Taittirīya Bhāṣya Vārttikam
Sureśvarācārya
भक्त्या तं प्रणीपत्य वेदशिरसो वक्ष्यामि सद्वार्तिकम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 यस्येदं सकलामलेन्दुकिरणप्रख्यैर्यशोरश्मिभि — र्व्याप्तं यश्च कृपालुतापरवशश्चक्रे हितं दुःखिनाम् । यद्वाणीकुलिशावरुग्णमतयः पेतुर्दिशस्तार्किका
भक्त्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 दुरितक्षयहेतूनि नित्यानि ब्राह्मणो ययुः ।
काम्यानि चेह कर्माणि दृष्टादृष्टफलानि तु ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 विद्या प्रस्तूयतेऽथोर्ध्वं यथाभूतार्थबोधिनी ।
कर्मोपादानहेतूंस्तान्सैवोच्छेत्तुमलं यतः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 स यथाकाम इत्येवं योऽकामश्चेति सादरम् ।
कामाकामैकहेतू नो बन्धमोक्षौ श्रुतिर्जगौ ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अपविद्धद्वये तत्त्वे सर्वदैवात्मरूपके ।
विपर्ययोऽनभिज्ञानात्ततः कामः क्रियास्ततः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।
तस्मात्सर्वप्रवृत्तीनामलं विद्योपशान्तये ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 इति मीमांसकम्मन्यैः कर्मोक्तं मोक्षसाधनम् ।
प्रत्याख्यायाऽऽत्मविज्ञानं तत्र न्यायेन निर्णयः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 नैतदेवं भवेन्न्याय्यं विरुद्धफलदायिनाम् ।
सम्भवात्कर्मणां पुंसो भूयसां शास्त्रदर्शनात् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 अनारब्धफलानीह सन्ति कर्माणि कोटिशः ।
तद्य इहेति वचसो गम्यतां कर्मणां स्थितिः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 न चैकदेहे भोगोऽस्ति ब्रह्महत्याश्वमेधयोः ।
विरुद्धफलहेतुत्वान्मूढसात्त्विकदेहयोः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तजन्मानुगं कार्यमेकस्यापीह कर्मणः ।
श्रूयते धर्मशास्त्रेषु किमुतानेककर्मणाम् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 अनारब्धेष्टकार्याणां नित्यं चेद्ध्वस्तये मतम् ।
नैवं स्वात्माक्रियाहेतुं यतोऽनर्थं निहन्ति तत् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 पापस्य कर्मणः कार्यं प्रत्यवायगिरोच्यते ।
नित्यैर्विरोधात्तद्धानिर्न त्विष्टफलदायिनः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 कामश्च कर्मणो हेतुस्तस्योच्छित्तेर्न सम्भवः ।
प्रत्यग्बोधमृते यस्मादसम्यगिदमुच्यते ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 यद्ध्यनात्मफलं तस्मै कर्म सर्वं विधीयते ।
आप्तत्वादात्मनः कर्म नैव स्यादाप्तये ततः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कुतः ।
न ह्यभावाद्भवेद्भावो मानं यस्मान्न विद्यते ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोपचितकर्मभ्यस्तस्मात्कर्तारमेति या ।
प्रत्यवायक्रिया तस्या लक्षणार्थः शता भवेत् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 नित्यानामक्रिया यस्माल्लक्षयित्वैति सत्वरा ।
प्रत्यवायक्रियां तस्माल्लक्षणार्थे शता भवेत् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वप्रमाणकोपः स्यादभावाद्भावसम्भवे ।
तस्मादयत्नतः स्थानमात्मनीत्यतिपेलवम् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 निर्धूतातिशया प्रीतिः कर्महेतुरिति त्वया ।
यदभाणि तदन्याय्यं यथा तदभिधीयते ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 मुक्तेः कौटस्थ्यरूपत्वान्न तस्याः कर्म साधनम् ।
स्वर्गादिवदनित्या स्याद्यदि स्यात्कर्मणः फलम् ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 अनित्यफलदायित्वं ज्ञानहीनस्य कर्मणः ।
कूटस्थफलदायित्वं विद्येतस्येति चेन्मतम् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 नैवमारभ्यमाणस्य ह्यनित्यत्वसमन्वयात् ।
न च प्राप्तमनित्यत्वं विद्या वारयितुं क्षमा ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रध्वंसाभाववच्चेत्स्यात् कर्मकार्यमपि ध्रुवम् ।
भावात्मकत्वान्मोक्षस्य नैवमप्युपपद्यते ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यं प्रध्वंसतोऽन्यद्यत्तदनित्यं क्रियोत्थितेः ।
घटादिवत्प्रतिज्ञायां विशिष्टत्वाददोषता ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रध्वंसाच्छकलादि स्यात्तच्चानित्यं घटादिवत् ।
कल्पनामात्रतोऽभावो नैवारभ्यः स कर्मभिः ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 आविर्भावतिरोभावैर्धर्मिण्यां मृदि सर्वदा ।
धर्मा घटादयः सर्वे वर्तन्ते न त्वभावगाः ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 नास्त्यभावस्य सम्बन्धः क्रियया वा गुणेन वा ।
निरात्मकत्वान्नैवालं सम्बद्धुं केनचित् क्वचित् ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्स्यात्कल्पनामात्रो व्यवहारप्रसिद्धये ।
प्रध्वंसादिरभावोऽयं शिलापुत्रादिवन्मृषा ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादविद्याव्युच्छित्तौ स्यादवस्थानमात्मनि ।
न चाविद्याप्रहाणं स्याद्ब्रह्मविद्यामृते क्वचित् ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 तस्माद्विद्याप्तये ज्ञेया प्रारब्धोपनिषत्परा ।
सैवाविद्यापनुत्त्यर्था विद्या चैवात्मगामिनी ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यासंशीलिनां यस्माद् गर्भजन्माद्यशेषतः ।
उपमृद्नाति विद्येयं तस्मादुपनिषद् भवेत् ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 उपेत्य वा निषण्णं तच्छ्रेय आत्यन्तिकं यतः ।
तस्मादुपनिषज्ज्ञेया ग्रन्थस्तु स्यात्तदर्थतः ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमोऽनुवाकः प्राणवृत्तेस्तथा चाह्नो देवता याऽभिमानिनी ।
मित्रः शं नः सुखं भूयादिति ब्रह्मेह याच्यते ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 रात्रेरपानवृत्तेश्च वरुणश्चाभिमानभाक् ।
शं नो भवतु सर्वत्र चक्षुस्थश्चार्यमा रविः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 बले तु भगवानिन्द्रो वाचि बुद्धौ बृहस्पतिः ।
विष्णुश्चोरुक्रमः शं नो विस्तीर्णक्रमणो ह्यसौ ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्मदेवताः सर्वा मित्राद्याः शं भवन्तु नः ।
सुखकृत्सु हि तासु स्याद् विघ्नोपशमनं ध्रुवम् ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 श्रवणं धारणं चैवमुपयोगश्च सिद्ध्यति ।
ज्ञानस्याप्रतिबन्धेन प्रार्थनीयमतो भवेत् ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्योपसर्गाणां शान्त्यर्थं वायुरूपिणे ।
ब्रह्मजिज्ञासुना कार्ये नमस्कारोक्तिकर्मणी ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वक्रियाफलानां हि ब्रह्माधीनत्वहेतुतः ।
वायवे ब्रह्मणे तस्मै प्रह्वीभावोऽस्तु सर्वदा ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 परोक्ष्येण नमस्कृत्य प्रत्यक्षेण नमस्क्रिया ।
परोक्षसाक्षाद्रूपाभ्यां वायुरेवाभिधीयते ॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षं ब्रह्म हे वायो त्वमेवासीति संस्तुतिः ।
त्वामेवातो वदिष्यामि साक्षात्त्वमुपलभ्यसे ॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 यथाशास्त्रं यथाकार्यं बुद्धौ सुपरिनिश्चितम् ।
ऋतं तत्त्वदधीनत्वाद् वदिष्यामीति सङ्गतिः ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रयोगस्थं तदेवर्तं सत्यमित्यभिधीयते ।
तदपि त्वदधीनत्वाद् वदिष्याम्येव साम्प्रतम् ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यार्थिना स्तुतं सन्मां ब्रह्मावतु गुरुं च मे ।
विद्याग्रहणवक्तृत्वशक्तिभ्यां नौ सदाऽवतु ॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 विद्याप्राप्त्युपसर्गाणां त्रिः शान्तिरभिधीयते ।
आचार्यशिष्ययोस्तस्यां ब्रह्म ज्ञातुं हि शक्यते ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】
इति प्रथमोऽनुवाकः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 द्वितीयोऽनुवाकः अर्थज्ञानप्रधानत्वाद् वेदान्तानां विपश्चिताम् ।
पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभिधीयते ॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 शिक्ष्यते ज्ञायते साक्षाद् वर्णाद्युच्चारणं यया ।
स्याद्वा कर्मणि शिक्षेति व्याख्यास्यामोऽधुना तु ताम् ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 अकारादिर्भवेद्वर्ण उदात्तादिः स्वरस्तथा ।
ह्रस्वदीर्घप्लुता मात्राः प्रयत्नश्च बलं स्मृतम् ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 समता साम वर्णानां वैषम्यस्य विवर्जनम् ।
सन्तानः संहिता तु स्यादिति शिक्षोपदिश्यते ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】
इति द्वितीयोऽनुवाकः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तृतीयोऽनुवाकः सूक्ष्मार्थानुप्रवेशाय बहिष्प्रवणचेतसाम् ।
संहिताविषयं तावत्स्थूलोपासनमुच्यते ॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 संहितादिनिमित्तं यद्यशस्तन्नौ सहास्त्विति ।
आचार्यशिष्ययोस्तद्वद् ब्रह्मवर्चसमावयोः ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 यशःख्यातिः प्रकाशः स्याद् वृत्तस्वाध्यायहेतुजम् ।
ब्रह्मवर्चसमित्याहुस्तेजो यत्तन्निबन्धनम् ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 शिष्यस्याऽऽशीरियं ज्ञेया नाऽऽचार्यस्य कृतार्थतः ।
अनाप्तपुरुषार्थानामाशीर्वादो हि युज्यते ॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 वेदाध्ययनविज्ञानादनन्तरमिदं यतः ।
नेदीयः संहिताज्ञानमतस्तदभिधीयते ॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 संहिताविषयं ज्ञानमिहोपनिषदुच्यते ।
पञ्चाधिकरणां तां तु व्याख्यास्यामोऽधुना स्फुटम् ॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 अधिलोकमधिज्योतिरधिविद्यमधिप्रजम् । अध्यात्मं चेति लोकादेर्महत्त्वात्तद्विदो जगुः ।
ता महासंहिताः सर्वा इति ता य उपासते ॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 दृष्तिक्रमविधानार्थास्त्वथशब्दा अमी स्मृताः ।
लोकादीनधिकृत्योक्तेरधिलोकाद्यतो भवेत् ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 पृथिव्यग्निरथाचार्यो माता या चाधरा हनुः ।
पूर्वं स्यात्संहितारूपं दिवादित्याद्यथोत्तरम् ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】
पूर्वो वर्णः पूर्वरूपमुत्तरश्चोत्तरं स्मृतम् ॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 संहिताया इति ज्ञेयं ततोऽन्या काऽत्र संहिता ।
सन्धिः स्यान्मध्यं छिद्रमाकाशादिस्तथैव च ॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 सन्धत्ते येन सन्धानं वाय्वादिरिह कीर्त्यते ।
इतीमा इति वाक्येन प्रदर्श्यन्ते यथोदिताः ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 वेदोपास्ते तु यस्त्वेताः फलं तस्येदमुच्यते । शास्त्रार्पितधियोपेत्य ह्यातादात्म्याभिमानतः ।
चिरासनं भवेदर्थे तदुपासनमुच्यते ॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 सन्धीयतेऽसौ स्वर्गान्तैः प्रजादिभिरसंशयम् ।
महतीः संहिता वेद यो यथोक्ताः समाहितः ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】
इति तृतीयोऽनुवाकः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्थोऽनुवाकः यश्चन्दसामितिज्ञानं मेधाकामस्य भण्यते ।
आवहन्तीति तद्वत्स्याच्छ्रीकामस्येह लिङ्गतः ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 छन्दःशब्दस्त्रयो वेदास्तत्प्रधानत्वकारणात् ।
ऋषभो विश्वरूपश्च सर्ववाग्व्याप्तिकारणात् ॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 अमृतेभ्योऽसौ वेदेभ्यः प्रतिभातः प्रजापतेः ।
ओङ्कारस्य हि नित्यत्वान्नाञ्जसोत्पत्तिरुच्यते ॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 ओङ्कारः सर्वकामेशः स इन्द्रः परमेश्वरः ।
मेधया प्रज्ञया मां स स्पृणोतु प्रीणयत्विति ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】
अमृतत्वैकहेतोः स्यामात्मज्ञानस्य धारणः ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 विचक्षणं च मे भूयाच्छरीरं देव सर्वदा ।
मनःप्रह्लादिनी मे स्याज्जिह्वा मधुरभाषिणी ॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्णाभ्यां चैव वेदार्थं भूरि विश्रुणुयाम्यहम् ।
ब्रह्मणश्चासि कोशस्त्वमसेरिव परात्मनः ॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 अपविद्धैषणा यस्मात्त्वयि पश्यन्ति तत्परम् । अभिधानप्रतीकत्वद्वारेणास्योपलब्धये ।
त्वमेव हेतुतां यासि तस्मात्कोशस्त्वमुच्यसे ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 लौकिकप्रज्ञया यस्मान्मेधया पिहितस्ततः ।
नोपासते पराक्चित्तास्त्वां देवममृतप्रदम् ॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो ।
येन श्रुतेन सम्पन्नस्त्वामेव प्रविशाम्यहम् ॥ ७७ ॥ 【भाष्यम्】 【भाष्यम्】
प्रापयन्त्यावहन्तीति विस्तारार्थोत्तरा क्रिया ॥ ७८ ॥ 【भाष्यम्】 【भाष्यम्】 कुर्वाणामुभयं देव चिरमावह मे श्रियम् ।
ततो वेदार्थविज्ञानादन्नपानान्तदायिनीम् ॥ ७९ ॥ 【भाष्यम्】 【भाष्यम्】 लोमशां पशुभिर्युक्तां प्रत्येकं सर्वदेति च ।
मन्त्रान्तज्ञापनार्थाय स्वाहाकारोऽयमुच्यते ॥ ८० ॥ 【भाष्यम्】 【भाष्यम्】 तथैव चोत्तरत्रापि स्वाहा तत्सम्भवाद्भवेत् । दैवेन मानुषेणैव वित्तेनाऽऽमुत्रिकैहिकम् ।
कर्म कर्तुमलं यस्मात्प्रार्थ्यते तेन तद्द्वयम् ॥ ८१ ॥ 【भाष्यम्】 【भाष्यम्】
आयन्तूद्दिश्य मां सर्व अधीतिश्रवणार्थिनः ॥ ८२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृष्ट्यर्थं प्रमायन्तु यत्नतो ब्रह्मचारिणः ।
सम्भूय कोटिशश्चैव मामेवायन्तु सत्वराः ॥ ८३ ॥ 【भाष्यम्】 【भाष्यम्】 जनेऽसानि यशश्चेति पूर्वस्यैतत्प्रयोजनम् । वस्यसोऽहं सकाशाच्च श्रेयान्स्यां गुणतोऽधिकः ।
वसीयसो वस्यस इतीलोपश्छान्दसो भवेत् ॥ ८४ ॥ 【भाष्यम्】 【भाष्यम्】 ईयसुन्वसितुर्वास्यात्स्याद्वा वसुमतः परः ।
अभीष्टोऽतिशयो यस्मात्सजातीयाद् गुणोन्नतेः ॥ ८५ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणः कोशभूतं त्वां भगवन्प्रविशाम्यहम् ।
मां च सर्वात्मभावेन प्रविशेश प्रसीद मे ॥ ८६ ॥ 【भाष्यम्】 【भाष्यम्】 ऐकात्म्यमावयोरस्तु भेदहेतुं विनाशय ।
अनन्तभेदे त्वय्येव निमृजे दुष्कृतं ततः ॥ ८७ ॥ 【भाष्यम्】 【भाष्यम्】 द्रुतमापो यथा यन्ति निम्नेन मकरालयम् ।
तथैवायन्तु मां सर्वे समन्ताद् ब्रह्मचारिणः ॥ ८८ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते ।
अहर्जरे यथा मासा यन्ति सम्वत्सरात्मनि ॥ ८९ ॥ 【भाष्यम्】 【भाष्यम्】 आसन्नगृहपर्यायः प्रतिवेश इहोच्यते ।
प्रतिवेश इवासि त्वं सर्वदुःखापनोदकृत् ॥ ९० ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिप्राणिप्रवेशाद्वा प्रतिवेशोऽसि कीर्त्यसे ।
मां प्रत्यतः प्रभाहि त्वं प्रमापद्यस्व चाञ्जसा ॥ ९१ ॥ 【भाष्यम्】 【भाष्यम्】
इति चतुर्थोऽनुवाकः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चमोऽनुवाकः उपासनमथेदानीं व्याहृत्यात्मन उच्यते ।
स्वाराज्यफलसिद्ध्यर्थं महिमाऽतोऽस्य कीर्त्यते ॥ ९२ ॥ 【भाष्यम्】 【भाष्यम्】 भूर्भुवः स्वरिति ज्ञेयाः प्रसिद्धा व्याहृतीर्नरैः ।
तिस्रस्तासां चतुर्थीं तु मह इत्यृषिरभ्यधात् ॥ ९३ ॥ 【भाष्यम्】 【भाष्यम्】 महाचमसगोत्रत्वाद् गोत्रार्थस्तद्धितो भवेत् ।
महाचमस्योऽतः साक्षान्महो वेदयते पराम् ॥ ९४ ॥ 【भाष्यम्】 【भाष्यम्】 उपासनाङ्गतार्थोऽयमृषिनामग्रहो भवेत् ।
आर्षेयस्मृतिसम्मिश्रमुपासनमिहोच्यते ॥ ९५ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्थी व्याहृतिर्येयं ब्रह्मेत्येवमुपास्यताम् ।
महत्त्वाद् ब्रह्म सा ज्ञेया आत्मा चाप्नोति येन सा ॥ ९६ ॥ 【भाष्यम्】 【भाष्यम्】
आदित्यचन्द्रब्रह्मान्नभूतेन व्यापिना यतः ॥ ९७ ॥ 【भाष्यम्】 【भाष्यम्】 लोकदेवादयो व्याप्ता आत्मा तेन महो भवेत् ।
देवताग्रहणं चात्र परिशिष्टोपलक्षणम् ॥ ९८ ॥ 【भाष्यम्】 【भाष्यम्】 लोका देवास्तथा वेदाः प्राणाश्चाङ्गानि सर्वशः ।
मह इत्यस्य ज्ञेयानि व्याहृत्यात्मन एव हि ॥ ९९ ॥ 【भाष्यम्】 【भाष्यम्】 महीयन्ते यतः सर्व आदित्याद्यात्मना परे ।
मह इत्येवमुक्तेन तस्मादात्मा भवेन्महः ॥ १०० ॥ 【भाष्यम्】 【भाष्यम्】 आत्मना हि महीयन्ते हस्ताद्यङ्गानि सर्वशः ।
यथा लोकादयस्तद्वदादित्याद्यात्मनैधिताः ॥ १०१ ॥ 【भाष्यम्】 【भाष्यम्】 अयं लोकोऽग्निरृग्वेदः प्राणश्चेति चतुर्विधा ।
भूरिति व्याहृतिर्ज्ञेया तथैवान्या यथाक्रमम् ॥ १०२ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तरिक्षं च वायुश्च साम चापान एव च ।
चतुर्धा भुव इत्येषा द्वितीया व्याहृतिर्मता ॥ १०३ ॥ 【भाष्यम्】 【भाष्यम्】 द्यौरादित्यो यजुश्चेति व्यानश्चेति चतुर्थ्यपि ।
महश्चेति पुरा प्रोक्ता चतस्रः स्युश्चतुर्विधाः ॥ १०४ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तानां पुनरुक्तिः स्यादुपा सानियियंसया यथोक्ता व्याहृतिरेतावेदोपास्ते तु यो नरः ।
स वेद सकलं ब्रह्म वक्ष्यमाणविशेषणम् ॥ १०५ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्म वेद स इत्येवं पुनरुक्तं किमुच्यते ।
वक्ष्यमाणानुवाकार्थविवक्षुत्वाददोषता ॥ १०६ ॥ 【भाष्यम्】 【भाष्यम्】 स य एषोऽतरित्यादि वक्ष्यमाणानुवाकगम् ।
वस्तूपास्यमिहैवेति स वेदेति पुनर्वचः ॥ १०७ ॥ 【भाष्यम्】 【भाष्यम्】
एकवाक्यत्वमेतस्माद् द्वयोरप्यनुवाकयोः ॥ १०८ ॥ 【भाष्यम्】 【भाष्यम्】 लोका देवादयश्चास्मा उपासित्रे यथाबलम् ।
बलिं भोगं प्रयच्छन्ति फलमेतदुपासितुः ॥ १०९ ॥ 【भाष्यम्】 【भाष्यम्】
इति पञ्चमोऽनुवाकः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 षष्ठोऽनुवाकः तिस्रो व्याहृतयो यस्य ब्रह्मणोऽङ्गान्यवादिषम् ।
स्थानादिसिद्धये तस्य परः सन्दर्भ उच्यते ॥ ११० ॥ 【भाष्यम्】 【भाष्यम्】 स यः परोक्षनिर्दिष्टः प्रत्यक्षेण स दर्श्यते ।
अन्तर्हृदय आकाशे पश्यात्मानं त्वमात्मना ॥ १११ ॥ 【भाष्यम्】 【भाष्यम्】 पद्माकारो हि मांसस्य खण्डो हृदयमुच्यते । आकाशस्तस्य मध्ये यो बुद्धेरायतनं सदा ।
तस्मिन्स पुरुषो ज्ञेयो मनोमय इहाञ्जसा ॥ ११२ ॥ 【भाष्यम्】 【भाष्यम्】
शशिस्थराहुवत्साक्षान्मस्येवोपलभ्यते ॥ ११३ ॥ 【भाष्यम्】 【भाष्यम्】 मनुते मनसा यस्मात्तेनायं स्यान्मनोमयः ।
स्याद्वा तदभिमानित्वात्तल्लिङ्गात्तन्मयः स्मृतः ॥ ११४ ॥ 【भाष्यम्】 【भाष्यम्】 अमृतोऽमरणधर्मा स्याद्धिरण्यं ज्योतिरुच्यते ।
तन्मयोऽयं पुमान्ध्येयस्तत्प्राप्तौ द्वारथोच्यते ॥ ११५ ॥ 【भाष्यम्】 【भाष्यम्】 ऊर्ध्वं प्रवृत्ता नाड्येका सुषुम्ना हृदयादधि ।
गत्वा तालुकयोर्विद्वान् मध्येनोदानगर्भया ॥ ११६ ॥ 【भाष्यम्】 【भाष्यम्】 स्तनवल्लम्बते कण्ठे मांसखण्डस्त्वधोमुखः ।
इन्द्रस्यासौ सृतिर्ज्ञेया रेचकेन तया व्रजेत् ॥ ११७ ॥ 【भाष्यम्】 【भाष्यम्】 तया गत्वाऽथ यायात्स यत्केशान्तो विवर्तते ।
भित्त्वा शिरःकपाले द्वे भूरित्यग्निं प्रपद्यते ॥ ११८ ॥ 【भाष्यम्】 【भाष्यम्】 द्वितीययाऽथ व्याहृत्या वायौ सम्प्रतितिष्ठति । आदित्ये सुवरित्येवं लोकेशे प्रतितिष्ठिति
॥ ११९ ॥ 【भाष्यम्】 【भाष्यम्】 स्थित्वैवमङ्गभूतेषु प्रतितिष्ठत्यथाङ्गिनि ।
मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपद्यते ॥ १२० ॥ 【भाष्यम्】 【भाष्यम्】 नान्यो राजाऽस्ति यस्येह राजा यः स्वयमेव तु ।
स स्वराट् तस्य भावश्च स्वाराज्यमिह कीर्त्यते ॥ १२१ ॥ 【भाष्यम्】 【भाष्यम्】 मनोगीश्चक्षुषां चैव श्रोत्रविज्ञानयोरपि । आप्नोति पर्युपासीनः स्वाराज्यं नात्र संशयः ।
तत एतत्फलं दिव्यं यथोक्तोपासनाद्भवेत् ॥ १२२ ॥ 【भाष्यम्】 【भाष्यम्】 व्याहृत्यात्मन एतस्य रूपसङ्क्लृप्तयेऽधुना ।
उपासनविधित्सायै परो ग्रन्थोऽवतार्यते ॥ १२३ ॥ 【भाष्यम्】 【भाष्यम्】 वियद्देहमिदं ब्रह्म वियत्सदृशमेव वा ।
मूर्तामूर्तस्वभावं च त्रैलोक्याद्यात्मतो भवेत् ॥ १२४ ॥ 【भाष्यम्】 【भाष्यम्】 इन्द्रियारमणं चैव मन आनन्दमेव च ।
