Vaiyāsika Nyāyamālā
Bhāratī Tīrtha
वैयासिकन्यायमाला श्लोकैः सङ्गृह्यते स्फुटम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 प्रणम्येति । व्यासेनोक्ता वैयासिकी वेदान्तवाक्यार्थनिर्णायकान्यधिकरणानि न्यायाः, तेषामनुक्रमेण ग्रथनं माला । यद्यप्येषा सूत्रभाष्यकारादिभिः प्रपञ्चिता, तथाऽपि सूत्रादीनामतिप्राज्ञविषयत्वान्मन्दबुद्ध्यनुग्रहाय श्लोकैरेषा माला स्फुटं सङ्गृह्यते ॥ तेत्रैकैकमधिकरणं पञ्चावयवम् । विषयः, सन्देहः, सङ्गतिः, पूर्वपक्षः, सिद्धान्तश्चेति पञ्चावयवाः । तेषां सङ्ग्रहप्रकारं दर्शयति - एको विषयसन्देहपूर्वपक्षावभासकः ॥
श्लोकोऽपरस्तु सिद्धान्तवादी सङ्गतयः स्फुटाः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तत्रैकैकस्याधिकरणस्य सङ्ग्राहकौ द्वौ द्वौ श्लोकौ । तयोराद्यश्लोकस्य पूर्वार्धेन द्वाववयवौ सङ्गृह्येते । उत्तरार्धेनैकः । द्वितीयश्लोकेन चैकः । यद्यपि सङ्गत्याख्य एषोऽवयवः शिष्यते, तथाऽपि - प्रत्यधिकरणं न पृथक्सङ्ग्रहीतव्यो भवति । सकृद्व्युत्पन्नस्य पुरुषस्य स्वयमेवोहितुं शक्यत्वात् ॥ सङ्गतिं विभज्य व्युत्पादयति - शास्त्रेेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा ॥
शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यम् , पादप्रतिपाद्यं चार्थमवगम्य शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिश्च, - इति तिस्रः सङ्गतय ऊहितुं शक्यन्ते ॥ शास्त्रप्रतिपाद्यम् , अध्यायप्रतिपाद्यं च दर्शयति - शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः ॥
समन्वयाविरोधौ द्वौ साधनं च फलं तथा ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमेनाध्यायेन प्रतिपाद्यते । द्वितीयेन सम्भावितविरोधः परिह्रियते । तृतीयेन विद्यासाधननिर्णयः । चतुर्थेन विद्याफलनिर्णयः । इत्येतेऽध्यायानामर्थाः ॥ तत्र प्रथमाध्यायगतपादार्थान्विभजते - समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ॥
ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमात् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमपादे चिन्त्यम् । तद्यथा - "अन्तस्तद्धर्मोपदेशात्" (ब्र० सू० १ । १ । २०) इत्यत्र सार्वज्ञ्य – सार्वात्म्य – सर्वपापविरहादिकं ब्रह्मणोऽसाधारणतया स्पष्टं लिङ्गम् । अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयवाक्यजातं द्वितीयपादे चिन्त्यम् । तद्यथा - प्रथमाधिकरणविषये शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सोपाधिकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । तृतीयपादे त्वस्पष्टब्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यम् । तद्यथा - प्रथमाधिकरणे मुण्डकगतब्रह्मात्मतत्त्ववाक्ये द्युपृथिव्यन्तरिक्षप्रोतत्वं सूत्रात्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् । यद्यपि द्वितीयपादे कठवल्ल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि, तृतीयपादे च दहरोपासनवाक्यं विचारितम् । तथाऽप्यवान्तरसङ्गतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः साङ्कर्यापत्तिः । इत्थं पादत्रयेण वाक्यविचारः समापितः । चतुर्थपादेनाव्यक्तपदमजापदं चेत्येवमादि सन्दिग्धं पदं चिन्त्यम् ॥ द्वितीयाध्यायगतपादार्थान्विभजते - द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ॥
