभि द्रोणान्य् आसदम्
एष देवो विपा कृतो ऽति ह्वराꣳसि धावति । पवमानो अदाभ्यः
एष देवो विपन्युभिः पवमान ऋतायुभिः । हरिर् वाजाय मृज्यते
एष विश्वानि वार्या शूरो यन्न् इव सत्वभिः । पवमानः सिषासति
एष देवो रथर्यति पवमानो दशस्यति । आविष् कृणोति वग्वनुम्
एष विप्रैर् अभिष्टुतो ऽपो देवो वि गाहते । दधद् रत्नानि दाशुषे
एष दिवꣳ वि धावति तिरो रजाꣳसि धारया । पवमानः कनिक्रदत्
एष दिवꣳ व्य् आसरत् तिरो रजाꣳस्य् अस्पृतः । पवमानः स्वध्वरः
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति
एष उ स्य पुरुव्रतो जज्ञानो जनयन्न् इषः । धारया पवते सुतः
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस् कृधि
सना ज्योतिः सना स्व१र् विश्वा च सोम सौभगा । अथा नो वस्यसस् कृधि
सना दक्षम् उत क्रतुम् अप सोम मृधो जहि । अथा नो वस्यसस् कृधि
पवीतारः पुनीतन सोमम् इन्द्राय पातवे । अथा नो वस्यसस् कृधि
त्वꣳ सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस् कृधि
तव क्रत्वा तवोतिभिर् ज्योक् पश्येम सूर्यम् । अथा नो वस्यसस् कृधि
अभ्य् अर्ष स्वायुध सोम द्विबर्हसꣳ रयिम् । अथा नो वस्यसस् कृधि
अभ्य् अ१र्षानपच्युतो रयिꣳ समत्सु सासहिः । अथा नो वस्यसस् कृधि
त्वाꣳ यज्ञैर् अवीवृधन् पवमान विधर्मणि । अथा नो वस्यसस् कृधि
रयिꣳ नश् चित्रम् अश्विनम् इन्दो विश्वायुम् आ भर । अथा नो वस्यसस् कृधि
समिद्धो विश्वतस् पतिः पवमानो वि राजति । प्रीणन् वृषा कनिक्रदत्
तनूनपात् पवमानः शृङ्गे शिशानो अर्षति । अन्तरिक्षेण रारजत्
ईळेन्यः पवमानो रयिर् वि राजति द्युमान् । मधोर् धाराभिर् ओजसा
बर्हिः प्राचीनम् ओजसा पवमानः स्तृणन् हरिः । देवेषु देव ईयते
उद् आतैर् जिहते बृहद् द्वारो देवीर् हिरण्ययीः । पवमानेन सुष्टुताः
सुशिल्पे बृहती मही पवमानो वृषण्यति । नक्तोषासा न दर्शते
उभा देवा नृचक्षसा होतारा दैव्या हुवे । पवमान इन्द्रो वृषा
भारती पवमानस्य सरस्वतीळा मही । इमꣳ नो यज्ञम् आ गमन् तिस्रो देवीः सुपेशसः
त्वष्टारम् अग्रजाꣳ गोपाम् पुरोयावानम् आ हुवे । इन्दुर् इन्द्रो वृषा हरिः पवमानः प्रजापतिः
वनस्पतिम् पवमान मध्वा सम् अङ्ग्धि धारया । सहस्रवल्शꣳ हरितम् भ्राजमानꣳ हिरण्ययम्
विश्वे देवाः स्वाहाकृतिम् पवमानस्या गत । वायुर् बृहस्पतिः सूर्यो ऽग्निर् इन्द्रः सजोषसः
मन्द्रया सोम धारया वृषा पवस्व देवयुः । अव्यो वारेष्व् अस्मयुः
अभि त्यम् मद्यम् मदम् इन्दव् इन्द्र इति क्षर । अभि वाजिनो अर्वतः
अभि त्यम् पूर्व्यम् मदꣳ सुवानो अर्ष पवित्र आ । अभि वाजम् उत श्रवः
अनु द्रप्सास इन्दव आपो न प्रवतासरन् । पुनाना इन्द्रम् आशत
यम् अत्यम् इव वाजिनम् मृजन्ति योषणो दश । वने क्रीळन्तम् अत्यविम्
तꣳ गोभिर् वृषणꣳ रसम् मदाय देववीतये । सुतम् भराय सꣳ सृज
देवो देवाय धारयेन्द्राय पवते सुतः । पयो यद् अस्य पीपयत्
आत्मा यज्ञस्य रꣳह्या सुष्वाणः पवते सुतः । प्रत्नꣳ नि पाति काव्यम्
एवा पुनान इन्द्रयुर् मदम् मदिष्ठ वीतये । गुहा चिद् दधिषे गिरः
असृग्रम् इन्दवः पथा धर्मन्न् ऋतस्य सुश्रियः । विदाना अस्य योजनम्
प्र धारा मध्वो अग्रियो महीर् अपो वि गाहते । हविर् हविष्षु वन्द्यः
प्र युजो वाचो अग्रियो वृषाव चक्रदद् वने । सद्माभि सत्यो अध्वरः
परि यत् काव्या कविर् नृम्णा वसानो अर्षति । स्वर् वाजी सिषासति
पवमानो अभि स्पृधो विशो राजेव सीदति । यद् ईम् ऋण्वन्ति वेधसः
अव्यो वारे परि प्रियो हरिर् वनेषु सीदति । रेभो वनुष्यते मती
स वायुम् इन्द्रम् अश्विना साकम् मदेन गच्छति । रणा यो अस्य धर्मभिः
आ मित्रावरुणा भगम् मध्वः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः
अस्मभ्यꣳ रोदसी रयिम् मध्वो वाजस्य सातये । श्रवो वसूनि सꣳ जितम्
एते सोमा अभि प्रियम् इन्द्रस्य कामम् अक्षरन् । वर्धन्तो अस्य वीर्यम्
पुनानासश् चमूषदो गच्छन्तो वायुम् अश्विना । ते नो धान्तु सुवीर्यम्
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । ऋतस्य योनिम् आसदम्
मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः
देवेभ्यस् त्वा मदाय कꣳ सृजानम् अति मेष्यः । सꣳ गोभिर् वासयामसि
पुनानः कलशेष्व् आ वस्त्राण्य् अरुषो हरिः । परि गव्यान्य् अव्यत
मघोन आ पवस्व नो जहि विश्वा अप द्विषः । इन्दो सखायम् आ विश
वृष्टिꣳ दिवः परि स्रव द्युम्नम् पृथिव्या अधि । सहो नः सोम पृत्सु धाः
नृचक्षसꣳ त्वा वयम् इन्द्रपीतꣳ स्वर्विदम् । भक्षीमहि प्रजाम् इषम्
परि प्रिया दिवः कविर् वयाꣳसि नप्त्योर् हितः । सुवानो याति कविक्रतुः
प्र-प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे । वीत्य् अर्ष चनिष्ठया
स सूनुर् मातरा शुचिर् जातो जाते अरोचयत् । महान् मही ऋतावृधा
स सप्त धीतिभिर् हितो नद्यो अजिन्वद् अद्रुहः । या एकम् अक्षि वावृधुः
ता अभि सन्तम् अस्तृतम् महे युवानम् आ दधुः । इन्दुम् इन्द्र तव व्रते
अभि वह्निर् अमर्त्यः सप्त पश्यति वावहिः । क्रिविर् देवीर् अतर्पयत्
अवा कल्पेषु नः पुमस् तमाꣳसि सोम योध्या । तानि पुनान जङ्घनः
नू नव्यसे नवीयसे सूक्ताय साधया पथः । प्रत्नवद् रोचया रुचः
पवमान महि श्रवो गाम् अश्वꣳ रासि वीरवत् । सना मेधाꣳ सना स्वः
प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । सोमासो राये अक्रमुः
हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः कारिणाम् इव
राजानो न प्रशस्तिभिः सोमासो गोभिर् अञ्जते । यज्ञो न सप्त धातृभिः
परि सुवानास इन्दवो मदाय बर्हणा गिरा । सुता अर्षन्ति धारया
आपानासो विवस्वतो जनन्त उषसो भगम् । सूरा अण्वꣳ वि तन्वते
अप द्वारा मतीनाम् प्रत्ना ऋण्वन्ति कारवः । वृष्णो हरस आयवः
समीचीनास आसते होतारः सप्तजामयः । पदम् एकस्य पिप्रतः
नाभा नाभिꣳ न आ ददे चक्षुश् चित् सूर्ये सचा । कवेर् अपत्यम् आ दुहे
अभि प्रिया दिवस् पदम् अध्वर्युभिर् गुहा हितम् । सूरः पश्यति चक्षसा
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ इयक्षते
अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः । देवꣳ देवाय देवयु
स नः पवस्व शꣳ गवे शꣳ जनाय शम् अर्वते । शꣳ राजन्न् ओषधीभ्यः
बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे । सोमाय गाथम् अर्चत
हस्तच्युतेभिर् अद्रिभिः सुतꣳ सोमम् पुनीतन । मधाव् आ धावता मधु
नमसेद् उप सीदत दध्नेद् अभि श्रीणीतन । इन्दुम् इन्द्रे दधातन
अमित्रहा विचर्षणिः पवस्व सोम शꣳ गवे । देवेभ्यो अनुकामकृत्
इन्द्राय सोम पातवे मदाय परि षिच्यसे । मनश्चिन् मनसस् पतिः
पवमान सुवीर्यꣳ रयिꣳ सोम रिरीहि नः । इन्दव् इन्द्रेण नो युजा
सोमा असृग्रम् इन्दवः सुता ऋतस्य सादने । इन्द्राय मधुमत्तमाः
अभि विप्रा अनूषत गावो वत्सꣳ न मातरः । इन्द्रꣳ सोमस्य पीतये
मदच्युत् क्षेति सादने सिन्धोर् ऊर्मा विपश्चित् । सोमो गौरी अधि श्रितः
दिवो नाभा विचक्षणो ऽव्यो वारे महीयते । सोमो यः सुक्रतुः कविः
यः सोमः कलशेष्व् आꣳ अन्तः पवित्र आहितः । तम् इन्दुः परि षस्वजे
प्र वाचम् इन्दुर् इष्यति समुद्रस्याधि विष्टपि । जिन्वन् कोशम् मधुश्चुतम्
नित्यस्तोत्रो वनस्पतिर् धीनाम् अन्तः सबर्दुघः । हिन्वानो मानुषा युगा
अभि प्रिया दिवस् पदा सोमो हिन्वानो अर्षति । विप्रस्य धारया कविः
आ पवमान धारय रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम्
सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोर् इन्द्रस्य निष्कृतम्
पवमानम् अवस्यवो विप्रम् अभि प्र गायत । सुष्वाणꣳ देववीतये
पवन्ते वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये
उत नो वाजसातये पवस्व बृहतीर् इषः । द्युमद् इन्दो सुवीर्यम्
ते नः सहस्रिणꣳ रयिम् पवन्ताम् आ सुवीर्यम् । सुवाना देवास इन्दवः
अत्या हियाना न हेतृभिर् असृग्रꣳ वाजसातये । वि वारम् अव्यम् आशवः
वाश्रा अर्षन्तीन्दवो ऽभि वत्सꣳ न धेनवः । दधन्विरे गभस्त्योः
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् । विश्वा अप द्विषो जहि
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । योनाव् ऋतस्य सीदत
परि प्रासिष्यदत् कविः सिन्धोर् ऊर्माव् अधि श्रितः । कारम् बिभ्रत् पुरुस्पृहम्
गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः । परिष्कृण्वन्ति धर्णसिम्
आद् अस्य शुष्मिणो रसे विश्वे देवा अमत्सत । यदी गोभिर् वसायते
निरिणानो वि धावति जहच् छर्याणि तान्वा । अत्रा सꣳ जिघ्नते युजा
नप्तीभिर् यो विवस्वतः शुभ्रो न मामृजे युवा । गाः कृण्वानो न निर्णिजम्
अति श्रिती तिरश्चता गव्या जिगात्य् अण्व्या । वग्नुम् इयर्ति यꣳ विदे
अभि क्षिपः सम् अग्मत मर्जयन्तीर् इषस् पतिम् । पृष्ठा गृभ्णत वाजिनः
परि दिव्यानि मर्मृशद् विश्वानि सोम पार्थिवा । वसूनि याह्य् अस्मयुः
एष धिया यात्य् अण्व्या शूरो रथेभिर् आशुभिः । गच्छन्न् इन्द्रस्य निष्कृतम्
एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते
एष हितो वि नीयते ऽन्तः शुभ्रावता पथा । यदी तुञ्जन्ति भूर्णयः
एष शृङ्गाणि दोधुवच् छिशीते यूथ्यो३ वृषा । नृम्णा दधान ओजसा
एष रुक्मिभिर् ईयते वाजी शुभ्रेभिर् अꣳशुभिः । पतिः सिन्धूनाम् भवन्
एष वसूनि पिब्दना परुषा ययिवाꣳ अति । अव शादेषु गच्छति
एतम् मृजन्ति मर्ज्यम् उप द्रोणेष्व् आयवः । प्रचक्राणम् महीर् इषः
एतम् उ त्यꣳ दश क्षिपो मृजन्ति सप्त धीतयः । स्वायुधम् मदिन्तमम्
प्र ते सोतार ओण्यो३ रसम् मदाय घृष्वये । सर्गो न तक्त्य् एतशः
क्रत्वा दक्षस्य रथ्यम् अपो वसानम् अन्धसा । गोषाम् अण्वेषु सश्चिम
अनप्तम् अप्सु दुष्टरꣳ सोमम् पवित्र आ सृज । पुनीहीन्द्राय पातवे
प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति । क्रत्वा सधस्थम् आसदत्
प्र त्वा नमोभिर् इन्दव इन्द्र सोमा असृक्षत । महे भराय कारिणः
पुनानो रूपे अव्यये विश्वा अर्षन्न् अभि श्रियः । शूरो न गोषु तिष्ठति
दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । वृथा पवित्रे अर्षति
त्वꣳ सोम विपश्चितꣳ तना पुनान आयुषु । अव्यो वारꣳ वि धावसि
प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । सोमा असृग्रम् आशवः
अभि सुवानास इन्दवो वृष्टयः पृथिवीम् इव । इन्द्रꣳ सोमासो अक्षरन्
अत्यूर्मिर् मत्सरो मदः सोमः पवित्रे अर्षति । विघ्नन् रक्षाꣳसि देवयुः
आ कलशेषु धावति पवित्रे परि षिच्यते । उक्थैर् यज्ञेषु वर्धते
अति त्री सोम रोचना रोहन् न भ्राजसे दिवम् । इष्णन् सूर्यꣳ न चोदयः
अभि विप्रा अनूषत मूर्धन् यज्ञस्य कारवः । दधानाश् चक्षसि प्रियम्
तम् उ त्वा वाजिनꣳ नरो धीभिर् विप्रा अवस्यवः । मृजन्ति देवतातये
मधोर् धाराम् अनु क्षर तीव्रः सधस्थम् आसदः । चारुर् ऋताय पीतये
परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । मदेषु सर्वधा असि
त्वꣳ विप्रस् त्वꣳ कविर् मधु प्र जातम् अन्धसः । मदेषु सर्वधा असि
तव विश्वे सजोषसो देवासः पीतिम् आशत । मदेषु सर्वधा असि
आ यो विश्वानि वार्या वसूनि हस्तयोर् दधे । मदेषु सर्वधा असि
य इमे रोदसी मही सम् मातरेव दोहते । मदेषु सर्वधा असि
परि यो रोदसी उभे सद्यो वाजेभिर् अर्षति । मदेषु सर्वधा असि
स शुष्मी कलशेष्व् आ पुनानो अचिक्रदत् । मदेषु सर्वधा असि
यत् सोम चित्रम् उक्थ्यꣳ दिव्यम् पार्थिवꣳ वसु । तन् नः पुनान आ भर
युवꣳ हि स्थः स्वर्पती इन्द्रश् च सोम गोपती । ईशाना पिप्यतꣳ धियः
वृषा पुनान आयुषु स्तनयन्न् अधि बर्हिषि । हरिः सन् योनिम् आसदत्
अवावशन्त धीतयो वृषभस्याधि रेतसि । सूनोर् वत्सस्य मातरः
कुविद् वृषण्यन्तीभ्यः पुनानो गर्भम् आदधत् । याः शुक्रꣳ दुहते पयः
उप शिक्षापतस्थुषो भियसम् आ धेहि शत्रुषु । पवमान विदा रयिम्
नि शत्रोः सोम वृष्ण्यꣳ नि शुष्मꣳ नि वयस् तिर । दूरे वा सतो अन्ति वा
प्र कविर् देववीतये ऽव्यो वारेभिर् अर्षति । साह्वान् विश्वा अभि स्पृधः
स हि ष्मा जरितृभ्य आ वाजꣳ गोमन्तम् इन्वति । पवमानः सहस्रिणम्
परि विश्वानि चेतसा मृशसे पवसे मती । स नः सोम श्रवो विदः
अभ्य् अर्ष बृहद् यशो मघवद्भ्यो ध्रुवꣳ रयिम् । इषꣳ स्तोतृभ्य आ भर
त्वꣳ राजेव सुव्रतो गिरः सोमा विवेशिथ । पुनानो वह्ने अद्भुत
स वह्निर् अप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश् चमूषु सीदति
क्रीळुर् मखो न मꣳहयुः पवित्रꣳ सोम गच्छसि । दधत् स्तोत्रे सुवीर्यम्
एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः । मत्सरासः स्वर्विदः
प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः । स्वयꣳ स्तोत्रे वयस्कृतः
वृथा क्रीळन्त इन्दवः सधस्थम् अभ्य् एकम् इत् । सिन्धोर् ऊर्मा व्य् अक्षरन्
एते विश्वानि वार्या पवमानास आशत । हिता न सप्तयो रथे
आस्मिन् पिशङ्गम् इन्दवो दधाता वेनम् आदिशे । यो अस्मभ्यम् अरावा
ऋभुर् न रथ्यꣳ नवꣳ दधाता केतम् आदिशे । शुक्राः पवध्वम् अर्णसा
एत उ त्ये अवीवशन् काष्ठाꣳ वाजिनो अक्रत । सतः प्रासाविषुर् मतिम्
एते सोमास आशवो रथा इव प्र वाजिनः । सर्गाः सृष्टा अहेषत
एते वाता इवोरवः पर्जन्यस्येव वृष्टयः । अग्नेर् इव भ्रमा वृथा
एते पूता विपश्चितः सोमासो दध्याशिरः । विपा व्य् आनशुर् धियः
एते मृष्टा अमर्त्याः ससृवाꣳसो न शश्रमुः । इयक्षन्तः पथो रजः
एते पृष्ठानि रोदसोर् विप्रयन्तो व्य् आनशुः । उतेदम् उत्तमꣳ रजः
तन्तुꣳ तन्वानम् उत्तमम् अनु प्रवत आशत । उतेदम् उत्तमाय्यम्
त्वꣳ सोम पणिभ्य आ वसु गव्यानि धारयः । ततꣳ तन्तुम् अचिक्रदः
सोमा असृग्रम् आशवो मधोर् मदस्य धारया । अभि विश्वानि काव्या
अनु प्रत्नास आयवः पदꣳ नवीयो अक्रमुः । रुचे जनन्त सूर्यम्
आ पवमान नो भरार्यो अदाशुषो गयम् । कृधि प्रजावतीर् इषः
अभि सोमास आयवः पवन्ते मद्यम् मदम् । अभि कोशम् मधुश्चुतम्
सोमो अर्षति धर्णसिर् दधान इन्द्रियꣳ रसम् । सुवीरो अभिशस्तिपाः
इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः । इन्दो वाजꣳ सिषाससि
अस्य पीत्वा मदानाम् इन्द्रो वृत्राण्य् अप्रति । जघान जघनच् च नु
प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु मृञ्जत
अभि गावो अधन्विषुर् आपो न प्रवता यतीः । पुनाना इन्द्रम् आशत
