Upadeśa Pañcakam
Śrī Ādi Śaṅkarācārya
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां आत्मेच्छा व्यवसीयतां निजगृहत्तूर्णं विनिर्गम्यताम् ॥ १॥
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्यताम् ।सद्विद्वानुपसर्प्यतामनुदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥
वाक्यार्थः सुविचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंघीयताम् ।ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ ॥
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् ।औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमृत्सृज्यतां शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् ॥ ४॥
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्भाधितं दृश्यताम् ।प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥
Using this in academic work? Get formal citation
Śrī Ādi Śaṅkarācārya (2026). Upadeśa Pañcakam. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/upadesha-panchakam
Śrī Ādi Śaṅkarācārya. "Upadeśa Pañcakam." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/upadesha-panchakam.
Śrī Ādi Śaṅkarācārya. "Upadeśa Pañcakam." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/upadesha-panchakam.