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमपादे- साङ्ख्ययोगकाणादादिस्मृतिभिः साङ्ख्यादिप्रयुक्ततर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीयपादे- साङ्ख्यादिमतानां दुष्टत्वं दर्शितम् । तृतीयपादे - पूर्वभागेन पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः, उत्तरभागेन जीवश्रुतीनाम् । चतुर्थपादे - लिङ्गशरीरश्रुतीनां विरोधपरिहारः ॥ तृतीयाध्यायगतपादार्थान्विभजते - तृतीये विरतिस्तत्त्वम्पदार्थपरिशोधनम् ॥
गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमपादे - जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् । द्वितीयपादे - पूर्वभागेन त्वम्पदार्थः शोधितः, उत्तरभागेन तत्पदार्थः । तृतीयपादे - सगुणविद्यासु गुणोपसंहारो निरूपितः । निर्गुणे ब्रह्मण्यपुनरुक्तपदोपसंहारश्च । चतुर्थपादे च - निर्गुणज्ञानस्य बहिरङ्गसाधनभूतान्याश्रमयज्ञादीनि, अन्तरङ्गसाधनभूतशमदमनिदिध्यासनादीनि च निरूपितानि ॥ चतुर्थाध्यायगतपादार्थान्विभजते - चतुर्थे जीवतो मुक्तिरुत्क्रान्तेर्गतिरुत्तरा ॥
ब्रह्मप्राप्तिब्रह्मलोकाविति पादार्थसङ्ग्रहः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रथमपादे - श्रवणाद्यावृत्त्या निर्गुणमुपासनया सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्तिरभिहिता । द्वितीयपादे - म्रियमाणस्योत्क्रान्तिप्रकारो निरूपितः । तृतीयपादे - सगुणविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थपादे - पूर्वभागेन निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता । उत्तरभागेन सगुणब्रह्मविदो ब्रह्मलोके स्थितिर्निरूपिता । एवं पादार्थाः सङ्गृहीताः ॥ सन्त्वेवंं शास्त्राध्यायपादप्रतिपाद्या अर्थाः । किं तत इत्यत आह - ऊहित्वा सङ्गतीस्तिस्रस्तथाऽवान्तरसङ्गतीः ॥
ऊहेदाक्षेपदृष्टान्तप्रत्युदाहरणादिकाः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तद्यथा - ईक्षत्यधिकरणे - "तदैक्षत" – इति वाक्यं प्रधानपरं, ब्रह्मपरं वा, इति विचार्यते । तस्य विचारस्य ब्रह्मसम्बन्धित्वाद्ब्रह्मविचारशास्त्रसङ्गतिः । "वाक्यं ब्रह्मणि तात्पर्यवत्" इति निर्णयात्समन्वयाध्यायसङ्गतिः । ईक्षणस्य चेतने ब्रह्मण्यसाधारणत्वेन स्पष्टब्रह्मलिङ्गत्वात्प्रथमपादसङ्गतिः । एवं सर्वेष्वप्यधिकरणेषु यथायथं सङ्गतित्रयमूहनीयम् । अवान्तरसङ्गतिस्त्वनेकधा भिद्यते - आक्षेपसङ्गतिः, दृष्टान्तसङ्गतिः, प्रत्युदाहरणसङ्गतिः, प्रासङ्गिकसङ्गतिः, इत्येवमादिः ॥ सेयमवान्तरसङ्गतिर्व्युत्पन्नेनोहितुं शक्यते । अतस्तां व्युत्पादयति - पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ॥
पूर्वपक्षस्य युक्तिं च तत्राऽऽक्षेपादि योजयेत् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 तद्यथा प्रथमाधिकरणे 'ब्रह्मविचारशास्त्रमारम्भणीयम्' इति सिद्धान्तः । तत्र युक्तिः - 'ब्रह्मणः सन्दिग्धत्वात्' इति । द्वितीयाधिकरणस्य 'जगज्जन्मादि ब्रह्मलक्षणं न भवति' इति पूर्वपक्षः । तत्र युक्तिः - 'जन्मादेर्जगन्निष्ठत्वात्' इति । तदुभयमवलोक्य तयोराक्षेपसङ्गतिं योजयेत् । 'सन्दिग्धत्वाद्ब्रह्म विचार्यम्' इत्येतदयुक्तम् । जन्मादेरन्यनिष्ठत्वेन ब्रह्मणो लक्षणाभावे सति ब्रह्मैव नास्ति, कुतस्तस्य सन्दिग्धत्वं विचार्यत्वं च इत्याक्षेपसङ्गतिः । दृष्टान्तप्रत्युदाहरणसङ्गती चात्र योजयितुं शक्येते । 