प्र पवमान धन्वसि सोमेन्द्राय पातवे । नृभिर् यतो वि नीयसे
त्वꣳ सोम नृमादनः पवस्व चर्षणीसहे । सस्निर् यो अनुमाद्यः
इन्दो यद् अद्रिभिः सुतः पवित्रम् परिधावसि । अरम् इन्द्रस्य धाम्ने
पवस्व वृत्रहन्तमोक्थेभिर् अनुमाद्यः । शुचिः पावको अद्भुतः
शुचिः पावक उच्यते सोमः सुतस्य मध्वः । देवावीर् अघशꣳसहा
पवस्व दक्षसाधनो देवेभ्यः पीतये हरे । मरुद्भ्यो वायवे मदः
पवमान धिया हितो३ ऽभि योनिꣳ कनिक्रदत् । धर्मणा वायुम् आ विश
सꣳ देवैः शोभते वृषा कविर् योनाव् अधि प्रियः । वृत्रहा देववीतमः
विश्वा रूपाण्य् आविशन् पुनानो याति हर्यतः । यत्रामृतास आसते
अरुषो जनयन् गिरः सोमः पवत आयुषक् । इन्द्रꣳ गच्छन् कविक्रतुः
आ पवस्व मदिन्तम पवित्रꣳ धारया कवे । अर्कस्य योनिम् आसदम्
तम् अमृक्षन्त वाजिनम् उपस्थे अदितेर् अधि । विप्रासो अण्व्या धिया
तꣳ गावो अभ्य् अनूषत सहस्रधारम् अक्षितम् । इन्दुꣳ धर्तारम् आ दिवः
तꣳ वेधाम् मेधयाह्यन् पवमानम् अधि द्यवि । धर्णसिम् भूरिधायसम्
तम् अह्यन् भुरिजोर् धिया सꣳवसानꣳ विवस्वतः । पतिꣳ वाचो अदाभ्यम्
तꣳ सानाव् अधि जामयो हरिꣳ हिन्वन्त्य् अद्रिभिः । हर्यतम् भूरिचक्षसम्
तꣳ त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् । इन्दव् इन्द्राय मत्सरम्
एष कविर् अभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्न् अप स्रिधः
एष इन्द्राय वायवे स्वर्जित् परि षिच्यते । पवित्रे दक्षसाधनः
एष नृभिर् वि नीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित्
एष गव्युर् अचिक्रदत् पवमानो हिरण्ययुः । इन्दुः सत्राजिद् अस्तृतः
एष सूर्येण हासते पवमानो अधि द्यवि । पवित्रे मत्सरो मदः
एष शुष्म्य् असिष्यदद् अन्तरिक्षे वृषा हरिः । पुनान इन्दुर् इन्द्रम् आ
एष वाजी हितो नृभिर् विश्वविन् मनसस् पतिः । अव्यो वारꣳ वि धावति
एष पवित्रे अक्षरत् सोमो देवेभ्यः सुतः । विश्वा धामान्य् आविशन्
एष देवः शुभायते ऽधि योनाव् अमर्त्यः । वृत्रहा देववीतमः
एष वृषा कनिक्रदद् दशभिर् जामिभिर् यतः । अभि द्रोणानि धावति
एष सूर्यम् अरोचयत् पवमानो विचर्षणिः । विश्वा धामानि विश्ववित्
एष शुष्म्य् अदाभ्यः सोमः पुनानो अर्षति । देवावीर् अघशꣳसहा
प्रास्य धारा अक्षरन् वृष्णः सुतस्यौजसा । देवाꣳ अनु प्रभूषतः
सप्तिम् मृजन्ति वेधसो गृणन्तः कारवो गिरा । ज्योतिर् जज्ञानम् उक्थ्यम्
सुषहा सोम तानि ते पुनानाय प्रभूवसो । वर्धा समुद्रम् उक्थ्यम्
विश्वा वसूनि सꣳजयन् पवस्व सोम धारया । इनु द्वेषाꣳसि सध्र्यक्
रक्षा सु नो अररुषः स्वनात् समस्य कस्य चित् । निदो यत्र मुमुच्महे
एन्दो पार्थिवꣳ रयिꣳ दिव्यम् पवस्व धारया । द्युमन्तꣳ शुष्मम् आ भर
प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् । पुनानो वाचम् इष्यति
इन्दुर् हियानः सोतृभिर् मृज्यमानः कनिक्रदत् । इयर्ति वग्नुम् इन्द्रियम्
आ नः शुष्मꣳ नृषाह्यꣳ वीरवन्तम् पुरुस्पृहम् । पवस्व सोम धारया
प्र सोमो अति धारया पवमानो असिष्यदत् । अभि द्रोणान्य् आसदम्
अप्सु त्वा मधुमत्तमꣳ हरिꣳ हिन्वन्त्य् अद्रिभिः । इन्दव् इन्द्राय पीतये
सुनोता मधुमत्तमꣳ सोमम् इन्द्राय वज्रिणे । चारुꣳ शर्धाय मत्सरम्
प्र सोमासः स्वाध्य१ः पवमानासो अक्रमुः । रयिꣳ कृण्वन्ति चेतनम्
दिवस् पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । भवा वाजानाम् पतिः
तुभ्यꣳ वाता अभिप्रियस् तुभ्यम् अर्षन्ति सिन्धवः । सोम वर्धन्ति ते महः
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सꣳगथे
तुभ्यꣳ गावो घृतम् पयो बभ्रो दुदुह्रे अक्षितम् । वर्षिष्ठे अधि सानवि
स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वम् उश्मसि
प्र सोमासो मदच्युतः श्रवसे नो मघोनः । सुता विदथे अक्रमुः
आद् ईꣳ त्रितस्य योषणो हरिꣳ हिन्वन्त्य् अद्रिभिः । इन्दुम् इन्द्राय पीतये
आद् ईꣳ हꣳसो यथा गणꣳ विश्वस्यावीवशन् मतिम् । अत्यो न गोभिर् अज्यते
उभे सोमावचाकशन् मृगो न तक्तो अर्षसि । सीदन्न् ऋतस्य योनिम् आ
अभि गावो अनूषत योषा जारम् इव प्रियम् । अगन्न् आजिꣳ यथा हितम्
अस्मे धेहि द्युमद् यशो मघवद्भ्यश् च मह्यꣳ च । सनिम् मेधाम् उत श्रवः
प्र सोमासो विपश्चितो ऽपाꣳ न यन्त्य् ऊर्मयः । वनानि महिषा इव
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजꣳ गोमन्तम् अक्षरन्
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमा अर्षन्ति विष्णवे
तिस्रो वाच उद् ईरते गावो मिमन्ति धेनवः । हरिर् एति कनिक्रदत्
अभि ब्रह्मीर् अनूषत यह्वीर् ऋतस्य मातरः । मर्मृज्यन्ते दिवः शिशुम्
रायः समुद्राꣳश् चतुरो ऽस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणः
प्र सुवानो धारया तनेन्दुर् हिन्वानो अर्षति । रुजद् दृळ्हा व्य् ओजसा
सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमो अर्षति विष्णवे
वृषाणꣳ वृषभिर् यतꣳ सुन्वन्ति सोमम् अद्रिभिः । दुहन्ति शक्मना पयः
भुवत् त्रितस्य मर्ज्यो भुवद् इन्द्राय मत्सरः । सꣳ रूपैर् अज्यते हरिः
अभीम् ऋतस्य विष्टपꣳ दुहते पृश्निमातरः । चारु प्रियतमꣳ हविः
सम् एनम् अह्रुता इमा गिरो अर्षन्ति सस्रुतः । धेनूर् वाश्रो अवीवशत्
आ नः पवस्व धारया पवमान रयिम् पृथुम् । यया ज्योतिर् विदासि नः
इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय । रायो धर्ता न ओजसा
त्वया वीरेण वीरवो ऽभि ष्याम पृतन्यतः । क्षरा णो अभि वार्यम्
प्र वाजम् इन्दुर् इष्यति सिषासन् वाजसा ऋषिः । व्रता विदान आयुधा
तꣳ गीर्भिर् वाचमीङ्खयम् पुनानꣳ वासयामसि । सोमꣳ जनस्य गोपतिम्
विश्वो यस्य व्रते जनो दाधार धर्मणस् पतेः । पुनानस्य प्रभूवसोः
असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः । कार्ष्मन् वाजी न्य् अक्रमीत्
स वह्निः सोम जागृविः पवस्व देववीर् अति । अभि कोशम् मधुश्चुतम्
स नो ज्योतीꣳषि पूर्व्य पवमान वि रोचय । क्रत्वे दक्षाय नो हिनु
शुम्भमान ऋतायुभिर् मृज्यमानो गभस्त्योः । पवते वारे अव्यये
स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । पवताम् आन्तरिक्ष्या
आ दिवस् पृष्ठम् अश्वयुर् गव्ययुः सोम रोहसि । वीरयुः शवसस् पते
स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नन् रक्षाꣳसि देवयुः
स पवित्रे विचक्षणो हरिर् अर्षति धर्णसिः । अभि योनिꣳ कनिक्रदत्
स वाजी रोचना दिवः पवमानो वि धावति । रक्षोहा वारम् अव्ययम्
स त्रितस्याधि सानवि पवमानो अरोचयत् । जामिभिः सूर्यꣳ सह
स वृत्रहा वृषा सुतो वरिवोविद् अदाभ्यः । सोमो वाजम् इवासरत्
स देवः कविनेषितो३ ऽभि द्रोणानि धावति । इन्दुर् इन्द्राय मꣳहना
एष उ स्य वृषा रथो ऽव्यो वारेभिर् अर्षति । गच्छन् वाजꣳ सहस्रिणम्
एतꣳ त्रितस्य योषणो हरिꣳ हिन्वन्त्य् अद्रिभिः । इन्दुम् इन्द्राय पीतये
एतꣳ त्यꣳ हरितो दश मर्मृज्यन्ते अपस्युवः । याभिर् मदाय शुम्भते
एष स्य मानुषीष्व् आ श्येनो न विक्षु सीदति । गच्छञ् जारो न योषितम्
एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः । य इन्दुर् वारम् आविशत्
एष स्य पीतये सुतो हरिर् अर्षति धर्णसिः । क्रन्दन् योनिम् अभि प्रियम्
आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना । यत्र देवा इति ब्रवन्
परिष्कृण्वन्न् अनिष्कृतꣳ जनाय यातयन्न् इषः । वृष्टिꣳ दिवः परि स्रव
सुत एति पवित्र आ त्विषिꣳ दधान ओजसा । विचक्षाणो विरोचयन्
अयꣳ स यो दिवस् परि रघुयामा पवित्र आ । सिन्धोर् ऊर्मा व्य् अक्षरत्
आविवासन् परावतो अथो अर्वावतः सुतः । इन्द्राय सिच्यते मधु
समीचीना अनूषत हरिꣳ हिन्वन्त्य् अद्रिभिः । योनाव् ऋतस्य सीदत
पुनानो अक्रमीद् अभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रꣳ धीतिभिः
आ योनिम् अरुणो रुहद् गमद् इन्द्रꣳ वृषा सुतः । ध्रुवे सदसि सीदति
नू नो रयिम् महाम् इन्दो ऽस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम्
विश्वा सोम पवमान द्युम्नानीन्दव् आ भर । विदाः सहस्रिणीर् इषः
स नः पुनान आ भर रयिꣳ स्तोत्रे सुवीर्यम् । जरितुर् वर्धया गिरः
पुनान इन्दव् आ भर सोम द्विबर्हसꣳ रयिम् । वृषन्न् इन्दो न उक्थ्यम्
प्र ये गावो न भूर्णयस् त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णाम् अप त्वचम्
सुवितस्य मनामहे ऽति सेतुꣳ दुराव्यम् । साह्वाꣳसो दस्युम् अव्रतम्
शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि
आ पवस्व महीम् इषꣳ गोमद् इन्दो हिरण्यवत् । अश्वावद् वाजवत् सुतः
स पवस्व विचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभिः
परि णः शर्मयन्त्या धारया सोम विश्वतः । सरा रसेव विष्टपम्
जनयन् रोचना दिवो जनयन्न् अप्सु सूर्यम् । वसानो गा अपो हरिः
एष प्रत्नेन मन्मना देवो देवेभ्यस् परि । धारया पवते सुतः
वावृधानाय तूर्वये पवन्ते वाजसातये । सोमाः सहस्रपाजसः
दुहानः प्रत्नम् इत् पयः पवित्रे परि षिच्यते । क्रन्दन् देवाꣳ अजीजनत्
अभि विश्वानि वार्याभि देवाꣳ ऋतावृधः । सोमः पुनानो अर्षति
गोमन् नः सोम वीरवद् अश्वावद् वाजवत् सुतः । पवस्व बृहतीर् इषः
यो अत्य इव मृज्यते गोभिर् मदाय हर्यतः । तꣳ गीर्भिर् वासयामसि
तꣳ नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा । इन्दुम् इन्द्राय पीतये
पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । विप्रस्य मेध्यातिथेः
पवमान विदा रयिम् अस्मभ्यꣳ सोम सुश्रियम् । इन्दो सहस्रवर्चसम्
इन्दुर् अत्यो न वाजसृत् कनिक्रन्ति पवित्र आ । यद् अक्षार् अति देवयुः
पवस्व वाजसातये विप्रस्य गृणतो वृधे । सोम रास्व सुवीर्यम्
प्र ण इन्दो महे तन ऊर्मिꣳ न बिभ्रद् अर्षसि । अभि देवाꣳ अयास्यः
मती जुष्टो धिया हितः सोमो हिन्वे परावति । विप्रस्य धारया कविः
अयꣳ देवेषु जागृविः सुत एति पवित्र आ । सोमो याति विचर्षणिः
स नः पवस्व वाजयुश् चक्राणश् चारुम् अध्वरम् । बर्हिष्माꣳ आ विवासति
स नो भगाय वायवे विप्रवीरः सदावृधः । सोमो देवेष्व् आ यमत्
स नो अद्य वसुत्तये क्रतुविद् गातुवित्तमः । वाजꣳ जेषि श्रवो बृहत्
स पवस्व मदाय कꣳ नृचक्षा देववीतये । इन्दव् इन्द्राय पीतये
स नो अर्षाभि दूत्य१ꣳ त्वम् इन्द्राय तोशसे । देवान् सखिभ्य आ वरम्
उत त्वाम् अरुणꣳ वयꣳ गोभिर् अञ्ज्मो मदाय कम् । वि नो राये दुरो वृधि
अत्य् ऊ पवित्रम् अक्रमीद् वाजी धुरꣳ न यामनि । इन्दुर् देवेषु पत्यते
सम् ई सखायो अस्वरन् वने क्रीळन्तम् अत्यविम् । इन्दुꣳ नावा अनूषत
तया पवस्व धारया यया पीतो विचक्षसे । इन्दो स्तोत्रे सुवीर्यम्
असृग्रन् देववीतये ऽत्यासः कृत्व्या इव । क्षरन्तः पर्वतावृधः
परिष्कृतास इन्दवो योषेव पित्र्यावती । वायुꣳ सोमा असृक्षत
एते सोमास इन्दवः प्रयस्वन्तश् चमू सुताः । इन्द्रꣳ वर्धन्ति कर्मभिः
आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना । गोभिः श्रीणीत मत्सरम्
स पवस्व धनꣳजय प्रयन्ता राधसो महः । अस्मभ्यꣳ सोम गातुवित्
एतम् मृजन्ति मर्ज्यम् पवमानꣳ दश क्षिपः । इन्द्राय मत्सरम् मदम्
अया सोमः सुकृत्यया महश् चिद् अभ्य् अवर्धत । मन्दान उद् वृषायते
कृतानीद् अस्य कर्त्वा चेतन्ते दस्युतर्हणा । ऋणा च धृष्णुश् चयते
आत् सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् । उक्थꣳ यद् अस्य जायते
स्वयꣳ कविर् विधर्तरि विप्राय रत्नम् इच्छति । यदी मर्मृज्यते धियः
सिषासतू रयीणाꣳ वाजेष्व् अर्वताम् इव । भरेषु जिग्युषाम् असि
तꣳ त्वा नृम्णानि बिभ्रतꣳ सधस्थेषु महो दिवः । चारुꣳ सुकृत्ययेमहे
सꣳवृक्तधृष्णुम् उक्थ्यम् महामहिव्रतम् मदम् । शतम् पुरो रुरुक्षणिम्
अतस् त्वा रयिम् अभि राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथिर् भरत्
विश्वस्मा इत् स्वर् दृशे साधारणꣳ रजस्तुरम् । गोपाम् ऋतस्य विर् भरत्
अधा हिन्वान इन्द्रियꣳ ज्यायो महित्वम् आनशे । अभिष्टिकृद् विचर्षणिः
पवस्व वृष्टिम् आ सु नो ऽपाम् ऊर्मिꣳ दिवस् परि । अयक्ष्मा बृहतीर् इषः
तया पवस्व धारया यया गाव इहागमन् । जन्यास उप नो गृहम्
घृतम् पवस्व धारया यज्ञेषु देववीतमः । अस्मभ्यꣳ वृष्टिम् आ पव
स न ऊर्जे व्य् अ१व्ययम् पवित्रꣳ धाव धारया । देवासः शृणवन् हि कम्
पवमानो असिष्यदद् रक्षाꣳस्य् अपजङ्घनत् । प्रत्नवद् रोचयन् रुचः
उत् ते शुष्मास ईरते सिन्धोर् ऊर्मेर् इव स्वनः । वाणस्य चोदया पविम्
प्रसवे त उद् ईरते तिस्रो वाचो मखस्युवः । यद् अव्य एषि सानवि
अव्यो वारे परि प्रियꣳ हरिꣳ हिन्वन्त्य् अद्रिभिः । पवमानम् मधुश्चुतम्
आ पवस्व मदिन्तम पवित्रꣳ धारया कवे । अर्कस्य योनिम् आसदम्
स पवस्व मदिन्तम गोभिर् अञ्जानो अक्तुभिः । इन्दव् इन्द्राय पीतये
अध्वर्यो अद्रिभिः सुतꣳ सोमम् पवित्र आ सृज । पुनीहीन्द्राय पातवे
दिवः पीयूषम् उत्तमꣳ सोमम् इन्द्राय वज्रिणे । सुनोता मधुमत्तमम्
तव त्य इन्दो अन्धसो देवा मधोर् व्य् अश्नते । पवमानस्य मरुतः
त्वꣳ हि सोम वर्धयन् सुतो मदाय भूर्णये । वृषन् स्तोतारम् ऊतये
अभ्य् अर्ष विचक्षण पवित्रꣳ धारया सुतः । अभि वाजम् उत श्रवः
परि द्युक्षः सनद्रयिर् भरद् वाजꣳ नो अन्धसा । सुवानो अर्ष पवित्र आ
तव प्रत्नेभिर् अध्वभिर् अव्यो वारे परि प्रियः । सहस्रधारो यात् तना
चरुर् न यस् तम् ईङ्खयेन्दो न दानम् ईङ्खय । वधैर् वधस्नव् ईङ्खय
नि शुष्मम् इन्दव् एषाम् पुरुहूत जनानाम् । यो अस्माꣳ आदिदेशति
शतꣳ न इन्द ऊतिभिः सहस्रꣳ वा शुचीनाम् । पवस्व मꣳहयद्रयिः
उत् ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः
अया निजघ्निर् ओजसा रथसꣳगे धने हिते । स्तवा अबिभ्युषा हृदा
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । रुज यस् त्वा पृतन्यति
तꣳ हिन्वन्ति मदच्युतꣳ हरिꣳ नदीषु वाजिनम् । इन्दुम् इन्द्राय मत्सरम्
अस्य प्रत्नाम् अनु द्युतꣳ शुक्रꣳ दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम्
अयꣳ सूर्य इवोपदृग् अयꣳ सराꣳसि धावति । सप्त प्रवत आ दिवम्
अयꣳ विश्वानि तिष्ठति पुनानो भुवनोपरि । सोमो देवो न सूर्यः
परि णो देववीतये वाजाꣳ अर्षसि गोमतः । पुनान इन्दव् इन्द्रयुः
यवꣳ-यवꣳ नो अन्धसा पुष्टम्-पुष्टम् परि स्रव । सोम विश्वा च सौभगा