शान्त्या समृद्धमत्यर्थं ब्रह्मैतदमृतं परम् ॥ १२५ ॥ 【भाष्यम्】 【भाष्यम्】 प्राचीनयोग्योपास्स्वैतद् यथाव्याख्यातलक्षणम् ।
माहाचमस्य आचार्य अन्तेवासिनमुक्तवान् ॥ १२६ ॥ 【भाष्यम्】 【भाष्यम्】
इति षष्ठोऽनुवाकः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तमोऽनुवाकः पाङ्क्तस्वरूपेणैतस्य भूयोऽप्यन्यदुपासनम् ।
उदारफलसिद्ध्यर्थं पृथिवीत्युच्यतेऽधुना ॥ १२७ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चभिर्यत आरब्धं जगत्पाङ्क्तमतो भवेत् ।
यज्ञः क्लृप्तो भवेदेवं पाङ्क्तो यज्ञ इति श्रुतिः ॥ १२८ ॥ 【भाष्यम्】 【भाष्यम्】 यज्ञेन परिक्लृप्तेन त्रैलोक्यात्मानमश्नुते ।
पाङ्क्तत्वसिद्धये तस्मादारब्धैषा परा श्रुतिः ॥ १२९ ॥ 【भाष्यम्】 【भाष्यम्】 दिगन्तं लोकपाङ्क्तं स्यान्नक्षत्रान्तं च दैवतम् ।
आत्मान्तं भूतपाङ्क्तं च विराडात्माधिकारतः ॥ १३० ॥ 【भाष्यम्】 【भाष्यम्】 उपलक्षणमेतत्स्याद्देवतालोकपाङ्क्तयोः ।
अधिभूतमिति वक्ष्यामोऽथाध्यात्ममतः परम् ॥ १३१ ॥ 【भाष्यम्】 【भाष्यम्】 वायुपाङ्क्तं समानान्तं त्वगन्तं चैन्द्रियं तथा ।
चर्मादि धातुपाङ्क्तं च विश्वमेतावदुच्यते ॥ १३२ ॥ 【भाष्यम्】 【भाष्यम्】 पाङ्क्तमेव जगत्सर्वमिति दृष्ट्वाऽभ्यधादृषिः ।
पाङ्क्तं वा इदमाब्रह्मस्तम्बं नान्यदिति स्म ह ॥ १३३ ॥ 【भाष्यम्】 【भाष्यम्】 आध्यात्मिकेन पाङ्क्तेन सङ्ख्यासामान्यकारणात् ।
बलयत्यात्मभावेन पाङ्क्तं बाह्यमशेषतः ॥ १३४ ॥ 【भाष्यम्】 【भाष्यम्】
इति सप्तमोऽनुवाकः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अष्टमोऽनुवाकः सर्वोपासनशेषस्य प्रणवस्याधुनोच्यते ।
उपासनमलं यस्माद् ब्रह्मणोः प्राप्तये द्वयोः ॥ १३५ ॥ 【भाष्यम्】 【भाष्यम्】 परस्य ब्रह्मणो यस्मादपरस्य च चोद्यते ।
आलम्बनतया तस्मात्स एवात्राभिधीयते ॥ १३६ ॥ 【भाष्यम्】 【भाष्यम्】 ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा सदा ।
धारयेत्स्तुतये तस्य परो ग्रन्थोऽवतार्यते ॥ १३७ ॥ 【भाष्यम्】 【भाष्यम्】 तद्यथा शङ्कुनेत्येवं सर्वमोमिति युज्यते ।
अभिधानादृते यस्मादभिधेयं न विद्यते ॥ १३८ ॥ 【भाष्यम्】 【भाष्यम्】 अनुज्ञानुकृतिस्तद्वत्सर्वत्रोमिति कीर्त्यते ।
ओश्रावयेत्यनुज्ञाता यत आश्रावयन्ति च ॥ १३९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रसौति ह्यनुजानाति ब्रह्मोमित्येव चर्त्विजम् ।
प्रवक्ष्यन्ब्राह्मणो वेदमोमित्येवं प्रयुज्यते ॥ १४० ॥ 【भाष्यम्】 【भाष्यम्】
उपाप्नवानि ब्रह्मेति स च वेदमवाप्नुयात् ॥ १४१ ॥ 【भाष्यम्】 【भाष्यम्】 परात्मा वा भवेद्ब्रह्म स तदोकारपूर्वकम् ।
प्राप्नोत्येव न सन्देह उपासीतात ओमिति ॥ १४२ ॥ 【भाष्यम्】 【भाष्यम्】
इति अष्टमोऽनुवाकः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 नवमोऽनुवाकः यथोक्तोपासनादेव स्वाराज्यफलसंश्रयात् ।
नैष्फल्ये कर्मणां प्राप्ते तत्साफल्यार्थ उत्तरः ॥ १४३ ॥ 【भाष्यम्】 【भाष्यम्】 स्वाध्यायोऽध्ययनं ज्ञेयं तथा चाध्यापनं परम् । आधातव्या यथाशास्त्रमग्नयः श्रेयसे तथा ।
होतव्यमगिहोत्रं च कुर्याच्चातिथिपूजनम् ॥ १४४ ॥ 【भाष्यम्】 【भाष्यम्】
तथा संव्यवहारश्च मानुषं स्यादसंशयम् ॥ १४५ ॥ 【भाष्यम्】 【भाष्यम्】 उत्पाद्या च प्रजा योग्या प्रजनं चर्तुसेवनम् ।
निवेशनं सुतस्येह प्रजातिरिति गम्यताम् ॥ १४६ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तेषु व्यापृतेनापि कार्ये एव प्रयत्नतः ।
स्वाध्यायवचने तेन प्रत्येकं च ग्रहस्तयोः ॥ १४७ ॥ 【भाष्यम्】 【भाष्यम्】 वेदार्थबोधनं नास्ति स्वाध्यायेन विना यतः ।
तथा प्रवचनेनातो धर्मार्थं च ग्रहस्तयोः ॥ १४८ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यमेव तु वक्तव्यमिति सत्यवचा जगौ ।
राथीतरो मुनिस्तद्वत्तप एवेत्युवाच ह ॥ १४९ ॥ 【भाष्यम्】 【भाष्यम्】 पुरुशिष्टस्य तनयः कर्तव्यं तु महातपाः । मुद्गलस्यात्मजश्चाह कर्तव्ये यत्नमास्थितैः ।
स्वाध्यायप्रवचने एव ते एव तु तपो यतः ॥ १५० ॥ 【भाष्यम्】 【भाष्यम्】
इति नवमोऽनुवाकः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 दशमोऽनुवाकः स्वाध्यायार्थश्च विज्ञेयः अहं वृक्षस्य रेरिवा ।
इत्यादिरुत्तरो ग्रन्थो विशुद्धिर्हि ततो धियः ॥ १५१ ॥ 【भाष्यम्】 【भाष्यम्】 विशुद्धमनसो यस्मात्सम्यग्ज्ञानोदयो भवेत् ।
मन्त्राम्नायोऽयमारब्ध एतस्मात्कारणात्परः ॥ १५२ ॥ 【भाष्यम्】 【भाष्यम्】 उच्छित्तिलक्षणस्याहं विश्वस्य जगतः सदा ।
अस्य संसारवृक्षस्य रेरिवा जनकोऽस्म्यहम् ॥ १५३ ॥ 【भाष्यम्】 【भाष्यम्】 कीर्तिः ख्यातिर्ममज्ञेया गिरेः पृष्ठमिवोच्छ्रिता ।
ऊर्ध्वं तत्कारणं ब्रह्म पवित्रं भवहानतः ॥ १५४ ॥ 【भाष्यम्】 【भाष्यम्】
यस्य सोऽयं भवेदूर्ध्वं पवित्रं पावनं परम् ॥ १५५ ॥ 【भाष्यम्】 【भाष्यम्】 वाजमन्नमिति ज्ञेयं तद्वतीव दिवाकरे ।
स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा ॥ १५६ ॥ 【भाष्यम्】 【भाष्यम्】 द्रविणं धनमित्याहुरिह त्वात्मावबोधनम् ।
सवर्चसं सुदीप्तं स्यान्मोक्षामृतफलप्रदम् ॥ १५७ ॥ 【भाष्यम्】 【भाष्यम्】 अक्षितोऽक्षीणारूपत्वाद् वेदानुवचनं त्विदम् ।
त्रिशङ्कोर्ब्रह्मभूतस्य ह्यार्षं सन्दर्शनं परम् ॥ १५८ ॥ 【भाष्यम्】 【भाष्यम्】 पावनोऽस्य जपः श्रेयान् ब्रह्मज्ञानस्य जन्मने ।
मुमुक्षुः प्रयतस्तस्माज्जपेदेतत्समाहितः ॥ १५९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मप्रसङ्ग उक्तत्वादयमर्थोऽवसीयते । मुमुक्षोस्तत्परस्यैवं श्रौतस्मार्तेषु कर्मसु ।
आर्षं च प्रातिभं ज्ञानमाविर्भवति मोक्षदम् ॥ १६० ॥ 【भाष्यम्】 【भाष्यम्】
इति दशमोऽनुवाकः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 एकादशोऽनुवाकः आरम्भो नियमार्थः स्यादात्मज्ञानोदयात्पुरा ।
श्रुतेर्वेदमनूच्येति श्रुतिश्चैवानुशास्ति हि ॥ १६१ ॥ 【भाष्यम्】 【भाष्यम्】 विद्योत्पत्त्यर्थमेतानि कर्तव्यानि मुमुक्षुणा ।
वक्ष्यमाणानि कर्माणि यावदात्मावबोधनम् ॥ १६२ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मज्ञानोदयादूर्ध्वं पुरुषार्थावसानतः ।
स्वतः सिद्धेश्च मोक्षस्य कर्मकाण्डमनर्थकम् ॥ १६३ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्सत्त्वविशुद्ध्यर्थं कार्यं कर्म मुमुक्षुभिः ।
प्रागेव ब्रह्मविज्ञानान्नियमेनेति ह श्रुतिः ॥ १६४ ॥ 【भाष्यम्】 【भाष्यम्】 आनर्थक्यापनुत्त्यर्थमृतादीनां पुरा श्रुतिः ।
नियमार्थमिहोक्तिः स्यादात्मज्ञानोदयार्थिनः ॥ १६५ ॥ 【भाष्यम्】 【भाष्यम्】 अध्याप्य निखिलं वेदमन्तेवासिनमादरात् ।
सत्यं वदेत्येवमादि गरीयाननुशास्ति हि ॥ १६६ ॥ 【भाष्यम्】 【भाष्यम्】 यथोपलब्धं यद्वाक्यं हिंसाकल्कविवर्जितम् ।
सर्वधर्मविदः प्राज्ञास्तत्सत्यं प्रतिजानते ॥ १६७ ॥ 【भाष्यम्】 【भाष्यम्】 अग्निहोत्राद्यनुष्ठानं धर्ममाहुर्विपश्चितः ।
प्रमादं मा कृथास्तद्वत्स्वाध्यायं प्रति सर्वदा ॥ १६८ ॥ 【भाष्यम्】 【भाष्यम्】 तथाभिलषितां न्याय्यामाचार्यायाथ दक्षिणाम् ।
दत्त्वा दारांस्त्वमाहृत्य माच्छेत्सीः सुतसन्ततिम् ॥ १६९ ॥ 【भाष्यम्】 【भाष्यम्】 विस्मृत्याप्यनृतं नित्यं न च वक्तव्यमण्वपि ।
इत्यस्य प्रतिपत्त्यर्थं सत्यादीति पुनर्वचः ॥ १७० ॥ 【भाष्यम्】 【भाष्यम्】 एवं शिष्टेष्वपि ज्ञेयं प्रसिद्धार्थत्वकारणात् ।
स्पष्टार्थ उत्तरो ग्रन्थः स्वयमेवावगम्यताम् ॥ १७१ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तेभ्योऽन्यानि कर्माणि शिष्टाचारोपगानि तु ।
अनाशङ्कितदोषाणि त्वया कार्याणि यत्नतः ॥ १७२ ॥ 【भाष्यम्】 【भाष्यम्】 समाशङ्कितदोषाणि शिष्टैराचरितान्यपि ।
सावद्यानि न कार्याणि कर्माणीह कदाचन ॥ १७३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतिस्मृत्यविरुद्धानि शिष्टाचारोपगानि च ।
अस्मत्कर्माणि कार्याणि न विरोधीनि कर्हिचित् ॥ १७४ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मत्तो ब्राह्मणा ये स्युः श्रेयांसः शास्त्रवेदिनः ।
तेषामासनदानेन श्रमापनयनं कुरु ॥ १७५ ॥ 【भाष्यम्】 【भाष्यम्】 तेषामाख्यायिकायां वा न वाच्यं सम्भ्रमात्त्वया ।
तदुक्तसारं त्वादाय नापकार्यं यथाबलम् ॥ १७६ ॥ 【भाष्यम्】 【भाष्यम्】
श्रद्धयैव हि दातव्यमश्रद्धाभाजनेष्वपि ॥ १७७ ॥ 【भाष्यम्】 【भाष्यम्】 श्रीर्विभूतिस्तया देयं देयं चापि सदा ह्रिया ।
भिया भयेन दातव्यं संविन्मैत्री तयाऽपि च ॥ १७८ ॥ 【भाष्यम्】 【भाष्यम्】 एवं चेद्वर्तमानस्य श्रौतस्मार्तेषु कर्मसु । वृत्ते वा विचिकित्सा स्यात्संशयो मतिविभ्रमात् ।
तस्मिन्कर्मणि वृत्ते वा विप्रा ये सूक्ष्मदर्शिनः ॥ १७८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वतन्त्रा अभियुक्ताश्च ऋजवः कामवर्जिताः ।
यथा ते तत्र वर्तन्ते वर्तेथास्त्वं तथैव च ॥ १८० ॥ 【भाष्यम्】 【भाष्यम्】 तथा शङ्कितदोषेषु यथोक्तमुपपादयेत् ।
आदेशोऽत्र विधिर्ज्ञेय उपदेशः सुताय च ॥ १८१ ॥ 【भाष्यम्】 【भाष्यम्】 रहस्यं सर्ववेदानां वेदोपनिषदुच्यते ।
अनुशासनमीशस्य ज्ञेयमेतत्परात्मनः ॥ १८२ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मादेवमतः सद्भिर्यथोक्तं यत्नमास्थितैः ।
उपासितव्यं कर्तव्यमेवं चैतत्समाचरेत् ॥ १८३ ॥ 【भाष्यम्】 【भाष्यम्】
इति एकादशोऽनुवाकः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 द्वादशोऽनुवाकः प्रमादोत्थादपन्यायाद् गुरुशिष्याभिसङ्गतेः ।
प्रसक्तो यस्तयोर्द्वेषस्तच्छान्त्यै शान्तिरुच्यते ॥ १८४ ॥ 【भाष्यम्】 【भाष्यम्】 स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणो गुरौ ।
तस्येश्वरेणानन्त्यत्वाद् भूयः शान्तिरियं ततः ॥ १८५ ॥ 【भाष्यम्】 【भाष्यम्】 भाव्यं तु परिहाराय तन्मामावीदितीरणम् ।
आत्मनो ब्रह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति ॥ १८६ ॥ 【भाष्यम्】 【भाष्यम्】 ॥ इति शिक्षाया वार्तिकानि समाप्तानि ॥ प्रथमोऽनुवाकः कामादयो यदज्ञानात्तज्ज्ञानात्स्यादकामता ।
अतः परं तदैकात्म्यं वक्ष्यतेऽज्ञानघस्मरम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 नाऽनागतमनैतिह्यं प्रत्यगेकमविक्रियम् ।
अनादेयमहेयं यन्नमस्तस्मै सदादृशे ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्योद्भूततृष्णेन पुंसा यत्कल्पितं फलम् ।
अनन्तफलसिद्ध्यर्थं तदनूक्तिः प्रवृत्तये ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तुः कर्माणि कार्यार्थमनात्मफलदानि हि ।
पुरोक्तानि यतो नासावन्यथाऽतः प्रवर्तते ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 क्षयिष्णु साधनाधीनं फलं बुद्ध्वा वितृष्णतः ।
कामहेतोरनुच्छित्तेरपरात्परमीप्सति ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 साध्यसाधनवद्वाक्यं तद्विरुद्धार्थसिद्धये ।
प्राह ब्रह्मविदाप्नोति श्रुतिः प्रत्यक्प्रवेशिनी ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 शिखा ते वर्धते वत्स गुडूचीं श्रद्धया पिब ।
मातेव प्रेरयेद्बालं सदसम्भाव्यसिद्धये ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 साध्यसाधनसम्बन्धात्प्रसक्ता येह दोषधीः । सा चैकरूपविज्ञानशिखिप्लुष्टा विनङ्क्ष्यति
॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 मा भूदण्वपि मे दुःखं सुख्येव स्यामहं सदा ।
इति स्वतोऽभिलाषोऽयं सत्येव विषये भवेत् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञातमोक्षरूपोऽपि कैवल्याय प्रवर्तते ।
अलं यथोक्तकामेद्धधिषणो भवभीषितः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रवृत्तिजनकं यस्मात्सर्वत्रैव प्रयोजनम् ।
श्रुतिर्ब्रह्मविदाप्नोतीत्याह पुंसः प्रलुब्धये ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 फलश्रुत्यङ्कुशाकृष्टः श्रवणादौ प्रवर्तते ।
तत्पूर्वकं यतो ज्ञानं श्रुतिश्चैवमभाषत ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 लौकिकी वैदिकी चाथ प्रवृत्तिर्येह काचन ।
नर्ते प्रयोजनं यस्मात्तदेवातः प्रवृत्तिकृत् ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद् ब्रह्म वेत्तीह यः स आप्नोति तत्परम् ।
सत्यादिलक्षणं ब्रह्म वक्ष्यते तदृचा स्फुटम् ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 फलोक्तिः परमाप्नोतीत्याप्ता ब्रह्मविदुच्यते ।
सामर्थ्याद् ब्रह्मविद्या तु परस्यावाप्तिसाधनम् ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 स्वर्गं यथाऽग्निहोत्रेण यजमानः प्रसाधयेत् ।
परावाप्तिं तथा कुर्याद् ब्रह्मविद् ब्रह्मविद्यया ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मैवात्र परं ग्राह्यं तज्ज्ञानं नान्यसिद्धये ।
अन्यज्ज्ञानं हि नान्यस्य क्वचिदप्याप्तये यतः ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 देशकालादिसम्भेदपूर्विकाऽवाप्तिरिष्यते । देशकालाद्यभिन्नस्य कथं सेत्युच्यते यथा ।
सर्वात्मनोऽप्यनाप्तिः स्याद्दशमस्येव मोहजा ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】
पञ्चस्वन्नमयाद्येषु ह्यहमस्मीति विभ्रमात् ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 दशमोऽस्मीत्यतो ज्ञानादज्ञानध्वस्तिवर्त्मना ।
दशमाप्तिवदाप्तिः स्याद् ब्रह्मणोऽज्ञानहानतः ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 विभिन्नवेत्तृवेद्यादौ गौणं ब्रह्म यतस्ततः ।
अभिन्नवेत्तृवेद्यादि ग्राह्यं मुख्यार्थसिद्धये ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्यदृष्टाविवातोऽत्र न नियोगो मनागपि ।
मोहप्रध्वंसमात्रेण निवृत्ते रोगहानिवत् ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तृतां प्रत्यगालिङ्ग्य योऽकर्त्रात्मानमीप्सति ।
उल्कापिशाचं सोऽभ्येति शीतार्थः पावकेच्छया ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 करोमीति धिया चेत्तद्ब्रह्मास्मीति हि लभ्यते ।
ब्रूतालाभेऽस्य को हेतुर्न ह्यतोऽन्योऽस्त्यदर्शनात् ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादविद्यासम्भूतकर्तृ प्रत्यगविक्रियम् ।
अविद्यानर्थतत्कार्यप्रत्याख्यानेन बोध्यते ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तृर्ज्ञातुर्हि या दृष्टिः सामान्याद्यर्थसंश्रया ।
तत्प्रत्यगात्मदृष्ट्या तां प्रत्याख्यायाश्नुते परम् ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 अशेषानन्दवल्ल्यर्थसूत्रमाद्यमिदं वचः ।
यस्मात्तस्मात्तदर्थस्य ह्याविष्कृदृगुदीर्यते ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषणविशेष्यत्वात्सत्यादीन्यत एव च ।
चत्वार्येकविभक्तीनि नीलरक्तोत्पलादिवत् ॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् ।
तस्माद्विशेष्यं विज्ञेयं ततोऽन्यत्स्याद्विशेषणम् ॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 नीलं महत्सुगन्धीति विशिंषन्त्युत्पलं यथा ।
एकाधिकरणान्येवं सत्यादीनि परं महत् ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 एवं विभज्यमानं सत्सत्यमित्येवमादिभिः ।
स्वविशेषविरुद्धेभ्यो धर्मिभ्यः स्यान्निराकृतम् ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 एवं च सति तज्ज्ञातं यदन्येभ्योऽवधार्यते ।
नीलोत्पलादिवद्ब्रह्म नान्यथाऽनवधारणात् ॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 ननु व्यभिचरद्वस्तु स्याद्विशेष्यं विशेषणैः ।
ब्रह्मान्तरादृते त्वत्र कुतो ब्रूहि विशेष्यता ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषणविशेष्यत्वे सति दोषः प्रसज्यते ।
लक्ष्यलक्षणतां यातु न दोषोऽत्र मनागपि ॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 अनेकात्मविशेष्यस्थमागृहीतविशेष्यकम् ।
सजातीयान्निराकर्तृ विशेषणमिहोच्यते ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 सामान्येतरसंयुक्तमनेकगुणसंयुतम् ।
सम्भव्यसम्भविगुणं विशेष्यं तत्प्रचक्षते ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 विशेष्यान्तरशेषं यस्त्वविशेष्यान्यान्यबुद्धिकृत् ।
परिकल्पितसम्बन्धं लक्षणं भावलक्षणम् ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 निरस्यति यथैवैकं तथैवान्यद्विरोधि यत् ।
स्वात्मनैवैकरूपेण लक्ष्यमत्र निगद्यते ॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यादयः परार्थत्वादितरेतरनिस्पृहाः ।
एकैकस्त्वत एवैषां विशेष्यार्थेन बध्यते ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 सकृत्प्रमितरूपाद्यद्रूपमन्यत्कदाचन ।
नैव प्रपद्यते सत्यं तस्मात्कार्यविलक्षणम् ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 यावान्कश्चिद्विकारोऽत्र ब्रह्म तस्मान्निवर्तितम् ।
भजते कारणत्वं तत्तथाऽचैतन्यधर्मकम् ॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 तद्दोषद्वयनुत्त्यर्थं ज्ञानं ब्रह्मेत्युदीर्यते ।
अनेकार्थाभिसम्बन्धात्किमर्थं ज्ञानमुच्यते ॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणो भेदकं यस्मादानन्त्येन च सङ्गतेः ।
ज्ञप्तिर्ज्ञानमिति न्याय्यमन्यथा दोषदर्शनात् ॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्सत्यमनन्तं यज्ज्ञानं तदिह गृह्यते ।
भावसाधनमेवातः स्यादेतद्युक्तिदर्शनात् ॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानं ब्रह्मेति वचनादन्तवत्त्वमवाप तत् ।
ज्ञानस्य लोकिकस्येह ह्यन्तवत्त्वसमन्वयात् ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 अतस्तत्प्रतिषेधार्थमनन्तमिति शब्द्यते ।
अन्तः सीमा तथेयत्ता तन्निषेधस्त्वनन्तता ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 अनृतादिनिषेधेन सत्यादीनामुपक्षयात् ।
ब्रह्मणश्चाप्रसिद्धत्वान्मिथ्यार्थं चेद्वचो न तत् ॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 परमार्थमनालिङ्ग्य न दृष्टं वितथं क्वचित् ।
तस्माद्वा वितथं सर्वं परमार्थैकनिष्ठितम् ॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 पदात्पदार्थबुद्धिर्न उत्पलादौ प्रजायते ।
तदभावधियै नालं पदवाक्यार्थरूपतः ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिपद्य पदार्थं हि विरोधात्तद्विरोधिनः ।
पश्चादभावं जानाति वध्यघातकवत्पदात् ॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दात्प्रतीयते तावत्सङ्गतिर्धर्मधर्मिणोः ।
मानान्तरादपोहस्तु न शाब्दस्तेन स स्मृतः ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】 न नीलवदनादाय नीलधीरुपजायते ।
विशेष्यज्ञानमप्येवं नान्तरेण विशेषणम् ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यार्थानुभवोऽस्माकं नीलादेरुपजायते ।
किं नीलमिति चाकाङ्क्षा सत्येवमुपपद्यते ॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षतोऽवसेयत्वादेवं सर्वस्य वस्तुनः ।
नैवं साधयितुं शक्यं क्षणिकत्वं कथञ्चन ॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 सति कुम्भो न नाशोऽस्ति नाशोऽपि न तदाश्रयः ।
अस्ति चेत्पूर्ववद्धर्मी न नष्टः पूर्ववद् घटः ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 इष्टो नाशस्य नाशश्चेदस्तु जीव शतं समाः ।
घटोऽनाशीति मत्पक्षः स च नैवं विहन्यते ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 न नाशो हन्ति नष्टारं गन्तारमिव तद्गतिः ।
यस्मिन्सत्येव यः सिध्येन्निरुणाद्धि स तं कथम् ॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 लक्षणार्थमिदं वाक्यं यस्मात्पूर्वमुदाहृतम् ।
विशेषणाश्रयान्नातः शून्यताऽत्र प्रसज्यते ॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषणत्वेऽप्येतेषां लक्षणार्थत्वमात्मनि ।
लक्ष्येऽसति न तादर्थ्यं सत्यादीनां प्रसज्यते ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 अतो लक्षणवाचित्वान्न शून्यार्थमिदं वचः ।
विशेष्यत्वेऽपि नैवं स्यात्स्वार्थासन्त्यागकारणात् ॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 स्वार्थेऽसति न सत्यादेर्विशेष्यार्थे नियन्तृता ।
नियम्यार्थनियन्तृत्वं स्वार्थे सत्युपपद्यते ॥ ७७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वेनार्थेनार्थवांश्चात्र ब्रह्मशब्दः सहेतरैः ।
तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् ॥ ७८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वार्थार्पणप्रनाड्यैव परिशिष्टौ विशेषणम् ।
तद्विरोध्यर्थसन्त्यागः सामर्थ्यात्स्यान्न शब्दतः ॥ ७९ ॥ 【भाष्यम्】 【भाष्यम्】 गुहायां निहितं यस्मादेतस्मादात्मनस्तथा ।
ब्रह्मात्मशब्दयोस्तस्मादैकार्थ्यमवसीयते ॥ ८० ॥ 【भाष्यम्】 【भाष्यम्】 विज्ञानात्मातिरेकेण ज्ञाप्यते ब्रह्म चेत्परम् ।
नियोगगम्यः सन्भेदो वद केन निवार्यते ॥ ८१ ॥ 【भाष्यम्】 【भाष्यम्】 न चेदात्मा परं ब्रह्म स्वतः स्यादस्य दुःखिनः ।
नियोगो वाऽभियोगो वा कं विशेषं करिष्यति ॥ ८२ ॥ 【भाष्यम्】 【भाष्यम्】 पश्यतः प्रत्यगात्मानमपविद्धान्यवस्तुनः ।
अहं ब्रह्मेति चेज्ज्ञानं शास्त्रादन्यत्परं कथम् ॥ ८३ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनोऽन्यस्य चेद्धर्मा अस्थूलत्वादयो मताः ।
अनात्मत्वेऽस्य किं तैः स्यादात्मत्वेत्वन्यधीह्नुतिः ॥ ८४ ॥ 【भाष्यम्】 【भाष्यम्】 यत्साक्षादित्युपक्रम्य य आत्मेत्युपसंहृतेः ।
अन्योन्यार्थसमाप्तेश्च व्यतिरेके त्वसम्भवात् ॥ ८५ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मैव चेत्परं ब्रह्म भवताऽभ्युपगम्यते ।
आत्मनो ज्ञानकर्तृत्वाज्ज्ञानं स्यात्कर्तृसाधनम् ॥ ८६ ॥ 【भाष्यम्】 【भाष्यम्】 पारतन्त्र्यमनित्यत्वं धात्वर्थत्वे प्रसज्यते ।
तर्कशास्त्रप्रसिद्धेश्च कर्तृतैवात्मनो भवेत् ॥ ८७ ॥ 【भाष्यम्】 【भाष्यम्】 उच्चैर्बाहुं समुद्धृत्य इत्याहुश्चोद्यचुञ्चवः ।
यथोदितमिदं सर्वं नैतदेवं भवेत्कुतः ॥ ८८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वरूपाव्यतिरेकेऽपि कार्यत्वमुपचारतः ।
बुद्ध्युपाश्रयकार्याणि कल्प्यन्तेऽत्राविवेकतः ॥ ८९ ॥ 【भाष्यम्】 【भाष्यम्】 स्वरूपमात्मनो ज्ञानं न तस्माद्व्यतिरिच्यते ।
बुद्धेः प्रत्ययकारित्वं तत्साक्षिण्युपचर्यते ॥ ९० ॥ 【भाष्यम्】 【भाष्यम्】 आत्मचैतन्यसंव्याप्ता वृत्तीर्धीः कुरुते यतः ।
चैतन्यालिङ्गिताः सर्वास्तप्तायोविस्फुलिङ्गवत् ॥ ९१ ॥ 【भाष्यम्】 【भाष्यम्】 चैतन्यखचितान्दृष्ट्वा प्रत्ययान्बुद्धिकर्तृकान् ।
ज्ञानं क्रियत इत्यज्ञाः कूटस्थमपि मन्वते ॥ ९२ ॥ 【भाष्यम्】 【भाष्यम्】 आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकौ नृणाम् ।
ततोऽन्यं कं समाश्रित्य साक्षिकर्तृत्वमुच्यते ॥ ९३ ॥ 【भाष्यम्】 【भाष्यम्】 बुद्धिभावानवच्छिन्नं तादृग्रूपं यथा पुरा ।
बुद्ध्युत्पत्तावपि तथाऽविक्रियं ह्यनुभूयताम् ॥ ९४ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिनः ।
लक्षयन्ति परं ब्रह्म नाञ्जसा तत्प्रचक्षते ॥ ९५ ॥ 【भाष्यम्】 【भाष्यम्】 यत्तु तद्ब्रह्मणो ज्ञानं सर्वानन्यदविक्रियम् ।
ब्रह्मणोऽव्यतिरिक्तं तत्सर्वप्रत्यक्समाप्तितः ॥ ९६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्याख्याताखिलानात्मभेदसत्यार्थवाचिना ।
तथैव सत्यशब्देन लक्ष्यते तन्न तूच्यते ॥ ९७ ॥ 【भाष्यम्】 【भाष्यम्】 एवं सत्यादयः शब्दाः स्वार्थासन्त्यागिनः परम् ।
लक्षयन्ति विरुद्धार्थनिवृत्त्याऽज्ञानहानतः ॥ ९८ ॥ 【भाष्यम्】 【भाष्यम्】 निवर्त्यभेदाद्भिन्नोऽर्थोऽसत्याद्यर्थनिवर्तिनाम् ।
सत्यादीनामतः सिद्धवाक्यार्थत्वमात्मनः ॥ ९९ ॥ 【भाष्यम्】 【भाष्यम्】 यतो वाचो निवर्तन्ते नेति नेतीति चापरम् ।
एवं सत्यर्थवत्सर्वमन्यथा तदनर्थकम् ॥ १०० ॥ 【भाष्यम्】 【भाष्यम्】 कौटस्थ्यं सत्यमित्युक्तं तद्गुणं ज्ञानमुच्यते ।
स्वतो बोधस्य कौटस्थ्ये ज्ञातुरानन्त्यमेकता ॥ १०१ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०१ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञात्रभेदात्तु तद्ब्रह्म ह्यनीप्सिततमं परम् ।
ज्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम् ॥ १०२ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यादिलक्ष्याज्ञानोत्थाऽसत्याद्यर्थनिषेधधीः ।
वर्त्मनैवाऽऽप्तमाप्नोति केवलाज्ञानहानतः ॥ १०३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं ज्ञातं विजानाति विमुक्तश्च विमुच्यते ।
निवर्तते निवृत्तं च त्रिर्वः शपथयाम्यहम् ॥ १०४ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादासन्नकर्तृत्वतिमिरोऽयमविद्यया ।
सत्यादिलक्षणं ब्रह्म प्रत्यक्स्थमपि नेक्षते ॥ १०५ ॥ 【भाष्यम्】 【भाष्यम्】 अतोऽविद्यानिषेधेन सदा विस्फुरितेक्षणः ।
पिबंज्ञात्रादिनानात्वं प्रत्यगात्मानमीक्षते ॥ १०६ ॥ 【भाष्यम्】 【भाष्यम्】 भूतमात्रोपसंश्लेषसमुत्थं यत आत्मनः ।
कर्तृभोक्तृत्वविज्ञानं बुद्धौ तन्निहितं ततः ॥ १०७ ॥ 【भाष्यम्】 【भाष्यम्】 तमोरजोविनिर्मुक्ततद्वृत्त्या चोपलभ्यते ।
ब्रह्मातो निहितं बुद्धौ मनसैवेति च श्रुतिः ॥ १०८ ॥ 【भाष्यम्】 【भाष्यम्】 निगूढमस्यां तद्ब्रह्म कामाविद्याद्युपप्लवात् ।
प्रत्यग्धियोऽनुपश्यन्ति तस्माद् बुद्धिर्गुहोच्यते ॥ १०९ ॥ 【भाष्यम्】 【भाष्यम्】 परमं व्योम हार्दं स्याद्बाह्यात्तत्परमं यतः ।
श्रुतेर्योऽयं बहिर्धेति तच्च बुद्धेः समाश्रयम् ॥ ११० ॥ 【भाष्यम्】 【भाष्यम्】
गुहायां परमे व्योमन्वस्तुवृत्तमपेक्ष्य वा ॥ १११ ॥ 【भाष्यम्】 【भाष्यम्】
सत्यादिलक्षणान्नान्यद्धियः प्रत्यक्प्रतीयते ॥ १११ ॥ 【भाष्यम्】 【भाष्यम्】 सत्याद्यर्थविरुद्धेभ्यः सम्यग्व्यावृत्तधीर्यतिः ।
धियः प्रत्यक्प्रविश्याथ सत्यात्मानं प्रपश्यति ॥ ११२ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादुपायसिद्ध्यर्थं बुद्धेः प्रत्यक्प्रवेशनम् ।
गुहायां परमे व्योमञ्श्रुतिरस्मानतोऽन्वशात् ॥ ११३ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञातुर्ज्ञेयं परं ब्रह्म भेदबुद्ध्यपनुत्तये ।
गुहायां परमे व्योमं ज्ञेयं ज्ञातरि शिष्यते ॥ ११४ ॥ 【भाष्यम्】 【भाष्यम्】 साध्यसाधनसम्बन्धवर्त्मनैवानुधावतः ।
साध्यसाधननिर्मुक्तं स्वात्मन्याविशते परम् ॥ ११५ ॥ 【भाष्यम्】 【भाष्यम्】 सोऽश्नुते निखिलान्कामान्कर्तृत्वे तदसम्भवम् ।
आशङ्क्य ब्रह्मणेत्याह युगपत्स्यात्सहेति च ॥ ११६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतीचि न स्यात्तद्ब्रह्म भेदार्था चेत्सहार्थता ।
सम्भाव्यते पराग्भूतं नापि सत्यादिमत्परम् ॥ ११७ ॥ 【भाष्यम्】 【भाष्यम्】 नापि नोत्सहते वक्तुं निपातत्वात्सहार्थताम् ।
तस्माद्युगपदर्थस्य वाचकं स्यात्सहेति यत् ॥ ११८ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानादसत्याद्युच्छित्तेरात्मनोऽन्यन्न विद्यते ।
तस्माद्विपश्चिद्ब्रह्मभ्यां कामान्सर्वान्सहाश्नुते ॥ ११९ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञातुर्हार्दगुहान्तस्थं प्रतीचोऽन्यन्न लभ्यते ।
सत्यादिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः ॥ १२० ॥ 【भाष्यम्】 【भाष्यम्】 विपश्चिद्व्यतिरेकेण ज्ञेयत्वाद्यपनुत्तये ।
सामानाधिकरण्येन ब्रह्मणाह विपश्चिता ॥ १२१ ॥ 【भाष्यम्】 【भाष्यम्】 एकयाऽक्रमवर्तिन्या व्याप्नोति क्रमवर्तिनः ।
अवगत्याखिलान्कामान्योऽकाम इति च श्रुतिः ॥ १२२ ॥ 【भाष्यम्】 【भाष्यम्】 आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः ।
निर्विशेषैकचिद्व्याप्ता ह्यनन्यानुभवात्मना ॥ १२३ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वप्रवृत्तिहेतूंश्च यस्माद्ब्रह्मविदश्नुते ।
कामान्ब्रह्मविदस्तस्मान्न प्रवृत्तिरहेतुतः ॥ १२४ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्याहेतवः कामाः काममूलाः प्रवृत्तयः ।
धर्माधर्मौ च तन्मूलौ देहोऽनर्थाश्रयस्ततः ॥ १२५ ॥ 【भाष्यम्】 【भाष्यम्】 अतोऽविद्यानिरोधे स्यान्निरोधो विदुषः सदा ।
निःशेषकर्महेतूनां विकाराणां तदैव तु ॥ १२६ ॥ 【भाष्यम्】 【भाष्यम्】 कृत्स्नोपनिषदर्थस्य सूत्रमित्यभ्यधात्पुरा ।
सङ्क्षेपतस्तदर्थश्च सम्यङ्मन्त्रेण वर्णितः ॥ १२७ ॥ 【भाष्यम्】 【भाष्यम्】 अनेन त्वाद्यसूत्रेण यावानर्थोऽत्र सूत्रितः ।
आसमाप्तेरियं वृत्तिस्तस्मादित्युच्यतेऽधुना ॥ १२८ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात्परम् ।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयम् ॥ १२९ ॥ 【भाष्यम्】 【भाष्यम्】 ननु सत्यमनन्तं च कथं सम्यक्प्रतीयते ।
देशकालादिहेतुत्वात्तदिदानीं विभाव्यते ॥ १३० ॥ 【भाष्यम्】 【भाष्यम्】 वस्तुतो देशतश्चैव कालतश्च त्रिधोच्यते ।
आनन्त्यं ब्रह्मणश्चातः सत्याद्यपि च सिद्ध्यति ॥ १३१ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्तं देशतो व्योम देशवत्प्रकृतित्वतः ।
कारणेनैकदेशं हि कार्यं नान्यत्र वर्तते ॥ १३२ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यत्वात्कालतो नास्य वस्तुतश्च विहायसः ।
वस्त्वन्तरस्य सद्भावादानन्त्यं वस्तुतोऽपि न ॥ १३३ ॥ 【भाष्यम्】 【भाष्यम्】 कालाकाशादियोनित्वात्सर्वात्मत्वात्तथाऽऽत्मनः ।
वस्त्वन्तरस्य चासत्त्वान्मुख्यानन्त्यं परात्मनः ॥ १३४ ॥ 【भाष्यम्】 【भाष्यम्】 कल्पितेन परिच्छेदो न ह्यकल्पितवस्तुनः ।
कल्पितश्चेह कालादिर्वाचारम्भणशास्त्रतः ॥ १३५ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्सत्यादियाथात्म्यं तस्मादित्येवमादिना ।
वक्ष्यते ब्रह्मणः सम्यक्सृष्टिव्याजेन यत्नतः ॥ १३६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादित्यादिवाक्योक्तं वैशब्दः स्मरणाय तु ।
एतस्मादितिमन्त्रोक्तं सत्यादिगुणलक्षितम् ॥ १३७ ॥ 【भाष्यम्】 【भाष्यम्】 तद्विद्विपश्चित्सामर्थ्यात्तदेतद्भ्यां प्रतीयते ।
आत्मश्रुतेर्न मुख्योऽर्थः प्रतीचोऽन्यत्र लभ्यते ॥ १३८ ॥ 【भाष्यम्】 【भाष्यम्】 मत्तः सर्वमिदं जातं मय्येवान्ते प्रलीयते ।
अहमेको बिभर्मीदमित्येवं च प्रसिध्यति ॥ १३९ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वानन्याविकार्येकमकार्याकारणं परम् ।
ब्रह्मस्वभावमालम्ब्य सृष्टिर्वक्तुं न शक्यते ॥ १४० ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणोऽन्यदतः सर्वं कार्यत्वेन विवक्ष्यते ।
ब्रह्मणोऽकारणत्वाच्च सृष्टौ हेतोरसम्भवः ॥ १४१ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मस्वभावो हेतुश्चेत्सृष्टेस्तत्संनिधेः सदा ।
सर्वदा ब्रह्मवत्सर्गो न च देशाद्यसम्भवात् ॥ १४२ ॥ 【भाष्यम्】 【भाष्यम्】 नाभूत्सृष्टिरभूतत्वादभूतं कालहेतुतः ।
न भविष्यत्यभाव्यत्वादभाव्यं चाक्रियोत्थितेः ॥ १४३ ॥ 【भाष्यम्】 【भाष्यम्】 नेदानीमद्वितीयत्वात्कौटस्थ्यादात्मनः सदा ।
भविष्यत्यस्त्यभून्नातो वस्तुवृत्तमपेक्ष्य तु ॥ १४४ ॥ 【भाष्यम्】 【भाष्यम्】 भविष्यत्यस्त्यभूच्चेति यतो वन्ध्यं विशेषणम् ।
उष्ट्रादिवदणोस्तस्मादविद्यैवात्र कारणम् ॥ १४५ ॥ 【भाष्यम्】 【भाष्यम्】 असतः कारणं नास्ति सतोऽनतिशयत्वतः ।
कौटस्थ्याज्जन्मनाशानामनवस्था जनेर्जनौ ॥ १४६ ॥ 【भाष्यम्】 【भाष्यम्】 कालत्रयस्याविद्यायाः समुत्थानादहेतुता ।
कर्मदेवेश्वरादीनामत एवानिमित्तता ॥ १४७ ॥ 【भाष्यम्】 【भाष्यम्】 जनिस्थित्यप्यया ह्येते जगतः स्युः प्रतिक्षणम् ।
धिया जनयते कर्ता कर्मभिश्चेति हि श्रुतिः ॥ १४८ ॥ 【भाष्यम्】 【भाष्यम्】 अनादिमध्यनिधनाविद्यासन्दूषितात्मनः ।
ब्रह्मणो जायते व्योम तिमिरादिव चन्द्रमाः ॥ १४९ ॥ 【भाष्यम्】 【भाष्यम्】 नालं क्षणमपि स्थातुं कार्यं तद्ध्रुवता कुतः ।
रज्ज्वेव भोग्यविद्योत्थं मूढदृष्टेर्ध्रुवायते ॥ १५० ॥ 【भाष्यम्】 【भाष्यम्】 तिमिरोपप्लुतो यद्वद्भिन्नमिव समीक्षते ।
चन्द्रिकामात्मनस्तद्वत्कार्यं भिन्नं समीक्षते ॥ १५१ ॥ 【भाष्यम्】 【भाष्यम्】 यद्यद्भूत यथासङ्ख्यं तत्तत्तावद्गुणं स्मृतम् ।
पूर्वैर्व्याप्तानि कार्यत्वादुत्तराणि यथाक्रमम् ॥ १५२ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशादेश्च कार्यत्वान्न वाय्वादि प्रजायते ।
वियद्रूपान्मरुज्जन्म तस्मादात्मन एव तत् ॥ १५३ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चैवखलु भूतानि व्योमादीन्युपलक्षयेत् ।
कार्यकारणरूपेण भूतेभ्यो नान्यदिष्यते ॥ १५४ ॥ 【भाष्यम्】 【भाष्यम्】 वाय्वादिषु तु यः शब्दः स्वस्थं तमविचक्षणाः ।
वाय्वादीनामिवेक्षन्ते स्रग्गुणानिव भोगिनः ॥ १५५ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्गुणात्मिका पृथ्वी न चतुर्ष्वपि सा यथा ।
ब्रह्मात्मकं जगत्सर्वं ब्रह्मैवं न जगन्मयम् ॥ १५६ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यं ज्ञानमनन्तं यत्प्रत्यज्ञायि पुरैकलम् ।
अनन्यानुभवं ब्रह्म तत्सिद्धं न्यायतः स्फुटम् ॥ १५७ ॥ 【भाष्यम्】 【भाष्यम्】 दिगादिकरणो देवः पञ्चभूतशरीरभृत् ।
सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत ॥ १५८ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मात्पूर्वं भवेत्सूत्रं तस्मिन्सति विराड्यतः ।
श्रुत्यन्तरानुरोधाच्च विज्ञानमिति लिङ्गतः ॥ १५९ ॥ 【भाष्यम्】 【भाष्यम्】 व्युत्ताप्यान्नमयादिभ्यो ह्यन्नं प्राणमितीरणात् ।
उपासनोपदेशाच्च सूत्रमत्र विवक्षितम् ॥ १६० ॥ 【भाष्यम्】 【भाष्यम्】 कार्योत्पादात्पुरा सूत्रं मृद्वत्सदविभागवत् ।
कारणं कार्यमुत्पाद्य कार्यतामिव गच्छति ॥ १६१ ॥ 【भाष्यम्】 【भाष्यम्】 कार्येऽसति तु तत्सूत्रं प्रज्ञानघनरूपभृत् ।
अवच्छिन्नं स्वकार्येण समष्टिव्यष्टितां व्रजेत् ॥ १६२ ॥ 【भाष्यम्】 【भाष्यम्】 वृष्ट्यादिसव्यपेक्षाया भुवः पञ्चगुणात्मिकाः ।
व्रीहिप्रभृतयः सर्वा भवन्त्योषधयः क्रमात् ॥ १६३ ॥ 【भाष्यम्】 【भाष्यम्】 अदनार्हं तथाऽन्नं च ताभ्यः समभिजायते ।
जग्धादन्नाद्रसोत्पत्तिः शोणितं जायते रसात् ॥ १६४ ॥ 【भाष्यम्】 【भाष्यम्】 जायते रुधिरान्मांसं मेदसश्च ततो भवः । मेदसोऽस्थीनि जायन्ते मज्जाऽप्यस्थिसमुद्भवा ।
ततः शुक्रस्य निष्पत्तिर्बीजं मात्रसृजा सह ॥ १६५ ॥ 【भाष्यम्】 【भाष्यम्】 निजाविद्यामहाजालसंवीतधिषणः पुमान् ।
मोहोत्थानलकामाख्यबडिशापहताशयः ॥ १६६ ॥ 【भाष्यम्】 【भाष्यम्】 तमसा कामशार्ङ्गेण सङ्कल्पाकर्षणेन सः ।
रागाख्यविषलेपेन ताडितो विषयेषुणा ॥ १६७ ॥ 【भाष्यम्】 【भाष्यम्】 ग्रहाविष्ट इवानीशश्चोदितो जन्यकर्मणा ।
योषिदग्निं पतत्याशु ज्योतिर्लोभात्पतङ्गवत् ॥ १६८ ॥ 【भाष्यम्】 【भाष्यम्】 आकृष्य देहात्तच्छुक्रं यथाकर्म यथाश्रुतम् ।
रेतोवहप्राणाड्याऽथ योनौ पुंसा निषिच्यते ॥ १६९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य योनौ निषिक्तस्य निमित्तवशवर्तिनः ।
जायते कललाऽवस्था ततो बुद्बुदरूपिणी ॥ १७० ॥ 【भाष्यम्】 【भाष्यम्】 बुद्बुदाज्जायते पेशी पेशीतो जायते घनम् ।
घनादङ्गाभिनिष्पत्तिः केशरोमाणि चाङ्गतः ॥ १७१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वजन्मनि यान्यासन्भूतानि करणानि च ।
तन्येवेहापि देहाय तद्यथेति श्रुतेर्बलात् ॥ १७२ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वात्मनोऽप्यवच्छेदो विराजः सूत्रजन्मनः ।
इयानस्मीति सम्मोहात्कामकर्मसमन्वयात् ॥ १७३ ॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गात्मकतया तद्वत्समष्टिव्यष्टिरूपिणः ।
तदवच्छेदहेतोः स्यादव्यक्तस्य सुषुप्तता ॥ १७४ ॥ 【भाष्यम्】 【भाष्यम्】 परात्मनोऽप्यनन्तस्य क्षेत्रज्ञत्वमविद्यया ।
क्षेत्रज्ञं चापि मां विद्धीत्येवं सत्युपपद्यते ॥ १७५ ॥ 【भाष्यम्】 【भाष्यम्】 न जानामीत्यविद्यैकाऽनित्या तत्कारणं मता ।
स्वप्रसिद्ध्यैव सा सिध्येन्निशौलूकीव वासरे ॥ १७६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमाणोत्पन्नया दृष्ट्या योऽविद्यां द्रष्टुमिच्चति ।
दीपेनासौ ध्रुवं पश्येद् गुहाकुक्षिगतं तमः ॥ १७७ ॥ 【भाष्यम्】 【भाष्यम्】 अनात्मेतीह यद्भाति तदविद्याविजृम्भितम् ।
तस्मादविद्या साऽप्युक्ता विद्या त्वात्मैकरूपिणी ॥ १७८ ॥ 【भाष्यम्】 【भाष्यम्】 आत्माग्रहातिरेकेण तस्या रूपं न विद्यते ।
अमित्रवदविद्येति सत्येवं घटते सदा ॥ १७९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्सदसदित्यादिर्विकल्पो मूढचेतसाम् ।
निरूप्यमाणो निर्वाति न वेद्मीत्यग्रहात्मनि ॥ १८० ॥ 【भाष्यम्】 【भाष्यम्】 तया संवीतचित्तोऽयं त्यक्त्वा देहं पुरातनम् ।
लिङ्गात्मा प्रविशेद्योनिं कर्मादिमरुतेरितः ॥ १८१ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नमम्भस्तथा तेजो भुक्तं प्रत्येकशस्त्रिधा ।
त्रिवृत्कृतं तथैकैकं परिणामं प्रपद्यते ॥ १८२ ॥ 【भाष्यम्】 【भाष्यम्】 पुरीषमांसबुद्ध्यंशैर्मूत्रासृक्प्राणरश्मिभिः ।
तथाऽस्थिमज्जावाग्भागैरन्नाप्तेजांसि कालतः ॥ १८३ ॥ 【भाष्यम्】 【भाष्यम्】 मनोबुद्धीन्द्रियाणां स्यात्कर्मशक्तेश्च भारती ।
प्राणश्च प्राणभेदानामुपलक्षणसिद्धये ॥ १८४ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मोत्थभावनाभिस्तु चोद्यते यद्यदिन्द्रियम् ।
जायते तदहङ्काराद्यथाकर्म यथाश्रुतम् ॥ १८५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रोताऽस्मीत्यभिमानाद्धि जायते श्रवणेन्द्रियम् ।
परिशिष्टेषु चाप्येवमिन्द्रियेषूपधारयेत् ॥ १८६ ॥ 【भाष्यम्】 【भाष्यम्】 देहोत्पत्तिमनूत्पन्नो व्योमवद् घटजन्मना ।
अस्त्यादयोऽप्यतो न स्युः सति जन्मनि ते यतः ॥ १८७ ॥ 【भाष्यम्】 【भाष्यम्】 यावद्यावदयं देहो वर्धते गर्भशायिनः ।
तवत्तावदभिव्यक्तिर्लिङ्गस्याप्युपजायते ॥ १८८ ॥ 【भाष्यम्】 【भाष्यम्】 समग्रकरणस्याथ नवमे मासि देहिनः ।
व्यतीतानेकजन्मोत्था व्यज्यन्ते वासनाः क्रमात् ॥ १८९ ॥ 【भाष्यम्】 【भाष्यम्】 आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंस्कृतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ १९० ॥ 【भाष्यम्】 【भाष्यम्】 अनुभूताः पुराऽसह्या मया मर्मच्छिदोऽसकृत् ।
करम्बवालुकास्तप्ता या दहन्त्यशुभाशयान् ॥ १९१ ॥ 【भाष्यम्】 【भाष्यम्】 जाठरानलसन्तप्ताः पित्ताख्यरसविप्लुषः ।
गर्भाशये निमग्नं ता दहन्त्यतिभृशं तु माम् ॥ १९२ ॥ 【भाष्यम्】 【भाष्यम्】 औदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः ।
तुल्यानि वितुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ १९३ ॥ 【भाष्यम्】 【भाष्यम्】 गर्भे दुर्गन्धभूयिष्ठे जाठराग्निप्रदीपिते ।
दुःखं मयाऽऽप्तं यत्तस्मात्कनीयः कुम्भिपाकजम् ॥ १९४ ॥ 【भाष्यम्】 【भाष्यम्】 पूयासृक्श्लेष्मपायित्वं वान्ताशित्वं च यद्भवेत् ।
अशुचौ क्रिमिभावश्च तत्प्राप्तं गर्भशायिना ॥ १९५ ॥ 【भाष्यम्】 【भाष्यम्】 गर्भशय्यां समारुह्य दुःखं यादृङ्मयाऽऽपि तत् ।
नातिशेते महद्दुःखं निःशेषनरकेषु यत् ॥ १९६ ॥ 【भाष्यम्】 【भाष्यम्】 अस्थियन्त्रविनिष्पिष्टः परीतः कुक्षिवह्निना ।
क्लेदासृग्दिग्धसर्वाङ्गो जरायुपटसंवृतः ॥ १९७ ॥ 【भाष्यम्】 【भाष्यम्】 निष्क्रामन्भृशदुःखार्त्तो रुदन्नुच्चैरधोमुखः ।
यन्त्रादिव विनिर्मुक्तः पतत्युत्तानशाय्यधः ॥ १९८ ॥ 【भाष्यम्】 【भाष्यम्】 अकिञ्चिज्ज्ञस्तदा बालो मांसपेशीसमः स्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ १९९ ॥ 【भाष्यम्】 【भाष्यम्】 पितृवद्राक्षसं वेत्ति मातृवङ्डाकिनीमपि ।
पूयं पयोवदश्नाति धिक्पापिष्ठं हि शैशवम् ॥ २०० ॥ 【भाष्यम्】 【भाष्यम्】 दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैः स तथाऽकस्माच्च वल्गति ॥ २०१ ॥ 【भाष्यम्】 【भाष्यम्】 आरोहति तरुं वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न किञ्चिदपि वीक्षते ॥ २०२ ॥ 【भाष्यम्】 【भाष्यम्】 महापरिभवस्थानं जरां प्राप्याथ दुःखितः ।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ २०३ ॥ 【भाष्यम्】 【भाष्यम्】 भग्नदन्तो भग्नदृष्टिः कटुतिक्तकाषायभुक् ।
वातभुग्नकटिग्रीवाकरोरुचरणोऽबलः ॥ २०४ ॥ 【भाष्यम्】 【भाष्यम्】 गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः ।
निःशौचो मलदिग्धाङ्ग आलिङ्गितधरोषितः ॥ २०५ ॥ 【भाष्यम्】 【भाष्यम्】 कासाधोवायुमुरजा सितश्मश्रुकचाम्बरा ।
श्वासोत्थस्वनवंशा च जाठरध्वनिगेयिका ॥ २०६ ॥ 【भाष्यम्】 【भाष्यम्】 वलीपलितवच्चर्मवरकञ्चुकधारिणी ।
दण्डतृतीयपादेयं प्रस्खलन्ती मुहुर्मुहुः ॥ २०७ ॥ 【भाष्यम्】 【भाष्यम्】 अग्निपाकिकरुक्माढ्या सूक्ष्मत्वक्पटसंवृता ।
गुल्फजान्वस्थिसङ्घर्षचलन्नूपुरघोषिणी ॥ २०८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रज्ञां मेधां धृतिं शौर्यं यूनां जग्ध्वा बलं तथा ।