'यथा सन्दिग्धत्वेन हेतुना ब्रह्मणो विचार्यत्वम् , तथा - जन्माद्यन्यनिष्ठत्वेन हेतुना ब्रह्मणो लक्षणं नास्ति' इति दृष्टान्तसङ्गतिः । 'यथा विचार्यत्वे हेतुरस्ति, न तथा लक्षणसद्भावे हेतुं पश्यामः' इति प्रत्युदाहरणसङ्गतिः । ते एते दृष्टान्तप्रत्युदाहरणसङ्गती सर्वत्र सुलभे । पूर्वाधिकरणसिद्धान्तवदुत्तराधिकरणपूर्वपक्षे हेतुमत्त्वसाम्यस्य, उत्तराधिकरणसिद्धान्ते हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं शक्यत्वात् । आक्षेपसङ्गतिर्यथायोगमुन्नेया । अथ प्रासङ्गिकसङ्गतिरुदाह्रियते - देवताधिकरणस्याधिकारविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च सङ्गत्यभावेऽपि बुद्धिस्थावान्तरसङ्गतिरस्ति । तथाहि - पूर्वाधिकरणे अङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यहृदयापेक्षम् , मनुष्याधिकारत्वाच्छास्त्रस्य इत्युक्तम् । तत्प्रसङ्गेन देवताधिकारो बुद्धिस्थः । सेयं प्रासङ्गिकसङ्गतिः । तदेवं न्यायसङ्गतिर्निरूपिता ॥ अथेदानीं प्रत्यधिकरणमवयवचतुष्टयं श्लोकाभ्यां सङ्गृह्यते - (तत्र (प्रथमे ब्रह्मणो विचार्यत्वाधिकरणे) शास्त्रस्य प्रथमं सूत्रम् ॥ ) प्रथमाधिकरणमारचयति - अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ॥
असन्देहाफलत्वाभ्यां न विचारं तदर्हति ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 अध्यासोऽहम्बुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ॥
सन्देहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृह० २ । ४ । ५ । ) इत्यत्राऽऽत्मदर्शनफलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलो न्यायविचारः । तदेतद्विचारविधायकं वाक्यं विषयः । न च – अयं विषयः श्लोकयोर्न सङ्गृहीतः - इति शङ्क्यम् , सन्देहसङ्ग्रहेणैवार्थात्तत्सङ्ग्रहप्रतीतेः । 'ब्रह्मविचारात्मकं न्यायनिर्णयात्मकं शास्त्रमनारभ्यम् , आरभ्यं वा', इति सन्देहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र सन्देहबीजमुन्नेयम् । तत्र 'अनारभ्यम्' इति तावत्प्राप्तम् , विषयप्रयोजनयोरभावात् । सन्दिग्धं हि विचारविषयो भवति । ब्रह्म त्वसन्दिग्धम् । तथाहि - तत्किं ब्रह्माकारेण सन्दिह्यते, आत्माकारेण वा नाऽऽद्यः, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः, अहंप्रत्ययेनाऽऽत्माकारस्यापि निश्चयात् - अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्ययः - इति चेत् । न, अध्यासानिरूपणात् । तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्याध्यासो न निरूपयितुं शक्यते । तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासन्दिग्धत्वाद्विचारस्य न विषयोऽस्ति । नापि प्रयोजनं पश्यामः, उक्तप्रकारेण ब्रह्मात्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्मात् - 'ब्रह्म विचारानर्हम्' इति शास्त्रमनारम्भणीयम् - इति पूर्वपक्षः । अत्रोच्यते - शास्त्रमारम्भणीयम् । कुतः - विषयप्रयोजनसद्भावात् । श्रुत्यहम्प्रत्यययोर्विप्रतिपत्त्या सन्दिग्धं ब्रह्माऽऽत्मवस्तु । "अयमात्मा ब्रह्म" (बृह० २ । ५ । १९) इति श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति । 'अहं मनुष्यः' इत्याद्यहम्बुद्धिर्देहतादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपणत्वमलङ्काराय । तस्मात्सन्दिग्धं वस्तु विषयः । तन्निश्चयेन मुक्तिलक्षणप्रयोजनं श्रुत्या विद्वदनुभवेन च प्रसिद्धम् । तस्मात् - वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयम् - इति सिद्धान्तः ॥ (द्वितीये ब्रह्मणो लक्षणाधिकरणे सूत्रम् ॥ ) द्वितीयाधिकरणमारचयति - लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति, नहि विद्यते ॥