इन्दो यथा तव स्तवो यथा ते जातम् अन्धसः । नि बर्हिषि प्रिये सदः
उत नो गोविद् अश्ववित् पवस्व सोमान्धसा । मक्षूतमेभिर् अहभिः
यो जिनाति न जीयते हन्ति शत्रुम् अभीत्य । स पवस्व सहस्रजित्
परि सोम ऋतम् बृहद् आशुः पवित्रे अर्षति । विघ्नन् रक्षाꣳसि देवयुः
यत् सोमो वाजम् अर्षति शतꣳ धारा अपस्युवः । इन्द्रस्य सख्यम् आविशन्
अभि त्वा योषणो दश जारꣳ न कन्यानूषत । मृज्यसे सोम सातये
त्वम् इन्द्राय विष्णवे स्वादुर् इन्दो परि स्रव । नॄन् स्तोतॄन् पाह्य् अꣳहसः
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजꣳ सहस्रिणम्
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस् तुञ्जान आयुधा
स मर्मृजान आयुभिर् इभो राजेव सुव्रतः । श्येनो न वꣳसु षीदति
स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दव् आ भर
तरत् स मन्दी धावति धारा सुतस्यान्धसः । तरत् स मन्दी धावति
उस्रा वेद वसूनाम् मर्तस्य देव्य् अवसः । तरत् स मन्दी धावति
ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे । तरत् स मन्दी धावति
आ ययोस् त्रिꣳशतꣳ तना सहस्राणि च दद्महे । तरत् स मन्दी धावति
पवस्व गोजिद् अश्वजिद् विश्वजित् सोम रण्यजित् । प्रजावद् रत्नम् आ भर
पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । पवस्व धिषणाभ्यः
त्वꣳ सोम पवमानो विश्वानि दुरिता तर । कविः सीद नि बर्हिषि
पवमान स्वर् विदो जायमानो ऽभवो महान् । इन्दो विश्वाꣳ अभीद् असि
प्र गायत्रेण गायत पवमानꣳ विचर्षणिम् । इन्दुꣳ सहस्रचक्षसम्
तꣳ त्वा सहस्रचक्षसम् अथो सहस्रभर्णसम् । अति वारम् अपाविषुः
अति वारान् पवमानो असिष्यदत् कलशाꣳ अभि धावति । इन्द्रस्य हार्द्य् आविशन्
इन्द्रस्य सोम राधसे शम् पवस्व विचर्षणे । प्रजावद् रेत आ भर
अया वीती परि स्रव यस् त इन्दो मदेष्व् आ । अवाहन् नवतीर् नव
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यꣳ तुर्वशꣳ यदुम्
परि णो अश्वम् अश्वविद् गोमद् इन्दो हिरण्यवत् । क्षरा सहस्रिणीर् इषः
पवमानस्य ते वयम् पवित्रम् अभ्युन्दतः । सखित्वम् आ वृणीमहे
ये ते पवित्रम् ऊर्मयो ऽभिक्षरन्ति धारया । तेभिर् नः सोम मृळय
स नः पुनान आ भर रयिꣳ वीरवतीम् इषम् । ईशानः सोम विश्वतः
एतम् उ त्यꣳ दश क्षिपो मृजन्ति सिन्धुमातरम् । सम् आदित्येभिर् अख्यत
सम् इन्द्रेणोत वायुना सुत एति पवित्र आ । सꣳ सूर्यस्य रश्मिभिः
स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारुर् मित्रे वरुणे च
उच्चा ते जातम् अन्धसो दिवि षद् भूम्य् आ ददे । उग्रꣳ शर्म महि श्रवः
एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित् परि स्रव
उपो षु जातम् अप्तुरꣳ गोभिर् भङ्गम् परिष्कृतम् । इन्दुꣳ देवा अयासिषुः
तम् इद् वर्धन्तु नो गिरो वत्सꣳ सꣳशिश्वरीर् इव । य इन्द्रस्य हृदꣳसनिः
अर्षा णः सोम शꣳ गवे धुक्षस्व पिप्युषीम् इषम् । वर्धा समुद्रम् उक्थ्यम्
पवमानो अजीजनद् दिवश् चित्रꣳ न तन्यतुम् । ज्योतिर् वैश्वानरम् बृहत्
पवमानस्य ते रसो मदो राजन्न् अदुच्छुनः । वि वारम् अव्यम् अर्षति
पवमान रसस् तव दक्षो वि राजति द्युमान् । ज्योतिर् विश्वꣳ स्वर् दृशे
यस् ते मदो वरेण्यस् तेना पवस्वान्धसा । देवावीर् अघशꣳसहा
जघ्निर् वृत्रम् अमित्रियꣳ सस्निर् वाजꣳ दिवे-दिवे । गोषा उ अश्वसा असि
सम्मिश्लो अरुषो भव सूपस्थाभिर् न धेनुभिः । सीदञ् छ्येनो न योनिम् आ
स पवस्व य आविथेन्द्रꣳ वृत्राय हन्तवे । वव्रिवाꣳसम् महीर् अपः
सुवीरासो वयꣳ धना जयेम सोम मीढ्वः । पुनानो वर्ध नो गिरः
त्वोतासस् तवावसा स्याम वन्वन्त आमुरः । सोम व्रतेषु जागृहि
अपघ्नन् पवते मृधो ऽप सोमो अराव्णः । गच्छन्न् इन्द्रस्य निष्कृतम्
महो नो राय आ भर पवमान जही मृधः । रास्वेन्दो वीरवद् यशः
न त्वा शतꣳ चन ह्रुतो राधो दित्सन्तम् आ मिनन् । यत् पुनानो मखस्यसे
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि
अस्य ते सख्ये वयꣳ तवेन्दो द्युम्न उत्तमे । सासह्याम पृतन्यतः
या ते भीमान्य् आयुधा तिग्मानि सन्ति धूर्वणे । रक्षा समस्य नो निदः
एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः । विश्वान्य् अभि सौभगा
विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । तना कृण्वन्तो अर्वते
कृण्वन्तो वरिवो गवे ऽभ्य् अर्षन्ति सुष्टुतिम् । इळाम् अस्मभ्यꣳ सꣳयतम्
असाव्य् अꣳशुर् मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिम् आसदत्
शुभ्रम् अन्धो देववातम् अप्सु धूतो नृभिः सुतः । स्वदन्ति गावः पयोभिः
आद् ईम् अश्वꣳ न हेतारो ऽशूशुभन्न् अमृताय । मध्वो रसꣳ सधमादे
यास् ते धारा मधुश्चुतो ऽसृग्रम् इन्द ऊतये । ताभिः पवित्रम् आसदः
सो अर्षेन्द्राय पीतये तिरो रोमाण्य् अव्यया । सीदन् योना वनेष्व् आ
त्वम् इन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । वरिवोविद् घृतम् पयः
अयꣳ विचर्षणिर् हितः पवमानः स चेतति । हिन्वान आप्यम् बृहत्
एष वृषा वृषव्रतः पवमानो अशस्तिहा । करद् वसूनि दाशुषे
आ पवस्व सहस्रिणꣳ रयिꣳ गोमन्तम् अश्विनम् । पुरुश्चन्द्रम् पुरुस्पृहम्
एष स्य परि षिच्यते मर्मृज्यमान आयुभिः । उरुगायः कविक्रतुः
सहस्रोतिः शतामघो विमानो रजसः कविः । इन्द्राय पवते मदः
गिरा जात इह स्तुत इन्दुर् इन्द्राय धीयते । विर् योना वसताव् इव
पवमानः सुतो नृभिः सोमो वाजम् इवासरत् । चमूषु शक्मनासदम्
तꣳ त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे । ऋषीणाꣳ सप्त धीतिभिः
तꣳ सोतारो धनस्पृतम् आशुꣳ वाजाय यातवे । हरिꣳ हिनोत वाजिनम्
आविशन् कलशꣳ सुतो विश्वा अर्षन्न् अभि श्रियः । शूरो न गोषु तिष्ठति
आ त इन्दो मदाय कम् पयो दुहन्त्य् आयवः । देवा देवेभ्यो मधु
आ नः सोमम् पवित्र आ सृजता मधुमत्तमम् । देवेभ्यो देवश्रुत्तमम्
एते सोमा असृक्षत गृणानाः श्रवसे महे । मदिन्तमस्य धारया
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । सनद्वाजः परि स्रव
उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः । गृणानो जमदग्निना
पवस्व वाचो अग्रियः सोम चित्राभिर् ऊतिभिः । अभि विश्वानि काव्या
त्वꣳ समुद्रिया अपो ऽग्रियो वाच ईरयन् । पवस्व विश्वमेजय
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यम् अर्षन्ति सिन्धवः
प्र ते दिवो न वृष्टयो धारा यन्त्य् असश्चतः । अभि शुक्राम् उपस्तिरम्
इन्द्रायेन्दुम् पुनीतनोग्रꣳ दक्षाय साधनम् । ईशानꣳ वीतिराधसम्
पवमान ऋतः कविः सोमः पवित्रम् आसदत् । दधत् स्तोत्रे सुवीर्यम्
आ पवस्व सहस्रिणꣳ रयिꣳ सोम सुवीर्यम् । अस्मे श्रवाꣳसि धारय
इषम् ऊर्जꣳ च पिन्वस इन्द्राय मत्सरिन्तमः । चमूष्व् आ नि षीदसि
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् । मधुमाꣳ अस्तु वायवे
एते असृग्रम् आशवो ऽति ह्वराꣳसि बभ्रवः । सोमा ऋतस्य धारया
इन्द्रꣳ वर्धन्तो अप्तुरः कृण्वन्तो विश्वम् आर्यम् । अपघ्नन्तो अराव्णः
सुता अनु स्वम् आ रजो ऽभ्य् अर्षन्ति बभ्रवः । इन्द्रꣳ गच्छन्त इन्दवः
अया पवस्व धारया यया सूर्यम् अरोचयः । हिन्वानो मानुषीर् अपः
अयुक्त सूर एतशम् पवमानो मनाव् अधि । अन्तरिक्षेण यातवे
उत त्या हरितो दश सूरो अयुक्त यातवे । इन्दुर् इन्द्र इति ब्रुवन्
परीतो वायवे सुतꣳ गिर इन्द्राय मत्सरम् । अव्यो वारेषु सिञ्चत
पवमान विदा रयिम् अस्मभ्यꣳ सोम दुष्टरम् । यो दूणाशो वनुष्यता
अभ्य् अर्ष सहस्रिणꣳ रयिꣳ गोमन्तम् अश्विनम् । अभि वाजम् उत श्रवः
सोमो देवो न सूर्यो ऽद्रिभिः पवते सुतः । दधानः कलशे रसम्
एते धामान्य् आर्या शुक्रा ऋतस्य धारया । वाजꣳ गोमन्तम् अक्षरन्
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः । पवित्रम् अत्य् अक्षरन्
प्र सोम मधुमत्तमो राये अर्ष पवित्र आ । मदो यो देववीतमः
तम् ई मृजन्त्य् आयवो हरिꣳ नदीषु वाजिनम् । इन्दुम् इन्द्राय मत्सरम्
आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । वाजꣳ गोमन्तम् आ भर
परि वाजे न वाजयुम् अव्यो वारेषु सिञ्चत । इन्द्राय मधुमत्तमम्
कविम् मृजन्ति मर्ज्यꣳ धीभिर् विप्रा अवस्यवः । वृषा कनिक्रद् अर्षति
वृषणꣳ धीभिर् अप्तुरꣳ सोमम् ऋतस्य धारया । मती विप्राः सम् अस्वरन्
पवस्व देवायुषग् इन्द्रꣳ गच्छतु ते मदः । वायुम् आ रोह धर्मणा
पवमान नि तोशसे रयिꣳ सोम श्रवाय्यम् । प्रियः समुद्रम् आ विश
अपघ्नन् पवसे मृधः क्रतुवित् सोम मत्सरः । नुदस्वादेवयुꣳ जनम्
पवमाना असृक्षत सोमाः शुक्रास इन्दवः । अभि विश्वानि काव्या
पवमानास आशवः शुभ्रा असृग्रम् इन्दवः । घ्नन्तो विश्वा अप द्विषः
पवमाना दिवस् पर्य् अन्तरिक्षाद् असृक्षत । पृथिव्या अधि सानवि
पुनानः सोम धारयेन्दो विश्वा अप स्रिधः । जहि रक्षाꣳसि सुक्रतो
अपघ्नन् सोम रक्षसो ऽभ्य् अर्ष कनिक्रदत् । द्युमन्तꣳ शुष्मम् उत्तमम्
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा । इन्दो विश्वानि वार्या
वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे
वृष्णस् ते वृष्ण्यꣳ शवो वृषा वनꣳ वृषा मदः । सत्यꣳ वृषन् वृषेद् असि
अश्वो न चक्रदो वृषा सꣳ गा इन्दो सम् अर्वतः । वि नो राये दुरो वृधि
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः
शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः । पवन्ते वारे अव्यये
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । पवन्ताम् आन्तरिक्ष्या
पवमानस्य विश्ववित् प्र ते सर्गा असृक्षत । सूर्यस्येव न रश्मयः
केतुꣳ कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसि । समुद्रः सोम पिन्वसे
हिन्वानो वाचम् इष्यसि पवमान विधर्मणि । अक्रान् देवो न सूर्यः
इन्दुः पविष्ट चेतनः प्रियः कवीनाम् मती । सृजद् अश्वꣳ रथीर् इव
ऊर्मिर् यस् ते पवित्र आ देवावीः पर्यक्षरत् । सीदन्न् ऋतस्य योनिम् आ
स नो अर्ष पवित्र आ मदो यो देववीतमः । इन्दव् इन्द्राय पीतये
इषे पवस्व धारया मृज्यमानो मनीषिभिः । इन्दो रुचाभि गा इहि
पुनानो वरिवस् कृध्य् ऊर्जꣳ जनाय गिर्वणः । हरे सृजान आशिरम्
पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । द्युतानो वाजिभिर् यतः
प्र हिन्वानास इन्दवो ऽच्छा समुद्रम् आशवः । धिया जूता असृक्षत
मर्मृजानास आयवो वृथा समुद्रम् इन्दवः । अग्मन्न् ऋतस्य योनिम् आ
परि णो याह्य् अस्मयुर् विश्वा वसून्य् ओजसा । पाहि नः शर्म वीरवत्
मिमाति वह्निर् एतशः पदꣳ युजान ऋक्वभिः । प्र यत् समुद्र आहितः
आ यद् योनिꣳ हिरण्ययम् आशुर् ऋतस्य सीदति । जहात्य् अप्रचेतसः
अभि वेना अनूषतेयक्षन्ति प्रचेतसः । मज्जन्त्य् अविचेतसः
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । ऋतस्य योनिम् आसदम्
तꣳ त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः । सꣳ त्वा मृजन्त्य् आयवः
रसꣳ ते मित्रो अर्यमा पिबन्ति वरुणः कवे । पवमानस्य मरुतः
त्वꣳ सोम विपश्चितम् पुनानो वाचम् इष्यसि । इन्दो सहस्रभर्णसम्
उतो सहस्रभर्णसꣳ वाचꣳ सोम मखस्युवम् । पुनान इन्दव् आ भर
पुनान इन्दव् एषाम् पुरुहूत जनानाम् । प्रियः समुद्रम् आ विश
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः
हिन्वानो हेतृभिर् यत आ वाजꣳ वाज्य् अक्रमीत् । सीदन्तो वनुषो यथा
ऋधक् सोम स्वस्तये सꣳजग्मानो दिवः कविः । पवस्व सूर्यो दृशे
हिन्वन्ति सूरम् उस्रयः स्वसारो जामयस् पतिम् । महाम् इन्दुम् महीयुवः
पवमान रुचा-रुचा देवो देवेभ्यस् परि । विश्वा वसून्य् आ विश
आ पवमान सुष्टुतिꣳ वृष्टिꣳ देवेभ्यो दुवः । इषे पवस्व सꣳयतम्
वृषा ह्य् असि भानुना द्युमन्तꣳ त्वा हवामहे । पवमान स्वाध्यः
आ पवस्व सुवीर्यम् मन्दमानः स्वायुध । इहो ष्व् इन्दव् आ गहि
यद् अद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । द्रुणा सधस्थम् अश्नुषे
प्र सोमाय व्यश्ववत् पवमानाय गायत । महे सहस्रचक्षसे
यस्य वर्णम् मधुश्चुतꣳ हरिꣳ हिन्वन्त्य् अद्रिभिः । इन्दुम् इन्द्राय पीतये
तस्य ते वाजिनो वयꣳ विश्वा धनानि जिग्युषः । सखित्वम् आ वृणीमहे
वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा
तꣳ त्वा धर्तारम् ओण्यो३ः पवमान स्वर्दृशम् । हिन्वे वाजेषु वाजिनम्
अया चित्तो विपानया हरिः पवस्व धारया । युजꣳ वाजेषु चोदय
आ न इन्दो महीम् इषम् पवस्व विश्वदर्शतः । अस्मभ्यꣳ सोम गातुवित्
आ कलशा अनूषतेन्दो धाराभिर् ओजसा । एन्द्रस्य पीतये विश
यस्य ते मद्यꣳ रसꣳ तीव्रꣳ दुहन्त्य् अद्रिभिः । स पवस्वाभिमातिहा
राजा मेधाभिर् ईयते पवमानो मनाव् अधि । अन्तरिक्षेण यातवे
आ न इन्दो शतग्विनꣳ गवाम् पोषꣳ स्वश्व्यम् । वहा भगत्तिम् ऊतये
आ नः सोम सहो जुवो रूपꣳ न वर्चसे भर । सुष्वाणो देववीतये
अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् । सीदञ् छ्येनो न योनिम् आ
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमो अर्षति विष्णवे
इषꣳ तोकाय नो दधद् अस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम्
ये सोमासः परावति ये अर्वावति सुन्विरे । ये वादः शर्यणावति
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् । ये वा जनेषु पञ्चसु
ते नो वृष्टिꣳ दिवस् परि पवन्ताम् आ सुवीर्यम् । सुवाना देवास इन्दवः
पवते हर्यतो हरिर् गृणानो जमदग्निना । हिन्वानो गोर् अधि त्वचि
प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । श्रीणाना अप्सु मृञ्जत
तꣳ त्वा सुतेष्व् आभुवो हिन्विरे देवतातये । स पवस्वानया रुचा
आ ते दक्षम् मयोभुवꣳ वह्निम् अद्या वृणीमहे । पान्तम् आ पुरुस्पृहम्
आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम् । पान्तम् आ पुरुस्पृहम्
आ रयिम् आ सुचेतुनम् आ सुक्रतो तनूष्व् आ । पान्तम् आ पुरुस्पृहम्
पवस्व विश्वचर्षणे ऽभि विश्वानि काव्या । सखा सखिभ्य ईड्यः
ताभ्याꣳ विश्वस्य राजसि ये पवमान धामनी । प्रतीची सोम तस्थतुः
परि धामानि यानि ते त्वꣳ सोमासि विश्वतः । पवमान ऋतुभिः कवे
पवस्व जनयन्न् इषो ऽभि विश्वानि वार्या । सखा सखिभ्य ऊतये
तव शुक्रासो अर्चयो दिवस् पृष्ठे वि तन्वते । पवित्रꣳ सोम धामभिः