क्रुतार्थेव प्रहर्षेण जरायोषित्प्रनृत्यति ॥ २०९ ॥ 【भाष्यम्】 【भाष्यम्】 ततोऽपि मृतिदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ २१० ॥ 【भाष्यम्】 【भाष्यम्】 ह्रियते मृत्युना जन्तुः परिष्वक्तोऽपि बान्धवैः ।
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ २११ ॥ 【भाष्यम्】 【भाष्यम्】 हा कान्ते हा धनं पुत्र क्रन्दमानः सुदारुणम् ।
मण्डूक इव सर्पेण गीर्यते मृत्युना नरः ॥ २१२ ॥ 【भाष्यम्】 【भाष्यम्】 मर्मसूत्कृत्यमानेषु मुच्यमानेषु सन्धिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ २१३ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणाया ।
मृत्युपाशेन बद्धश्च त्रातारं नोपलप्स्यसे ॥ २१४ ॥ 【भाष्यम्】 【भाष्यम्】 संरुध्यमानस्तमसा महच्छ्वभ्रमिवाऽऽविशन् ।
उरो घ्नतस्तदा ज्ञातीन्द्रक्ष्यसे दीनचक्षुषा ॥ २१५ ॥ 【भाष्यम्】 【भाष्यम्】 अयःपाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं त्वमभितो द्रक्ष्यसे तदा ॥ २१६ ॥ 【भाष्यम्】 【भाष्यम्】 हिक्किकाबाध्यमानस्य श्वासेन परिशुष्यतः ।
कृष्यमाणस्य पाशेन न खल्वस्ति परायणम् ॥ २१७ ॥ 【भाष्यम्】 【भाष्यम्】 संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ २१८ ॥ 【भाष्यम्】 【भाष्यम्】 माता पिता गुरुसुताः स्वजनो ममेति मायोपमे जगति कस्य भवेत्प्रतिज्ञा । एको यदा व्रजति कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ २१९ ॥ 【भाष्यम्】 【भाष्यम्】 सायं सायं वासवृक्षं समेताः प्रातः प्रातस्तेन तेन प्रयान्ति । त्यक्त्वाऽन्योन्यं तं च वृक्षं विहङ्गा
यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च ॥ २२० ॥ 【भाष्यम्】 【भाष्यम्】 मृतिबीजं भवेज्जन्म जन्मबीजं तथा मृतिः ।
घटीयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः ॥ २२१ ॥ 【भाष्यम्】 【भाष्यम्】 द्युपर्जन्यधरामर्त्ययोषिदग्निषु देवतैः ।
श्रद्धोडुराजवर्षान्नरेतआख्यं हविर्हुतम् ॥ २२२ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चम्यामाहुतावेवं पुंवचा जायते पुमान् ।
क्रमात्तस्य महानर्थसंसृत्युच्छित्तिरुच्यते ॥ २२३ ॥ 【भाष्यम्】 【भाष्यम्】 इत्याद्या विक्रियाः सर्वा लिङ्गदेहसमाश्रयाः ।
अतद्वानपि संमोहात्तद्वानित्यभिमन्यते ॥ २२४ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञातास्मीत्यभिमानाद्धि चेष्टते ज्ञानकर्मणि ।
मन्ताऽस्मीति ततो मोहात्कुरुते मानसीः क्रियाः ॥ २२५ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणाद्यात्माभिमानेन कर्मचेष्टां प्रपद्यते ।
चक्षुराद्यभिमानी च रूपाद्यालोचनापरः ॥ २२६ ॥ 【भाष्यम्】 【भाष्यम्】 तथा देहस्य दाहादौ दग्धोऽस्मीति च मन्यते ।
श्यामोऽस्मीति च देहस्य श्यामत्वं मन्यतेऽबुधः ॥ २२७ ॥ 【भाष्यम्】 【भाष्यम्】 गोधनाद्यभिमानेन तद्वानस्मीत्यविद्यया । ब्रह्मचारी गृहस्थोऽहं तापसोऽस्मि तथा मुनिः ।
देहलिङ्गात्मसंस्कारान्मन्यते सङ्गकारणात् ॥ २२८ ॥ 【भाष्यम्】 【भाष्यम्】 भिन्नात्मनां तु भूतानां शरीरं कार्यमुच्यते ।
ममाहमिति सम्मोहादनर्थं प्रतिपद्यते ॥ २२९ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां चान्नकार्यत्वे ब्रह्मजत्वे समे तथा ।
कर्मज्ञानाधिकारित्वात्पुमानेवेह गृह्यते ॥ २३० ॥ 【भाष्यम्】 【भाष्यम्】 अनेकानर्थनीडेऽस्मिन्निमग्नं ब्रह्मविद्यया ।
सङ्क्रामयितुमिष्टत्वाद् ब्रह्मान्तरतमं नरम् ॥ २३१ ॥ 【भाष्यम्】 【भाष्यम्】 तरुशाखाग्रदृष्ट्यैव सोमं यद्वत्प्रदर्शयेत् ।
निष्कोशं कोशदृष्ट्यैव प्रतीचि ब्रह्म दर्श्यते ॥ २३२ ॥ 【भाष्यम्】 【भाष्यम्】 अनादाविह संसारे वासनारञ्जिता मतिः ।
प्रतीच्युपायतः कर्तुं शक्या तस्मात्स उच्यते ॥ २३३ ॥ 【भाष्यम्】 【भाष्यम्】 द्वैतास्पृक्प्रत्यगात्मैकः प्रतीचीव परागपि ।
युष्मदस्मद्विभागाभ्यां भिद्यतेऽविद्यया मृषा ॥ २३४ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मद्विभागे पञ्चास्य यथैवान्नमयादयः ।
तथा तत्प्रत्यगात्मानो युष्मदन्नादयः स्मृताः ॥ २३५ ॥ 【भाष्यम्】 【भाष्यम्】 आध्यात्मिकान्विलाप्याथ यथास्वं प्रत्यगात्मसु ।
अन्नादीन्पर्युपासीत ह्युत्तरोत्तररूपगान् ॥ २३६ ॥ 【भाष्यम्】 【भाष्यम्】 जग्ध्वा कार्यात्मतामेवं कारणात्मतया स्थितः ।
आत्मनाऽऽलिङ्गते ब्रह्म वाक्याज्जग्ध्वा च तामपि ॥ २३७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नं विराडिति ज्ञेयं प्राणात्तदभिवर्धते ।
ऋग्यजुःसामरूपोऽतो वेदात्माऽन्तर्मनोमयः ॥ २३८ ॥ 【भाष्यम्】 【भाष्यम्】 वेदार्थविषया बुद्धिर्विज्ञानं निश्चयात्मकम् ।
ज्ञानकर्माभिनिर्वृत्त आनन्दः फललक्षणः ॥ २३९ ॥ 【भाष्यम्】 【भाष्यम्】 त्रीण्येवान्नानि चैतानि प्राजापत्यानि सर्वशः ।
प्राणो मनस्तथा वाक्च विराडन्नात्मतां गतः ॥ २४० ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्णां प्रत्यगात्मैवमानन्दमय उच्यते ।
प्रज्ञानघनरूपत्वात्स्याद्भेदोऽप्यस्य कार्यतः ॥ २४१ ॥ 【भाष्यम्】 【भाष्यम्】 शिरआदिप्रक्लृप्तिस्तु स्यादुपासनकर्मणे ।
तस्मादेवं चितीरेता मानसीर्व्याचचक्षिरे ॥ २४२ ॥ 【भाष्यम्】 【भाष्यम्】 शिरो मूर्धा भुजौ पक्षावात्मा कायश्च मध्यमः ।
शेषं पुच्छमितिज्ञेयं चितिमेवं विचिन्तयेत् ॥ २४३ ॥ 【भाष्यम्】 【भाष्यम्】 उपासीनश्चितीरेवं विद्वानेता यथाक्रमम् ।
पूर्वपूर्वप्रहाणेन ह्यन्तरन्तः प्रपद्यते ॥ २४४ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतेरनतिशङ्क्यत्वात्सम्भाव्येत यथोदितम् ।
लिङ्गप्रत्यक्षगम्ये हि स्यादाशङ्का नृबुद्धितः ॥ २४५ ॥ 【भाष्यम्】 【भाष्यम्】 स्वभावतो वा सम्प्राप्तमनूद्योपासनं श्रुतिः ।
नामादाविव भूमानं विधत्ते ज्ञानमात्मनि ॥ २४६ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुत्यन्तराद्वा सम्प्राप्तं मोक्षादर्वाक्फलाय तु ।
तदनूद्य परं श्रेयः प्राप्तये ज्ञानमुच्यते ॥ २४७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्योडुपेनैव कोशानर्थमहोदधेः ।
निनीषन्ती परं पारं स वा इत्यभ्यधादथ ॥ २४८ ॥ 【भाष्यम्】 【भाष्यम्】 मूलात्मानं सशब्देन स्पृष्ट्वा तत्स्मृतयेऽथ वै ।
कोशात्मतां समापन्न एष इत्यभिधीयते ॥ २४९ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्ययाऽतदर्होऽपि रज्जुः सर्पात्मतामिव ।
कोशपञ्चकतां यातस्तमनुक्रोशतीव हि ॥ २५० ॥ 【भाष्यम्】 【भाष्यम्】 मयडत्र विकारार्थे निषिद्धोऽसौ परात्मनः ।
युक्त्यागमाभ्यामन्नस्य कार्यं देहः प्रतीयते ॥ २५१ ॥ 【भाष्यम्】 【भाष्यम्】 इदमेव शिरस्तस्य मा भूदध्यासलक्षणम् ।
प्राणाकोशवदेवेति तस्मादेवावधार्यते ॥ २५२ ॥ 【भाष्यम्】 【भाष्यम्】 विराट्पिण्डात्मनोरैक्यं श्रुत्यन्तरवशादिह ।
उपासनोपदेशाच्च जानीयात्पिण्डदेवताम् ॥ २५३ ॥ 【भाष्यम्】 【भाष्यम्】 विराडात्मकतां याते पिण्डेऽध्यात्मावसायिनि ।
प्राणो वाय्वात्मतामेति प्रध्वस्तघटदीपवत् ॥ २५४ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यादन्नमयेनैव मूषायां द्रुतताम्रवत् ।
सर्वान्प्राणमयादींस्तान्रचितान्पुरुषाकृतीन् ॥ २५५ ॥ 【भाष्यम्】 【भाष्यम्】 यथोदितानुवादी तु श्लोकोऽप्यत्र निगद्यते ।
ब्राह्मणोक्तार्थविज्ञानद्रढिम्ने हितकाम्यया ॥ २५६ ॥ 【भाष्यम्】 【भाष्यम्】 यावन्त्युपासनान्यादावविरुद्धानि कर्मभिः ।
संहिताविषयादीनि स्युस्तान्यभ्युदयाय तु ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 न चैतावदवष्टम्भात्कामकर्मोद्भवत्वतः ।
सर्वानर्थेकबीजस्य मोहस्यास्ति निराक्रिया ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्संसारमूलस्य भृशमुच्छित्तयेऽधुना ।
यथाभूतार्थबोध्यात्मज्ञानं सम्यक्प्रवक्ष्यते ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 नित्यकर्माद्यनुष्ठानाच्छुद्धान्तःकरणः पुमान् ।
विरक्तश्चाऽऽग्रजाल्लाभात्स्वप्नपुत्रादिलाभवत् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षागमलिङ्गैर्हि यद्यत्कर्मोद्भवं फलम् ।
तत्क्षयिष्ण्विति विज्ञाय विरक्तो नरकाद्यथा ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अपास्ताशेषदोषं यत्सर्वकामनिरासकृत् ।
तदनाप्तं तमोमात्रात्प्रसिद्ध्यैव हि तद्यतः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 तदनाप्तिकृदज्ञानध्वस्तयेऽलं न कारकम् ।
प्रत्यग्ज्ञानेऽधिकार्यस्मात्त्यक्तपूर्वोक्तसाधनः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 त्यज धर्ममधर्मं च तथा सत्यानृते अपि ।
न्यासो ब्रह्मेति च प्राह तैत्तिरीयश्रुतिस्तथा ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 क्षयिण्णु साध्यं विज्ञाय निःशेषं कर्मसाधनम् ।
तत्त्यागसाधनस्तस्मात्प्रत्यज्ञाने प्रवर्तते ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 उत्पत्त्यादि स्वतश्चेत्स्यात्कर्मणा किं प्रयोजनम् ।
स्वत एव न चेत्तत्स्याद्वद स्यात्कर्मणाऽत्र किम् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 उत्पत्त्यादौ तु यच्छक्तं हेतुमात्रमपेक्षते ।
कर्मव्यपेक्षा तस्यैव घटोत्पत्तौ मृदो यथा ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तव्यता न साध्यस्य विदितत्वाद्विधीयते ।
दुःखत्वाच्च न यागस्य ह्युपायस्त्ववबोध्यते ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 विजिज्ञासस्व तदिति ब्रह्मज्ञाने प्रवर्तकम् ।
जिज्ञास्यलक्षणोक्तिः स्याद्यतो वा इति च श्रुतिः ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 कोशप्रत्यक्प्रवेशेन पूर्वपूर्वप्रहाणतः ।
कारकादिनिषेधेन ह्युपायो ब्रह्मवेदने ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 द्वितीयोऽनुवाकः अन्नादेव प्रजाः सर्वा जायन्तेऽन्नेन बृंहिताः ।
वर्धन्ते त्वन्नमेवैताः प्रविलीयन्ति सर्वशः ॥ २५७ ॥ 【भाष्यम्】 【भाष्यम्】 भूतेभ्यः पूर्वनिष्पत्तेर्ज्येष्ठमन्नं विराड् भवेत् ।
स वै शरीरी प्रथमस्तथा पौराणिकी स्मृतिः ॥ २५८ ॥ 【भाष्यम्】 【भाष्यम्】 ओषणादग्निरोषः स्याद्धातूनुष्यति येन सः ।
धानात्तस्यान्नतत्त्वज्ञैरौषधं शब्द्यते सदा ॥ २५९ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां जाठराग्न्याख्यं वत्सं चोष्यादिभिः स्तनैः ।
अन्नं गौर्धयते यस्मात्सर्वौषधमतो भवेत् ॥ २६० ॥ 【भाष्यम्】 【भाष्यम्】
उद्भूतिस्थितिहानिभ्यो जगतोऽन्नं हि कारणम् ॥ २६१ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यस्य कारणाद्ब्रह्म तद्ये नित्यमुपासते ।
आप्नुवन्त्यखिलं तेऽन्नमध्यात्मं दैवतात्मना ॥ २६२ ॥ 【भाष्यम्】 【भाष्यम्】 सैषा विराडिति ह्युक्तमन्नात्तृत्वं हि ताण्डिकैः । कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा ।
इति हेतूपदेशाय ह्यन्नं हीत्युच्यते पुनः ॥ २६३ ॥ 【भाष्यम्】 【भाष्यम्】 अद्यतेऽन्नं प्रधानत्वाददितित्वात्तथाऽत्ति च ।
अन्नान्नादत्वहेतोस्तदन्नं हीत्युच्यते बुधैः ॥ २६४ ॥ 【भाष्यम्】 【भाष्यम्】 आप्नोति सर्वकार्याणि कारणात्मतया विराट् ।
ततोऽप्यन्तः प्रवेशाय तस्मादित्यभिधीयते ॥ २६५ ॥ 【भाष्यम्】 【भाष्यम्】
वैशब्देनैव संस्मार्य दवीयोदेशवर्तिनम् ॥ २६६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः ।
एतस्मादितिशब्देन वैराजत्वं प्रबोध्यते ॥ २६७ ॥ 【भाष्यम्】 【भाष्यम्】 कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि ।
ब्रह्मानन्तं भवेदेवं साङ्ख्यराद्धान्तमन्यथा ॥ २६८ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वकार्यातिरेकेण स्वात्मना चान्वयोक्तितः ।
अन्वयव्यतिरेकाभ्यां यथोक्तार्थः समर्थितः ॥ २६९ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तान्नमयादस्मादन्यः स्यात्तद्विलक्षणः ।
अन्तरः प्रत्यगित्येतदात्मा चात्मसमन्वयात् ॥ २७० ॥ 【भाष्यम्】 【भाष्यम्】 कोशैश्चतुर्भिः संव्याप्तो यथैवान्नमयः पुरा ।
जानीयादुत्तरानेवं त्रिद्व्येकार्थसमन्वयान् ॥ २७१ ॥ 【भाष्यम्】 【भाष्यम्】 तेन प्राणमयेनैष पूर्णो रज्ज्वेव पन्नगः ।
कार्यतोऽन्नमयः क्लृप्तो वाचारम्भणशास्त्रतः ॥ २७२ ॥ 【भाष्यम्】 【भाष्यम्】 स वै पुरुषविधो ह्युक्तो योऽयं प्राणमयः स्मृतः ।
अमूर्तत्वात्कुतोऽन्वेतद्धेतुस्तस्येति भण्यते ॥ २७३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्तस्य शिरः श्रैष्ठ्यात्प्राणो यस्मान्मुखालयः ।
व्यानोऽस्य दक्षिणः पक्ष उत्तरोऽपान उच्यते ॥ २७४ ॥ 【भाष्यम्】 【भाष्यम्】 सामान्यं वीर्यवत्ता स्यादितरस्यातथात्मता ।
आकाश इति चात्र स्यात्समानोऽम्बरसाम्यतः ॥ २७५ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणानां तत्प्रतिष्ठानादात्माऽसौ श्रुतितो भवेत् ।
पृथिवी देवता पुच्छं सैषेति श्रुतिदर्शनात् ॥ २७६ ॥ 【भाष्यम्】 【भाष्यम्】 असोराध्यात्मिकस्यैषा स्थितिहेतुः प्रकीर्तिता ।
अन्नात्मनीवेहाप्याह श्लोकं प्राणमयात्मनि ॥ २७७ ॥ 【भाष्यम्】 【भाष्यम्】
इति द्वितीयोऽनुवाकः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तृतीयोऽनुवाकः
प्राणं प्राणन्तमन्वेव देवाः प्राणन्ति न स्वतः ॥ २७८ ॥ 【भाष्यम्】 【भाष्यम्】 वर्षसीह यदैव त्वमथेमाः प्राणते प्रजाः ।
मनुष्याः पशवोऽन्ये च प्राणन्त्यसुसमाश्रयात् ॥ २७९ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यात्ममधिदैवं च करणान्यधिदेवताः ।
प्राणस्वरूपमापद्य जहुर्मृत्युमिति श्रुतिः ॥ २८० ॥ 【भाष्यम्】 【भाष्यम्】 घटतेऽसाविदं सर्वं सर्वस्यायुर्यतो ह्यसुः ।
तस्मात्तं तद्विदः प्राहुः सर्वायुषमनेकशः ॥ २८१ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वायुषगुणेनासुं य आत्मानमुपासते ।
ते तं सर्वायुषं प्राणं प्राप्नुवन्त्यभियोगतः ॥ २८२ ॥ 【भाष्यम्】 【भाष्यम्】 तस्य त्वन्नमयस्यैष योऽयं प्राणमयः स्मृतः ।
भवः शरीरे शारीर आत्मा तेनाऽऽत्मवान्यतः ॥ २८३ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यादिलक्षणो वाऽऽत्मा गौणो ह्यात्माऽमुतो परः ।
सर्वान्तरत्वान्न्याय्यैवं यः पूर्वस्येति हि श्रुतिः ॥ २८४ ॥ 【भाष्यम्】 【भाष्यम्】 मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम् ।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्ष्महे ॥ २८५ ॥ 【भाष्यम्】 【भाष्यम्】 न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा ।
आत्मनाऽवितथेनैव सर्पो रज्ज्वात्मनाऽऽत्मवान् ॥ २८६ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणाद्ध्येवेत्यतो न्यायाद्वक्ष्यमाणश्रुतीरितात् । व्युत्थाप्यान्नमयं तुच्छं प्राणोऽस्मीति व्यवस्थितः ।
यस्तं मनोमयात्मानं सङ्क्रामयितुमुच्यते ॥ २८७ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादित्यादिवाक्यस्य त्वर्थं पूर्वमवादिषम् ।
प्राधान्यं यजुषो ज्ञेयं हविःप्रक्षेपकारणात् ॥ २८८ ॥ 【भाष्यम्】 【भाष्यम्】
स्वाहा स्वधा वषट् चेति संनिपत्योपकुर्वते ॥ २८९ ॥ 【भाष्यम्】 【भाष्यम्】 शिरआदिप्रक्लृप्तिस्तु वाचनिक्यथवाऽस्त्विह ।
वचनं बलवद्यस्मात्पौरुषेयी हि कल्पना ॥ २९० ॥ 【भाष्यम्】 【भाष्यम्】 पदवाक्यस्वरस्थाननादवर्णादिसंयुता ।
यत्नोत्थमानसी वृत्तिर्यजुःसङ्केतवर्त्मना ॥ २९१ ॥ 【भाष्यम्】 【भाष्यम्】 ऐश्वरज्ञानसन्दृब्धा पदवाक्यानुरञ्जिता ।
श्रोत्रादिकरणद्वास्था यजुरित्यभिधीयते ॥ २९२ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानात्मत्वे हि मन्त्राणां घटते मानसो जपः । ज्ञानस्याशब्दरूपत्वादृगावृत्तिर्न सिध्यति ।
अशक्यत्वान्न चाऽऽवृत्तिर्घटादेरिव शक्यते ॥ २९३ ॥ 【भाष्यम्】 【भाष्यम्】
आवृत्तिश्चोद्यते चर्चां श्रुतौ त्रिः प्रथमामिति ॥ २९४ ॥ 【भाष्यम्】 【भाष्यम्】 अथर्चोऽविषयत्वेऽपि स्मृतेरावृत्तिरिष्यते ।
ऋगर्थविषयायाश्चेन्मैवं गौणी हि सा भवेत् ॥ २९५ ॥ 【भाष्यम्】 【भाष्यम्】 भूयोऽल्पीयःफलत्वं च बाह्यमानसयोर्जपे ।
अतो मानसमुख्यत्वमितरस्यास्तु गौणता ॥ २९६ ॥ 【भाष्यम्】 【भाष्यम्】 नात्मानं लभते गौणी मुख्यार्थे सति कल्पना ।
तस्मादैश्वरविज्ञानं यजुर्बुद्ध्याद्युपाश्रयम् ॥ २९७ ॥ 【भाष्यम्】 【भाष्यम्】 एवं च सति नित्यत्वं वेदानां घटतेऽञ्जसा ।
वाचकत्वमशब्दस्य सिद्धं न स्फोटरूपतः ॥ २९८ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वे वेदाश्च यत्रैकं भवन्तीति श्रुतेर्वचः ।
आदेशो ब्राह्मणं विद्याद्यस्मात्स विधिरूपभृत् ॥ २९९ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणो वा परस्येयमाज्ञा ब्राह्मणलक्षणा ।
तस्मादादेश इत्येवं ब्राह्मणं सम्प्रचक्षते ॥ ३०० ॥ 【भाष्यम्】 【भाष्यम्】 अथर्वाङ्गिरसाभ्यां ये दृष्टाः पुष्ट्यादिकारिणः ।
एत एव हि मन्त्राः स्युरथर्वाङ्गिरसोऽत्र तु ॥ ३०१ ॥ 【भाष्यम्】 【भाष्यम्】 मनोमयात्मसाक्ष्यत्र श्लोकः पूर्ववदुच्यते ।
यथोक्तवेदसिद्ध्यर्थं लिङ्गं श्लोकेऽपि कीर्त्यते ॥ ३०२ ॥ 【भाष्यम्】 【भाष्यम्】 अभिधाननिवृत्तिर्हि ब्रह्मणो नान्यतो यतः ।
सदावगमरूपत्वान्मनो यस्मान्निवर्तते ॥ ३०३ ॥ 【भाष्यम्】 【भाष्यम्】
इति तृतीयोऽनुवाकः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्थोऽनुवाकः यद्धिवाचाऽनभ्युदितं मनुते मनसा न यत् ।
ब्रह्मणोऽविषयत्वं हि श्रुतिर्वाङ्मनसोऽवदत् ॥ ३०४ ॥ 【भाष्यम्】 【भाष्यम्】 नागोचरं ययोरस्ति ब्रह्म मुक्त्वा निरञ्जनम् । ते मनोमयनिर्दिष्टे विद्याद्वाङ्मनसे बुधः ।
इतीममर्थं चोद्दिश्य श्लोकं श्रुतिरुदाहरत् ॥ ३०५ ॥ 【भाष्यम्】 【भाष्यम्】
ब्रह्मणोऽनवरत्वात्तु नेह मन्त्राभिधेयता ॥ ३०६ ॥ 【भाष्यम्】 【भाष्यम्】
वृत्तिप्रधानो वेदात्मा वृत्तिमान्स्यादथोत्तरः ॥ ३०६ ॥ 【भाष्यम्】 【भाष्यम्】 व्यवसायात्मिका बुद्धिर्वृत्तिमानित्युदीर्यते ।
यज्ञं तनुत इत्येतत्कर्तृत्वे सति युज्यते ॥ ३०७ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मचैतन्यरूपा धीः कर्त्र्यात्मा न ध्रुवत्वतः ।
यज्ञारम्भस्य हेतुत्वात्तदभावाद् वृथा यजिः ॥ ३०८ ॥ 【भाष्यम्】 【भाष्यम्】
श्रद्धया उत्तमाङ्गत्वं स्मृतिरश्रद्धयेति च ॥ ३०९ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यं हि श्रदिति प्राहुर्धत्ते धीः प्रत्यगात्मनि ।
तद्यतस्तां महात्मानः श्रद्धामित्यूचिरे धियम् ॥ ३१० ॥ 【भाष्यम्】 【भाष्यम्】 योगो युक्तिः समाधानमात्मा स्यात्तदुपाश्रयात् ।
श्रद्धादीनि यथोऽक्तार्थप्रतिपत्तिक्षमाणि च ॥ ३११ ॥ 【भाष्यम्】 【भाष्यम्】 महत्तत्वं महो ग्राह्यं नीडं कार्यस्य तद्यतः ।
व्याचष्टे तन्महद्यक्षं श्रुतिः प्रथमजं तु यत् ॥ ३१२ ॥ 【भाष्यम्】 【भाष्यम्】
इति चतुर्थोऽनुवाकः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चमोऽनुवाकः विज्ञानं तनुते यज्ञं कर्माण्यन्यानि यानि च ।
सर्वे च देवा विज्ञानं ब्रह्म ज्येष्ठमुपासते ॥ ३१३ ॥ 【भाष्यम्】 【भाष्यम्】 परमेव हि तद्ब्रह्म बुद्धिकञ्चुकभृत्स्वयम् ।
घटादाविव विज्ञप्तौ धीरात्मानं ततोऽर्पयेत् ॥ ३१४ ॥ 【भाष्यम्】 【भाष्यम्】 अग्रजं ब्रह्म विज्ञानं देवा अग्न्यादयः सदा ।
उपासते तदाप्त्यर्थं ते देवा इति च श्रुतिः ॥ ३१५ ॥ 【भाष्यम्】 【भाष्यम्】 यथोक्तेन प्रकारेण विज्ञानं ब्रह्म वेद चेत् ।
प्रमाद्यति न चेत्तस्मादुक्तकोशात्मशक्तितः ॥ ३१६ ॥ 【भाष्यम्】 【भाष्यम्】 पाप्मनामाश्रयो यस्माद्रूपनामक्रियात्मकः ।
देहोऽतस्तत्प्रहाणेन हानिः स्यात्सर्वपाप्मनाम् ॥ ३१७ ॥ 【भाष्यम्】 【भाष्यम्】 विज्ञानमहमस्मीति तावन्मात्राभिमानतः ।
शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुते ॥ ३१८ ॥ 【भाष्यम्】 【भाष्यम्】 अणिमादिगुणैश्वर्यो बुद्ध्यात्मा कार्यरूपिणः ।
कार्यं हि कारणव्याप्तमतः कामान्समश्नुते ॥ ३१९ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानकर्मफलोपाधिविज्ञानं प्रत्यगात्मनः ।
आनन्दमय इत्यत्र भण्यते कर्तृशान्तये ॥ ३२० ॥ 【भाष्यम्】 【भाष्यम्】 विज्ञानमयशब्देन कर्ता व्याख्यायि पूर्वया ।
तस्य प्रत्यक्तया चाथ श्रुत्या भोक्तोच्यतेऽधुना ॥ ३२१ ॥ 【भाष्यम्】 【भाष्यम्】 शुद्धस्यापि स्वतो बुद्धौ प्रियाद्याकारतोदये ।
जायते तदुपाधित्वाद्भोक्ताऽऽत्मा स्यादविद्यया ॥ ३२२ ॥ 【भाष्यम्】 【भाष्यम्】 अपरे पण्डितम्मन्याः परमेतं प्रचक्षते ।
इहैवोपरमादूर्ध्वं भृगोश्च वरुणस्य च ॥ ३२३ ॥ 【भाष्यम्】 【भाष्यम्】 अपि चाऽऽनन्दरूपस्य ब्रह्मत्वं बहुशः श्रुतम् ।
तथा चाऽऽनन्दवल्लीति व्यपदेशोऽपि युज्यते ॥ ३२४ ॥ 【भाष्यम्】 【भाष्यम्】 कार्याधिकारगत्वात्तु नैतद्ब्रह्म परं भवेत् ।