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजङ्गवत् ॥
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म" (तैत्ति० ३ । १ । १) इति, "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्ति० २ । १ । १) इति वाक्यद्वयं विषयः । प्रयन्ति म्रियमाणानीत्यर्थः । तत्र – 'श्रूयमाणं ब्रह्मलक्षणं न घटते, घटते वा' - इति संशयः । न घटते । तथाहि - किं जन्मादिकं तल्लक्षणम् , उत सत्यादिकम् । नाऽऽद्यः, तस्य जगन्निष्ठत्वेन ब्रह्मसम्बन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धस्य सत्यज्ञानादेः स्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म न सिध्येत् , अप्रसिद्धस्य तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात् - तटस्थलक्षणं स्वरूपलक्षणं च न विद्यते । अत्रोच्यते - यल्लक्षणं रूपानन्तर्भूतं सत्पदार्थान्तरव्यवस्थाहेतुः, तत्तटस्थलक्षणम् । जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्पनया सम्बद्धं तटस्थलक्षणं भविष्यति । "यो भुजङ्गः सा स्रक्" इतिवत् 'यज्जगत्कारणं तद्ब्रह्म' इति कल्पितेनापि वस्तुनोपलक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुतभ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभिन्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिः । इत्युभयमप्युपपन्नम् ॥ (तृतीये ब्रह्मणो वेदकर्तृत्ववेदैकमेयताधिकरणे सूत्रम् ॥ ) तृतीयाधिकरणस्य प्रथमं वर्णकमारचयति - न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ, न कर्तृ तत् ॥
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 कर्तृ निःश्वसिताद्युक्तेर्नित्यत्वं पूर्वसाम्यतः ॥
सर्वावभासिवेदस्य कर्तत्वात्सर्वविद्भवेत् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 "अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः" (बृह० । २ । ४ । १० ) इति वाक्यं विषयः। 'यदृग्वेदादिकमस्ति तदेतस्य नित्यसिद्धस्य ब्रह्मणो निःश्वास इवायत्नेन सिद्धम्' इत्यर्थः - 'ब्रह्म वेदं करोति, नकरोति वा' - इति सन्देहः । न करोति, वेदस्य नित्यत्वात् । "वाचा विरूप नित्यया" इत्यस्मिन्मन्त्रे - 'विरूप' इति देवतां सम्बोध्य 'नित्यया वाचा संस्तुतिं प्रेरय' इत्येवं प्रार्थ्यते । नित्या वाग्वेद एव, "अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" । इति स्मृतेः । अतः - न वेदकर्तृ ब्रह्म । इति प्राप्ते, ब्रूमः - ब्रह्म वेदस्य कर्तृ भवितुमर्हति । कुतः - निःश्वसितन्यायेनाप्रयत्नोत्पत्त्यवगमात् । "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे" इति, सर्वैर्यज्ञैर्हूयमानाद्यज्ञशब्दवाच्याद्ब्रह्मणो विस्पष्टमेव वेदोत्पत्तिश्रवणाच्च । अप्रयत्नोत्पत्त्यैवार्थेषु बुद्ध्या रचितैः कालिदासादिवाक्यैर्वैलक्षण्यादपौरुषेयत्वम् । प्रतिसर्गं पूर्वसाम्येनोत्पन्नैः प्रवाहरूपेण नित्यता । सर्वजगद्व्यवस्थावभासिवेदकर्तृत्वनिरूपणेन ब्रह्मणः सर्वज्ञत्वं निरूपितं भवति ॥ द्वितीयं वर्णकमाह - अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता ॥