तवेमे सप्त सिन्धवः प्रशिषꣳ सोम सिस्रते । तुभ्यꣳ धावन्ति धेनवः
प्र सोम याहि धारया सुत इन्द्राय मत्सरः । दधानो अक्षिति श्रवः
सम् उ त्वा धीभिर् अस्वरन् हिन्वतीः सप्त जामयः । विप्रम् आजा विवस्वतः
मृजन्ति त्वा सम् अग्रुवो ऽव्ये जीराव् अधि ष्वणि । रेभो यद् अज्यसे वने
पवमानस्य ते कवे वाजिन् सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः
अच्छा कोशम् मधुश्चुतम् असृग्रꣳ वारे अव्यये । अवावशन्त धीतयः
अच्छा समुद्रम् इन्दवो ऽस्तꣳ गावो न धेनवः । अग्मन्न् ऋतस्य योनिम् आ
प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । यद् गोभिर् वासयिष्यसे
अस्य ते सख्ये वयम् इयक्षन्तस् त्वोतयः । इन्दो सखित्वम् उश्मसि
आ पवस्व गविष्टये महे सोम नृचक्षसे । एन्द्रस्य जठरे विश
महाꣳ असि सोम ज्येष्ठ उग्राणाम् इन्द ओजिष्ठः । युध्वा सञ् छश्वज् जिगेथ
य उग्रेभ्यश् चिद् ओजीयाञ् छूरेभ्यश् चिच् छूरतरः । भूरिदाभ्यश् चिन् मꣳहीयान्
त्वꣳ सोम सूर एषस् तोकस्य साता तनूनाम् । वृणीमहे सख्याय वृणीमहे युज्याय
अग्न आयूꣳषि पवस आ सुवोर्जम् इषꣳ च नः । आरे बाधस्व दुच्छुनाम्
अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तम् ईमहे महागयम्
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद् रयिम् मयि पोषम्
पवमानो अति स्रिधो ऽभ्य् अर्षति सुष्टुतिम् । सूरो न विश्वदर्शतः
स मर्मृजान आयुभिः प्रयस्वान् प्रयसे हितः । इन्दुर् अत्यो विचक्षणः
पवमान ऋतम् बृहच् छुक्रꣳ ज्योतिर् अजीजनत् । कृष्णा तमाꣳसि जङ्घनत्
पवमानस्य जङ्घ्नतो हरेश् चन्द्रा असृक्षत । जीरा अजिरशोचिषः
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्गणः
पवमानो व्य् अश्नवद् रश्मिभिर् वाजसातमः । दधत् स्तोत्रे सुवीर्यम्
प्र सुवान इन्दुर् अक्षाः पवित्रम् अत्य् अव्ययम् । पुनान इन्दुर् इन्द्रम् आ
एष सोमो अधि त्वचि गवाꣳ क्रीळत्य् अद्रिभिः । इन्द्रम् मदाय जोहुवत्
यस्य ते द्युम्नवत् पयः पवमानाभृतꣳ दिवः । तेन नो मृळ जीवसे
त्वꣳ सोमासि धारयुर् मन्द्र ओजिष्ठो अध्वरे । पवस्व मꣳहयद्रयिः
त्वꣳ सुतो नृमादनो दधन्वान् मत्सरिन्तमः । इन्द्राय सूरिर् अन्धसा
त्वꣳ सुष्वाणो अद्रिभिर् अभ्य् अर्ष कनिक्रदत् । द्युमन्तꣳ शुष्मम् उत्तमम्
इन्दुर् हिन्वानो अर्षति तिरो वाराण्य् अव्यया । हरिर् वाजम् अचिक्रदत्
इन्दो व्य् अव्यम् अर्षसि वि श्रवाꣳसि वि सौभगा । वि वाजान् सोम गोमतः
आ न इन्दो शतग्विनꣳ रयिꣳ गोमन्तम् अश्विनम् । भरा सोम सहस्रिणम्
पवमानास इन्दवस् तिरः पवित्रम् आशवः । इन्द्रꣳ यामेभिर् आशत
ककुहः सोम्यो रस इन्दुर् इन्द्राय पूर्व्यः । आयुः पवत आयवे
हिन्वन्ति सूरम् उस्रयः पवमानम् मधुश्चुतम् । अभि गिरा सम् अस्वरन्
अविता नो अजाश्वः पूषा यामनि-यामनि । आ भक्षत् कन्यासु नः
अयꣳ सोमः कपर्दिने घृतꣳ न पवते मधु । आ भक्षत् कन्यासु नः
अयꣳ त आघृणे सुतो घृतꣳ न पवते शुचि । आ भक्षत् कन्यासु नः
वाचो जन्तुः कवीनाम् पवस्व सोम धारया । देवेषु रत्नधा असि
आ कलशेषु धावति श्येनो वर्म वि गाहते । अभि द्रोणा कनिक्रदत्
परि प्र सोम ते रसो ऽसर्जि कलशे सुतः । श्येनो न तक्तो अर्षति
पवस्व सोम मन्दयन्न् इन्द्राय मधुमत्तमः
असृग्रन् देववीतये वाजयन्तो रथा इव
ते सुतासो मदिन्तमाः शुक्रा वायुम् असृक्षत
ग्राव्णा तुन्नो अभिष्टुतः पवित्रꣳ सोम गच्छसि । दधत् स्तोत्रे सुवीर्यम्
एष तुन्नो अभिष्टुतः पवित्रम् अति गाहते । रक्षोहा वारम् अव्ययम्
यद् अन्ति यच् च दूरके भयꣳ विन्दति माम् इह । पवमान वि तज् जहि
पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तर् आ । ब्रह्म तेन पुनीहि नः
यत् ते पवित्रम् अर्चिवद् अग्ने तेन पुनीहि नः । ब्रह्मसवैः पुनीहि नः
उभाभ्याꣳ देव सवितः पवित्रेण सवेन च । माम् पुनीहि विश्वतः
त्रिभिष् ट्वꣳ देव सवितर् वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः
पुनन्तु माꣳ देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिर् अꣳशुभिः । देवेभ्य उत्तमꣳ हविः
उप प्रियम् पनिप्नतꣳ युवानम् आहुतीवृधम् । अगन्म बिभ्रतो नमः
अलाय्यस्य परशुर् ननाश तम् आ पवस्व देव सोम । आखुꣳ चिद् एव देव सोम
यः पावमानीर् अध्येत्य् ऋषिभिः सम्भृतꣳ रसम् । सर्वꣳ स पूतम् अश्नाति स्वदितम् मातरिश्वना
पावमानीर् यो अध्येत्य् ऋषिभिः सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे क्षीरꣳ सर्पिर् मधूदकम्
प्र देवम् अच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतम् उस्रिया निर्णिजꣳ धिरे
स रोरुवद् अभि पूर्वा अचिक्रदद् उपारुहः श्रथयन् स्वादते हरिः । तिरः पवित्रम् परियन्न् उरु ज्रयो नि शर्याणि दधते देव आ वरम्
वि यो ममे यम्या सꣳयती मदः साकꣳवृधा पयसा पिन्वद् अक्षिता । मही अपारे रजसी विवेविदद् अभिव्रजन्न् अक्षितम् पाज आ ददे
स मातरा विचरन् वाजयन्न् अपः प्र मेधिरः स्वधया पिन्वते पदम् । अꣳशुर् यवेन पिपिशे यतो नृभिः सꣳ जामिभिर् नसते रक्षते शिरः
सꣳ दक्षेण मनसा जायते कविर् ऋतस्य गर्भो निहितो यमा परः । यूना ह सन्ता प्रथमꣳ वि जज्ञतुर् गुहा हितꣳ जनिम नेमम् उद्यतम्
मन्द्रस्य रूपꣳ विविदुर् मनीषिणः श्येनो यद् अन्धो अभरत् परावतः । तम् मर्जयन्त सुवृधꣳ नदीष्व् आꣳ उशन्तम् अꣳशुम् परियन्तम् ऋग्मियम्
त्वाम् मृजन्ति दश योषणः सुतꣳ सोम ऋषिभिर् मतिभिर् धीतिभिर् हितम् । अव्यो वारेभिर् उत देवहूतिभिर् नृभिर् यतो वाजम् आ दर्षि सातये
परिप्रयन्तꣳ वय्यꣳ सुषꣳसदꣳ सोमम् मनीषा अभ्य् अनूषत स्तुभः । यो धारया मधुमाꣳ ऊर्मिणा दिव इयर्ति वाचꣳ रयिषाळ् अमर्त्यः
अयꣳ दिव इयर्ति विश्वम् आ रजः सोमः पुनानः कलशेषु सीदति । अद्भिर् गोभिर् मृज्यते अद्रिभिः सुतः पुनान इन्दुर् वरिवो विदत् प्रियम्
एवा नः सोम परिषिच्यमानो वयो दधच् चित्रतमम् पवस्व । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम्
इषुर् न धन्वन् प्रति धीयते मतिर् वत्सो न मातुर् उप सर्ज्य् ऊधनि । उरुधारेव दुहे अग्र आयत्य् अस्य व्रतेष्व् अपि सोम इष्यते
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तर् आसनि । पवमानः सꣳतनिः प्रघ्नताम् इव मधुमान् द्रप्सः परि वारम् अर्षति
अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीर् अदितेर् ऋतꣳ यते । हरिर् अक्रान् यजतः सꣳयतो मदो नृम्णा शिशानो महिषो न शोभते
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम् । अत्य् अक्रमीद् अर्जुनꣳ वारम् अव्ययम् अत्कꣳ न निक्तम् परि सोमो अव्यत
अमृक्तेन रुशता वाससा हरिर् अमर्त्यो निर्णिजानः परि व्यत । दिवस् पृष्ठम् बर्हणा निर्णिजे कृतोपस्तरणꣳ चम्वोर् नभस्मयम्
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकम् ईरते । तन्तुꣳ ततम् परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किꣳ चन
सिन्धोर् इव प्रवणे निम्न आशवो वृषच्युता मदासो गातुम् आशत । शꣳ नो निवेशे द्विपदे चतुष्पदे ऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः
आ नः पवस्व वसुमद् धिरण्यवद् अश्वावद् गोमद् यवमत् सुवीर्यम् । यूयꣳ हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः
एते सोमाः पवमानास इन्द्रꣳ रथा इव प्र ययुः सातिम् अच्छ । सुताः पवित्रम् अति यन्त्य् अव्यꣳ हित्वी वव्रिꣳ हरितो वृष्टिम् अच्छ
इन्दव् इन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । भरा चन्द्राणि गृणते वसूनि देवैर् द्यावापृथिवी प्रावतꣳ नः
त्रिर् अस्मै सप्त धेनवो दुदुह्रे सत्याम् आशिरम् पूर्व्ये व्योमनि । चत्वार्य् अन्या भुवनानि निर्णिजे चारूणि चक्रे यद् ऋतैर् अवर्धत
स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः
ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु । येभिर् नृम्णा च देव्या च पुनत आद् इद् राजानम् मनना अगृभ्णत
स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ
स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । वृषा शुष्मेण बाधते वि दुर्मतीर् आदेदिशानः शर्यहेव शुरुधः
स मातरा न ददृशान उस्रियो नानदद् एति मरुताम् इव स्वनः । जानन्न् ऋतम् प्रथमꣳ यत् स्वर्णरम् प्रशस्तये कम् अवृणीत सुक्रतुः
रुवति भीमो वृषभस् तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः । आ योनिꣳ सोमः सुकृतꣳ नि षीदति गव्ययी त्वग् भवति निर्णिग् अव्ययी
शुचिः पुनानस् तन्वम् अरेपसम् अव्ये हरिर् न्य् अधाविष्ट सानवि । जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः
पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानम् आ विश । पुरा नो बाधाद् दुरिताति पारय क्षेत्रविद् धि दिश आहा विपृच्छते
हितो न सप्तिर् अभि वाजम् अर्षेन्द्रस्येन्दो जठरम् आ पवस्व । नावा न सिन्धुम् अति पर्षि विद्वाञ् छूरो न युध्यन्न् अव नो निदः स्पः
आ दक्षिणा सृज्यते शुष्म्य् आ३सदꣳ वेति द्रुहो रक्षसः पाति जागृविः । हरिर् ओपशꣳ कृणुते नभस् पय उपस्तिरे चम्वो३र् ब्रह्म निर्णिजे
प्र कृष्टिहेव शूष एति रोरुवद् असुर्य१ꣳ वर्णꣳ नि रिणीते अस्य तम् । जहाति वव्रिम् पितुर् एति निष्कृतम् उपप्रुतꣳ कृणुते निर्णिजꣳ तना
अद्रिभिः सुतः पवते गभस्त्योर् वृषायते नभसा वेपते मती । स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि
परि द्युक्षꣳ सहसः पर्वतावृधम् मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् । आ यस्मिन् गावः सुहुताद ऊधनि मूर्धञ् छ्रीणन्त्य् अग्रियꣳ वरीमभिः
सम् ई रथꣳ न भुरिजोर् अहेषत दश स्वसारो अदितेर् उपस्थ आ । जिगाद् उप ज्रयति गोर् अपीच्यम् पदꣳ यद् अस्य मतुथा अजीजनन्
श्येनो न योनिꣳ सदनꣳ धिया कृतꣳ हिरण्ययम् आसदꣳ देव एषति । ए रिणन्ति बर्हिषि प्रियꣳ गिराश्वो न देवाꣳ अप्य् एति यज्ञियः
परा व्यक्तो अरुषो दिवः कविर् वृषा त्रिपृष्ठो अनविष्ट गा अभि । सहस्रणीतिर् यतिः परायती रेभो न पूर्वीर् उषसो वि राजति
त्वेषꣳ रूपꣳ कृणुते वर्णो अस्य स यत्राशयत् समृता सेधति स्रिधः । अप्सा याति स्वधया दैव्यꣳ जनꣳ सꣳ सुष्टुती नसते सꣳ गोअग्रया
उक्षेव यूथा परियन्न् अरावीद् अधि त्विषीर् अधित सूर्यस्य । दिव्यः सुपर्णो ऽव चक्षत क्षाꣳ सोमः परि क्रतुना पश्यते जाः
हरिम् मृजन्त्य् अरुषो न युज्यते सꣳ धेनुभिः कलशे सोमो अज्यते । उद् वाचम् ईरयति हिन्वते मती पुरुष्टुतस्य कति चित् परिप्रियः
साकꣳ वदन्ति बहवो मनीषिण इन्द्रस्य सोमꣳ जठरे यद् आदुहुः । यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर् दशभिः काम्यम् मधु
अरममाणो अत्य् एति गा अभि सूर्यस्य प्रियꣳ दुहितुस् तिरो रवम् । अन्व् अस्मै जोषम् अभरद् विनꣳगृसः सꣳ द्वयीभिः स्वसृभिः क्षेति जामिभिः
नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर् गवाम् प्रदिव इन्दुर् ऋत्वियः । पुरꣳधिवान् मनुषो यज्ञसाधनः शुचिर् धिया पवते सोम इन्द्र ते
नृबाहुभ्याꣳ चोदितो धारया सुतो ऽनुष्वधम् पवते सोम इन्द्र ते । आप्राः क्रतून् सम् अजैर् अध्वरे मतीर् वेर् न द्रुषच् चम्वो३र् आसदद् धरिः
अꣳशुꣳ दुहन्ति स्तनयन्तम् अक्षितꣳ कविꣳ कवयो ऽपसो मनीषिणः । सम् ई गावो मतयो यन्ति सꣳयत ऋतस्य योना सदने पुनर्भुवः
नाभा पृथिव्या धरुणो महो दिवो३ ऽपाम् ऊर्मौ सिन्धुष्व् अन्तर् उक्षितः । इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः
स तू पवस्व परि पार्थिवꣳ रजः स्तोत्रे शिक्षन्न् आधून्वते च सुक्रतो । मा नो निर् भाग् वसुनः सादनस्पृशो रयिम् पिशङ्गम् बहुलꣳ वसीमहि
आ तू न इन्दो शतदात्व् अश्व्यꣳ सहस्रदातु पशुमद् धिरण्यवत् । उप मास्व बृहती रेवतीर् इषो ऽधि स्तोत्रस्य पवमान नो गहि
स्रक्वे द्रप्सस्य धमतः सम् अस्वरन्न् ऋतस्य योना सम् अरन्त नाभयः । त्रीन् स मूर्ध्नो असुरश् चक्र आरभे सत्यस्य नावः सुकृतम् अपीपरन्
सम्यक् सम्यञ्चो महिषा अहेषत सिन्धोर् ऊर्माव् अधि वेना अवीविपन् । मधोर् धाराभिर् जनयन्तो अर्कम् इत् प्रियाम् इन्द्रस्य तन्वम् अवीवृधन्
पवित्रवन्तः परि वाचम् आसते पितैषाम् प्रत्नो अभि रक्षति व्रतम् । महः समुद्रꣳ वरुणस् तिरो दधे धीरा इच् छेकुर् धरुणेष्व् आरभम्
सहस्रधारे ऽव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः । अस्य स्पशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः
पितुर् मातुर् अध्य् आ ये समस्वरन्न् ऋचा शोचन्तः सꣳदहन्तो अव्रतान् । इन्द्रद्विष्टाम् अप धमन्ति मायया त्वचम् असिक्नीम् भूमनो दिवस् परि
प्रत्नान् मानाद् अध्य् आ ये समस्वरञ् छ्लोकयन्त्रासो रभसस्य मन्तवः । अपानक्षासो बधिरा अहासत ऋतस्य पन्थाꣳ न तरन्ति दुष्कृतः
सहस्रधारे वितते पवित्र आ वाचम् पुनन्ति कवयो मनीषिणः । रुद्रास एषाम् इषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः
ऋतस्य गोपा न दभाय सुक्रतुस् त्री ष पवित्रा हृद्य् अ१न्तर् आ दधे । विद्वान् स विश्वा भुवनाभि पश्यत्य् अवाजुष्टान् विध्यति कर्ते अव्रतान्
ऋतस्य तन्तुर् विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । धीराश् चित् तत् समिनक्षन्त आशतात्रा कर्तम् अव पदात्य् अप्रभुः
शिशुर् न जातो ऽव चक्रदद् वने स्व१र् यद् वाज्य् अरुषः सिषासति । दिवो रेतसा सचते पयोवृधा तम् ईमहे सुमती शर्म सप्रथः
दिवो यः स्कम्भो धरुणः स्वातत आपूर्णो अꣳशुः पर्येति विश्वतः । सेमे मही रोदसी यक्षद् आवृता समीचीने दाधार सम् इषः कविः
महि प्सरः सुकृतꣳ सोम्यम् मधूर्वी गव्यूतिर् अदितेर् ऋतꣳ यते । ईशे यो वृष्टेर् इत उस्रियो वृषापाꣳ नेता य इतऊतिर् ऋग्मियः
आत्मन्वन् नभो दुह्यते घृतम् पय ऋतस्य नाभिर् अमृतꣳ वि जायते । समीचीनाः सुदानवः प्रीणन्ति तꣳ नरो हितम् अव मेहन्ति पेरवः
अरावीद् अꣳशुः सचमान ऊर्मिणा देवाव्य१म् मनुषे पिन्वति त्वचम् । दधाति गर्भम् अदितेर् उपस्थ आ येन तोकꣳ च तनयꣳ च धामहे
सहस्रधारे ऽव ता असश्चतस् तृतीये सन्तु रजसि प्रजावतीः । चतस्रो नाभो निहिता अवो दिवो हविर् भरन्त्य् अमृतꣳ घृतश्चुतः
श्वेतꣳ रूपꣳ कृणुते यत् सिषासति सोमो मीढ्वाꣳ असुरो वेद भूमनः । धिया शमी सचते सेम् अभि प्रवद् दिवस् कवन्धम् अव दर्षद् उद्रिणम्