अन्नादिमयवत्कार्यं स्यादानन्दमयोऽप्ययम् ॥ ३२५ ॥ 【भाष्यम्】 【भाष्यम्】 मयट् चात्र विकारार्थे यथैवान्नमयादिषु ।
वैरूप्यलक्षणो दोषः प्रायोऽर्थत्वे प्रसज्यते ॥ ३२६ ॥ 【भाष्यम्】 【भाष्यम्】 अपि सङ्क्रमणादस्य कार्यताऽध्यवसीयते ।
कार्यात्मनां हि सङ्क्रान्तिर्युज्यते कारणात्मनि ॥ ३२७ ॥ 【भाष्यम्】 【भाष्यम्】 अत्ययो वाऽथ सम्प्राप्तिः सङ्क्रान्तिः स्यात्परात्मनः ।
नात्मत्वादात्मनः प्राप्तिस्तदु नात्येति कश्चन ॥ ३२८ ॥ 【भाष्यम्】 【भाष्यम्】 न चात्मना स्वात्मानमुपसङ्क्रामतीश्वरः ।
नालं स्वस्कन्धमारोढुं निपुणोऽपीह साधकः ॥ ३२९ ॥ 【भाष्यम्】 【भाष्यम्】 शिरआद्याकृतेरत्र मूर्तामूर्ताद्यसम्भवात् ।
असम्भवः परे तत्त्वे नेति नेतीति शास्त्रतः ॥ ३३० ॥ 【भाष्यम्】 【भाष्यम्】 अदृश्येऽनात्म्य इत्येवं पूर्वोत्तरविरुद्धता ।
न स्यादाकारवत्त्वाद्धि अस्ति नास्तीति संशयः ॥ ३३१ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यात्माऽयमतो ग्राह्यो यथोक्तन्यायगौरवात् ।
भृगोरुपरमाच्चेति कार्यात्मत्वेऽपि युज्यते ॥ ३३२ ॥ 【भाष्यम्】 【भाष्यम्】 आनन्दवल्ल्यां ब्रह्मोक्तं तदुपायविधित्सया ।
अधीहि भगवो ब्रह्मेत्यवोचद्वरुणं भृगुः ॥ ३३३ ॥ 【भाष्यम्】 【भाष्यम्】 व्याख्यातत्वादुपेयस्य ह्युपायोऽत्रावशिष्यते ।
उपायाः कोशाः पञ्चापि यस्मात्तैस्तं प्रपद्यते ॥ ३३४ ॥ 【भाष्यम्】 【भाष्यम्】 अन्वयव्यतिरेकाभ्यां कोशैरात्मसमीक्षणम् ।
क्रियते हि यतस्तेषामुपायत्वं प्रतीयते ॥ ३३५ ॥ 【भाष्यम्】 【भाष्यम्】 स्वातन्त्र्यं यत्र कर्तुः स्यात्तत्रैवासौ नियुज्यते ।
फलं कर्त्रनधीनत्वात्सम्बन्धायैव शक्यते ॥ ३३६ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्च कोशानतस्तस्मै वाक्यार्थप्रतिपत्तये ।
स्वतः प्रसिद्धेः शेषस्य ह्युपरेमे भृगुस्ततः ॥ ३३७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मताऽऽनन्दरूपस्य केन वा प्रतिषिध्यते ।
निरस्ताशेषभेदस्य रूपं तत्परमात्मनः ॥ ३३८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रियाद्यानन्दरूपाणां भेदो यत्र निवर्तते ।
अमनोविषयेऽत्यन्तं तमानन्दं प्रचक्ष्महे ॥ ३३९ ॥ 【भाष्यम्】 【भाष्यम्】 कोशपञ्चक एतस्मिन्निषिद्धेऽज्ञानहेतुके ।
नाऽऽनन्दमयता न्याय्या धियां वाचामगोचरे ॥ ३४० ॥ 【भाष्यम्】 【भाष्यम्】 परानन्दस्वभावेन पूर्णा ह्यन्नमयादयः ।
कार्यात्मानोऽपि तद्धेतोरानन्दमयता भवेत् ॥ ३४१ ॥ 【भाष्यम्】 【भाष्यम्】 तस्माज्ज्ञानक्रियाकार्यं प्रियाद्यारक्तबुद्धिगम् ।
आनन्दमयमात्मानं श्रुतिः सोपाधिकं जगौ ॥ ३४२ ॥ 【भाष्यम्】 【भाष्यम्】 प्रियादिवासनारूपो ह्यानन्दमय ईक्ष्यते ।
विज्ञानमयसंस्थो यः स्वप्ने वै स्वप्नदर्शिभिः ॥ ३४३ ॥ 【भाष्यम्】 【भाष्यम्】 पुत्रादिविषया प्रीतिर्वासना शिर उच्यते ।
प्रियलाभनिमित्तोत्थो हर्षो मोदः प्रकीर्तितः ॥ ३४४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकर्षगुणसंयुक्तः प्रमोदः स्यात्स एव तु ।
सुखसामान्यमात्मा स्यादानन्दो भेदसंश्रयात् ॥ ३४५ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्यमाण आनन्दो निष्ठां यत्राधिगच्छति ।
तदेकं सकलं ब्रह्म पुच्छं सर्वाश्रयत्वतः ॥ ३४६ ॥ 【भाष्यम्】 【भाष्यम्】 आनन्दः पर एवात्मा भेदसंसर्गवर्जितः ।
स एव सुखरूपेण व्यज्यते पुण्यकर्मभिः ॥ ३४७ ॥ 【भाष्यम्】 【भाष्यम्】 यावद्यावत्तमोऽपैति बुद्धौ धर्मसमाहतम् ।
तावत्तावद्धियः स्वास्थ्यं तावत्तावत्सुखोन्नतिः ॥ ३४८ ॥ 【भाष्यम्】 【भाष्यम्】 तारतम्यं सुखस्यापि वैचित्र्यादुपपद्यते ।
पुण्यस्य कर्मणस्तस्मादात्मैवाऽऽनन्द उच्यते ॥ ३४९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्कामादिहानेन ह्युत्तरोत्तरवृद्धितः ।
श्रोत्रियस्येति वाक्येन काष्ठाऽऽनन्दस्य भण्यते ॥ ३५० ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकोऽप्युच्चैर्निगद्यते ।
मन्त्रद्वारेण वाक्यार्थं कथं नाम प्रपत्स्यते ॥ ३५१ ॥ 【भाष्यम्】 【भाष्यम्】
इति पञ्चमोऽनुवाकः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 षष्ठोऽनुवाकः असत्समोऽसौ भवति योऽसद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तं तं ब्राह्मणा विदुः ॥ ३५२ ॥ 【भाष्यम्】 【भाष्यम्】 सदप्यात्मस्वरूपेण ब्रह्मासदिति वेद चेत् ।
सोऽसन्नेवेह भवति कोशात्मत्वाभिमानभाक् ॥ ३५३ ॥ 【भाष्यम्】 【भाष्यम्】 न हि कोशात्मना सत्त्वमृते ब्रह्म समश्नुते ।
कुतः सर्पात्मना सत्त्वमृते रज्जुं सदात्मिकाम् ॥ ३५४ ॥ 【भाष्यम्】 【भाष्यम्】 असद्भ्यः खलु कोशेभ्यः सदेकं ब्रह्म वेद चेत् ।
दृशे रूपान्तरासत्त्वात्सन्तं तं ब्राह्मणा विदुः ॥ ३५५ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मादेवमतो हित्वा कोशानज्ञानकल्पितान् ।
निर्विकारमनाद्यन्तं परमात्मानमाश्रयेत् ॥ ३५६ ॥ 【भाष्यम्】 【भाष्यम्】 यतः कोशातिरेकेण नासत्त्वं विद्यते परम् ।
मृत्युर्वा असदित्येवं घटते श्रुत्युदीरणम् ॥ ३५७ ॥ 【भाष्यम्】 【भाष्यम्】 अस्तीत्येवोपलब्धव्यः सदेवेति च शासनम् ।
ब्रह्मात्मव्यतिरेकेण सत्त्वमन्यत्र दुर्लभम् ॥ ३५८ ॥ 【भाष्यम्】 【भाष्यम्】 तस्यैष एव शारीरो योऽशरीरः सदेकलः ।
आनन्दान्तस्य पूर्वस्य ह्यात्माऽनात्मवतः परः ॥ ३५९ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तं ब्रह्मविदाप्नोति परं नाज्ञोऽसदाश्रयः ।
इत्यस्य निर्णयार्थाय परो ग्रन्थोऽवतार्यते ॥ ३६० ॥ 【भाष्यम्】 【भाष्यम्】 साधारणं परं ब्रह्म विदुषोऽविदुषश्च चेत् ।
प्राप्त्यप्राप्ती समे स्यातां नियमे हेत्वसम्भवात् ॥ ३६१ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यमात्रावबद्धान्तःकरणत्वात्तमस्विनः ।
न शक्याऽस्तीति धीः कर्तुं स्वतःसिद्धात्मवस्तुनि ॥ ३६२ ॥ 【भाष्यम्】 【भाष्यम्】 अतोऽस्यास्तित्वसिद्ध्यर्थं कल्पनातीतरूपिणः ।
अथात इत्यनुप्रश्ना वक्ष्यन्ते निर्णयार्थिने ॥ ३६३ ॥ 【भाष्यम्】 【भाष्यम्】 अथानन्तरमस्यैव साधारण्याप्रमेयतः ।
आचार्योक्तिमनुप्रश्नाः शिष्यस्य गुरुसंनिधौ ॥ ३६४ ॥ 【भाष्यम्】 【भाष्यम्】 अप्यविद्वानमुं लोकं प्रेत्य कश्चित्समश्नुते । न चेदविद्वानाप्नोति विद्वानेतीति का प्रमा ।
स्यान्नवेत्यपरः प्रश्नस्त्रित्वाद्धि बहुवागियम् ॥ ३६५ ॥ 【भाष्यम्】 【भाष्यम्】 प्लुतिश्चात्र विचारार्था विचार्यं वस्त्विदं यतः ।
एतेषां खलु चोद्यानामुत्तरार्थोत्तरा श्रुतिः ॥ ३६६ ॥ 【भाष्यम्】 【भाष्यम्】
द्वयोः सद्भावपूर्वत्वादस्तित्वं तावदुच्यते ॥ ३६७ ॥ 【भाष्यम्】 【भाष्यम्】 घटाङ्कुरादि यत्कार्यं दृष्टं सत्कारणं हि तत् ।
आकाशादि च नः कार्यं तदप्येवं प्रतीयताम् ॥ ३६८ ॥ 【भाष्यम्】 【भाष्यम्】 असतश्चेदिदं कार्यं सर्वं स्यादसदन्वितम् ।
असतः कारणत्वं च निरात्मत्वान्न सिद्ध्यति ॥ ३६९ ॥ 【भाष्यम्】 【भाष्यम्】 ध्रुवः सन्कुरुते कार्यमयस्कान्तो मणिर्यथा ।
कारणत्वं भवेदेवं कुर्वतोऽतिशयः कुतः ॥ ३७० ॥ 【भाष्यम्】 【भाष्यम्】 साविद्यः प्रत्यगात्मा यो वियद्योनिः पुरोदितः ।
सोऽकामयत नाविद्यां विना कामोऽस्ति कस्यचित् ॥ ३७१ ॥ 【भाष्यम्】 【भाष्यम्】 आलातस्यैकरूपस्य वैश्वरूप्यं यथान्यतः । रूपाभिधानभ्रान्त्युत्था बहुतेयं परात्मनः ।
प्रजायेयेत्यतो वक्ति नामरूपात्मना प्रभुः ॥ ३७२ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मस्थे नामरूपे ये देशकालाद्यपेक्षिणी ।
जगत्कर्मवशादीशाद् व्यज्येते बहुधात्मनः ॥ ३७३ ॥ 【भाष्यम्】 【भाष्यम्】 व्याकृतिर्या तयोर्विष्णोः प्रत्यहं नामरूपयोः ।
भूयो भवनमेतत्स्यान्मायिनोऽनेकता यथा ॥ ३७४ ॥ 【भाष्यम्】 【भाष्यम्】 न ह्यनवयवस्यास्य बहुत्वं युज्यतेऽञ्जसा ।
तस्माद्भाक्तं बहुत्वं स्याद् व्योम्नो यद्वद् घटादिभिः ॥ ३७५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रौतं सृष्ट्यादिविषयमीश्वरालोचनं तपः ।
कार्यत्वाल्लौकिकस्येह तपसोऽसम्भवो भवेत् ॥ ३७६ ॥ 【भाष्यम्】 【भाष्यम्】 यथाश्रुति समालोच्य ससर्ज जगदीश्वरः ।
यथाक्रमं यथारूपं यथाकर्म यथाकृति ॥ ३७७ ॥ 【भाष्यम्】 【भाष्यम्】 मायावी जगदुत्पाद्य माययैवेश्वरेश्वरः ।
सर्पादीन्कल्पितान्स्रग्वत्तदेवानुविवेश सः ॥ ३७८ ॥ 【भाष्यम्】 【भाष्यम्】 मृद्वच्चेत्कारणं ब्रह्म कार्यं सर्वं तदात्मकम् ।
तदात्मतातिरेकेण प्रवेशोऽन्यो न विद्यते ॥ ३७९ ॥ 【भाष्यम्】 【भाष्यम्】 न चान्यः प्राविशद्विष्णोः श्रूयते ह्येककर्तृता ।
सृष्ट्वा जगत्तदेवानुप्राविशच्चेति हि श्रुतिः ॥ ३८० ॥ 【भाष्यम्】 【भाष्यम्】 कपालाद्यात्मना कुम्भं मृद्वच्चेत्प्राविशज्जगत् ।
मृदोऽनेकात्मकत्वात्तु घटते नैकतो दृशेः ॥ ३८१ ॥ 【भाष्यम्】 【भाष्यम्】 अनाप्तदेशवन्मृद्वत्प्रवेशो व्यापिनः कथम् ।
प्रवेशश्रवणात्तर्हि परिच्छिन्नं प्रकल्प्यताम् ॥ ३८२ ॥ 【भाष्यम्】 【भाष्यम्】 मुखे हस्तादिवच्चायं प्रवेशोऽपि घटिष्यति ।
अमूर्तस्यापि नैवं स्यात्कार्यव्यापित्वहेतुतः ॥ ३८३ ॥ 【भाष्यम्】 【भाष्यम्】 व्यापि वाऽव्यापि वा कार्यं व्याप्नोत्येव हि कारणम् ।
न ह्यात्मशून्यो देशोऽस्ति यं जीवेनाऽऽविशेत्परः ॥ ३८४ ॥ 【भाष्यम्】 【भाष्यम्】 अथ कारणरूपेण कार्यमीशः समाविशेत् ।
अहं ब्रह्मेतिवज्जह्यात्कार्यं कार्यात्मतां तथा ॥ ३८५ ॥ 【भाष्यम्】 【भाष्यम्】 मतं जीवात्मकं कार्यं याति कार्यान्तरं यदि ।
विरोधान्नैवमप्येतन्नैति कुम्भः शरावताम् ॥ ३८६ ॥ 【भाष्यम्】 【भाष्यम्】 नामरूपादिकार्याच्च व्यतिरेकानुवादिनी ।
श्रुतिः कुप्येत मोक्षश्च तदापत्तौ सुदुर्लभः ॥ ३८७ ॥ 【भाष्यम्】 【भाष्यम्】 जलार्कवत्प्रवेशश्चेन्नापरिच्छिन्नरूपतः ।
अमूर्तत्वाच्च नास्यैवं प्रवेश उपपद्यते ॥ ३८८ ॥ 【भाष्यम्】 【भाष्यम्】 एवं तर्हि प्रवेशोऽस्य श्लिष्यते न कथञ्चन ।
न च गत्यन्तरं विद्मो येन वाक्यं समर्थ्यते ॥ ३८९ ॥ 【भाष्यम्】 【भाष्यम्】 आनर्थक्यादिदं तर्हि त्यज्यतां शिशुवाक्यवत् ।
प्रवेशवाक्यं नैवं तद्गत्यन्तरसमाश्रयात् ॥ ३९० ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मवित्परमाप्नोतीत्युक्त्वा सत्यादिलक्षणम् ।
प्रवेशयद् गुहां तच्च तदनात्मत्वशान्तये ॥ ३९१ ॥ 【भाष्यम्】 【भाष्यम्】 अब्रह्मत्वनिवृत्त्यर्थं ब्रह्मात्मैति विशेषणम् ।
तन्निवृत्ताववाक्यार्थं कैवल्यं प्रतिपद्यते ॥ ३९२ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मादेवं फलं तस्माज्ज्ञानमत्र विवक्षितम् ।
गुहायामद्वयं ब्रह्म तस्मान्निहितमुच्यते ॥ ३९३ ॥ 【भाष्यम्】 【भाष्यम्】
तद्रूपानुगमयान्नमयान्तं कार्यमाह हि ॥ ३९४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपूर्वातिरेकेण त्रीन्कोशानतिलङ्घ्य च ।
विज्ञानमयरूपायां गुहायां दर्शितः परः ॥ ३९५ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रानन्दमयो यस्माल्लक्ष्यते राहुचन्द्रवत् । मानुषादधि यत्रेदं सुखं निष्ठां प्रपद्यते ।
उत्कृष्यमाणं क्रमशस्तद्ब्रह्मासीति बोधयेत् ॥ ३९६ ॥ 【भाष्यम्】 【भाष्यम्】 विकल्पयोनावेतस्यां निर्विकल्पोऽधिगम्यते ।
तस्मात्तस्यां प्रवेशोऽस्य कल्प्यते नाञ्जसोच्यते ॥ ३९७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकाशात्मक एतस्मिन्द्रष्टृश्रोत्रादिलक्षणम् ।
मोहादीक्षामहे यस्मात्प्रविष्टस्तेन कल्प्यते ॥ ३९८ ॥ 【भाष्यम्】 【भाष्यम्】 तस्यैष एव शारीर आत्मेत्येवं ब्रुवाणया ।
ऐकात्म्यमुच्यते श्रुत्या हृत्प्रविष्टाप्रविष्टयोः ॥ ३९९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रवेशहेतुदोषाणामध्यस्तानां परात्मनि ।
यदाहीत्यादिना ध्वंस एवं सत्युपपद्यते ॥ ४०० ॥ 【भाष्यम्】 【भाष्यम्】 अप्रविष्टस्वभावस्य प्रवेशस्तेन कल्प्यते ।
क्षेत्रज्ञेश्वरहानेन ह्यैकात्म्यं स्यात्कथं त्विति ॥ ४०१ ॥ 【भाष्यम्】 【भाष्यम्】 मूर्तामूर्तात्मकं कार्यं यत्सृष्ट्वा प्राविशत्प्रभुः ।
रजतं शुक्तिकैवात्मा तदात्मेवाभवन्मृषा ॥ ४०२ ॥ 【भाष्यम्】 【भाष्यम्】 मूर्तं भूतत्रयं सत्स्यादितरत्त्यदिहोच्यते ।
अव्याकृतादाशरीरादेतावद्वस्तु नापरम् ॥ ४०३ ॥ 【भाष्यम्】 【भाष्यम्】 समानेतरजातीयान्निर्धार्येदन्तयोच्यते ।
यन्निरुक्तं तदत्र स्यादनिरुक्तमितोऽन्यथा ॥ ४०४ ॥ 【भाष्यम्】 【भाष्यम्】 साक्षात्परोक्षरूपे तु मूर्तामूर्ते पुरोदिते ।
निरुक्तेतररूपे ये तयोरेव विशेषणे ॥ ४०५ ॥ 【भाष्यम्】 【भाष्यम्】 निलयो मूर्तधर्मः स्यादुत्तरोऽमूर्तसंश्रयः ।
विज्ञानं चेतनं विद्यादविज्ञानमचेतनम् ॥ ४०६ ॥ 【भाष्यम्】 【भाष्यम्】 व्यावहारिकमेवात्र सत्यं स्यादधिकारतः ।
पारमार्थिकसत्यस्य वाक्यान्ते समुदीरणात् ॥ ४०७ ॥ 【भाष्यम्】 【भाष्यम्】 मृगतृष्णादिवन्मिथ्या तदिहानृतमुच्यते ।
इत्येतदभवत्स्रष्टा ह्यविद्योत्थमविद्यया ॥ ४०८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्याख्यानेन सर्वस्य सत्त्यदाद्यात्मकस्य हि ।
व्यावृत्ताखिलनानात्वमहं ब्रह्मेति बोध्यते ॥ ४०९ ॥ 【भाष्यम्】 【भाष्यम्】 नैतदस्ति न नास्तीदं द्वयोर्मोहोद्भवत्वतः ।
न सत्तन्नासदित्येवं प्राह विश्वेश्वरोऽपि हि ॥ ४१० ॥ 【भाष्यम्】 【भाष्यम्】 आविर्भावतिरोभावौ बुद्धेर्यत्साक्षिकाविह ।
तमेकमन्तरात्मानं विद्यादव्यभिचारिणम् ॥ ४११ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मादस्ति परं ब्रह्म यस्याविद्याप्रकल्पिताः ।
सन्तीव सत्तामालम्ब्य कार्यकारणलक्षणाः ॥ ४१२ ॥ 【भाष्यम्】 【भाष्यम्】 विवादगोचरापन्नं यत्किञ्चिद्रचनात्मकम् ।
तत्सर्वं बुद्धिमत्पूर्वं तदात्मत्वाद् घटादिवत् ॥ ४१३ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैतस्मिन्यथोक्तेऽर्थे श्लोकः पूर्ववदुच्यते ।
श्रुत्युक्तार्थानुवादी तु द्रढिम्ने पुन्धियोऽधुना ॥ ४१४ ॥ 【भाष्यम्】 【भाष्यम्】
इति षष्ठोऽनुवाकः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तमोऽनुवाकः यदिदंशब्दधीगम्यं प्रागसत्तदभूज्जगत् ।
असच्छब्देन चात्र स्याद्ब्रह्मैवानामरूपकम् ॥ ४१५ ॥ 【भाष्यम्】 【भाष्यम्】 नामरूपात्मकं कार्यमनात्मत्वात्स्वतो ह्यसत् ।
यत्सदेकं परं ब्रह्म ततो वै सदजायत ॥ ४१६ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यं ज्ञानमनन्तं यत्तदुपेतमविद्यया ।
स्वात्मनैव स्वमात्मानं सत्त्यद्रूपमचीक्लृपत् ॥ ४१७ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मात्स्वयमिदं सर्वमकरोन्निपुणः प्रभुः ।
सुकृतं प्रभुमेवातो महात्मानः प्रचक्षते ॥ ४१८ ॥ 【भाष्यम्】 【भाष्यम्】 यदि वेश्वरनिर्वृत्तं कार्यं सुकृतमुच्यते ।
निष्ठासंश्रवणात्साक्षान्न तु कर्तेश उच्यते ॥ ४१९ ॥ 【भाष्यम्】 【भाष्यम्】 लोकेऽपि स्वामिना साक्षाद्यत्कृतं कर्म यत्नतः ।
तदेव सुकृतं प्राहुर्न तु भृत्यैस्तथा कृतम् ॥ ४२० ॥ 【भाष्यम्】 【भाष्यम्】 यद्वै तत्सुकृतं प्रोक्तं सत्त्यदादिस्वभावकम् ।
नीरसस्यास्य कार्यस्य रसोऽसौ परमः स्मृतः ॥ ४२१ ॥ 【भाष्यम्】 【भाष्यम्】 रसः सारोऽमृतं ब्रह्म आनन्दो ह्लाद उच्यते ।
निःसारं तेन सारेण सारवल्लक्ष्यते जगत् ॥ ४२२ ॥ 【भाष्यम्】 【भाष्यम्】 रसस्यातीन्द्रियस्यास्य त्वानन्दत्वं कुतो न्विति ।
अतस्तत्प्रतिपत्त्यर्थं रसं हीत्युत्तरं वचः ॥ ४२३ ॥ 【भाष्यम्】 【भाष्यम्】 एतस्मादपि हेतोस्तदस्तीत्यभ्युपगम्यताम् ।
इतश्चास्ति परं ब्रह्म रसत्वस्य प्रसिद्धितः ॥ ४२४ ॥ 【भाष्यम्】 【भाष्यम्】
तृप्तिहेतू रसो नाम मधुराम्लादिलक्षणः ॥ ४२५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नादिरसलाभेन यथा तृप्ताः समासते ।
आनन्दिनः कामहीना निरीहाः साध्यसिद्धये ॥ ४२६ ॥ 【भाष्यम्】 【भाष्यम्】 अपविद्धैषणास्तद्वद्बाह्योपादानवर्जिताः ।
निःसम्बोधं परानन्दं प्राप्ताः संन्यासिनोऽमलाः ॥ ४२७ ॥ 【भाष्यम्】 【भाष्यम्】 नूनं तेषां परं स्वास्थ्यं चेतांस्याह्लादयत्यलम् ।
प्रह्लादचेतसां यानि तानि लिङ्गानि तेषु हि ॥ ४२८ ॥ 【भाष्यम्】 【भाष्यम्】 उपाग्नि पामनस्येव सुखसंसक्तचेतसः ।
लिङ्गं कण्डूयमानस्य लक्षयाम्यात्मवेदिषु ॥ ४२९ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञातानन्दतत्त्वानामनुमानमिदं भवेत् ।
साक्षात्कृतात्मतत्त्वानां प्रत्यक्षतममेव तत् ॥ ४३० ॥ 【भाष्यम्】 【भाष्यम्】 बाह्येन्द्रियाणामध्यात्मं संहतिर्येह लक्ष्यते ।
एकार्थवृत्तिरूपेण सा दृष्टाऽसंहते सति ॥ ४३१ ॥ 【भाष्यम्】 【भाष्यम्】 अतः साक्षेपमोहेयं को ह्येवान्यादिति श्रुतिः ।
आकाशे परमे व्योम्नि ह्यानन्दो न भवेद्यदि ॥ ४३२ ॥ 【भाष्यम्】 【भाष्यम्】 आब्रह्मस्तम्बलोकेऽस्मिन्पुण्यकर्मानुरूपतः ।
आनन्दः परमो यस्मादानन्दयति नः सदा ॥ ४३३ ॥ 【भाष्यम्】 【भाष्यम्】 सोऽयं लौकिक आनन्दो निष्ठां साधनसम्पदा ।
यत्र प्रपद्यते भूम्नि सोऽस्त्यानन्दः परो रसः ॥ ४३४ ॥ 【भाष्यम्】 【भाष्यम्】 अस्तित्वे हेतवः सम्यग्ब्रह्मणोऽभिहिता यतः ।
उताविद्वानिति प्रश्नः श्रुत्याऽऽविष्क्रियतेऽधुना ॥ ४३५ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वानेवैति तद्ब्रह्म ह्यभयं भयहेतु यत् ।
तमोमात्रावरुद्धत्वात्तत्प्राप्तेर्नान्यदस्ति हि ॥ ४३६ ॥ 【भाष्यम्】 【भाष्यम्】 व्यवधानं हि यद्यस्मात्तत्तन्मोहैकहेतुकम् ।
यस्मात्तस्मादविद्यैव मोक्षाप्तेर्व्यवधिर्भवेत् ॥ ४३७ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यासाक्ष्यपि प्रत्यक्सदाऽनस्तमितोदितः ।
अविद्यया व्यवहितस्तद्बलेनैव तद्वचः ॥ ४३८ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वत्ताव्यतिरेकेण यदि तत्प्राप्तिरुच्यते ।
चोद्यमेतत्तदा युक्तं न त्वेवं सति युक्तिमत् ॥ ४३९ ॥ 【भाष्यम्】 【भाष्यम्】 यातु साधारणी प्राप्तिरात्मत्वाद्ब्रह्मणः स्वतः ।
विदुषोऽविदुषो वाऽसावस्माभिर्न नियम्यते ॥ ४४० ॥ 【भाष्यम्】 【भाष्यम्】 अतोऽविद्यानिषेधेन सर्वदाऽवाप्तिरूपिणः ।
प्राप्तिः स्यादात्महेतुत्वादिति पूर्वमवादिषम् ॥ ४४१ ॥ 【भाष्यम्】 【भाष्यम्】 अतः परीक्ष्यते श्रुत्या तदिदानीं प्रयत्नतः ।
विद्वानेवैति नाविद्वान्यदा हीत्येवमाद्यया ॥ ४४२ ॥ 【भाष्यम्】 【भाष्यम्】 विषयानुपातिनी या तु ह्यशेषकरणाश्रया ।
लौकिकत्वात्पदार्थस्य दृशिरत्राभिधीयते ॥ ४४३ ॥ 【भाष्यम्】 【भाष्यम्】 विशेषवद्भवेद्दृश्यं तद्धि दर्शनमर्हति ।
नित्या दृष्टिरभावो वा नैव दर्शनमर्हति ॥ ४४४ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यान्वयि हि यद्वस्तु तदात्म्यमिति भण्यते ।
स्वतो ह्यस्यात्मदारिद्र्यादर्हार्थे लभते च यत् ॥ ४४५ ॥ 【भाष्यम्】 【भाष्यम्】 स्याद्वा जाग्रदवस्थेऽयं दृश्यत्वेन प्रसिद्धितः ।
कोशत्रयमिहात्म्यं स्यादात्मार्थत्वसमन्वयात् ॥ ४४६ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चमोऽत्र निरुक्तः स्यात्पारिशेष्यात्फलात्मकः ।
अत्यानन्दमयं ब्रह्म त्वनिरुक्तं परं पदम् ॥ ४४७ ॥ 【भाष्यम्】 【भाष्यम्】 निलीयते जगद्यस्मिन्निलीनं जायते यतः ।
निलयं तत्परं ब्रूमः कोशपञ्चककारणम् ॥ ४४८ ॥ 【भाष्यम्】 【भाष्यम्】 सच्च त्यच्चादि वाऽपेक्ष्य निषेधोऽयमिहोच्यते ।
प्राप्तिर्ह्यभवदित्युक्ता चारु प्राप्तनिषेधनम् ॥ ४४९ ॥ 【भाष्यम्】 【भाष्यम्】 मूर्तामूर्तौ हि राशी द्वौ सच्च त्यच्चादिनोदितौ ।
श्रुत्यन्तरेण सङ्गानात्तयोरेवास्त्वपह्नुतिः ॥ ४५० ॥ 【भाष्यम्】 【भाष्यम्】 अस्मिन्पक्षे तु निलयो वासनानिलयो भवेत् ।
एवं च नेति नेतीति साक्षात्स्याद्ब्रह्मदर्शनम् ॥ ४५१ ॥ 【भाष्यम्】 【भाष्यम्】 भावाभावात्मिका बुद्धिर्यत आत्मापचारिणी ।
भावाभावनिषेधेन प्रतीची स्थाप्यते ततः ॥ ४५२ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यादिप्रतिषेधोक्त्या प्रतीचि ब्रह्म बोध्यते ।
न तदन्यत्तदन्यस्य परमार्थात्मता कुतः ॥ ४५३ ॥ 【भाष्यम्】 【भाष्यम्】 न नञर्थो विकल्पो वा परमार्थमकल्पितम् ।
असम्प्रविश्य संसिद्धिं लभते क्वचिदन्यतः ॥ ४५४ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यादिगुणहीनस्य स्वत आत्मत्वकारणात् ।
वेत्ति विन्दत इत्यस्मादैकार्थ्यादुपसंहृतिः ॥ ४५५ ॥ 【भाष्यम्】 【भाष्यम्】 दृश्यादिगुणहीनेऽस्मिन्निरविद्यो यदाऽभयम् ।
साक्षाद्वेत्ति तदैवायमभयं विन्दते परम् ॥ ४५६ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मपुच्छं प्रतिष्ठेति यदभाणि पुरा सकृत् ।
तेनैकवाक्यतार्थाय प्रतिष्ठामिति भण्यते ॥ ४५७ ॥ 【भाष्यम्】 【भाष्यम्】 अथाधुना यथाऽविद्वान्प्रेत्य नैति परं पदम् ।
व्याख्यायते तथा स्पष्टं यदा हीत्येवमाद्यया ॥ ४५८ ॥ 【भाष्यम्】 【भाष्यम्】 सदा लब्धात्मकस्यापि यतोऽज्ञानमनाप्तिकृत् ।