घटवत्सिद्धवस्तुत्वाद्ब्रह्मान्येनापि मीयते ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 रूपलिङ्गादिराहित्यान्नास्य मान्तरयोग्यता ॥
तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 "तं त्वौपनिषदं पुरुषं पृच्छामि" (बृह० ३ । ९ । २६ ) इति शाकल्यं प्रति याज्ञवल्क्येनोक्तवाक्ये परब्रह्मरूपस्य पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते । तद्वाक्यं विषयः । तत्र – 'ब्रह्मणः प्रत्यक्षादिगम्यत्वमस्ति, न वा' इति संशयः । पूर्वपक्षस्तु विस्पष्टः । रूपरसाद्यभावान्नेन्द्रिययोग्यता । लिङ्गसादृश्यादिराहित्याच्च नानुमानोपमानादियोग्यता । 'उपनिषत्स्वेवाधिगतः' इति व्युत्पत्त्या "नावेदविन्मनुते तं बृहन्तम्" इत्यन्यनिषेधश्रुत्या च वेदैकमेयत्वम् । भाष्यकारैः "जन्मादि" सूत्रे - "श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम्" इत्यन्यमेयत्वमङ्गीकृतम् - इति चेत् । बाढम् । प्रथमतः श्रुत्यैव प्रमिते ब्रह्मणि पश्चादनुवादरूपेणानुमानानुभवयोरङ्गीकारात् । अतो वेदैकमेयं ब्रह्म ॥ (चतुर्थे वेदान्तानां ब्रह्मैकपरत्वाधिकरणे सूत्रम् ॥ ) चतुर्थाधिकरणस्य प्रथमवर्णकमाह - वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ॥
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 भिन्नप्रकरणाल्लिङ्गषट्काच्च ब्रह्मबोधिकाः ॥
सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 स्पष्टौ विषयसन्देहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि । ब्रह्मप्रकाशकवाक्यानि देवतापराणि । सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगित्वं भविष्यति । ब्रह्मपरत्वे त्वनुष्ठानासम्भवान्निष्प्रयोजनत्वं स्यात् । तस्मात् - वेदान्ताः कर्तृदेवतासाधनप्रतिपादकाः ॥ अत्रोच्यते - ब्रह्मपरा वेदान्ताः । कुतः - भिन्नप्रकरणपठितानां तेषां कर्त्रादिप्रतिपादकतया कर्मशेषत्वासम्भवात् । तात्पर्यनिश्चयहेतुलिङ्गषट्केन ब्रह्मपरत्वसम्भवाच्च । लिङ्गषट्कं पूर्वाचार्यैर्दर्शितम् - "उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिश्चये" इति । "सदेव सोम्येदमग्र आसीत्" इत्युपक्रमः । "ऐतदात्म्यमिदं सर्वम् । तत्सत्यं स आत्मा तत्त्वमसि" इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम् । असकृत् "तत्त्वमसि" इत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्वविज्ञानं फलम् । उत्पत्तिस्थितिप्रलयप्रवेशनियमनानि पञ्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । एतैर्लिङ्गैर्ब्रह्मपरत्वं निश्चेयम् । न चानुष्ठानमन्तरेण प्रयोजनाभावः, 'नायं सर्पः' इत्यादाविव बोधादनर्थनिवृत्तेः सम्भवात् ॥ द्वितीयं वर्णकमाह - प्रतिप्रत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ॥
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 नाकतन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ॥