अध श्वेतꣳ कलशꣳ गोभिर् अक्तꣳ कार्ष्मन्न् आ वाज्य् अक्रमीत् ससवान् । आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम्
अद्भिः सोम पपृचानस्य ते रसो ऽव्यो वारꣳ वि पवमान धावति । स मृज्यमानः कविभिर् मदिन्तम स्वदस्वेन्द्राय पवमान पीतये
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्न् अधि रथꣳ विष्वञ्चम् अरुहद् विचक्षणः
ऋतस्य जिह्वा पवते मधु प्रियꣳ वक्ता पतिर् धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोर् अपीच्य१ꣳ नाम तृतीयम् अधि रोचने दिवः
अव द्युतानः कलशाꣳ अचिक्रदन् नृभिर् येमानः कोश आ हिरण्यये । अभीम् ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति
अद्रिभिः सुतो मतिभिश् चनोहितः प्ररोचयन् रोदसी मातरा शुचिः । रोमाण्य् अव्या समया वि धावति मधोर् धारा पिन्वमाना दिवे-दिवे
परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । ये ते मदा आहनसो विहायसस् तेभिर् इन्द्रꣳ चोदय दातवे मघम्
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानाम् अनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर् वृथा पाजाꣳसि कृणुते नदीष्व् आ
शूरो न धत्त आयुधा गभस्त्योः स्व१ः सिषासन् रथिरो गविष्टिषु । इन्द्रस्य शुष्मम् ईरयन्न् अपस्युभिर् इन्दुर् हिन्वानो अज्यते मनीषिभिः
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्व् आ विश । प्र णः पिन्व विद्युद् अभ्रेव रोदसी धिया न वाजाꣳ उप मासि शश्वतः
विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिम् ऋषिषाळ् अवीवशत् । यः सूर्यस्यासिरेण मृज्यते पिता मतीनाम् असमष्टकाव्यः
वृषेव यूथा परि कोशम् अर्षस्य् अपाम् उपस्थे वृषभः कनिक्रदत् । स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः
एष प्र कोशे मधुमाꣳ अचिक्रदद् इन्द्रस्य वज्रो वपुषो वपुष्टरः । अभीम् ऋतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः
स पूर्व्यः पवते यꣳ दिवस् परि श्येनो मथायद् इषितस् तिरो रजः । स मध्व आ युवते वेविजान इत् कृशानोर् अस्तुर् मनसाह बिभ्युषा
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो३ न चारवो ब्रह्म-ब्रह्म ये जुजुषुर् हविर्-हविः
अयꣳ नो विद्वान् वनवद् वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । इनस्य यः सदने गर्भम् आदधे गवाम् उरुब्जम् अभ्य् अर्षति व्रजम्
चक्रिर् दिवः पवते कृत्व्यो रसो महाꣳ अदब्धो वरुणो हुरुग् यते । असावि मित्रो वृजनेषु यज्ञियो ऽत्यो न यूथे वृषयुः कनिक्रदत्
प्र राजा वाचꣳ जनयन्न् असिष्यदद् अपो वसानो अभि गा इयक्षति । गृभ्णाति रिप्रम् अविर् अस्य तान्वा शुद्धो देवानाम् उप याति निष्कृतम्
इन्द्राय सोम परि षिच्यसे नृभिर् नृचक्षा ऊर्मिः कविर् अज्यसे वने । पूर्वीर् हि ते स्रुतयः सन्ति यातवे सहस्रम् अश्वा हरयश् चमूषदः
समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् । ता ईꣳ हिन्वन्ति हर्म्यस्य सक्षणिꣳ याचन्ते सुम्नम् पवमानम् अक्षितम्
गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् । यꣳ देवासश् चक्रिरे पीतये मदꣳ स्वादिष्ठꣳ द्रप्सम् अरुणम् मयोभुवम्
एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि । जहि शत्रुम् अन्तिके दूरके च य उर्वीꣳ गव्यूतिम् अभयꣳ च नस् कृधि
अचोदसो नो धन्वन्त्व् इन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । वि च नशन् न इषो अरातयो ऽर्यो नशन्त सनिषन्त नो धियः
प्र णो धन्वन्त्व् इन्दवो मदच्युतो धना वा येभिर् अर्वतो जुनीमसि । तिरो मर्तस्य कस्य चित् परिह्वृतिꣳ वयꣳ धनानि विश्वधा भरेमहि
उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः । धन्वन् न तृष्णा सम् अरीत ताꣳ अभि सोम जहि पवमान दुराध्यः
दिवि ते नाभा परमो य आददे पृथिव्यास् ते रुरुहुः सानवि क्षिपः । अद्रयस् त्वा बप्सति गोर् अधि त्वच्य् अ१प्सु त्वा हस्तैर् दुदुहुर् मनीषिणः
एवा त इन्दो सुभ्वꣳ सुपेशसꣳ रसꣳ तुञ्जन्ति प्रथमा अभिश्रियः । निदꣳ-निदम् पवमान नि तारिष आविस् ते शुष्मो भवतु प्रियो मदः
सोमस्य धारा पवते नृचक्षस ऋतेन देवान् हवते दिवस् परि । बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः
यꣳ त्वा वाजिन्न् अघ्न्या अभ्य् अनूषतायोहतꣳ योनिम् आ रोहसि द्युमान् । मघोनाम् आयुः प्रतिरन् महि श्रव इन्द्राय सोम पवसे वृषा मदः
एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जꣳ वसानः श्रवसे सुमङ्गलः । प्रत्यङ् स विश्वा भुवनाभि पप्रथे क्रीळन् हरिर् अत्यः स्यन्दते वृषा
तꣳ त्वा देवेभ्यो मधुमत्तमꣳ नरः सहस्रधारꣳ दुहते दश क्षिपः । नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान् देवाꣳ आ पवस्वा सहस्रजित्
तꣳ त्वा हस्तिनो मधुमन्तम् अद्रिभिर् दुहन्त्य् अप्सु वृषभꣳ दश क्षिपः । इन्द्रꣳ सोम मादयन् दैव्यꣳ जनꣳ सिन्धोर् इवोर्मिः पवमानो अर्षसि
प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरꣳ सुपेशसः । दध्ना यद् ईम् उन्नीता यशसा गवाꣳ दानाय शूरम् उदमन्दिषुः सुताः
अच्छा हि सोमः कलशाꣳ असिष्यदद् अत्यो न वोळ्हा रघुवर्तनिर् वृषा । अथा देवानाम् उभयस्य जन्मनो विद्वाꣳ अश्नोत्य् अमुत इतश् च यत्
आ नः सोम पवमानः किरा वस्व् इन्दो भव मघवा राधसो महः । शिक्षा वयोधो वसवे सु चेतुना मा नो गयम् आरे अस्मत् परा सिचः
आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । बृहस्पतिर् मरुतो वायुर् अश्विना त्वष्टा सविता सुयमा सरस्वती
उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर् विधाता । भगो नृशꣳस उर्व् अ१न्तरिक्षꣳ विश्वे देवाः पवमानꣳ जुषन्त
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारम् पर्य् एत्य् अव्ययꣳ श्येनो न योनिꣳ घृतवन्तम् आसदम्
कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न मृष्टो अभि वाजम् अर्षसि । अपसेधन् दुरिता सोम मृळय घृतꣳ वसानः परि यासि निर्णिजम्
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयꣳ दधे । स्वसार आपो अभि गा उतासरन् सꣳ ग्रावभिर् नसते वीते अध्वरे
जायेव पत्याव् अधि शेव मꣳहसे पज्राया गर्भ शृणुहि ब्रवीमि ते । अन्तर् वाणीषु प्र चरा सु जीवसे ऽनिन्द्यो वृजने सोम जागृहि
यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजम् इन्दो । एवा पवस्व सुविताय नव्यसे तव व्रतम् अन्व् आपः सचन्ते
पवित्रꣳ ते विततम् ब्रह्मणस् पते प्रभुर् गात्राणि पर्य् एषि विश्वतः । अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् तत् सम् आशत
तपोष् पवित्रꣳ विततꣳ दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन् । अवन्त्य् अस्य पवीतारम् आशवो दिवस् पृष्ठम् अधि तिष्ठन्ति चेतसा
अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः
गन्धर्व इत्था पदम् अस्य रक्षति पाति देवानाꣳ जनिमान्य् अद्भुतः । गृभ्णाति रिपुꣳ निधया निधापतिः सुकृत्तमा मधुनो भक्षम् आशत
हविर् हविष्मो महि सद्म दैव्यꣳ नभो वसानः परि यास्य् अध्वरम् । राजा पवित्ररथो वाजम् आरुहः सहस्रभृष्टिर् जयसि श्रवो बृहत्
पवस्व देवमादनो विचर्षणिर् अप्सा इन्द्राय वरुणाय वायवे । कृधी नो अद्य वरिवः स्वस्तिमद् उरुक्षितौ गृणीहि दैव्यꣳ जनम्
आ यस् तस्थौ भुवनान्य् अमर्त्यो विश्वानि सोमः परि तान्य् अर्षति । कृण्वन् सꣳचृतꣳ विचृतम् अभिष्टय इन्दुः सिषक्त्य् उषसꣳ न सूर्यः
आ यो गोभिः सृज्यत ओषधीष्व् आ देवानाꣳ सुम्न इषयन्न् उपावसुः । आ विद्युता पवते धारया सुत इन्द्रꣳ सोमो मादयन् दैव्यꣳ जनम्
एष स्य सोमः पवते सहस्रजिद् धिन्वानो वाचम् इषिराम् उषर्बुधम् । इन्दुः समुद्रम् उद् इयर्ति वायुभिर् एन्द्रस्य हार्दि कलशेषु सीदति
अभि त्यꣳ गावः पयसा पयोवृधꣳ सोमꣳ श्रीणन्ति मतिभिः स्वर्विदम् । धनꣳजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्व् इन्दवः
अस्मान् समर्ये पवमान चोदय दक्षो देवानाम् असि हि प्रियो मदः । जहि शत्रूꣳर् अभ्य् आ भन्दनायतः पिबेन्द्र सोमम् अव नो मृधो जहि
अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिर् उत्तमः । अभि स्वरन्ति बहवो मनीषिणो राजानम् अस्य भुवनस्य निꣳसते
सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यम् मधु । जयन् क्षेत्रम् अभ्य् अर्षा जयन्न् अप उरुꣳ नो गातुꣳ कृणु सोम मीढ्वः
कनिक्रदत् कलशे गोभिर् अज्यसे व्य् अ१व्ययꣳ समया वारम् अर्षसि । मर्मृज्यमानो अत्यो न सानसिर् इन्द्रस्य सोम जठरे सम् अक्षरः
स्वादुः पवस्व दिव्याय जन्मने स्वादुर् इन्द्राय सुहवीतुनाम्ने । स्वादुर् मित्राय वरुणाय वायवे बृहस्पतये मधुमाꣳ अदाभ्यः
अत्यम् मृजन्ति कलशे दश क्षिपः प्र विप्राणाम् मतयो वाच ईरते । पवमाना अभ्य् अर्षन्ति सुष्टुतिम् एन्द्रꣳ विशन्ति मदिरास इन्दवः
पवमानो अभ्य् अर्षा सुवीर्यम् उर्वीꣳ गव्यूतिम् महि शर्म सप्रथः । माकिर् नो अस्य परिषूतिर् ईशतेन्दो जयेम त्वया धनꣳ-धनम्
अधि द्याम् अस्थाद् वृषभो विचक्षणो ऽरूरुचद् वि दिवो रोचना कविः । राजा पवित्रम् अत्य् एति रोरुवद् दिवः पीयूषꣳ दुहते नृचक्षसः
दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्य् उक्षणꣳ गिरिष्ठाम् । अप्सु द्रप्सꣳ वावृधानꣳ समुद्र आ सिन्धोर् ऊर्मा मधुमन्तम् पवित्र आ
नाके सुपर्णम् उपपप्तिवाꣳसꣳ गिरो वेनानाम् अकृपन्त पूर्वीः । शिशुꣳ रिहन्ति मतयः पनिप्नतꣳ हिरण्ययꣳ शकुनꣳ क्षामणि स्थाम्
ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद् विश्वा रूपा प्रतिचक्षाणो अस्य । भानुः शुक्रेण शोचिषा व्य् अद्यौत् प्रारूरुचद् रोदसी मातरा शुचिः
प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशम् आसते
प्र ते मदासो मदिरास आशवो ऽसृक्षत रथ्यासो यथा पृथक् । धेनुर् न वत्सम् पयसाभि वज्रिणम् इन्द्रम् इन्दवो मधुमन्त ऊर्मयः
अत्यो न हियानो अभि वाजम् अर्ष स्वर्वित् कोशꣳ दिवो अद्रिमातरम् । वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे
प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन् पयसा धरीमणि । प्रान्तर् ऋषयः स्थाविरीर् असृक्षत ये त्वा मृजन्त्य् ऋषिषाण वेधसः
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस् ते सतः परि यन्ति केतवः । व्यानशिः पवसे सोम धर्मभिः पतिर् विश्वस्य भुवनस्य राजसि
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति
यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानाम् उप याति निष्कृतम् । सहस्रधारः परि कोशम् अर्षति वृषा पवित्रम् अत्य् एति रोरुवत्
राजा समुद्रꣳ नद्यो३ वि गाहते ऽपाम् ऊर्मिꣳ सचते सिन्धुषु श्रितः । अध्य् अस्थात् सानु पवमानो अव्ययꣳ नाभा पृथिव्या धरुणो महो दिवः
दिवो न सानु स्तनयन्न् अचिक्रदद् द्यौश् च यस्य पृथिवी च धर्मभिः । इन्द्रस्य सख्यम् पवते विवेविदत् सोमः पुनानः कलशेषु सीदति
ज्योतिर् यज्ञस्य पवते मधु प्रियम् पिता देवानाꣳ जनिता विभूवसुः । दधाति रत्नꣳ स्वधयोर् अपीच्यम् मदिन्तमो मत्सर इन्द्रियो रसः
अभिक्रन्दन् कलशꣳ वाज्य् अर्षति पतिर् दिवः शतधारो विचक्षणः । हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर् वृषा
अग्रे सिन्धूनाम् पवमानो अर्षत्य् अग्रे वाचो अग्रियो गोषु गच्छति । अग्रे वाजस्य भजते महाधनꣳ स्वायुधः सोतृभिः पूयते वृषा
अयम् मतवाञ् छकुनो यथा हितो ऽव्ये ससार पवमान ऊर्मिणा । तव क्रत्वा रोदसी अन्तरा कवे शुचिर् धिया पवते सोम इन्द्र ते
द्रापिꣳ वसानो यजतो दिविस्पृशम् अन्तरिक्षप्रा भुवनेष्व् अर्पितः । स्वर् जज्ञानो नभसाभ्य् अक्रमीत् प्रत्नम् अस्य पितरम् आ विवासति
सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमꣳ व्यानशे । पदꣳ यद् अस्य परमे व्योमन्य् अतो विश्वा अभि सꣳ याति सꣳयतः
प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतꣳ सखा सख्युर् न प्र मिनाति सꣳगिरम् । मर्य इव युवतिभिः सम् अर्षति सोमः कलशे शतयाम्ना पथा
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः सꣳवसनेष्व् अक्रमुः । सोमम् मनीषा अभ्य् अनूषत स्तुभो ऽभि धेनवः पयसेम् अशिश्रयुः
आ नः सोम सꣳयतम् पिप्युषीम् इषम् इन्दो पवस्व पवमानो अस्रिधम् । या नो दोहते त्रिर् अहन्न् असश्चुषी क्षुमद् वाजवन् मधुमत् सुवीर्यम्
वृषा मतीनाम् पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । क्राणा सिन्धूनाꣳ कलशाꣳ अवीवशद् इन्द्रस्य हार्द्य् आविशन् मनीषिभिः
मनीषिभिः पवते पूर्व्यः कविर् नृभिर् यतः परि कोशाꣳ अचिक्रदत् । त्रितस्य नाम जनयन् मधु क्षरद् इन्द्रस्य वायोः सख्याय कर्तवे
अयम् पुनान उषसो वि रोचयद् अयꣳ सिन्धुभ्यो अभवद् उ लोककृत् । अयꣳ त्रिः सप्त दुदुहान आशिरꣳ सोमो हृदे पवते चारु मत्सरः
पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । सीदन्न् इन्द्रस्य जठरे कनिक्रदन् नृभिर् यतः सूर्यम् आरोहयो दिवि
अद्रिभिः सुतः पवसे पवित्र आꣳ इन्दव् इन्द्रस्य जठरेष्व् आविशन् । त्वꣳ नृचक्षा अभवो विचक्षण सोम गोत्रम् अङ्गिरोभ्यो ऽवृणोर् अप
त्वाꣳ सोम पवमानꣳ स्वाध्यो ऽनु विप्रासो अमदन्न् अवस्यवः । त्वाꣳ सुपर्ण आभरद् दिवस् परीन्दो विश्वाभिर् मतिभिः परिष्कृतम्
अव्ये पुनानम् परि वार ऊर्मिणा हरिꣳ नवन्ते अभि सप्त धेनवः । अपाम् उपस्थे अध्य् आयवः कविम् ऋतस्य योना महिषा अहेषत
इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन् सुपथानि यज्यवे । गाः कृण्वानो निर्णिजꣳ हर्यतः कविर् अत्यो न क्रीळन् परि वारम् अर्षति
असश्चतः शतधारा अभिश्रियो हरिꣳ नवन्ते ऽव ता उदन्युवः । क्षिपो मृजन्ति परि गोभिर् आवृतꣳ तृतीये पृष्ठे अधि रोचने दिवः
तवेमाः प्रजा दिव्यस्य रेतसस् त्वꣳ विश्वस्य भुवनस्य राजसि । अथेदꣳ विश्वम् पवमान ते वशे त्वम् इन्दो प्रथमो धामधा असि
त्वꣳ समुद्रो असि विश्ववित् कवे तवेमाः पञ्च प्रदिशो विधर्मणि । त्वꣳ द्याꣳ च पृथिवीꣳ चाति जभ्रिषे तव ज्योतीꣳषि पवमान सूर्यः
त्वम् पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । त्वाम् उशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे
प्र रेभ एत्य् अति वारम् अव्ययꣳ वृषा वनेष्व् अव चक्रदद् धरिः । सꣳ धीतयो वावशाना अनूषत शिशुꣳ रिहन्ति मतयः पनिप्नतम्
स सूर्यस्य रश्मिभिः परि व्यत तन्तुꣳ तन्वानस् त्रिवृतꣳ यथा विदे । नयन्न् ऋतस्य प्रशिषो नवीयसीः पतिर् जनीनाम् उप याति निष्कृतम्
राजा सिन्धूनाम् पवते पतिर् दिव ऋतस्य याति पथिभिः कनिक्रदत् । सहस्रधारः परि षिच्यते हरिः पुनानो वाचꣳ जनयन्न् उपावसुः
पवमान मह्य् अर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । गभस्तिपूतो नृभिर् अद्रिभिः सुतो महे वाजाय धन्याय धन्वसि
इषम् ऊर्जम् पवमानाभ्य् अर्षसि श्येनो न वꣳसु कलशेषु सीदसि । इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः
सप्त स्वसारो अभि मातरः शिशुꣳ नवꣳ जज्ञानꣳ जेन्यꣳ विपश्चितम् । अपाꣳ गन्धर्वꣳ दिव्यꣳ नृचक्षसꣳ सोमꣳ विश्वस्य भुवनस्य राजसे
ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । तास् ते क्षरन्तु मधुमद् घृतम् पयस् तव व्रते सोम तिष्ठन्तु कृष्टयः
त्वꣳ नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद् धिरण्यवद् वयꣳ स्याम भुवनेषु जीवसे
गोवित् पवस्व वसुविद् धिरण्यविद् रेतोधा इन्दो भुवनेष्व् अर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित् तꣳ त्वा विप्रा उप गिरेम आसते
उन् मध्व ऊर्मिर् वनना अतिष्ठिपद् अपो वसानो महिषो वि गाहते । राजा पवित्ररथो वाजम् आरुहत् सहस्रभृष्टिर् जयति श्रवो बृहत्
स भन्दना उद् इयर्ति प्रजावतीर् विश्वायुर् विश्वाः सुभरा अहर्दिवि । ब्रह्म प्रजावद् रयिम् अश्वपस्त्यम् पीत इन्दव् इन्द्रम् अस्मभ्यꣳ याचतात्
सो अग्रे अह्नाꣳ हरिर् हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः । द्वा जना यातयन्न् अन्तर् ईयते नरा च शꣳसꣳ दैव्यꣳ च धर्तरि
अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुꣳ रिहन्ति मधुनाभ्य् अञ्जते । सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणꣳ हिरण्यपावाः पशुम् आसु गृभ्णते
विपश्चिते पवमानाय गायत मही न धारात्य् अन्धो अर्षति । अहिर् न जूर्णाम् अति सर्पति त्वचम् अत्यो न क्रीळन्न् असरद् वृषा हरिः
अग्रेगो राजाप्यस् तविष्यते विमानो अह्नाम् भुवनेष्व् अर्पितः । हरिर् घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः
असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर् भुवनान्य् अर्षति । अꣳशुꣳ रिहन्ति मतयः पनिप्नतꣳ गिरा यदि निर्णिजम् ऋग्मिणो ययुः
प्र ते धारा अत्य् अण्वानि मेष्यः पुनानस्य सꣳयतो यन्ति रꣳहयः । यद् गोभिर् इन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि
पवस्व सोम क्रतुविन् न उक्थ्यो ऽव्यो वारे परि धाव मधु प्रियम् । जहि विश्वान् रक्षस इन्दो अत्रिणो बृहद् वदेम विदथे सुवीराः
प्र तु द्रव परि कोशꣳ नि षीद नृभिः पुनानो अभि वाजम् अर्ष । अश्वꣳ न त्वा वाजिनम् मर्जयन्तो ऽच्छा बर्ही रशनाभिर् नयन्ति
स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजनꣳ रक्षमाणः । पिता देवानाꣳ जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः
ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन । स चिद् विवेद निहितꣳ यद् आसाम् अपीच्य१ꣳ गुह्यꣳ नाम गोनाम्
एष स्य ते मधुमाꣳ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । सहस्रसाः शतसा भूरिदावा शश्वत्तमम् बर्हिर् आ वाज्य् अस्थात्
एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवाꣳसि । पवित्रेभिः पवमाना असृग्रञ् छ्रवस्यवो न पृतनाजो अत्याः
परि हि ष्मा पुरुहूतो जनानाꣳ विश्वासरद् भोजना पूयमानः । अथा भर श्येनभृत प्रयाꣳसि रयिꣳ तुञ्जानो अभि वाजम् अर्ष
एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावद् अर्वा । तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्न् अभि शूरो न सत्वा
एषा ययौ परमाद् अन्तर् अद्रेः कूचित् सतीर् ऊर्वे गा विवेद । दिवो न विद्युत् स्तनयन्त्य् अभ्रैः सोमस्य ते पवत इन्द्र धारा
उत स्म राशिम् परि यासि गोनाम् इन्द्रेण सोम सरथम् पुनानः । पूर्वीर् इषो बृहतीर् जीरदानो शिक्षा शचीवस् तव ता उपष्टुत्
अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यम् पवते त्वम् अस्य पाहि । त्वꣳ ह यꣳ चकृषे त्वꣳ ववृष इन्दुम् मदाय युज्याय सोमम्
स ईꣳ रथो न भुरिषाळ् अयोजि महः पुरूणि सातये वसूनि । आद् ईꣳ विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त
वायुर् न यो नियुत्वाꣳ इष्टयामा नासत्येव हव आ शम्भविष्ठः । विश्ववारो द्रविणोदा इव त्मन् पूषेव धीजवनो ऽसि सोम
इन्द्रो न यो महा कर्माणि चक्रिर् हन्ता वृत्राणाम् असि सोम पूर्भित् । पैद्वो न हि त्वम् अहिनाम्नाꣳ हन्ता विश्वस्यासि सोम दस्योः
अग्निर् न यो वन आ सृज्यमानो वृथा पाजाꣳसि कृणुते नदीषु । जनो न युध्वा महत उपब्दिर् इयर्ति सोमः पवमान ऊर्मिम्
एते सोमा अति वाराण्य् अव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रꣳ सिन्धवो न नीचीः सुतासो अभि कलशाꣳ असृग्रन्
शुष्मी शर्धो न मारुतम् पवस्वानभिशस्ता दिव्या यथा विट् । आपो न मक्षू सुमतिर् भवा नः सहस्राप्साः पृतनाषाण् न यज्ञः
राज्ञो नु ते वरुणस्य व्रतानि बृहद् गभीरꣳ तव सोम धाम । शुचिष् ट्वम् असि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम
प्रो स्य वह्निः पथ्याभिर् अस्यान् दिवो न वृष्टिः पवमानो अक्षाः । सहस्रधारो असदन् न्य् अ१स्मे मातुर् उपस्थे वन आ च सोमः
राजा सिन्धूनाम् अवसिष्ट वास ऋतस्य नावम् आरुहद् रजिष्ठाम् । अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईम् पिता दुह ईम् पितुर् जाम्
सिꣳहꣳ नसन्त मध्वो अयासꣳ हरिम् अरुषꣳ दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्य् उक्षा
मधुपृष्ठꣳ घोरम् अयासम् अश्वꣳ रथे युञ्जन्त्य् उरुचक्र ऋष्वम् । स्वसार ईꣳ जामयो मर्जयन्ति सनाभयो वाजिनम् ऊर्जयन्ति
चतस्र ईꣳ घृतदुहः सचन्ते समाने अन्तर् धरुणे निषत्ताः । ता ईम् अर्षन्ति नमसा पुनानास् ता ईꣳ विश्वतः परि षन्ति पूर्वीः
विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत् त उत्सो गृणते नियुत्वान् मध्वो अꣳशुः पवत इन्द्रियाय
वन्वन्न् अवातो अभि देववीतिम् इन्द्राय सोम वृत्रहा पवस्व । शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम
प्र हिन्वानो जनिता रोदस्यो रथो न वाजꣳ सनिष्यन्न् अयासीत् । इन्द्रꣳ गच्छन्न् आयुधा सꣳशिशानो विश्वा वसु हस्तयोर् आदधानः
अभि त्रिपृष्ठꣳ वृषणꣳ वयोधाम् आङ्गूषाणाम् अवावशन्त वाणीः । वना वसानो वरुणो न सिन्धून् वि रत्नधा दयते वार्याणि
शूरग्रामः सर्ववीरः सहावाञ् जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्व् अषाळ्हः साह्वान् पृतनासु शत्रून्
उरुगव्यूतिर् अभयानि कृण्वन् समीचीने आ पवस्वा पुरꣳधी । अपः सिषासन्न् उषसः स्व१र् गाः सꣳ चिक्रदो महो अस्मभ्यꣳ वाजान्
मत्सि सोम वरुणम् मत्सि मित्रम् मत्सीन्द्रम् इन्दो पवमान विष्णुम् । मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि महाम् इन्द्रम् इन्दो मदाय
एवा राजेव क्रतुमाꣳ अमेन विश्वा घनिघ्नद् दुरिता पवस्व । इन्दो सूक्ताय वचसे वयो धा यूयम् पात स्वस्तिभिः सदा नः
असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी । दश स्वसारो अधि सानो अव्ये ऽजन्ति वह्निꣳ सदनान्य् अच्छ
वीती जनस्य दिव्यस्य कव्यैर् अधि सुवानो नहुष्येभिर् इन्दुः । प्र यो नृभिर् अमृतो मर्त्येभिर् मर्मृजानो ऽविभिर् गोभिर् अद्भिः
वृषा वृष्णे रोरुवद् अꣳशुर् अस्मै पवमानो रुशद् ईर्ते पयो गोः । सहस्रम् ऋक्वा पथिभिर् वचोविद् अध्वस्मभिः सूरो अण्वꣳ वि याति
रुजा दृळ्हा चिद् रक्षसः सदाꣳसि पुनान इन्द ऊर्णुहि वि वाजान् । वृश्चोपरिष्टात् तुजता वधेन ये अन्ति दूराद् उपनायम् एषाम्
स प्रत्नवन् नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः । ये दुःषहासो वनुषा बृहन्तस् ताꣳस् ते अश्याम पुरुकृत् पुरुक्षो
एवा पुनानो अपः स्व१र् गा अस्मभ्यꣳ तोका तनयानि भूरि । शꣳ नः क्षेत्रम् उरु ज्योतीꣳषि सोम ज्योङ् नः सूर्यꣳ दृशये रिरीहि
परि सुवानो हरिर् अꣳशुः पवित्रे रथो न सर्जि सनये हियानः । आपच् छ्लोकम् इन्द्रियम् पूयमानः प्रति देवाꣳ अजुषत प्रयोभिः
अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविर् अस्य योनौ । सीदन् होतेव सदने चमूषूपेम् अग्मन्न् ऋषयः सप्त विप्राः
प्र सुमेधा गातुविद् विश्वदेवः सोमः पुनानः सद एति नित्यम् । भुवद् विश्वेषु काव्येषु रन्तानु जनान् यतते पञ्च धीरः
तव त्ये सोम पवमान निण्ये विश्वे देवास् त्रय एकादशासः । दश स्वधाभिर् अधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः
तन् नु सत्यम् पवमानस्यास्तु यत्र विश्वे कारवः सꣳनसन्त । ज्योतिर् यद् अह्ने अकृणोद् उ लोकम् प्रावन् मनुꣳ दस्यवे कर् अभीकम्
परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीर् इयानः । सोमः पुनानः कलशाꣳ अयासीत् सीदन् मृगो न महिषो वनेषु
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्य् अद्रवज् जाः सूर्यस्य द्रोणꣳ ननक्षे अत्यो न वाजी
सम् मातृभिर् न शिशुर् वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषाम् अभि निष्कृतꣳ यन् सꣳ गच्छते कलश उस्रियाभिः
उत प्र पिप्य ऊधर् अघ्न्याया इन्दुर् धाराभिः सचते सुमेधाः । मूर्धानꣳ गावः पयसा चमूष्व् अभि श्रीणन्ति वसुभिर् न निक्तैः
स नो देवेभिः पवमान रदेन्दो रयिम् अश्विनꣳ वावशानः । रथिरायताम् उशती पुरꣳधिर् अस्मद्र्य१ग् आ दावने वसूनाम्
नू नो रयिम् उप मास्व नृवन्तम् पुनानो वाताप्यꣳ विश्वश्चन्द्रम् । प्र वन्दितुर् इन्दो तार्य् आयुः प्रातर् मक्षू धियावसुर् जगम्यात्
अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः । अपो वृणानः पवते कवीयन् व्रजꣳ न पशुवर्धनाय मन्म
द्विता व्यूर्ण्वन्न् अमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त । धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीर् अभि वावश्र इन्दुम्
परि यत् कविः काव्या भरते शूरो न रथो भुवनानि विश्वा । देवेषु यशो मर्ताय भूषन् दक्षाय रायः पुरुभूषु नव्यः
श्रिये जातः श्रिय आ निर् इयाय श्रियꣳ वयो जरितृभ्यो दधाति । श्रियꣳ वसाना अमृतत्वम् आयन् भवन्ति सत्या समिथा मितद्रौ
इषम् ऊर्जम् अभ्य् अ१र्षाश्वꣳ गाम् उरु ज्योतिः कृणुहि मत्सि देवान् । विश्वानि हि सुषहा तानि तुभ्यम् पवमान बाधसे सोम शत्रून्
कनिक्रन्ति हरिर् आ सृज्यमानः सीदन् वनस्य जठरे पुनानः । नृभिर् यतः कृणुते निर्णिजꣳ गा अतो मतीर् जनयत स्वधाभिः
हरिः सृजानः पथ्याम् ऋतस्येयर्ति वाचम् अरितेव नावम् । देवो देवानाꣳ गुह्यानि नामाविष् कृणोति बर्हिषि प्रवाचे
अपाम् इवेद् ऊर्मयस् तर्तुराणाः प्र मनीषा ईरते सोमम् अच्छ । नमस्यन्तीर् उप च यन्ति सꣳ चा च विशन्त्य् उशतीर् उशन्तम्
तम् मर्मृजानम् महिषꣳ न सानाव् अꣳशुꣳ दुहन्त्य् उक्षणꣳ गिरिष्ठाम् । तꣳ वावशानम् मतयः सचन्ते त्रितो बिभर्ति वरुणꣳ समुद्रे
इष्यन् वाचम् उपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् । इन्द्रश् च यत् क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम
प्र सेनानीः शूरो अग्रे रथानाꣳ गव्यन्न् एति हर्षते अस्य सेना । भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते
सम् अस्य हरिꣳ हरयो मृजन्त्य् अश्वहयैर् अनिशितꣳ नमोभिः । आ तिष्ठति रथम् इन्द्रस्य सखा विद्वाꣳ एना सुमतिꣳ यात्य् अच्छ
स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः । कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः
अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते । तद् उशन्ति विश्व इमे सखायस् तद् अहꣳ वश्मि पवमान सोम
सोमः पवते जनिता मतीनाꣳ जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः
ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर् वनानाꣳ सोमः पवित्रम् अत्य् एति रेभन्
प्रावीविपद् वाच ऊर्मिꣳ न सिन्धुर् गिरः सोमः पवमानो मनीषाः । अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन्
स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष । इन्द्रायेन्दो पवमानो मनीष्य् अ१ꣳशोर् ऊर्मिम् ईरय गा इषण्यन्
परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय । सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति
स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ । अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्न् अवातः परिधीꣳर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् । एवा पवस्व द्रविणꣳ दधान इन्द्रे सꣳ तिष्ठ जनयायुधानि
पवस्व सोम मधुमाꣳ ऋतावापो वसानो अधि सानो अव्ये । अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः
वृष्टिꣳ दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ । सꣳ सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः
एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः । पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा
स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यꣳ चारु नाम । अभि वाजꣳ सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम
शिशुꣳ जज्ञानꣳ हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन । कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन्
ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् । तृतीयꣳ धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप्
चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् । अपाम् ऊर्मिꣳ सचमानः समुद्रꣳ तुरीयꣳ धाम महिषो विवक्ति
मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् । वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वो३र् आ विवेश
पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष । क्रीळञ् चम्वो३र् आ विश पूयमान इन्द्रꣳ ते रसो मदिरो ममत्तु
प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशाꣳ आ विवेश । साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम्