अवाद्युच्चैरतः श्रुत्या विद्वानेतीति सादरम् ॥ ४५९ ॥ 【भाष्यम्】 【भाष्यम्】 यस्मादेवं ततोऽविद्वाल्लभते न तमीश्वरम् ।
अविद्याव्यवधानाद्धि लब्ध एव न लभ्यते ॥ ४६० ॥ 【भाष्यम्】 【भाष्यम्】 यदा ह्येवैष आत्मैको दृश्यत्वादिविवर्जितः ।
एतस्मिन्वर्तमानोऽपि वञ्चितोऽविद्ययैव हि ॥ ४६१ ॥ 【भाष्यम्】 【भाष्यम्】 हस्तप्राप्तमपि द्रव्यमप्राप्तमिव मन्यते ।
मोहादेवमनप्तिः स्यादात्मनोऽपि ममाऽऽत्मनः ॥ ४६२ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यया तदोद्धृत्य रज्ज्वा रज्जुमिव स्वयम् ।
अहित्वेनाद्वयाद्बोधात्कुरुते कर्तृभोक्तृभिः ॥ ४६३ ॥ 【भाष्यम्】 【भाष्यम्】 अरं छिद्रं भिदाऽन्यत्वं वेद्यवेत्तृत्वलक्षणम् ।
यस्मादुत्कुरुते मोहादात्मनो ब्रह्मणः स्वतः ॥ ४६४ ॥ 【भाष्यम्】 【भाष्यम्】 अन्योऽसावीश्वरो मत्तस्तस्माच्चाहमनीश्वरः ।
इति च्छिद्रयतोऽच्छिद्रं छिद्रेऽनर्थो भवेद्भयम् ॥ ४६५ ॥ 【भाष्यम्】 【भाष्यम्】 निर्भयोऽपि स्वतोऽविद्वानेकं सन्तमनेकधा ।
प्रकल्प्याविद्याऽऽत्मानं तमेव भयमाप्नुयात् ॥ ४६६ ॥ 【भाष्यम्】 【भाष्यम्】 भयहेतोर्द्वितीयस्य हिशब्देन परिग्रहात् ।
द्वितीयाद्वै भयं हीति श्रुतिरुच्चैरतोऽन्वशात् ॥ ४६७ ॥ 【भाष्यम्】 【भाष्यम्】 ईशितव्याद्विभक्तो मद्यस्मादीशो भयङ्करः ।
इति कल्पयतस्तस्मादभयं जायते भयम् ॥ ४६८ ॥ 【भाष्यम्】 【भाष्यम्】 अहो बलमविद्याया अतिशेते न कश्चन ।
अग्न्यादिभयहेतोर्या ब्रह्मणोऽपि भयङ्करी ॥ ४६६ ॥ 【भाष्यम्】 【भाष्यम्】 निर्भयो भयकृद्देव ईश्वराणामपीश्वरः ।
भयं तस्यापि जनयेन्नाज्ञानस्यास्त्यगोचरः ॥ ४७० ॥ 【भाष्यम्】 【भाष्यम्】 यज्ज्ञात्वा विन्दते विद्वानभयं हीत्यवादिषम् ।
तत्त्वेवाभयकृद्ब्रह्म स्यान्मोहादात्मनो भयम् ॥ ४७१ ॥ 【भाष्यम्】 【भाष्यम्】 निषिद्धदृश्यत्वाद्येकमभयं मोहनिह्नवात् ।
यत्तस्यैव भयं तत्स्यादविद्यावशवर्तिनः ॥ ४७२ ॥ 【भाष्यम्】 【भाष्यम्】 अपि वालाग्रमात्रेण विदुषः प्रत्यगात्मनः । भिन्नं ब्रह्मेति सम्मोहादात्मैवास्य भयं भवेत् ।
व्याख्यानं वा पुरोक्तस्य च्छिद्रस्य क्रियतेऽनया ॥ ४७३ ॥ 【भाष्यम्】 【भाष्यम्】
अमन्वानस्य तद्ब्रह्म विदुषोऽपि भयङ्करम् ॥ ४७४ ॥ 【भाष्यम्】 【भाष्यम्】 वेद्यवेत्तृत्वशून्यत्वाद्विद्वत्ताऽपि तमोमयी ।
रजतत्वादिवच्छुक्तावमन्वनो भवेदतः ॥ ४७५ ॥ 【भाष्यम्】 【भाष्यम्】 यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
विदिताविदिताभ्यां तदन्यदेवेति हि श्रुतिः ॥ ४७६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्यदेव हि तद्वेद्यादवेद्यादन्यदेव तत् ।
वेद्यवेत्तृद्वयाच्चान्यदिति श्रुत्यनुशासनम् ॥ ४७७ ॥ 【भाष्यम्】 【भाष्यम्】 वेद्यावेद्यात्मता यस्माच्छब्दाद्यर्थानुपातिनी ।
वेद्यवेत्तृत्वमप्येवमन्यथा तदसङ्गतेः ॥ ४७८ ॥ 【भाष्यम्】 【भाष्यम्】 व्युत्थाप्य वेद्याद्विद्याया वेत्तुश्चाज्ञानकल्पितात् ।
तदन्येभ्यश्च जानीयादहं ब्रह्मेतिवाक्यतः ॥ ४७९ ॥ 【भाष्यम्】 【भाष्यम्】
इति सप्तमोऽनुवाकः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अष्टमोऽनुवाकः यथोक्तबोधविरहादीश्वराणामपीश्वराः ।
प्रतीचो ब्रह्मणो भीताः स्वकर्माणि प्रकुर्वते ॥ ४८० ॥ 【भाष्यम्】 【भाष्यम्】 वातादयो महावीर्याः स्वतन्त्रा बाहुशालिनः ।
तेऽपि भीताः प्रवर्तन्ते ब्रह्मणोऽपि महत्तमाः ॥ ४८१ ॥ 【भाष्यम्】 【भाष्यम्】 यस्माद्ब्रह्मण आनन्दाद्भीता वातादयोऽवशाः । स्वकर्मसु प्रवर्तन्ते भृत्याः स्वामिभयादिव ।
तस्यानन्दस्य मीमांसा विचारः क्रियतेऽधुना ॥ ४८२ ॥ 【भाष्यम्】 【भाष्यम्】
उत्कर्षेतरहीनोऽसौ य आनन्दोऽधिगम्यते ॥ ४८३ ॥ 【भाष्यम्】 【भाष्यम्】 दृष्टः सातिशयस्तावदानन्दः कर्महेतुकः ।
आब्रह्मनरपर्यन्ते लोकेऽस्माभिः प्रमाणतः ॥ ४८४ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्यमाणो यत्रायं परां निष्ठां प्रपद्यते ।
अनापन्नादिमध्यान्तं तद्ब्रह्मेत्यवधारयेत् ॥ ४८५ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मादिनरपर्यन्तं पुण्यकर्मानुरूपतः ।
उपजीवति लोकोऽयं यस्यानन्दस्य विप्रुषम् ॥ ४८६ ॥ 【भाष्यम्】 【भाष्यम्】 उत्तरोत्तरवृद्ध्यैवं मनुष्यादधि तं वयम् ।
प्रतिपद्यामहे साक्षादानन्दं स्वात्मनि स्थितम् ॥ ४८७ ॥ 【भाष्यम्】 【भाष्यम्】 विषयेन्द्रियसम्बन्धसमुत्थो वा भवेदयम् ।
लौकिकानन्दवत्स्याद्वा सर्वसाधननिस्पृहः ॥ ४८८ ॥ 【भाष्यम्】 【भाष्यम्】 तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनः ।
सम्पन्निमित्तो यो दृष्टः सैषेति स इहोच्यते ॥ ४८९ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्यमाणेनानेन ह्यस्मद्गोचरवर्तिना ।
असाधनमसाध्यं तमानन्दं व्याचचक्ष्महे ॥ ४९० ॥ 【भाष्यम्】 【भाष्यम्】 निष्ठां सातिशयं यस्मात्स्वतोऽनतिशयात्मनि ।
गच्छदीक्षामहे यस्मादेवमानन्द ईक्ष्यताम् ॥ ४९१ ॥ 【भाष्यम्】 【भाष्यम्】 येयं सातिशया सङ्ख्याऽसङ्ख्येयार्थावसायिनी ।
यथैवमस्मदानन्दः स्यात्परानन्दनिष्ठितः ॥ ४९२ ॥ 【भाष्यम्】 【भाष्यम्】 आविष्करिष्यन्त्याहात इममर्थं श्रुतिः स्वयम् ।
बहिष्प्रवणदृष्टीनां स्वतोऽसामर्थ्यदर्शनात् ॥ ४९३ ॥ 【भाष्यम्】 【भाष्यम्】 युवा प्रथमवयाः स्याद्यूनः साधुयुवेति किम् ।
पञ्चविंशाब्दिकः साधुरिति साधुयुवोच्यते ॥ ४९४ ॥ 【भाष्यम्】 【भाष्यम्】 मिथः सव्यभिचारित्वात्साधुयौवनयोरतः ।
विशेषणमिदं तस्मात्पुनः साधुयुवेति हि ॥ ४९५ ॥ 【भाष्यम्】 【भाष्यम्】 अध्येति सर्वमध्येयमतोऽध्यायक उच्यते ।
क्षिप्रकार्यतिशायित्वादाशिष्ठोऽसौ भवेदतः ॥ ४९६ ॥ 【भाष्यम्】 【भाष्यम्】 समग्रशेषचार्वङ्गो दृढिष्ठः परिकीर्त्यते । अभिभूय यतः सर्वान्बलिनो वर्तते ततः ।
बलिष्ठस्तेन विद्वद्भिः कीर्त्यते पृथुकीर्तिभिः ॥ ४९७ ॥ 【भाष्यम्】 【भाष्यम्】 यावदाध्यात्मिकं किञ्चित्पुम्भिरापेक्ष्यते क्वचित् ।
दृष्टादृष्टेष्टभोगाय तेन सर्वेण संयुतः ॥ ४९८ ॥ 【भाष्यम्】 【भाष्यम्】 तस्येवं पृथिवी सर्वा पूर्णा वित्तस्य चेद्भवेत् ।
इति साधनमुक्तं स्याद्दृष्टादृष्टार्थकर्मणः ॥ ४९९ ॥ 【भाष्यम्】 【भाष्यम्】 बाह्यैराध्यात्मिकैश्चैव सम्पन्नः साधनैः पुमान् ।
लभते यमसौ ह्लादं नरानन्दः स उच्यते ॥ ५०० ॥ 【भाष्यम्】 【भाष्यम्】 य एते शतमानन्दा मानुषाणां समाहृताः ।
नरगन्धर्वकाणां स्यात्तावानेकः प्रमाणतः ॥ ५०१ ॥ 【भाष्यम्】 【भाष्यम्】 सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः ।
नृत्यगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः ॥ ५०२ ॥ 【भाष्यम्】 【भाष्यम्】 भूयोद्वन्द्वप्रतीघातशक्तिसाधनसम्पदा ।
नारगन्धर्विको भूयानानन्दो मानुषादधि ॥ ५०३ ॥ 【भाष्यम्】 【भाष्यम्】 आविरिञ्चाद्भवेदेवं पूर्वस्मादुत्तरोऽधिकः ।
सहस्रदशभागेन ह्युत्तरोत्तरतः क्रमात् ॥ ५०४ ॥ 【भाष्यम्】 【भाष्यम्】 श्रोत्रियोऽधीतवेदः स्यात्साध्वाचारः प्रसिद्धितः ।
कामानुपहतात्माऽपि स्यादकामहतस्तथा ॥ ५०५ ॥ 【भाष्यम्】 【भाष्यम्】 मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः ।
सहस्रदशभागेन मानुषाद् गुणितो भवेत् ॥ ५०६ ॥ 【भाष्यम्】 【भाष्यम्】 इत्येतस्य प्रसिद्ध्यर्थमादावग्रहणं कृतम् ।
अकामहत इत्यस्य हेतोरानन्दवृद्धये ॥ ५०७ ॥ 【भाष्यम्】 【भाष्यम्】 श्रोत्रियावृजिनत्वे द्वे सर्वत्रैव समे अपि ।
कामानुपहतत्वस्य वृद्धौ ह्लादो विवर्धते ॥ ५०८ ॥ 【भाष्यम्】 【भाष्यम्】 यतोऽकामहतत्वं स्यात्सर्वातिशयिनोऽञ्जसा ।
सुखस्य प्राप्तये तस्मात्तदेवोत्कृष्टिकृद्भवेत् ॥ ५०९ ॥ 【भाष्यम्】 【भाष्यम्】 तस्माद्यथोदितानन्दप्राप्तये साधनत्रयम् ।
श्रोत्रियावृजिनत्वे द्वे तथाऽकामहतात्मता ॥ ५१० ॥ 【भाष्यम्】 【भाष्यम्】 तुल्ये आब्रह्मणः पूर्वे उत्कर्षस्तूत्तरस्य च ।
अकामहततैवातः पूर्वाभ्यां साधनं परम् ॥ ५११ ॥ 【भाष्यम्】 【भाष्यम्】 चिरकालस्थितिर्येषु पितृलोकेषु ते स्मृताः ।
चिरलोकलोकास्तेऽपि स्युः पितृश्रद्धादिकारिणः ॥ ५१२ ॥ 【भाष्यम्】 【भाष्यम्】 आजानो देवलोकः स्यात्तज्जा आजानजाः स्मृताः ।
स्मार्तकर्मकृतस्तत्र जायन्ते देवभूमिषु ॥ ५१३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मणैव त्वविद्वांसो ये जाताः सुरसद्मसु ।
कर्मदेवांस्तु तान्विद्याद्देवांश्चोत्तरमार्गगान् ॥ ५१४ ॥ 【भाष्यम्】 【भाष्यम्】 त्रैलोक्यदेहश्चात्र स्याद्विराडेव प्रजापतिः ।
समष्टिव्यष्टिरूपश्च ब्रह्मेह परिगृह्यते ॥ ५१५ ॥ 【भाष्यम्】 【भाष्यम्】 त एते सर्व आनन्दा यत्रैकत्वं व्रजन्ति नः ।
कामश्च तन्निमित्तोत्थो ज्ञानं यच्च द्वयात्मकम् ॥ ५१६ ॥ 【भाष्यम्】 【भाष्यम्】 तथाऽकामहतत्वं च निष्ठां यत्र प्रपद्यते ।
तमानन्दं विजानीयाद्वर्त्मनाऽनेन वाक्यतः ॥ ५१७ ॥ 【भाष्यम्】 【भाष्यम्】 आनन्दानन्दिनोश्चात्र न भेदः स्यान्मनागपि ।
श्रुत्यैवापोदितो यस्मच्छिद्रं कुर्वन्मनागपि ॥ ५१८ ॥ 【भाष्यम्】 【भाष्यम्】 न साधनमयं किञ्चित्स्वात्मसिद्धावपेक्षते ।
स्वतः सिद्धेरविद्याया हानमात्रमपेक्षते ॥ ५१९ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुभारावसन्नस्य भारापनयतो यथा ।
उत्कृष्यते क्रमात्स्वास्थ्यं स्वात्मन्येवं तमःक्षयात् ॥ ५२० ॥ 【भाष्यम्】 【भाष्यम्】 अथेदानीं परीक्षाया अद्वैतानन्दलक्षणम् ।
उपसंह्रियते साक्षात्फलं साधननिस्पृहम् ॥ ५२१ ॥ 【भाष्यम्】 【भाष्यम्】 निर्धूताशेषसंसारः सत्यमित्यादिनोदितः ।
व्युत्ताप्यासत्यज्ञानादेर्बुद्धौ चात्मनि दर्शितः ॥ ५२२ ॥ 【भाष्यम्】 【भाष्यम्】 निष्कृष्याविद्योत्सङ्गस्थात्तत्साक्षिणमनात्मनः ।
साक्षात्तेनैव तं विद्मः प्रात्यक्ष्यात्सोऽयमित्यतः ॥ ५२३ ॥ 【भाष्यम्】 【भाष्यम्】 अकामहत इत्येवं निरविद्योऽभिधीयते ।
तस्यामसत्यां तद्ब्रह्म स्वयमेवानुभूयते ॥ ५२४ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञातं ज्ञायते यत्र प्रमातृत्वाद्यनिह्नवात् ।
तत्र मानान्तरापेक्षा न स्वतोऽवगमात्मके ॥ ५२५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमैवाऽऽत्मात्मिका यत्र त्वनन्यानुभवात्मिका ।
नात्र मानान्तरापेक्षा सैवानस्तमितोदिता ॥ ५२६ ॥ 【भाष्यम्】 【भाष्यम्】 आधेयार्थप्रधानेयं सप्तमी पुरुषात्परा ।
योऽयमित्यादिना तद्वच्छ्रुतिरेवं प्रवादिनी ॥ ५२७ ॥ 【भाष्यम्】 【भाष्यम्】 अकामहतधीगम्यो योऽयं बुद्धेः सदेक्षकः ।
अयं पुरुष इत्यत्र स एव त्वभिधीयते ॥ ५२८॥ 【भाष्यम्】 【भाष्यम्】 प्रध्वस्तास्मद्विभागश्च रोचिष्णुर्यश्च भास्करे ।
सूर्य आत्मेति मन्त्रोऽपि योऽसाविति च साक्ष्यथ ॥ ५२९ ॥ 【भाष्यम्】 【भाष्यम्】 क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया ।
तस्मात्तद्धानतश्चैक्यं घटेतरखयोरिव ॥ ५३० ॥ 【भाष्यम्】 【भाष्यम्】 मूर्तामूर्तात्मकस्यास्य ह्युत्कर्षः परमो रविः । स्वान्तर्गतेन तस्यैक्यं तन्निमित्तनिषेधतः ॥ ५३१ । ॥ अनूद्य स य इत्येवमपकृष्टं नृबुद्धिगम् ।
उत्कृष्टेनेश्वरेणाथ विशिनष्ट्यहिरज्जुवत् ॥ ५३२ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्टो यदपेक्ष्येशस्तत्तावद्बाध्यते बलात् ।
जहाति पश्चादुत्कर्षमपकृष्टाश्रयो हि सः ॥ ५३३ ॥ 【भाष्यम्】 【भाष्यम्】 नाऽऽदित्यस्थस्तदोत्कर्षो नापकृष्टिस्तथाऽऽत्मनि ।
हित्वोभयमवाक्यार्थं नेति नेतीति विन्दते ॥ ५३४ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्टिर्वाऽपकृष्टिर्वा नेह स्वात्मनि विद्यते ।
तमोपहतदृष्टीनामुत्कर्षेतरवीक्षणम् ॥ ५३५ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यैव यतो हेतुरुत्कृष्ट्यादेर्न वस्त्वतः ।
जग्धायां विद्यया तस्यां नानात्वं विनिवर्तते ॥ ५३६ ॥ 【भाष्यम्】 【भाष्यम्】 अतिशेते यतः सर्वानानन्दानाग्रजादधि ।
विकल्पभूमेर्व्यावृत्तेरैक्यं स्वात्मरविस्थयोः ॥ ५३७ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यं ज्ञानमिति ह्यस्मादसत्याद्यर्थवारणात् ।
भेदाश्रयस्य व्यावृत्तेरैक्यं स्वात्मरविस्थयोः ॥ ५३८ ॥ 【भाष्यम्】 【भाष्यम्】 कार्येण रसलाभेन प्राणनाद्युपपत्तिभिः ।
अस्तीत्यपाक्रियैतस्य प्राहुर्भाष्यकृतः स्वयम् ॥ ५३९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नयोरस्ति नास्तीति व्याख्यातत्वादथाधुना ।
आहो विद्वानमुं लोकमित्यस्यापाक्रियोच्यते ॥ ५४० ॥ 【भाष्यम्】 【भाष्यम्】 तद्वाणीभानुसम्प्लुष्टबहुलाज्ञानधीरहम् ।
यदा हीत्यादिना मन्ये उतेत्यादेर्विनिर्णयम् ॥ ५४१ ॥ 【भाष्यम्】 【भाष्यम्】 उताविद्वानमुं लोकमितिप्रश्नविनिर्णयात् ।
अस्ति नास्तीति सिद्धः स्यात्प्रश्नयोरपि निर्णयः ॥ ५४२ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वत्ताव्यतिरेकेण फलं भिन्नं यथा तथा ।
अकामहततायास्तु परानन्दो न भिद्यते ॥ ५४३ ॥ 【भाष्यम्】 【भाष्यम्】 अनेकजन्मसंसिद्धः स यः कश्चिद्भवेदिह ।
यथोदितार्थवित्साक्षादस्माद्रागेतरात्मकात् ॥ ५४४ ॥ 【भाष्यम्】 【भाष्यम्】 लोकादाध्यात्मिकात्प्रेत्य यश्च स्यादाधिभौतिकः ।
तदुत्क्रान्तेर्भवेद्धेतुरन्नसृष्टिस्थितिक्षयः ॥ ५४५ ॥ 【भाष्यम्】 【भाष्यम्】 लोकादस्मात्समुत्क्रम्य ह्येवंविदितिवाचकः ।
सर्वशेषमिति न्याय्यं तद्व्याख्यानाय चोत्तरम् ॥ ५४६ ॥ 【भाष्यम्】 【भाष्यम्】 गत्वेहान्नमयात्मानं तत्कार्यं यद्वदत्यगात् ।
अन्नेनान्नमयं तद्वद्विद्वान्प्राणमयात्मना ॥ ५४७ ॥ 【भाष्यम्】 【भाष्यम्】 तस्यापि ह्यन्तरात्मानमही रज्जुमिव स्वतः । मनोमयात्मना बाह्यमुपसङ्क्रामतीश्वरः ।
पूर्वपूर्वप्रहाणं स्यादुत्तरोत्तरगामिभिः ॥ ५४८ ॥ 【भाष्यम्】 【भाष्यम्】
दृश्यादृश्यादिहीनेऽथ प्रतिष्ठां विन्दतेऽभयम् ॥ ५४९ ॥ 【भाष्यम्】 【भाष्यम्】 योऽसावेवंविदित्युक्तः परस्मात्किमसौ भवेत् ।
स्वतो भिन्नोऽथ वाऽभिन्नो यदि वोभयलक्षणः ॥ ५५० ॥ 【भाष्यम्】 【भाष्यम्】 भेदे श्रुतिविरोधः स्यादन्योऽसाविति निन्दनात् ।
कर्मकर्तृत्वमेकस्य दोषोऽभेदेऽपि विद्यते ॥ ५५१ ॥ 【भाष्यम्】 【भाष्यम्】 परस्य दुःखिता चैवं पराभावः प्रसज्यते ।
तस्मान्निर्धारणार्थोऽयं विचारः क्रियतेऽधुना ॥ ५५२ ॥ 【भाष्यम्】 【भाष्यम्】
निश्चितं हि परिज्ञानं फलवत्स्यात्प्रसिद्धितः ॥ ५५३ ॥ 【भाष्यम्】 【भाष्यम्】 नान्यस्यान्यात्मता यस्माद् ध्वंसे वाऽध्वंस एव वा ।
तस्मादनन्यो विज्ञेयः परस्मादात्मनो बुधः ॥ ५५४ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्यश्चेद्भवेद्विद्वान्भूतत्वाद्भवतीति किम् ।
बाढं प्राप्तं परं ब्रह्म नानात्माऽऽप्नोति येन तत् ॥ ५५५ ॥ 【भाष्यम्】 【भाष्यम्】 दशमाप्तिवदज्ञानात्स्वरूपादिव वर्ण्यते ।
विद्यया तदवाप्नोति यदनाप्तमविद्यया ॥ ५५६ ॥ 【भाष्यम्】 【भाष्यम्】 तमोह्नुत्यतिरेकेण नेह ग्रामाद्यवाप्तिवत् ।
तत्प्राप्तिसाधनं ज्ञानं ग्राममार्गप्रबोधवत् ॥ ५५७ ॥ 【भाष्यम्】 【भाष्यम्】 इत्येवं चेन्न वैधर्म्यान्न हि तत्रोपदिश्यते ।
गन्तव्यविषयं ज्ञानं यथा सत्यादिलक्षणम् ॥ ५५८ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मापेक्षं परप्राप्तौ ज्ञानं स्यादिति चेन्न तत् ।
मुक्तौ न कर्मणः कार्यं यस्मादण्वपि विद्यते ॥ ५५९ ॥ 【भाष्यम्】 【भाष्यम्】 बुद्धं यस्मात्स्वतस्तत्त्वमतः शुद्धं स्वतो भवेत् ।
अतो मुक्तं स्वतो ब्रह्म वद स्यात्कर्मणाऽत्र किम् ॥ ५६० ॥ 【भाष्यम्】 【भाष्यम्】 स्रष्टृप्रवेष्ट्रोश्चैकत्वादभिन्नः स्यात्पराद्बुधः । विपश्चिद्व्यतिरेकेण यदीशोऽन्यो न विद्यते ।
ततः स्यादभयप्राप्तिर्द्वितीयाद्वै भयश्रुतेः ॥ ५६१ ॥ 【भाष्यम्】 【भाष्यम्】 द्वितीयं चेदविद्योत्थमेकं वस्तु स्वतो यदि ।
न स वेदैकधैवेति विभागोक्तिस्तदा भवेत् ॥ ५६२ ॥ 【भाष्यम्】 【भाष्यम्】
यदि तैमिरिकादन्यैर्द्वितीयो नेक्ष्यते शशी ॥ ५६३ ॥ 【भाष्यम्】 【भाष्यम्】 चन्द्र एक इति ज्ञानं तदा स्यात्पारमार्थिकम् ।
तद्गृह्यते द्वितीयं चेन्न सुषुप्तेऽग्रहः श्रुतेः ॥ ५६४ ॥ 【भाष्यम्】 【भाष्यम्】 न चेहान्यमनस्ता स्यात्सर्वेषामग्रहो यतः ।
अस्त्येवैतद्द्वितीयं चेद् ग्रहणात्स्वप्नबोधयोः ॥ ५६५ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्योत्थानतो नैवं तदा तद्भावभावतः । द्वयाबोधः सुषुप्तेऽपि त्वज्ञानादिति चेन्न तत् ।
स्वाभाविकत्वात्तस्यापि निमित्तस्यानपेक्षणात् ॥ ५६६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्यापेक्षं हि यद्रूपं न तत्तस्य स्वतो भवेत् ।
विक्रियाऽविक्रिया त्वस्य तत्त्वमन्यानपेक्षणात् ॥ ५६७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वप्नवन्न सुषुप्तोऽतः स्वत एवाद्वयत्वतः ।
द्रष्टुर्दृष्टेर्न लोपः स्यात्सत्यमेवं श्रुतेर्वचः ॥ ५६८ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनोऽन्यो भवेद्येषामीश्वरः कारणात्तथा ।
कार्यं भयानिवृत्तिः स्यादन्यहेतुत्वसंश्रयात् ॥ ५६९ ॥ 【भाष्यम्】 【भाष्यम्】 अन्यस्य भयहेतुत्वमधर्मापेक्षयेति चेत् ।
मैवं तस्यापि तुल्यत्वान्निवृत्तेः स्यादसम्भवः ॥ ५७० ॥ 【भाष्यम्】 【भाष्यम्】 निर्निमित्तं भयं चेत्स्यान्न तस्यास्ति निवारणम् ।
ध्वंसेन वा निवृत्तिः स्यादात्मनो नेष्यते तथा ॥ ५७१ ॥ 【भाष्यम्】 【भाष्यम्】 एकत्वपक्षे त्वेतेषां दोषो नान्यतमो भवेत् ।
भयस्याज्ञानहेतुत्वात्तन्निवृत्तौ निवर्तते ॥ ५७२ ॥ 【भाष्यम्】 【भाष्यम्】 अन्यहेतुः स्वतो वा स्याद्भयं नोभयथाऽपि हि ।
स्वातन्त्र्याभावादन्यस्मिन्स्वात्महानं च नेष्यते ॥ ५७३ ॥ 【भाष्यम्】 【भाष्यम्】 अनिवर्त्य स्वमात्मानं न भयस्य निराक्रिया ।
निवृत्तावपि नैव स्यान्निवृत्त्यैव समाप्तितः ॥ ५७४ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यामात्रहेतौ तु सर्वमेतत्समञ्जसम् ।
तस्यामसत्यां तन्न स्यात्सत्यामेव हि भीर्यतः ॥ ५७५ ॥ 【भाष्यम्】 【भाष्यम्】 यदज्ञानाद्भयं यत्स्यात्तज्ज्ञानात्तत्कुतो भवेत् ।
रज्जुसर्पादिवत्तस्मादविद्यैव भयोद्भवः ॥ ५७६ ॥ 【भाष्यम्】 【भाष्यम्】 विद्याऽविद्यात्मकं ब्रह्म मतं चेन्न विरोधतः ।
पृथक्च दृश्यमानत्वादात्मनो घटरूपवत् ॥ ५७७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षेण हि दृश्येते विद्याविद्ये मनोगते ।
न तयोरात्मधर्मत्वं तस्मात्ते नामरूपयोः ॥ ५७८ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तरा नामरूपे ये ब्रह्मबाह्ये तयोर्हि तत् ।
न स्तो ब्रह्मणि ते भानावुदयास्तमयाविव ॥ ५७९ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मकर्तृकतैकस्य दोषः स्यादिति चेन्न तत् ।
सङ्क्रान्तेर्ज्ञानमात्रत्वात्तद्धि भेदनिरासि नः ॥ ५८० ॥ 【भाष्यम्】 【भाष्यम्】 सुखदुःखादिसम्बद्धमात्माऽऽत्मानं न वेत्ति चेत् ।
भवतो मुमुक्षुता कस्माद्विस्रम्भादेतदुच्यताम् ॥ ५८१ ॥ 【भाष्यम्】 【भाष्यम्】 जाग्रत्स्वप्नसुषुप्तेषु वस्तुवृत्तानुरोधतः ।
श्यामः सुखी न वेद्मीति वेत्त्यात्मानं प्रसिद्धितः ॥ ५८२ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यकारणहानाच्च न विभागः परात्मनि ।
अभावात्कर्मकर्त्रादेर्बोध एवावशिष्यते ॥ ५८३ ॥ 【भाष्यम्】 【भाष्यम्】 कारकाण्युपमृद्नाति विद्या बुद्धिमिवोषरे ।
कारकत्वमविद्योत्थं स्वतश्चाकारकात्मता ॥ ५८४ ॥ 【भाष्यम्】 【भाष्यम्】 यद्धि यस्य स्वतो रूपं न तत्प्राप्तावपेक्षते ।
क्रियामन्यनिमित्तत्वादपेक्षा कर्त्रपह्नवे ॥ ५८५ ॥ 【भाष्यम्】 【भाष्यम्】 नैवेहान्नमयात्मानं जलूकावत्परोऽञ्जसा ।
उपसङ्क्रामतीत्यस्माद्गौणी सङ्क्रान्तिरिष्यते ॥ ५८६ ॥ 【भाष्यम्】 【भाष्यम्】 बहिः प्रवृत्तेः सङ्क्रान्तिः प्रत्यावृत्येति चेन्मतम् ।
मनोमयादिवन्नैवं विरुद्धा स्वात्मनि क्रिया ॥ ५८७ ॥ 【भाष्यम्】 【भाष्यम्】 स्फुरन्ती न जलूकाऽपि स्वात्मानं स्वात्मनाऽञ्जसा ।
उपसङ्क्रामतीत्यत्र निर्भागत्वात्तथाऽपि न ॥ ५८८ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्प्राप्तिर्न सङ्क्रान्तिर्न च कोशात्मकर्तृका ।
पञ्चकोशातिरिक्तात्मकर्तृका परिशिष्यते ॥ ५८९ ॥ 【भाष्यम्】 【भाष्यम्】 कोशातिरिक्तरूपस्य सर्वान्तरतमात्मनः ।
अक्रियस्यैव सङ्क्रान्तिर्नभोवत्स्यात्परात्मनः ॥ ५९० ॥ 【भाष्यम्】 【भाष्यम्】 गुहाश्रयाभिसम्बन्धो योऽविद्याविभ्रमाद्भवेत् ।
आत्मज्ञानाद् भ्रमध्वस्तौ सङ्क्रान्तिरिति गीरियम् ॥ ५९१ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्सत्यमनन्तं यत्सर्वदाऽविकलेक्षणम् ।
तदस्मीति प्रबोधार्थं बहुस्यामिति कल्प्यते ॥ ५९२ ॥ 【भाष्यम्】 【भाष्यम्】 पञ्चकोशातिवर्त्यात्मा ज्ञानभानूदयात्क्रमात् ।
जग्ध्वा पञ्चापि कोशांस्तान्निर्वात्यात्मनि दीपवत् ॥ ५९३ ॥ 【भाष्यम्】 【भाष्यम्】 तदेतस्मिन्यथोक्तेऽर्थे श्लोको मन्त्रोऽपि विद्यते ।