अपघ्नन्न् एषि पवमान शत्रून् प्रियाꣳ न जारो अभिगीत इन्दुः । सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः । हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम्
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् । सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता
भद्रा वस्त्रा समन्या३ वसानो महान् कविर् निवचनानि शꣳसन् । आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ
सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसाꣳ क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः
प्र गायताभ्य् अर्चाम देवान् सोमꣳ हिनोत महते धनाय । स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशꣳ देवयुर् नः
इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय । नृभिः स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय
स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय । देवैर् याहि सरथꣳ राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः
प्र काव्यम् उशनेव ब्रुवाणो देवो देवानाꣳ जनिमा विवक्ति । महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन्
प्र हꣳसासस् तृपलम् मन्युम् अच्छामाद् अस्तꣳ वृषगणा अयासुः । आङ्गूष्य१म् पवमानꣳ सखायो दुर्मर्षꣳ साकम् प्र वदन्ति वाणम्
स रꣳहत उरुगायस्य जूतिꣳ वृथा क्रीळन्तम् मिमते न गावः । परीणसꣳ कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः
इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय । हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा
अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः । इन्दुर् इन्द्रस्य सख्यꣳ जुषाणो देवो देवस्य मत्सरो मदाय
अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् । इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये
वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् । इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम्
रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अꣳशुम् । पवमानः सꣳतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः । परि वर्णम् भरमाणो रुशन्तꣳ गव्युर् नो अर्ष परि सोम सिक्तः
जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवाꣳसि कृण्वन् । घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये
वृष्टिꣳ नो अर्ष दिव्याꣳ जिगत्नुम् इळावतीꣳ शꣳगयीꣳ जीरदानुम् । स्तुकेव वीता धन्वा विचिन्वन् बन्धूꣳर् इमाꣳ अवराꣳ इन्दो वायून्
ग्रन्थिꣳ न वि ष्य ग्रथितम् पुनान ऋजुꣳ च गातुꣳ वृजिनꣳ च सोम । अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान्
जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये । सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये
अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ । एते शुक्रासो धन्वन्ति सोमा देवासस् ताꣳ उप याता पिबध्यै
एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु । सोमो अस्मभ्यꣳ काम्यम् बृहन्तꣳ रयिꣳ ददातु वीरवन्तम् उग्रम्
तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके । आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिꣳ कलशे गाव इन्दुम्
प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः । धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम
पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् । द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतꣳ चार्व् इन्दुः
अर्वाꣳ इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष । स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः
देवाव्यो नः परिषिच्यमानाः क्षयꣳ सुवीरꣳ धन्वन्तु सोमाः । आयज्यवः सुमतिꣳ विश्ववारा होतारो न दिवियजो मन्द्रतमाः
एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः । महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः
अश्वो न क्रदो वृषभिर् युजानः सिꣳहो न भीमो मनसो जवीयान् । अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसꣳ न इन्दो
शतꣳ धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति । इन्दो सनित्रꣳ दिव आ पवस्व पुरएतासि महतो धनस्य
दिवो न सर्गा अससृग्रम् अह्नाꣳ राजा न मित्रम् प्र मिनाति धीरः । पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम्
प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् । पवमान पवसे धाम गोनाꣳ जज्ञानः सूर्यम् अपिन्वो अर्कैः
कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम । स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम्
दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ । एन्दो विश कलशꣳ सोमधानꣳ क्रन्दन्न् इहि सूर्यस्योप रश्मिम्
तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिम् पृच्छमानाः सोमꣳ यन्ति मतयो वावशानाः
सोमꣳ गावो धेनवो वावशानाः सोमꣳ विप्रा मतिभिः पृच्छमानाः । सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सꣳ नवन्ते
एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति । इन्द्रम् आ विश बृहता रवेण वर्धया वाचꣳ जनया पुरꣳधिम्
आ जागृविर् विप्र ऋता मतीनाꣳ सोमः पुनानो असदच् चमूषु । सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः
स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । प्रिया चिद् यस्य प्रियसास ऊती स तू धनꣳ कारिणे न प्र यꣳसत्
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन्
अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः
महत् तत् सोमो महिषश् चकारापाꣳ यद् गर्भो ऽवृणीत देवान् । अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः
मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम
ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च । अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वꣳ तव वयꣳ सखायः
मध्वः सूदम् पवस्व वस्व उत्सꣳ वीरꣳ च न आ पवस्वा भगꣳ च । स्वदस्वेन्द्राय पवमान इन्दो रयिꣳ च न आ पवस्वा समुद्रात्
सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः । आ योनिꣳ वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः
एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् । स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि
एष प्रत्नेन वयसा पुनानस् तिरो वर्पाꣳसि दुहितुर् दधानः । वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन्
नू नस् त्वꣳ रथिरो देव सोम परि स्रव चम्वोः पूयमानः । अप्सु स्वादिष्ठो मधुमाꣳ ऋतावा देवो न यः सविता सत्यमन्मा
अभि वायुꣳ वीत्य् अर्षा गृणानो३ ऽभि मित्रावरुणा पूयमानः । अभी नरꣳ धीजवनꣳ रथेष्ठाम् अभीन्द्रꣳ वृषणꣳ वज्रबाहुम्
अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः । अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम
अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः । अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयꣳ जमदग्निवन् नः
अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरꣳ दात्
उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिꣳ सहस्रा नैगुतो वसूनि वृक्षꣳ न पक्वꣳ धूनवद् रणाय
महीमे अस्य वृषनाम शूषे माꣳश्चत्वे वा पृशने वा वधत्रे । अस्वापयन् निगुतः स्नेहयच् चापामित्राꣳ अपाचितो अचेतः
सꣳ त्री पवित्रा विततान्य् एष्य् अन्व् एकꣳ धावसि पूयमानः । असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो
एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा । द्रप्साꣳ ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यꣳ समयाति याति
इन्दुꣳ रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः । हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपाꣳ रसेन
त्वया वयम् पवमानेन सोम भरे कृतꣳ वि चिनुयाम शश्वत् । तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः
अभि नो वाजसातमꣳ रयिम् अर्ष पुरुस्पृहम् । इन्दो सहस्रभर्णसꣳ तुविद्युम्नꣳ विभ्वासहम्
परि ष्य सुवानो अव्ययꣳ रथे न वर्माव्यत । इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः
परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः । धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः
स हि त्वꣳ देव शश्वते वसु मर्ताय दाशुषे । इन्दो सहस्रिणꣳ रयिꣳ शतात्मानꣳ विवाससि
वयꣳ ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो
द्विर् यम् पञ्च स्वयशसꣳ स्वसारो अद्रिसꣳहतम् । प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम्
परि त्यꣳ हर्यतꣳ हरिम् बभ्रुम् पुनन्ति वारेण । यो देवान् विश्वाꣳ इत् परि मदेन सह गच्छति
अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् । यः सूरिषु श्रवो बृहद् दधे स्व१र् ण हर्यतः
स वाꣳ यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी । देवो देवी गिरिष्ठा अस्रेधन् तꣳ तुविष्वणि
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे । नरे च दक्षिणावते देवाय सदनासदे
ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् । अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् ताꣳ अप्रचेतसः
तꣳ सखायः पुरोरुचꣳ यूयꣳ वयꣳ च सूरयः । अश्याम वाजगन्ध्यꣳ सनेम वाजपस्त्यम्
आ हर्यताय धृष्णवे धनुस् तन्वन्ति पौꣳस्यम् । शुक्राꣳ वयन्त्य् असुराय निर्णिजꣳ विपाम् अग्रे महीयुवः
अध क्षपा परिष्कृतो वाजाꣳ अभि प्र गाहते । यदी विवस्वतो धियो हरिꣳ हिन्वन्ति यातवे
तम् अस्य मर्जयामसि मदो य इन्द्रपातमः । यꣳ गाव आसभिर् दधुः पुरा नूनꣳ च सूरयः
तꣳ गाथया पुराण्या पुनानम् अभ्य् अनूषत । उतो कृपन्त धीतयो देवानाꣳ नाम बिभ्रतीः
तम् उक्षमाणम् अव्यये वारे पुनन्ति धर्णसिम् । दूतꣳ न पूर्वचित्तय आ शासते मनीषिणः
स पुनानो मदिन्तमः सोमश् चमूषु सीदति । पशौ न रेत आदधत् पतिर् वचस्यते धियः
स मृज्यते सुकर्मभिर् देवो देवेभ्यः सुतः । विदे यद् आसु सꣳददिर् महीर् अपो वि गाहते
सुत इन्दो पवित्र आ नृभिर् यतो वि नीयसे । इन्द्राय मत्सरिन्तमश् चमूष्व् आ नि षीदसि
अभी नवन्ते अद्रुहः प्रियम् इन्द्रस्य काम्यम् । वत्सꣳ न पूर्व आयुनि जातꣳ रिहन्ति मातरः
पुनान इन्दव् आ भर सोम द्विबर्हसꣳ रयिम् । त्वꣳ वसूनि पुष्यसि विश्वानि दाशुषो गृहे
त्वꣳ धियम् मनोयुजꣳ सृजा वृष्टिꣳ न तन्यतुः । त्वꣳ वसूनि पार्थिवा दिव्या च सोम पुष्यसि
परि ते जिग्युषो यथा धारा सुतस्य धावति । रꣳहमाणा व्य् अ१व्ययꣳ वारꣳ वाजीव सानसिः
क्रत्वे दक्षाय नः कवे पवस्व सोम धारया । इन्द्राय पातवे सुतो मित्राय वरुणाय च
पवस्व वाजसातमः पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः
त्वाꣳ रिहन्ति मातरो हरिम् पवित्रे अद्रुहः । वत्सꣳ जातꣳ न धेनवः पवमान विधर्मणि
पवमान महि श्रवश् चित्रेभिर् यासि रश्मिभिः । शर्धन् तमाꣳसि जिघ्नसे विश्वानि दाशुषो गृहे
त्वꣳ द्याꣳ च महिव्रत पृथिवीꣳ चाति जभ्रिषे । प्रति द्रापिम् अमुञ्चथाः पवमान महित्वना
पुरोजिती वो अन्धसः सुताय मादयित्नवे । अप श्वानꣳ श्नथिष्टन सखायो दीर्घजिह्व्यम्
यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुर् अश्वो न कृत्व्यः
तꣳ दुरोषम् अभी नरः सोमꣳ विश्वाच्या धिया । यज्ञꣳ हिन्वन्त्य् अद्रिभिः
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदाः
इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन् । वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा
सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमः पती रयीणाꣳ सखेन्द्रस्य दिवे-दिवे
अयम् पूषा रयिर् भगः सोमः पुनानो अर्षति । पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे
सम् उ प्रिया अनूषत गावो मदाय घृष्वयः । सोमासः कृण्वते पथः पवमानास इन्दवः
य ओजिष्ठस् तम् आ भर पवमान श्रवाय्यम् । यः पञ्च चर्षणीर् अभि रयिꣳ येन वनामहै
सोमाः पवन्त इन्दवो ऽस्मभ्यꣳ गातुवित्तमाः । मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः
सुष्वाणासो व्य् अद्रिभिश् चिताना गोर् अधि त्वचि । इषम् अस्मभ्यम् अभितः सम् अस्वरन् वसुविदः
एते पूता विपश्चितः सोमासो दध्याशिरः । सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते
प्र सुन्वानस्यान्धसो मर्तो न वृत तद् वचः । अप श्वानम् अराधसꣳ हता मखꣳ न भृगवः
आ जामिर् अत्के अव्यत भुजे न पुत्र ओण्योः । सरज् जारो न योषणाꣳ वरो न योनिम् आसदम्
स वीरो दक्षसाधनो वि यस् तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिम् आसदम्
अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि । कनिक्रदद् वृषा हरिर् इन्द्रस्याभ्य् एति निष्कृतम्
क्राणा शिशुर् महीनाꣳ हिन्वन्न् ऋतस्य दीधितिम् । विश्वा परि प्रिया भुवद् अध द्विता
उप त्रितस्य पाष्यो३र् अभक्त यद् गुहा पदम् । यज्ञस्य सप्त धामभिर् अध प्रियम्
त्रीणि त्रितस्य धारया पृष्ठेष्व् एरया रयिम् । मिमीते अस्य योजना वि सुक्रतुः
जज्ञानꣳ सप्त मातरो वेधाम् अशासत श्रिये । अयꣳ ध्रुवो रयीणाꣳ चिकेत यत्
अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः । स्पार्हा भवन्ति रन्तयो जुषन्त यत्
यम् ई गर्भम् ऋतावृधो दृशे चारुम् अजीजनन् । कविम् मꣳहिष्ठम् अध्वरे पुरुस्पृहम्
समीचीने अभि त्मना यह्वी ऋतस्य मातरा । तन्वाना यज्ञम् आनुषग् यद् अञ्जते
क्रत्वा शुक्रेभिर् अक्षभिर् ऋणोर् अप व्रजꣳ दिवः । हिन्वन्न् ऋतस्य दीधितिम् प्राध्वरे
प्र पुनानाय वेधसे सोमाय वच उद्यतम् । भृतिꣳ न भरा मतिभिर् जुजोषते
परि वाराण्य् अव्यया गोभिर् अञ्जानो अर्षति । त्री षधस्था पुनानः कृणुते हरिः
परि कोशम् मधुश्चुतम् अव्यये वारे अर्षति । अभि वाणीर् ऋषीणाꣳ सप्त नूषत