अशेषानन्दवल्ल्यर्थसारस्यास्य प्रकाशकः ॥ ५९४ ॥ 【भाष्यम्】 【भाष्यम्】
इत्यष्टमोऽनुवाकः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 नवमोऽनुवाकः
यतो वाचो निवर्तन्ते तद्ब्रह्मेति प्रतीयताम् ॥ ५९५ ॥ 【भाष्यम्】 【भाष्यम्】 शब्दप्रवृत्तिहेतूनां प्रत्यगात्मन्यसम्भवात् ।
शब्दार्थासम्भवं प्राह ह्यप्राप्येत्यादराच्छ्रुतिः ॥ ५९६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्माल्लक्षणवाचीनि सत्यादीनि पुराऽब्रवम् । विशेषणविशेष्याणां निषेधात्कोशशायिनाम् ।
निर्ममं निरहङ्कारं ब्रह्मैवाऽऽत्मेत्युपास्महे ॥ ५९७ ॥ 【भाष्यम्】 【भाष्यम्】 द्रव्यादिविषये यानि प्रयुक्तानि प्रयोक्तृभिः ।
स्वार्थहेतोर्निवृत्त्यैव निवर्तन्ते वचांस्यतः ॥ ५९८ ॥ 【भाष्यम्】 【भाष्यम्】 न मातृयायिनो यस्मात्प्रत्यया बुद्धिकर्तृकाः ।
तन्निवृत्तौ निवर्तन्ते तस्मात्ते मनसा सह ॥ ५९९ ॥ 【भाष्यम्】 【भाष्यम्】 यतो वाचोऽभिधानानि प्रयुक्तान्युपलब्धये ।
सर्वाण्यनभिधायैव निवर्तन्तेऽवबोध्य च ॥ ६०० ॥ 【भाष्यम्】 【भाष्यम्】 उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः ।
स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते ॥ ६०१ ॥ 【भाष्यम्】 【भाष्यम्】 माहात्म्यमेतच्छब्दस्य यदविद्यां निरस्यति ।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाध्यते ॥ ६०२ ॥ 【भाष्यम्】 【भाष्यम्】 दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः ॥ ६०३ ॥ 【भाष्यम्】 【भाष्यम्】 अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ ६०४ ॥ 【भाष्यम्】 【भाष्यम्】 जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो वचसाऽज्ञाने ब्रह्मास्मीति भवेन्मतिः ॥ ६०५ ॥ 【भाष्यम्】 【भाष्यम्】 नाभेदः क्रिययोरत्र क्रियातत्फलभेदतः ।
किं पूर्वमिति चोद्यस्य नात्रातः सम्भवो भवेत् ॥ ६०६ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्याघातिनः शब्दादहं ब्रह्मेति धीर्भवेत् ।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ ६०७ ॥ 【भाष्यम्】 【भाष्यम्】 अवशिष्टं स्वतो बुद्धं शुद्धं मुक्तं ततो भवेत् ।
नातः स्याद्भावनापेक्षा नापि मानान्तरं प्रति ॥ ६०८ ॥ 【भाष्यम्】 【भाष्यम्】 अलौकिकत्वाद्बोधस्य स्वतश्चावगमात्मनः ।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ॥ ६०९ ॥ 【भाष्यम्】 【भाष्यम्】 नद्यास्तीरे फलानीव प्रत्यक्षाद्यनपेक्षतः ।
किमिवेहान्यमानेषु तावापेक्षाऽभिधाश्रुतेः ॥ ६१० ॥ 【भाष्यम्】 【भाष्यम्】 प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा ।
यत्सान्निध्यात्प्रसिध्यन्ति तत्सिद्धौ किमपेक्षते ॥ ६११ ॥ 【भाष्यम्】 【भाष्यम्】 जाग्रत्स्वप्नसुषुप्तेषु घटोऽयमिति संविदः ।
व्यवधानं न चेहास्ति तद्भावाभावसाक्षितः ॥ ६१२ ॥ 【भाष्यम्】 【भाष्यम्】 इदमेवमिदं नैवमिति बुद्धिर्विभागभाक् ।
अनात्मिकाऽऽत्मवत्यत्र येनासौ किमपेक्षते ॥ ६१३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्त्रादिव्यापृतेः पूर्वमसङ्कीर्ण उपाधिभिः ।
अविक्षिप्तो ह्यसंसुप्तोऽनुभवः किमपेक्षते ॥ ६१४ ॥ 【भाष्यम्】 【भाष्यम्】 अभिधेयं न यद्वस्तु प्रत्ययश्च न ढौकते ।
नियुक्तोऽपि नियोगेन कथं तद् द्रष्टुमर्हति ॥ ६१५ ॥ 【भाष्यम्】 【भाष्यम्】 अपि मानान्तरप्राप्तं वस्तुवृत्तं निवर्तयेत् ।
नियोगार्थानुरोधेन यदि वस्त्ववबोध्यते ॥ ६१६ ॥ 【भाष्यम्】 【भाष्यम्】 भाव्यतेऽसन्नपीहार्थः प्रसिद्धेर्लोकवह्निवत् ।
ब्रह्मणस्त्वप्रसिद्धत्वात्तथाऽप्यत्र सुदुर्लभम् ॥ ६१७ ॥ 【भाष्यम्】 【भाष्यम्】 क्रियतेऽलौकिकोऽप्यर्थः पदार्थान्वयरूपतः ।
अवाक्यार्थात्मकं ब्रह्म तथाप्यत्र सुदुष्करम् ॥ ६१८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमाणमप्रमाणं च प्रमाऽऽभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतः ॥ ६१९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रामाण्यमेतत्पृष्ठेन कस्मान्नैत्यभिधाश्रुतिः ।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम् ॥ ६२० ॥ 【भाष्यम्】 【भाष्यम्】 पश्येदात्मानमित्यादि वाक्यं यत्स्याद्विधायकम् ।
ज्ञानकर्तव्यतायां तन्नियोज्यपुरुषं प्रति ॥ ६२१ ॥ 【भाष्यम्】 【भाष्यम्】 स्वव्यापारेऽनपेक्ष्यैव वस्तुवृत्तं वचो यतः ।
नियुङ्के पुरुषं तस्माद्वस्तुवृत्तं सुदुर्लभम् ॥ ६२२ ॥ 【भाष्यम्】 【भाष्यम्】 स्वशकत्यननुरूपं चेत्कार्यं वाक्यशतैरपि ।
नियुक्तोऽपि न तत्सिद्धावलं शक्ये स हीश्वरः ॥ ६२३ ॥ 【भाष्यम्】 【भाष्यम्】 अभिधाश्रुतितत्सिद्धौ व्यापृच्छेत प्रयत्नतः ।
विधिवाक्यानुगामित्वान्नार्थस्पृक्स्यात्स्वतन्त्रतः ॥ ६२४ ॥ 【भाष्यम्】 【भाष्यम्】
स्वमांसान्यपि खादन्ति नियोगानतिलङ्गिनः ॥ ६२५ ॥ 【भाष्यम्】 【भाष्यम्】 जहत्यपि प्रियान्प्राणाञ्शक्यार्थत्वात्ततोऽपि हि ।
अशक्ये विनियुक्तोऽपि कृष्णलाञ्श्रपयेदिति ॥ ६२६ ॥ 【भाष्यम्】 【भाष्यम्】
सर्वात्मनाऽप्यसौ कुर्वन्कुर्यात्तस्करकन्दुवत् ॥ ६२७ ॥ 【भाष्यम्】 【भाष्यम्】 न चोपासान्तराधीनो ब्रह्मज्ञानोदयो भवेत् ।
तं यथा, तं तमेवेति न्यायदृब्धश्रुतेः स्मृतेः ॥ ६२८ ॥ 【भाष्यम्】 【भाष्यम्】 नार्थस्पृग्भावना चेत्स्याद्ब्रह्मधीजन्मने न सा ।
स्वभ्यस्ता राजती नो धीः शुक्तिकाज्ञानजन्मने ॥ ६२६ ॥ 【भाष्यम्】 【भाष्यम्】 द्रष्टव्यश्चेद्भवेदात्मा स्यान्नियोगस्तदाऽऽत्मनि ।
निषेधाद्दर्शनस्येह न नियोगोऽस्त्यतः परे ॥ ६३० ॥ 【भाष्यम्】 【भाष्यम्】 नियोगानुप्रवेशेन वस्तुतत्त्वं प्रबोध्यते ।
न हि विध्यनपेक्षस्य प्रामाण्यमनुवादिनः ॥ ६३१ ॥ 【भाष्यम्】 【भाष्यम्】 नैवं यतः क्रियैवेह चोदनाभिर्विधीयते । स्वव्यापारे यतस्ताभिर्नियोक्तुं शक्यते पुमान् ।
द्रव्यस्वरूपेऽसाध्यत्वात्कथं ताभिः प्रवर्त्यते ॥ ६३२ ॥ 【भाष्यम्】 【भाष्यम्】 न चापीहात्मविज्ञानं चोदनाभिर्विधीयते ।
स्वाध्यायोऽध्येतव्य इति ह्येतस्मात्तस्य सिद्धितः ॥ ६३३ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मावबोधो न यथा नियोगान्तरमीक्षते ।
तथैवात्मावबोधोऽपि न नियोगान्तराद्भवेत् ॥ ६३४ ॥ 【भाष्यम्】 【भाष्यम्】 स्यादेतदात्मबोधस्य नियोगविरहाद्यदि ।
पुमर्थकारिता पुम्भिर्लभ्यते न तु लभ्यते ॥ ६३५ ॥ 【भाष्यम्】 【भाष्यम्】 नियोगैकाधिगम्यत्वाज्ज्ञानकार्यस्य नान्यतः ।
प्रमान्तरादिदं सिध्येन्नापि स्यादभिधानतः ॥ ६३६ ॥ 【भाष्यम्】 【भाष्यम्】 नैतदेवं यतो नेह ज्ञेयार्थव्याप्तिमात्रतः ।
फलान्तरं प्रबोधस्य किञ्चित्सम्भाव्यतेऽण्वपि ॥ ६३७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तरेण नियोगं च स्वात्मबोधस्य सिद्धितः ।
स्वाध्यायोऽध्येतव्य इति ब्रूहि स्यात्किं नियोगतः ॥ ६३८ ॥ 【भाष्यम्】 【भाष्यम्】 नैवं यतोऽन्यदेवेदं विज्ञानान्तरमात्मनि ।
सोपायं कार्यमित्येवं चोद्यते केवलं परम् ॥ ६३९ ॥ 【भाष्यम्】 【भाष्यम्】
शब्दाज्जनितविज्ञानाद् व्यतिरिक्तं परात्मगम् ॥ ६४० ॥ 【भाष्यम्】 【भाष्यम्】 न हि शब्दसमुत्थेन ब्रह्म ज्ञानेन शक्यते ।
तस्यावाक्यार्थरूपत्वात्परिच्छेत्तुं घटादिवत् ॥ ६४१ ॥ 【भाष्यम्】 【भाष्यम्】 नानापदार्थसंसर्गलक्षणोऽयं यतः स्मृतः । वाक्यार्थो वाक्यविद्भिर्हि प्रमावाक्यं च नो मतम् ।
तस्य चाविषयत्वात्तु ब्रह्मावाक्यार्थरूपभृत् ॥ ६४२ ॥ 【भाष्यम्】 【भाष्यम्】 विज्ञानान्तरगम्यं तदभ्युपेयं बलादपि । न चेद्वाक्योत्थविज्ञानग्राह्यं ब्रह्माभ्युपेयते ।
नाम्नायार्थो भवेत्तर्हि नैवं वेदार्थ एव च ॥ ६४३ ॥ 【भाष्यम्】 【भाष्यम्】
कथं वेदार्थतैतस्य न चेद्वाक्यार्थ इष्यते ॥ ६४४ ॥ 【भाष्यम्】 【भाष्यम्】 पुंव्यापाराधीनत्वान्न नियोगादयं भवेत् ।
पदार्थानन्वयान्नापि वाक्योत्थो बोध आत्मनि ॥ ६४५ ॥ 【भाष्यम्】 【भाष्यम्】 तदन्वयेऽपि नैवायं वाक्यार्थत्वं समश्नुते ।
सामान्यमात्रवाचित्वे पदानां सङ्क्षयो यतः ॥ ६४६ ॥ 【भाष्यम्】 【भाष्यम्】 पदार्थव्यतिरेकेण न चावाक्यार्थवाचकः ।
अतोऽवाक्यार्थरूपोऽयं योऽहं ब्रह्मेति निश्चयः ॥ ६४७ ॥ 【भाष्यम्】 【भाष्यम्】 नियोगानुप्रवेशेन वस्तुतत्त्वमितीरितम् ।
यत्तस्य परिहाराय श्लोकोऽस्माभिर्यथोदितः ॥ ६४८ ॥ 【भाष्यम्】 【भाष्यम्】 इदं ज्ञेयमिदं ज्ञानं ज्ञाताऽस्मीति विभागतः ।
सर्वदा दर्शनात्तावन्नाविद्याऽस्यैषु विद्यते ॥ ६४९ ॥ 【भाष्यम्】 【भाष्यम्】 चिन्मात्रव्यतिरेकेण सर्वप्रत्ययसाक्षिणः ।
रूपान्तरं न सम्भाव्यं प्रमाभासात्तथा ह्नुतिः ॥ ६५० ॥ 【भाष्यम्】 【भाष्यम्】 हानोपादानहीनोऽयं तत्साक्षित्वात्स्वतो ध्रुवः ।
द्रष्ट्रादिसाक्षिताऽप्यस्य तत्कारणसमाश्रयात् ॥ ३५१ ॥ 【भाष्यम्】 【भाष्यम्】 इदं वेद्मि न वेद्मीदमिति बुद्धिर्विवर्तते ।
प्रत्यभिज्ञाश्रया सा स्याद् द्रष्टैवोभयरूपभाक् ॥ ६५२ ॥ 【भाष्यम्】 【भाष्यम्】 निर्विभागात्मकत्वात्तु सर्वकोशातिवर्तिनः ।
रूपं नानात्मवन्न्याय्यं प्रत्यभिज्ञासमाश्रयम् ॥ ६५३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतिस्मृत्यान्यतः प्राप्तं रूपं यत्पारिणामिकम् ।
ज्ञाता प्रत्यभिजानाति प्रत्यक्षार्थोपसंस्कृतः ॥ ६५४ ॥ 【भाष्यम्】 【भाष्यम्】 बुद्धेः स्यादपराधोऽयं यद्बाह्यार्थानुकारिता ।
प्रत्यक्त्वं चिन्निभत्वं च कौटस्थ्यान्नायमात्मनि ॥ ६५५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिसु । बाह्यं निरस्य धीरूपं चिन्मात्रात्मावभासया ।
धियोपलक्ष्यावाक्यार्थं सर्वदाऽव्यभिचारतः ॥ ६५६ ॥ 【भाष्यम्】 【भाष्यम्】 व्यभिचारिणश्च बाधेन तत्त्वमस्यादिरूपिणी ।
दहन्त्यखिलमज्ञानं बोधयत्येव केवलम् ॥ ६५७ ॥ 【भाष्यम्】 【भाष्यम्】 सामानाधिकरण्यादेर्घटेतरखयोरिव ।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ६५८ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यादेवमवाक्यार्थो यस्मात्साक्षात्प्रसिध्यति ।
अन्यदेवेदमित्यादि सर्वं स्यात्तुषकण्डनम् ॥ ६५९ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञानमन्यथाज्ञानं संशयज्ञानमेव च ।
घटादावेव तद्दृष्टं न ज्ञातृज्ञानसाक्षिषु ॥ ६६० ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञानादि त्रयं तावत्प्रत्ययेऽपि न विद्यते ।
तस्य ह्यव्यवधानेन प्रत्यक्षान्नान्यमानता ॥ ६६१ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञातुरव्यवधानेन संशयो निश्चयोऽपि वा ।
प्रत्ययः प्रथते यस्मान्न मानान्तरकाङ्क्ष्यतः ॥ ६६२ ॥ 【भाष्यम्】 【भाष्यम्】 अज्ञानादि त्रयं तावज्ज्ञातर्यपि न विद्यते ।
किमङ्ग सर्वदाऽलुप्तचक्षुष्यात्मनि केवले ॥ ६६३ ॥ 【भाष्यम्】 【भाष्यम्】 निर्धूताशेषभेदोऽयमवाक्यार्थात्मकस्तथा ।
सुषुप्ते गम्यतेऽस्माभिर्नानृतं श्रुतिगौरवात् ॥ ६६४ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वदा चात्मरूपत्वाद् व्यभिचारादनात्मनः ।
ब्रह्मात्मनि स्वतः सिद्धं ज्ञानं मोहापनोदि यत् ॥ ६६५ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञाताज्ञातविभागोऽस्मिंज्ञानाज्ञानात्मता तथा ।
ज्ञात्रज्ञातृत्वमप्येवं स्वतः सिद्धेर्न साक्षिणः ॥ ६६६ ॥ 【भाष्यम्】 【भाष्यम्】 स्वव्यापारे नियोगोऽपि नियुङ्क्ते पुरुषं बलात् ।
यथाभूतार्थता बुद्धेर्वास्तवी न तु पौरुषी ॥ ६६७ ॥ 【भाष्यम्】 【भाष्यम्】 इदमेवमदो नेति यथैवार्थमृते विधिम् ।
वेत्ति तत्त्वमसीत्येवं किं न वेत्त्यभिधाश्रुतेः ॥ ६६८ ॥ 【भाष्यम्】 【भाष्यम्】 क्रियायां विधिसम्पातः कर्त्रादिषु न सिद्धितः ।
न चानेकार्थतैकस्य वाक्यस्य भवतेष्यते ॥ ६६९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षादेव भेदोऽयमभिधाननियोगयोः ।
तस्य चेद् व्यभिचारित्वं व्यर्थं सर्वज्ञभाषितम् ॥ ६७० ॥ 【भाष्यम्】 【भाष्यम्】 कर्तुः क्रियायां स्वातन्त्र्यं वस्तुवृत्ते ह्यनीश्वरः ।
वस्तुवृत्तं च नो मुक्तिः क्रियातश्चेदनित्यता ॥ ६७१ ॥ 【भाष्यम्】 【भाष्यम्】 यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः ।
पौरुषायासमात्रोत्थमज्ञानं रजतादिवत् ॥ ६७२ ॥ 【भाष्यम्】 【भाष्यम्】 वस्तुमात्रानुरोधित्वात्सम्यग्ज्ञानस्य दुष्करम् ।
नियोगानुप्रवेशेन वस्तुतत्त्वावबोधनम् ॥ ६७३ ॥ 【भाष्यम्】 【भाष्यम्】 नियोगानुप्रवेशे वा होतोर्व्याप्तिः प्रदर्श्यताम् ।
गमकत्वमृते व्याप्तिं नैव हेतोः प्रसिध्यति ॥ ६७४ ॥ 【भाष्यम्】 【भाष्यम्】 विधिशून्यस्य वाक्यस्य प्रामाण्यं प्रत्यगात्मनि ।
येषां प्रकाश्यत इति न तेषां मतिरीदृशी ॥ ६७५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकाश्यत्वाश्रयश्चायं व्यापारः सर्व एव च ।
तस्मिन्नसति तन्मिथ्या यदेतद्भवतेरितम् ॥ ६७६ ॥ 【भाष्यम्】 【भाष्यम्】 अस्थूलाशब्दतावादिप्रकाश्यत्वादि कुप्यति ।
नियोगानुप्रवेशेन यदि वस्तु प्रकाश्यते ॥ ६७७ ॥ 【भाष्यम्】 【भाष्यम्】 न चाप्रमाणता तस्य नियोगोत्सङ्गसंश्रयात् ।
एवमप्यप्रमाणं चेन्नियोगोऽविषयो भवेत् ॥ ६७८ ॥ 【भाष्यम्】 【भाष्यम्】 अदृश्यं पश्य इत्येवं नियुक्तोऽपि न शक्नुयात् ।
शक्नुयात् स नियोगाच्चेत्कुर्यात्तस्करकन्दुवत् ॥ ६७६ ॥ 【भाष्यम्】 【भाष्यम्】 विदितेतरातिरेकित्वाद् ब्रह्मरूपानुवादिभिः ।
नियोगगर्भवचनैः पश्येदिति विरुध्यते ॥ ६८० ॥ 【भाष्यम्】 【भाष्यम्】 विज्ञातारमरे केन विजानीयादिति श्रुतेः ।
न दृष्ठेरिति दृश्यत्वं नियोगैरेव वार्यते ॥ ६८१ ॥ 【भाष्यम्】 【भाष्यम्】 सदावगतिरूपस्य ज्योतिश्चक्रावभासिनः ।
स्वयञ्ज्योतिःस्वभावस्य न्याय्यं तस्मान्न दर्शनम् ॥ ६८२ ॥ 【भाष्यम्】 【भाष्यम्】 द्रश्ट्रा चेद् दृश्यते दृश्यं प्रत्यक्षाविषयः कथम् ।
कर्मकर्तृत्वमेकस्य दोषो ब्रह्मात्मदर्शने ॥ ६८३ ॥ 【भाष्यम्】 【भाष्यम्】 अदृष्टं तदकर्मत्वात्कौटस्थ्यान्नापि दृष्टिकृत् ।
जन्यादिविक्रियाषट्कनिषेधोऽप्येवमर्थवान् ॥ ६८४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमातृत्वादिभेदेन यत्स्वरूपं प्रतीयते ।
तत्प्रकाश्यत इत्याहुरप्रकाशस्वरूपतः ॥ ६८५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमातैव प्रमेयं चेत्प्रमाणं प्रमितिस्तथा ।
स्वरूपाच्चैकरूपत्वान्न तदेभिर्निरुच्यते ॥ ६८६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रामाण्यमनुवादानां न चेत्स्वविषये मतम् ।
पयोगुणस्य सम्बन्धो न प्राप्नोति जुहोतिना ॥ ६८७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वर्गेणैवाभिसम्बन्धः पयसश्चेदनुत्तरम् ।
स्वर्गस्य सिद्धये नालं द्रव्यमात्रं पयो यतः ॥ ६८८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रणयः साधनत्वं च प्राप्तं तस्मादनूद्यते ।
विशिष्टोपाश्रयं द्रव्यमतोऽलं पशुसिद्धये ॥ ६८९ ॥ 【भाष्यम्】 【भाष्यम्】 गोदोहनस्य भिन्नत्वाद्भिन्नं चेत्साधनं मतम् ।
प्राप्ता प्रणयतीत्यस्य साध्यभेदाद्विभिन्नता ॥ ६९० ॥ 【भाष्यम्】 【भाष्यम्】 हानोपादानशून्यत्वादप्रामाण्यं मतं यदि ।
ब्रह्मास्मीति परिज्ञानमप्रमाणं प्रसज्यते ॥ ६९१ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मत्वादनुपादेयमनन्यत्वादहेयता ।
अभिधाश्रुतेश्चेदेतत्किमन्यत्प्रार्थ्यते विधेः ॥ ६९२ ॥ 【भाष्यम्】 【भाष्यम्】 अनूक्तेरपि मानत्वं नैव ध्वाङ्क्षैर्विलुप्यते ।
नियोगानुप्रविष्टत्वाद्यथैवेहाभिधाश्रुतेः ॥ ६९३ ॥ 【भाष्यम्】 【भाष्यम्】 एवं च सति दृष्टान्तो भवतां नोपपद्यते ।
नियोगादेव विज्ञानमित्येवं नियमः कुतः ॥ ६९४ ॥ 【भाष्यम्】 【भाष्यम्】 वादानुवादयोरर्थो यदि भिन्नः प्रतीयते ।
अगतार्थाधिगन्तृत्वादस्त्वनूक्तेः प्रमाणता ॥ ६९५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्वक्षं भिन्नरूपा धीरिह वादानुवादयोः ।
अपूर्वाधिगतिः पूर्वमिह बुद्धावबोधनम् ॥ ६९६ ॥ 【भाष्यम्】 【भाष्यम्】 मृगतोयादिवन्मिथ्या यद्यनूक्तेर्भवेन्मतिः ।
विधेर्निर्विषयत्वं वः सर्वत्रैव प्रसज्यते ॥ ६९७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वाभिधेयं निराकाङ्क्षो ह्यनुवादः प्रबोधयेत् ।
तत्र चेदप्रमाणं स्यात्स्यात्तदुच्चारणं वृथा ॥ ६९८ ॥ 【भाष्यम्】 【भाष्यम्】 साकाङ्क्षत्वानुवादत्वे कुतश्चावगते त्वया ।
अप्रामाण्यान्न चेत्ताभ्यां विधेयप्रक्षयाद्विधेः ॥ ६९९ ॥ 【भाष्यम्】 【भाष्यम्】 स्वशब्दानभिधेयं यत्तदेवापेक्षते पदम् ।
स्वार्थे तदप्रमाणं चेद्वाक्यार्थस्यान्वयः कुतः ॥ ७०० ॥ 【भाष्यम्】 【भाष्यम्】 अप्रमाणमिति ज्ञानं कस्मादज्ञायि कथ्यताम् ।
विद्यमानोपलम्भानि न ह्यभावं प्रमिण्वते ॥ ७०१ ॥ 【भाष्यम्】 【भाष्यम्】 परस्वभावविध्वंसवर्त्मनैवात्मवस्तुनः ।
वक्ष्यत्यवगतिं चोर्ध्वं विधिनैवेति दुस्थितम् ॥ ७०२ ॥ 【भाष्यम्】 【भाष्यम्】 व्यावृत्तिः परतोऽभावो न च तस्येन्द्रियेण हि ।
सम्बन्धोऽस्ति ततो भेदः प्रमाणैर्नोपलभ्यते ॥ ७०३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमाऽभावस्वरूपत्वान्नाप्यभावाद्भिदेष्यते ।
संवित्त्यभावो नैवेह प्रकाशयति किञ्चन ॥ ७०४ ॥ 【भाष्यम्】 【भाष्यम्】 इति स्वाभिमतं सर्वं तेन चास्य विरुद्धता ।
वस्तुवृत्तानुरोधेन व्यापारः फलवानिह ॥ ७०५ ॥ 【भाष्यम्】 【भाष्यम्】 न कुलालवशाद् व्योम शरावायाप्यलं यतः । आत्मज्ञानं प्रसिद्धं चेद्विधेरेव विधिः कुतः ।
अथाप्रसिद्धं नितरां विधिर्नैवोपपद्यते ॥ ७०६ ॥ 【भाष्यम्】 【भाष्यम्】 कैवल्यकारिता बुद्धेर्नियोगादेव चेद्भवेत् ।
नियोगार्थावगतये नियोगोऽन्योऽपि मृग्यताम् ॥ ७०७ ॥ 【भाष्यम्】 【भाष्यम्】 तत्त्वमस्यादिवाक्योत्थं विज्ञानं स्वफलं स्वतः ।
अतोऽवगम्यतेऽस्माभिस्तृप्त्याख्यफलवद्भुजेः ॥ ७०८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वाध्यायोऽध्येतव्य इति विध्यन्तरमृते यथा ।
विध्यर्थावगमस्तद्वदस्त्विहाप्यभिधाश्रुतेः ॥ ७०९ ॥ 【भाष्यम्】 【भाष्यम्】 नियोगविरहादस्य यद्यर्थावगमो मृषा ।
इहापि तदमानत्वमभिधानश्रुतेरिव ॥ ७१० ॥ 【भाष्यम्】 【भाष्यम्】 भवेद्विध्यनुकूला वा अभिधा यदि वा विधिः ।
अभिधावर्त्मयायी स्यात्तत्र दोषगुणाविमौ ॥ ७११ ॥ 【भाष्यम्】 【भाष्यम्】 स्याद् द्युलोकाग्निवज्ज्ञानं यदि विध्यनुरोधिनी ।
अभिधाश्रुतिरदृष्टार्था सम्यग्ज्ञानं तु दुर्लभम् ॥ ७१२ ॥ 【भाष्यम्】 【भाष्यम्】 अथाभिधानुरोधी स्यान्नियोगोऽयं तथापि च ।
अभिधानुविधायित्वाद्विध्यर्थोऽत्र सुदुर्लभः ॥ ७१३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राक्तु वाक्यार्थविज्ञानात्तन्निविष्टपदार्थयोः ।
अन्वयव्यतिरेकाख्यविवेकाय विधिर्भवेत् ॥ ७१४ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यार्थप्रतिपत्तौ हि पदार्थाज्ञानमेव च ।
प्रतिबन्धो यतस्तस्मादन्वयाद्यवलोकनम् ॥ ७१५ ॥ 【भाष्यम्】 【भाष्यम्】 वाक्यार्थज्ञानकाले यः पदार्थो नैव विद्यते ।
कर्तव्यः कारकापेक्षो विधेयः स न संशयः ॥ ७१६ ॥ 【भाष्यम्】 【भाष्यम्】 विपरीतस्ततो यस्तु वाक्यादेवावगम्यते ।
नित्योऽकर्मविमुक्तः सन्न विधेयः कथञ्चन ॥ ७१७ ॥ 【भाष्यम्】 【भाष्यम्】 स्वसिद्धेः कारणं नान्यज्ज्ञानमज्ञानहानये ।
यस्मादपेक्षते तस्मान्न निदिध्यासनाय तत् ॥ ७१८ ॥ 【भाष्यम्】 【भाष्यम्】 सिद्धिमप्यात्मकार्यस्य कारणं सिद्धये न चेत् ।
विध्यपेक्षं तदेव स्यान्न स्वसिद्धिप्रकाशकम् ॥ ७१६ ॥ 【भाष्यम्】 【भाष्यम्】 तस्मात्कूटस्थविज्ञानं प्रत्याख्याताखिलद्वयम् ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ॥ ७२० ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणो ब्राह्मणस्येति भेदश्चात्रौपचारिकः ।
राहोः शिरोवन्मुख्यस्तु नैव स्यान्निर्गुणत्वतः ॥ ७२१ ॥ 【भाष्यम्】 【भाष्यम्】 महिमा ब्राह्मणस्यैष हानिवृद्धिविवर्जितः ।
स्वतः सिद्धेर्विजानंस्तं न बिभेति कुतश्चन ॥ ७२२ ॥ 【भाष्यम्】 【भाष्यम्】 विद्वान्सन्न बिभेतीति विद्याकालं भवेत्फलम् ।
न तु स्वर्गादिवत्प्राप्यं भुञ्जानस्तृप्यतीतिवत् ॥ ७२३ ॥ 【भाष्यम्】 【भाष्यम्】 यतोऽविद्यातिरेकेण प्रतिबन्धो न विद्यते ।
तन्नाशानन्तरां मुक्तिं विद्वानिति ततोऽवदत् ॥ ७२४ ॥ 【भाष्यम्】 【भाष्यम्】 भयहेतुर्द्वयं यस्मात्तच्चाविद्यासमुद्भवम् ।
प्लुष्टायां विद्यया तस्यां न कुतश्चन भीर्भवेत् ॥ ७२५ ॥ 【भाष्यम्】 【भाष्यम्】 परमात्मधियैतस्मिन्प्रत्यगात्मनि केवले ।
निरस्तायामविद्यायां भयं नास्ति कुतश्चन ॥ ७२६ ॥ 【भाष्यम्】 【भाष्यम्】 निर्धूतपदवाक्यार्थमित्येवं प्रतिपत्तये ।
यतो वाचो निवर्तन्ते इत्येवं वचनं श्रुतेः ॥ ७२७ ॥ 【भाष्यम्】 【भाष्यम्】 तथा मनोविकल्पानां निषेधाय परात्मनि ।
धिया सहेत्यतो वक्ति श्रुतिर्याथात्म्यबोधिनी ॥ ७२८ ॥ 【भाष्यम्】 【भाष्यम्】 निषिध्य नायमात्मेति भिन्नमात्मोपलम्भनम् ।
अनन्यानुभवं ब्रह्म यमेवेत्याह नः श्रुतिः ॥ ७२९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यग्ब्रह्मावसायित्वाद्भेदानां रज्जुसर्पवत् ।
उदाहारि ततः श्रुत्या ह्ययं श्लोको मनोमये ॥ ७३० ॥ 【भाष्यम्】 【भाष्यम्】 विद्वानेव परं ब्रह्म आत्मनाऽऽत्मानमद्वयम् ।
न बिभेत्येकलोऽद्वन्द्वो भयहेतोरसम्भवात् ॥ ७३१ ॥ 【भाष्यम्】 【भाष्यम्】 ननु साध्वक्रिया हेतुः पापानुष्ठानमेव च ।
इत्येतस्य निषेधार्थमेतं हेत्युच्यतेऽधुना ॥ ७३२ ॥ 【भाष्यम्】 【भाष्यम्】 नैतमेवंविदं यस्माद्वावेतीहावधारणे ।
न तपत्यन्तकाले तमकर्तृत्वात्मवेदिनम् ॥ ७३३ ॥ 【भाष्यम्】 【भाष्यम्】
क्रियाफलस्य सर्वस्य कर्तृगामित्वकारणात् ॥ ७३४ ॥ 【भाष्यम्】 【भाष्यम्】 धिङ्मां योऽहं शुभं कर्म जीवन्नाकरवं क्वचित् ।
अकार्षं च सदा पापं ह्यतो भयमुपस्थितम् ॥ ७३५ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मद्धेतोर्महांस्तापोऽविद्यासंवीतचेतसाम् ।
जायते मृतिकाले हि हिक्किकावशवर्तिनाम् ॥ ७३६ ॥ 【भाष्यम्】 【भाष्यम्】 फलस्यायं स्वभावो हि यत्स्वकर्त्रनुगामिता ।
अतो न तपतो ज्ञोत्थावकर्तारं शुभाशुभौ ॥ ७३७ ॥ 【भाष्यम्】 【भाष्यम्】 कस्मान्न तपतस्तौ चेद्धर्माधर्मौ विपश्चितम् ।
कौटस्थ्यादद्वयत्वाच्च प्लुष्यत्येव शुभाशुभे ॥ ७३८ ॥ 【भाष्यम्】 【भाष्यम्】
स य एवं यथोक्तार्थं विद्वानेते शुभाशुभे ॥ ७३९ ॥ 【भाष्यम्】 【भाष्यम्】 साधुकर्माक्रिया या च पापानुष्ठानमेव च ।
अकर्ताऽस्मीति विज्ञानहुताशेनाञ्जसा द्रुतम् ॥ ७४० ॥ 【भाष्यम्】 【भाष्यम्】 दग्ध्वा निरन्वये कृत्वा ह्यात्मानं स्पृणुते यतः ।
स्पृणोतिर्बलकर्माऽयमात्मानं बलयत्यतः ॥ ७४१ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यासंश्रयादात्मा बलीयानपि दुर्बलः । अविद्या राजयक्ष्माऽस्य कार्श्यमेति तया यतः ।
ध्वस्तायां विद्यया तस्यामात्मानं बलयत्यतः ॥ ७४२ ॥ 【भाष्यम्】 【भाष्यम्】 बोधेनेव निरस्तायां निद्रायां स्वप्नदर्शनम् ।
बुद्धात्मशेषतामेति तथेहैकलशेषताम् ॥ ७४३ ॥ 【भाष्यम्】 【भाष्यम्】 अथवा एष एवोभे सत्यादृश्यादिलक्षणः ।
शुभाशुभे यतस्तस्मादात्मानं बलयत्ययम् ॥ ७४४ ॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गदेहाश्रितं कार्श्यं तच्च कर्मनिबन्धनम् ।
कर्म कर्त्रादिसम्भूतं कर्त्राद्यज्ञानहेतुकम् ॥ ७४५ ॥ 【भाष्यम्】 【भाष्यम्】 अहं ब्रह्मेत्यतो ज्ञानाद्ध्वस्तायां प्रत्यगात्मनि ।
कार्श्यहेतावविद्यायामेकत्वाद्बलयत्ययम् ॥ ७४६ ॥ 【भाष्यम्】 【भाष्यम्】 स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं यथोदितम् ।
वेदैवं यः स्वमात्मानं फलं तस्येदृशं स्मृतम् ॥ ७४७ ॥ 【भाष्यम्】 【भाष्यम्】 इतीत्युक्तपरामर्शो ब्रह्मणोऽद्वयरूपिणः ।
साक्षात्तद्बोधहेतुत्वाद्वल्ली ह्युपनिषद्भवेत् ॥ ७४८ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यैवोपनिषज्ज्ञेया तयैवोपेत्य निर्द्वयम् ।
विन्दते निर्भयात्मानं तस्मादुपनिषत्स्मृता ॥ ७४९ ॥ 【भाष्यम्】 【भाष्यम्】 इमां वल्लीं तु तादर्थ्यात्परब्रह्मविदो गुणात् ।
सदोपनिषदित्यूचुस्त्यक्तसर्वैषणाः शुभाम् ॥ ७५० ॥ 【भाष्यम्】 【भाष्यम्】
इति नवमोऽनुवाकः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 इति ब्रह्मवल्ल्या वार्तिकानि समाप्तानि ॥ प्रथमोऽनुवाकः सत्यं ज्ञानमनन्तं यद् ब्रह्मोक्तं प्रत्यगात्मनि ।
तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अभिधित्सुरथेदानीं यथोक्तज्ञानसिद्धये ।
यत्साधकतमं तस्य प्राप्त्यै प्रववृते श्रुतिः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुद्वारैव विद्येयमाचार्याद्धेति नः श्रुतिः ।
शिष्योपाध्यायरूपेयमत आख्यायिकोच्यते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अधीहि भगवो ब्रह्मेत्येतन्मन्त्राभिशब्दितम् ।
अन्तर्णीतणिजर्थस्य ह्यधीहीति भवेद्यतः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 जिज्ञासुः परमं ब्रह्म श्रद्धाभक्तिपुरःसरः ।
उपसीदेद्गरीयांसं मन्त्रेणानेन शुद्धधीः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 मोक्षादर्वाक्षु भोगेषु व्यावृत्तकरणो भृगुः ।
अध्यापय परं ब्रह्मेत्यपृच्छद्वरुणं गुरुम् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नं प्राणमितीत्यादि वरुणो भृगवेऽवदत् । देहकारणमन्नं स्यात्प्राणः प्राणादिकारणम् ।
चक्षुः श्रोत्रं मनो वाक्च करणान्युपलब्धये ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】
अन्वयव्यतिरेकोक्तिर्ब्रह्मणो वोपलब्धये ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 अनिर्देश्यस्य वा भूम्नो लक्षणस्य प्रवृत्तये ।
अन्नं प्राणमितीत्यादि प्रत्यग्धर्मोपदिश्यते ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणस्य प्राणमित्येवं श्रुतिरप्याश्रिता भवेत् ।
कर्मश्रुतिश्च ब्रह्मत्वे वाचमित्यादि युज्यते ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 अन्नादयः पदार्था वा अन्वयव्यतिरेकयोः ।
इहोच्यन्ते प्रवृत्त्यर्थं सौकर्यं स्यात्कथं न्विति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 उत्पत्तिस्थितिनाशेषु ब्रह्मादिस्थावरावधि ।
नात्येति ब्रह्मरूपं यत्तद्ब्रह्मेति प्रतीयताम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 विजिज्ञासस्व तद्ब्रह्म यदेवंलक्षणं भवेत् ।
अनुत्पन्नमहीनं च जगदुत्पत्तिहानिभिः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 तपश्चचार तच्छ्रुत्वा भृगुर्ब्रह्मोपलब्धये ।
प्रतिपेदे तपोऽनुक्तं सावशेषोक्तिकारणात् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 शृङ्गग्राहिकयोक्त्वाऽपि ह्यन्नं ब्रह्मेति लक्षणम् ।
पितोवाच यतस्तस्मात्तपो भेजे स्वयं भृगुः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्म साक्षान्न निर्दिष्टं लक्षणोक्तेरतो भृगुः ।
नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 तपोविशेषादित्सा स्यात्तत्साधनतमत्वतः ।
यद्दुस्तरं यद्दुरापमिति स्मृत्यनुशासनात् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 मनसश्चेन्द्रियाणां चेत्येवमाध्यात्मिकं तपः ।
इह न्याय्यं प्रसिद्धं तु ह्यारादुपकरोति नः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् ।
अहं ब्रह्मेतिवाक्यार्थबोधायालमिदं यतः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति । प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ।
व्यासः प्राहात एवेदं मुमुक्षोर्मुक्तये तपः ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】
यतो वा इति चैवं स्यादुक्तमेवं परं तपः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 उक्तलक्षणसम्पन्नं तपस्तप्त्वा प्रयत्नवान् ।
अन्नं ब्रह्मेति भूतानामुत्पत्त्यादिसमन्वयात् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】
इति प्रथमोऽनुवाकः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः उक्तान्यन्नमयादीनि यानि तेषां तु कारणम् ।
अन्नादि प्रतिपत्तव्यं न हि कार्येऽस्ति लक्षणम् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 शुङ्गं ह्यन्नमयाद्येतदन्नादेरुपजायते ।
कार्यप्रविलयश्रुत्या कारणानन्दमेत्यतः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 कार्याणि कारणेष्वेवं तानि चैवोत्तरोत्तरम् ।
प्रविलाप्य परानन्दं यायाद्वाचामगोचरम् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नं ब्रह्मेति विज्ञाय कार्यत्वं तस्य वीक्ष्य सः ।
संशयोच्छित्तये भूयो गत्वाऽपृच्छद् गुरुं भृगुः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नादेर्ब्रह्मणश्चैवं दोषं दृष्ट्वा स कार्यताम् ।
भूयो भूयः परं ब्रह्म पप्रच्छाऽऽतृण्णिवर्तनात् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 यावत्साक्षात्परं ब्रह्म करविन्यस्तबिल्ववत् ।
न वेत्ति निर्बुभुत्सुः सन्न तावद्विनिवर्तते ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 विजिज्ञासस्व तद्ब्रह्म तपसेति पुनः पुनः ।
ब्रुवंज्ञापयतीहास्मांस्तपसैवात्मवीक्षणम् ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】
इति द्वितीयतृतीयचतुर्थपञ्चमानुवाकाः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 षष्ठोऽनुवाकः अन्वयव्यतिरेकाभ्यामेवं स शनकैर्भृगुः ।
तपसैव परं ब्रह्म विजज्ञौ प्रत्यगात्मनि ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 यस्मादेवमतः कार्यं संसारं प्रजिहासुभिः ।
प्रत्यग्ब्रह्मावबोधाय सदा निष्कल्मषं तपः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 व्युत्थायाऽऽख्यायिकारूपात्तन्निर्वृत्तमथाधुना ।
श्रुतिः स्वेनैव रूपेण व्याचष्टेऽर्थं प्रयत्नतः ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 भृगुणा विदिता यस्माद्भार्गवीयं भवेदतः ।
वारुणी वरुणोक्त्वत्वाद्विद्या स्याद्ब्रह्मवेदनात् ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 युष्मदस्मद्विभागोऽयं यत्र व्यावर्ततेऽञ्जसा ।
स आत्मा तत्परं व्योम तत्र विद्या प्रतिष्ठिता ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मता ब्रह्मणो यत्र आत्मनो ब्रह्मता तथा ।
अहं ब्रह्मेत्यवाक्यार्थमेवं वाक्यात्प्रपद्यते ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्योऽपि भृगवत्तप्त्वा तप ऐकाग्र्यलक्षणम् ।
कोशान्निरस्य पञ्चापि प्रतिष्ठां लभते पराम् ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्म पुच्छं प्रतिष्ठेति वल्ल्योक्तं पूर्वया तु यत् ।
तस्यामेव प्रतिष्ठायां विद्वान्सम्प्रतितिष्ठति ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्नाद्युपासकानां वा फलमेतदिहोच्यते ।
न्याय्यं नावाप्तकामानामन्नादिफलकीर्तनम् ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 भूयोऽन्नवान्दीप्तवह्निर्महांश्च स्यात्प्रजादिभिः ।
शान्तिदान्त्यादिहेतुस्तिड्ब्रह्मवर्चसमुच्यते ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】
इति षष्ठोऽनुवाकः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तमोऽनुवाकः अन्नमेव गुरुर्न्याय्यमुत्तरज्ञानहेतुतः ।
अन्नं न निन्द्यात्तेनाऽऽदौ व्रतं स्यात्तदुपासितुः ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 अन्योन्यस्थितिहेतुत्वादन्नान्नादत्वमुच्यते ।
शरीरप्राणयोरेवमुत्तरेष्वपि निर्णयः ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】
इति सप्तमोऽनुवाकः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अष्टमोऽनुवाकः प्राप्तं न परिचक्षीत त्वन्नं व्रतमिदं भवेत् ।
इति अष्टमोऽनुवाकः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 नवमोऽनुवाकः
अन्नं सुबहु कुर्वीत तथैवेहोत्तरं व्रतम् ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】
इति नवमोऽनुवाकः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 दशमोऽनुवाकः वसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम् ।
वसते चान्नदानार्थं कुर्यादन्नं गृही बहु ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 एतद्वै मुखत इति सत्कारोक्तिस्त्रिधा भवेत् ।
वयोवस्था त्रिधा वा स्यादन्नदानविवक्षया ॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 राद्धं सिद्धं भवेदन्नं पात्रेभ्यो यस्य तस्य तु ।
यथासत्कारवयसी अन्नदानफलं भवेत् ॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 गृहिणो ह्यन्नवन्तोऽपि यत आचक्षते सदा । अराधि सिद्धमेवान्नमतिथ्यर्थं न संशयः ।
यत एवमतः कार्यं बह्वन्नं यत्नतः सदा ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】
अपि चान्नस्य माहात्म्यमिदमन्यद्यथावयः ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 यथाश्रद्धं यथाकालं यथासत्कारमेव च ।
अन्नं दददवाप्नोति तत्तथैव न संशयः ॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 उपात्तरक्षणं क्षेमो ब्रह्मैतद्वाचि संश्रितम् ।
क्षेमहेतुर्यतो वाक्यं तदुपासीत वाच्यतः ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 अप्राप्तप्रापणं योगः क्षेमश्चोभयरूपभृत् ।
प्राणापानाश्रयं ब्रह्म तदुपासीत तौ ह्यतः ॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 योगक्षेमात्मकं ब्रह्म प्राणापानसमाश्रयम् ।
कर्मेति हस्तयोस्तद्वदुपासीताप्रमादवान् ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 तथा गतिरिति ध्येयं पादयोर्ब्रह्म सर्वदा ।
विमुक्तिरिति पायौ च समाज्ञा मानुषीः स्मृताः ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 मनुष्यविषया यस्मादाज्ञा विष्णोरियं ततः ।
समाज्ञा मानुषीस्त्वेवं सदैवाऽऽचक्षते बुधाः ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 अथ दैवीः समाज्ञास्तु उपासीत यथाक्रमम् ।
वृष्टौ तृप्तिरिति ध्येयं तृप्तेर्वृष्टिसमन्वयात् ॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 तेन तेनात्मना तद्वदुत्तरेष्वपि चिन्तयेत् ।
ब्रह्मोपस्थ उपासीत प्रजात्यादिगुणात्मकम् ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रजातिः पुत्रपौत्रादिरमृतत्वं ततः पितुः ।
आनन्दः पुरुषार्थोऽत्र सोप्युपस्थाश्रयो भवेत् ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशे सर्वमित्येवं ब्रह्मोपास्यं समाहितैः ।
सर्वाश्रयं तदाकाश उपासीनस्य शिष्यते ॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावानसौ भवेत् ।
उपासनानुरूपं स्यात्फलं यादृगिदं तथा ॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 तद्ब्रह्म मह इत्येवमुपासीत ततः फलम् ।
प्रजादिभिर्महान्स स्यात्तं यथेति श्रुतिस्तथा ॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 तन्मन इत्युपासीत मनस्वी मानवान्भवेत् । प्रह्वीभावो नमोऽर्थः स्यात्फलं तस्येदमुच्यते ।
नम्यन्तेऽस्य यथाकामं विषया भोगकारिणः ॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 यस्तु ब्रह्मेति तद्ब्रह्म ह्युपासीत यथोदितम् ।
फलं तस्य तदेव स्यादिति पूर्वमवादिषम् ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】
ब्रह्मणो ब्राह्मणस्यैव परिमरं ब्रह्म तत्तदा ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 विद्युद्वृष्टिः शशी भानुरग्निश्चेति यतः श्रुतिः ।
वायौ म्रियन्त इत्याह परिमरस्तेन कीर्त्यते ॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्यश्चायमाकाशो वायुना ब्रह्मणा च खम् ।
द्विषन्तश्चाद्विषन्तश्च म्रियन्ते तस्य शत्रवः ॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणो वा अन्नमित्यादिवियदन्तस्य पूर्वया । अन्नान्नादत्वं श्रुत्योक्तं कार्यत्वात्संहतस्य हि ।
अन्नान्नादत्वमस्यैव कथं नाम प्रतीयते ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】
मा भूद् ब्रह्मणि तत्सक्तिर्मनोवाचामगोचरे ॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्याविषयस्तस्माद्भोक्तृभोज्यादिलक्षणः । व्यवहारोऽवसेयः स्यान्न तु सत्यादिलक्षणे ॥ ६७ । अविद्योत्थं द्वयाभासं भोज्यभोक्तृत्वलक्षणम् ।
यत्र हि द्वैतमित्याद्या श्रुतिर्नः प्रत्यपीपदत् ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 यत्र त्वस्येति विध्वस्तसर्वाविद्यादिलक्षणे ।
निषेधति सदाऽविद्याध्यस्तं द्वैतमिहात्मनि ॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 एकत्वाच्च न संसारः क्रियाकारकलक्षणः ।
कुतस्तदिति चेत्तत्र स यश्चायमितीर्यते ॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 सह ब्रह्मणेति यच्चोक्तं निर्णयस्तस्य साम्प्रतम् । कथं नु सकलान्कामानश्नुते युगपद्बुधः ।
प्रतिपत्तयेऽस्यार्थस्य श्रुतिः प्रववृते परा ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 न सहार्थे तृतीयेयं न्यायोऽत्र प्राक्समीरितः ।
यतोऽतोऽत्र तृतीयेयं ग्राह्येत्थम्भूतलक्षणा ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 हेत्वर्था वा भवेदेषा तृतीया ब्रह्मणेति या ।
सर्वकामाशनं यस्माद् ब्रह्मणैवोपपद्यते ॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 निरात्मकस्य सर्वस्य ब्रह्माऽऽत्मा येन तत्परम् ।
सत्यज्ञानादिरूपत्वात्तदेतदधुनोच्यते ॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 स यश्चायमिति ह्युक्तिरन्नान्नादादिकस्य हि ।
ग्रन्थस्य ग्रसनार्थाय ब्रह्मविद्यापरस्य तु ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 सङ्क्रम्य विद्यया सर्वानविद्योत्थाननात्मनः ।
आत्मनाऽऽत्मानमापन्नः सत्यादृश्यादिलक्षणम् ॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कृष्टीतरहीनः सन्निमाँल्लोकान्क्रियोद्भवान् ।
कामान्नी कामरूपी सन्नुपाधीननुसञ्चरन् ॥ ७७ ॥ 【भाष्यम्】 【भाष्यम्】 न हि सञ्चरणं साक्षाद्ब्रह्मणोऽस्त्यविकारिणः ।
यत्र हि ध्यायतीवेति तथा च श्रुतिशासनम् ॥ ७८ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वात्मत्वादिमाँल्लोकान्पश्यन्नात्मतया बुधः ।
एतद्ब्रह्म समं साम गायन्नास्ते कृतार्थतः ॥ ७९ ॥ 【भाष्यम्】 【भाष्यम्】 द्वेधा भिन्नमिदं सर्वमन्नमन्नाद एव च ।
सत्यादृश्यादिरूपात्मा अहमेवैतदीक्ष्यताम् ॥ ८० ॥ 【भाष्यम्】 【भाष्यम्】 तयोः श्लोकश्च सम्बन्धो भोज्यभोक्तृत्वलक्षणः ।
अहमेव यथोक्तात्मा न मत्तोऽन्यस्ततोऽस्ति हि ॥ ८१ ॥ 【भाष्यम्】 【भाष्यम्】 क्रियाकारकनिर्मुक्तं पश्यन्नात्मानमात्मनि ।
त्रिरहो इति भवेत्स्तोभो विस्मयार्थश्च स स्मृतः ॥ ८२ ॥ 【भाष्यम्】 【भाष्यम्】 त्रिरुक्तिश्चादरार्थेयमहमन्नमितीष्यते ।
अश्रद्दधानलोकस्य प्रतिपत्त्यर्थमुच्यते ॥ ८३ ॥ 【भाष्यम्】 【भाष्यम्】 मूर्तामूर्तात्मकस्यास्य ह्यन्नान्नादत्वरूपिणः ।
अतद्वानग्रजोऽहं वै न तदश्नाति हि श्रुतिः ॥ ८४ ॥ 【भाष्यम्】 【भाष्यम्】 देवेभ्यः पूर्वमेवाहं नाभिरस्म्यमृतस्य च ।
कारणत्वाद्भवेन्नाभिर्मन्निष्ठा वाऽमृतात्मता ॥ ८५ ॥ 【भाष्यम्】 【भाष्यम्】 अदत्त्वान्नं तु पात्रेभ्यो यो मामश्नाति घस्मरः ।
अहमन्नमदन्तं तं प्रत्यद्मीहान्नवन्नरम् ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 यो मां ददाति पात्रेभ्यो देशकालसमन्वितम् ।
दददित्थमसावन्नं मामवत्येव सर्वदा ॥ ८७ ॥ 【भाष्यम्】 【भाष्यम्】 सत्यज्ञानादिरूपोऽहमविद्योत्थमशेषतः ।
अहं ह्यभिभवाम्येको दिनकृच्छार्वरं यथा ॥ ८८ ॥ 【भाष्यम्】 【भाष्यम्】
इति दशमोऽनुवाकः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 ध्यानैकताननिबिडाहितचेतसोऽजं प्रध्वस्तकृत्स्ननिजमोहसमस्तदोषम् । प्रत्यक्तया शुभधियो यतयोऽभ्युपेत्य
यं देवमेकममलं प्रविशन्ति सोऽव्यात् ॥ ८९ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयकसारस्य वार्तिकामृतामुत्तमम् ।
मस्करीन्द्रप्रणीतस्य भाष्यस्यैतद्विवेचनम् ॥ ९० ॥ 【भाष्यम्】 【भाष्यम्】 मुमुक्षुसार्थवाहस्य भवनामभृतो यतेः ।
शिष्यश्चकार तद्भक्त्या सुरेशाख्यो महार्थवित् ॥ ९१ ॥ 【भाष्यम्】 【भाष्यम्】 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादशिष्यस्य श्रीमत्सुरेश्वराचार्यस्य कृतिषु तैत्तिरीयकोपनिषद्भाष्यवार्तिकं सम्पूर्णम् ॥ शीक्षावल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः एकादशोऽनुवाकः द्वादशोऽनुवाकः ब्रह्मानन्दवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः भृगुवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः
Using this in academic work? Get formal citation
Sureśvarācārya (2026). Taittirīya Bhāṣya Vārttikam. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/taittiriya-bhashya-vartikam
Sureśvarācārya. "Taittirīya Bhāṣya Vārttikam." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/taittiriya-bhashya-vartikam.
Sureśvarācārya. "Taittirīya Bhāṣya Vārttikam." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/taittiriya-bhashya-vartikam.