परि णेता मतीनाꣳ विश्वदेवो अदाभ्यः । सोमः पुनानश् चम्वोर् विशद् धरिः
परि दैवीर् अनु स्वधा इन्द्रेण याहि सरथम् । पुनानो वाघद् वाघद्भिर् अमर्त्यः
परि सप्तिर् न वाजयुर् देवो देवेभ्यः सुतः । व्यानशिः पवमानो वि धावति
सखाय आ नि षीदत पुनानाय प्र गायत । शिशुꣳ न यज्ञैः परि भूषत श्रिये
सम् ई वत्सꣳ न मातृभिः सृजता गयसाधनम् । देवाव्य१म् मदम् अभि द्विशवसम्
पुनाता दक्षसाधनꣳ यथा शर्धाय वीतये । यथा मित्राय वरुणाय शꣳतमः
अस्मभ्यꣳ त्वा वसुविदम् अभि वाणीर् अनूषत । गोभिष् टे वर्णम् अभि वासयामसि
स नो मदानाम् पत इन्दो देवप्सरा असि । सखेव सख्ये गातुवित्तमो भव
सनेमि कृध्य् अ१स्मद् आ रक्षसꣳ कꣳ चिद् अत्रिणम् । अपादेवꣳ द्वयुम् अꣳहो युयोधि नः
तꣳ वः सखायो मदाय पुनानम् अभि गायत । शिशुꣳ न यज्ञैः स्वदयन्त गूर्तिभिः
सꣳ वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते । देवावीर् मदो मतिभिः परिष्कृतः
अयꣳ दक्षाय साधनो ऽयꣳ शर्धाय वीतये । अयꣳ देवेभ्यो मधुमत्तमः सुतः
गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व । शुचिꣳ ते वर्णम् अधि गोषु दीधरम्
स नो हरीणाम् पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव
सनेमि त्वम् अस्मद् आꣳ अदेवꣳ कꣳ चिद् अत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम्
इन्द्रम् अच्छ सुता इमे वृषणꣳ यन्तु हरयः । श्रुष्टी जातास इन्दवः स्वर्विदः
अयम् भराय सानसिर् इन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे
अस्येद् इन्द्रो मदेष्व् आ ग्राभꣳ गृभ्णीत सानसिम् । वज्रꣳ च वृषणम् भरत् सम् अप्सुजित्
प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव । द्युमन्तꣳ शुष्मम् आ भरा स्वर्विदम्
इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः । सहस्रयामा पथिकृद् विचक्षणः
अस्मभ्यꣳ गातुवित्तमो देवेभ्यो मधुमत्तमः । सहस्रꣳ याहि पथिभिः कनिक्रदत्
पवस्व देववीतय इन्दो धाराभिर् ओजसा । आ कलशम् मधुमान् सोम नः सदः
तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः । त्वाꣳ देवासो अमृताय कम् पपुः
आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः
सोमः पुनान ऊर्मिणाव्यो वारꣳ वि धावति । अग्रे वाचः पवमानः कनिक्रदत्
धीभिर् हिन्वन्ति वाजिनꣳ वने क्रीळन्तम् अत्यविम् । अभि त्रिपृष्ठम् मतयः सम् अस्वरन्
असर्जि कलशाꣳ अभि मीळ्हे सप्तिर् न वाजयुः । पुनानो वाचꣳ जनयन्न् असिष्यदत्
पवते हर्यतो हरिर् अति ह्वराꣳसि रꣳह्या । अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः
अया पवस्व देवयुर् मधोर् धारा असृक्षत । रेभन् पवित्रम् पर्य् एषि विश्वतः
परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वाꣳ यो नर्यो अप्स्व् अ१न्तर् आ सुषाव सोमम् अद्रिभिः
नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिꣳतरः । सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम्
परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः
पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः
दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नꣳ सधस्थम् आसदत् । आपृच्छ्यꣳ धरुणꣳ वाज्य् अर्षति नृभिर् धूतो विचक्षणः
पुनानः सोम जागृविर् अव्यो वारे परि प्रियः । त्वꣳ विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः
सोमो मीढ्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः । त्वꣳ कविर् अभवो देववीतम आ सूर्यꣳ रोहयो दिवि
सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् । अश्वयेव हरिता याति धारया मन्द्रया याति धारया
अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः । समुद्रꣳ न सꣳवरणान्य् अग्मन् मन्दी मदाय तोशते
आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया । जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे
स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः
प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा । अꣳशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम्
आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः । तम् ईꣳ हिन्वन्त्य् अपसो यथा रथꣳ नदीष्व् आ गभस्त्योः
अभि सोमास आयवः पवन्ते मद्यम् मदम् । समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः
तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् । अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत्
नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः
इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः
पुनानश् चमू जनयन् मतिꣳ कविः सोमो देवेषु रण्यति । अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत
तवाहꣳ सोम रारण सख्य इन्दो दिवे-दिवे । पुरूणि बभ्रो नि चरन्ति माम् अव परिधीꣳर् अति ताꣳ इहि
उताहꣳ नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि । घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम
मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि । रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि
मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने । देवानाꣳ सोम पवमान निष्कृतꣳ गोभिर् अञ्जानो अर्षसि
पवस्व वाजसातये ऽभि विश्वानि काव्या । त्वꣳ समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः
स तू पवस्व परि पार्थिवꣳ रजो दिव्या च सोम धर्मभिः । त्वाꣳ विप्रासो मतिभिर् विचक्षण शुभ्रꣳ हिन्वन्ति धीतिभिः
पवमाना असृक्षत पवित्रम् अति धारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयाꣳसि च
अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः । जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम्
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युक्षतमो मदः
यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः । स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजꣳ नैतशः
त्वꣳ ह्य् अ१ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयः
येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे । देवानाꣳ सुम्ने अमृतस्य चारुणो येन श्रवाꣳस्य् आनशुः
एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः । क्रीळन्न् ऊर्मिर् अपाम् इव
य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा । अभि व्रजꣳ तत्निषे गव्यम् अश्व्यꣳ वर्मीव धृष्णव् आ रुज
आ सोता परि षिञ्चताश्वꣳ न स्तोमम् अप्तुरꣳ रजस्तुरम् । वनक्रक्षम् उदप्रुतम्
सहस्रधारꣳ वृषभम् पयोवृधम् प्रियꣳ देवाय जन्मने । ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत्
अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः । वि कोशम् मध्यमꣳ युव
आ वच्यस्व सुदक्ष चम्वोः सुतो विशाꣳ वह्निर् न विश्पतिः । वृष्टिꣳ दिवः पवस्व रीतिम् अपाꣳ जिन्वा गविष्टये धियः
एतम् उ त्यम् मदच्युतꣳ सहस्रधारꣳ वृषभꣳ दिवो दुहुः । विश्वा वसूनि बिभ्रतम्
वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः । स सुष्टुतः कविभिर् निर्णिजꣳ दधे त्रिधात्व् अस्य दꣳससा
स सुन्वे यो वसूनाꣳ यो रायाम् आनेता य इळानाम् । सोमो यः सुक्षितीनाम्
यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे
इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः । पवस्व मधुमत्तमः
इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः । जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः
परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय
इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः
पवस्व सोम महान् समुद्रः पिता देवानाꣳ विश्वाभि धाम
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शꣳ च प्रजायै
दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व
पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः
नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित्
इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः
पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय
तꣳ ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय
शिशुꣳ जज्ञानꣳ हरिम् मृजन्ति पवित्रे सोमꣳ देवेभ्य इन्दुम्
इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय
बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान
पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य
प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रꣳ वि वारम् अव्यम्
स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः
प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः
असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः
अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय
देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानꣳ हरिम् मृजन्ति
इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः
पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस् तरध्या ऋणया न ईयसे
अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाꣳ अभि पवमान प्र गाहसे
अजीजनो हि पवमान सूर्यꣳ विधारे शक्मना पयः । गोजीरया रꣳहमाणः पुरꣳध्या
अजीजनो अमृत मर्त्येष्व् आꣳ ऋतस्य धर्मन्न् अमृतस्य चारुणः । सदासरो वाजम् अच्छा सनिष्यदत्
अभ्य्-अभि हि श्रवसा ततर्दिथोत्सꣳ न कꣳ चिज् जनपानम् अक्षितम् । शर्याभिर् न भरमाणो गभस्त्योः
आद् ईꣳ के चित् पश्यमानास आप्यꣳ वसुरुचो दिव्या अभ्य् अनूषत । वारꣳ न देवः सविता व्य् ऊर्णुते
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियꣳ दधुः । स त्वꣳ नो वीर वीर्याय चोदय
दिवः पीयूषम् पूर्व्यꣳ यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत । इन्द्रम् अभि जायमानꣳ सम् अस्वरन्
अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि तिष्ठसे
सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः । सहस्रधारः शतवाज इन्दुः
एष पुनानो मधुमाꣳ ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः । वाजसनिर् वरिवोविद् वयोधाः
स पवस्व सहमानः पृतन्यून् सेधन् रक्षाꣳस्य् अप दुर्गहाणि । स्वायुधः सासह्वान् सोम शत्रून्
अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः । धारा सुतस्य रोचते पुनानो अरुषो हरिः । विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः
त्वꣳ त्यत् पणीनाꣳ विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे । परावतो न साम तद् यत्रा रणन्ति धीतयः । त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे
पूर्वाम् अनु प्रदिशꣳ याति चेकितत् सꣳ रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः । अग्मन्न् उक्थानि पौꣳस्येन्द्रꣳ जैत्राय हर्षयन् । वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता
नानानꣳ वा उ नो धियो वि व्रतानि जनानाम् । तक्षा रिष्टꣳ रुतम् भिषग् ब्रह्मा सुन्वन्तम् इच्छतीन्द्रायेन्दो परि स्रव
जरतीभिर् ओषधीभिः पर्णेभिः शकुनानाम् । कार्मारो अश्मभिर् द्युभिर् हिरण्यवन्तम् इच्छतीन्द्रायेन्दो परि स्रव
कारुर् अहꣳ ततो भिषग् उपलप्रक्षिणी नना । नानाधियो वसूयवो ऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव
अश्वो वोळ्हा सुखꣳ रथꣳ हसनाम् उपमन्त्रिणः । शेपो रोमण्वन्तौ भेदौ वार् इन् मण्डूक इच्छतीन्द्रायेन्दो परि स्रव
शर्यणावति सोमम् इन्द्रः पिबतु वृत्रहा । बलꣳ दधान आत्मनि करिष्यन् वीर्यम् महद् इन्द्रायेन्दो परि स्रव
आ पवस्व दिशाम् पत आर्जीकात् सोम मीढ्वः । ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव
पर्जन्यवृद्धम् महिषꣳ तꣳ सूर्यस्य दुहिताभरत् । तꣳ गन्धर्वाः प्रत्य् अगृभ्णन् तꣳ सोमे रसम् आदधुर् इन्द्रायेन्दो परि स्रव
ऋतꣳ वदन्न् ऋतद्युम्न सत्यꣳ वदन् सत्यकर्मन् । श्रद्धाꣳ वदन् सोम राजन् धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव
सत्यमुग्रस्य बृहतः सꣳ स्रवन्ति सꣳस्रवाः । सꣳ यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव
यत्र ब्रह्मा पवमान छन्दस्या३ꣳ वाचꣳ वदन् । ग्राव्णा सोमे महीयते सोमेनानन्दꣳ जनयन्न् इन्द्रायेन्दो परि स्रव
यत्र ज्योतिर् अजस्रꣳ यस्मिꣳल् लोके स्वर् हितम् । तस्मिन् माꣳ धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव
यत्र राजा वैवस्वतो यत्रावरोधनꣳ दिवः । यत्रामूर् यह्वतीर् आपस् तत्र माम् अमृतꣳ कृधीन्द्रायेन्दो परि स्रव
यत्रानुकामꣳ चरणꣳ त्रिनाके त्रिदिवे दिवः । लोका यत्र ज्योतिष्मन्तस् तत्र माम् अमृतꣳ कृधीन्द्रायेन्दो परि स्रव
यत्र कामा निकामाश् च यत्र ब्रध्नस्य विष्टपम् । स्वधा च यत्र तृप्तिश् च तत्र माम् अमृतꣳ कृधीन्द्रायेन्दो परि स्रव
यत्रानन्दाश् च मोदाश् च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास् तत्र माम् अमृतꣳ कृधीन्द्रायेन्दो परि स्रव
य इन्दोः पवमानस्यानु धामान्य् अक्रमीत् । तम् आहुः सुप्रजा इति यस् ते सोमाविधन् मन इन्द्रायेन्दो परि स्रव
ऋषे मन्त्रकृताꣳ स्तोमैः कश्यपोद्वर्धयन् गिरः । सोमꣳ नमस्य राजानꣳ यो जज्ञे वीरुधाम् पतिर् इन्द्रायेन्दो परि स्रव
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव
यत् ते राजञ् छृतꣳ हविस् तेन सोमाभि रक्ष नः । अरातीवा मा नस् तारीन् मो च नः किꣳ चनाममद् इन्द्रायेन्दो परि स्रव
Using this in academic work? Get formal citation
Tradição Védica (Ṛṣis) (2026). Ṛgveda Saṃhitā — Maṇḍala 9. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/rgveda-mandala-9
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 9." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/rgveda-mandala-9.
Tradição Védica (Ṛṣis). "Ṛgveda Saṃhitā — Maṇḍala 9." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/rgveda-mandala-9.