मननादिः पुराबोधाद्ब्रह्मण्यवसितास्ततः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 एकदेशी मन्यते - ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं तर्हि पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा च सति वेदान्तानां शासनाच्छास्त्रत्वमुपपद्यते । किञ्च 'श्रोतव्यः' इति श्रवणं शब्दज्ञानात्मकं विधायाथ "मन्तव्यो निदिध्यासितव्यः" इत्यनुभवज्ञानात्मकं मननादिकं स्पष्टमेव विधीयते । तस्मात् - प्रतिपत्तेर्विधातारो वेदान्ताः । इति प्राप्ते, - ब्रूमः - न प्रतिपत्तेर्विधिः सम्भवति, कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वादपुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव नियतम् , सिद्धवस्तुशंसनेनापि तदुपपत्तेः । शाब्दज्ञाने जाते पश्चादनुभवात्मकं मननादिकं विधीयते - इति वक्तुं न युक्तम् । 'दशमस्त्वमसि' इतिवच्छब्दस्यैवापरोक्षानुभवजनकत्वेन शाब्दबोधात्पुरैवासम्भावनादिनिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मननादेर्विधानात् । तस्मात् "तत्त्वमसि" इत्यादयो वेदान्ता ब्रह्मण्यवसिताः ॥ (पञ्चमे ब्रह्मण एव सच्छब्दवाच्यताधिकरणे सूत्राणि ॥ ) पञ्चमाधिकरणमारचयति - तदैक्षतेतिवाक्येन प्रधानं ब्रह्म वोच्यते ॥
ज्ञानक्रियाशक्तिमत्त्वात्प्रधानं सर्वकारणम् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 ईक्षणाच्चेतनं ब्रह्म क्रियाज्ञाने तु मायया ॥
आत्मशब्दात्मतादात्म्ये प्रधानस्य विरोधिनी ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये षष्ठाध्याये - "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति प्रस्तुत्य "तदैक्षत – बहु स्यां प्रजायेय – इति तत्तेजोऽसृजत" इति श्रूयते । तत्र साङ्ख्या मन्यन्ते - सच्छब्दवाच्यं सर्वजगत्कारणं प्रधानम् । न तु ब्रह्म, प्रधानस्य सत्त्वगुणयुक्ततया परिणामितया च ज्ञानशक्तिक्रियाशक्तिसम्भवात् । निर्गुणस्य कूटस्थस्य ब्रह्मणस्तदसम्भवात् - इति । अत्रोच्यते - ईक्षितृत्वश्रवणाच्चेतनं ब्रह्म सच्छब्दवाच्यम् । अचेतनस्य प्रधानस्येक्षितृत्वायोगात् । ज्ञानक्रियाशक्ती तु ब्रह्मणि मायया सम्भविष्यतः । किञ्च – "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति नामरूपव्याकर्त्री जगत्कारणदेवता स्ववाचकेनाऽऽत्मशब्देन चेतनं जीवं व्यपदिशति । तथा "तत्त्वमसि" इति चेतनस्य श्वेतकेतोर्जगत्कारणतादात्म्यं गुरुरुपदिशति । तदुभयमप्यचेतनस्य प्रधानस्य जगत्कारणत्वे विरुध्यते । तस्मात् - चेतनं ब्रह्म सच्छब्देनोच्यते ॥ ( षष्ठे ब्रह्मण आनन्दमयताधिकरणे सूत्राणि ॥ ) षष्ठाधिकारणमेकदेशिमतेनाऽऽह - संसारी ब्रह्म वाऽऽनन्दमयः, संसार्ययं भवेत् ॥
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 अभ्यासोपक्रमादिभ्यो ब्रह्मानन्दमयो भवेत् ॥
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधिगाः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमय – प्राणमय – मनोमय – विज्ञानमयानन्दमय – संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र – 'सर्वान्तर आनन्दमयः संसारी, परमात्मा वा' - इति सन्देहः । 'संसारी' इति प्राप्तम् । कुतः - 'आनन्दस्य विकार आनन्दमयः' इति व्युत्पत्तेः संसारिणि सम्भवात् । अविकृते तु परमात्मन्यसौ न सम्भवति । किञ्च "तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा" इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपेक्षितविषयदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषुप्त्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां पञ्चावयवानां शिरआदिरूपत्वं प्रतिपत्तिसौकर्याय कल्प्यते । पक्षित्वेन कल्पितस्याऽऽनन्दमयस्य शिरः पक्षौ च, इत्यवयवत्रयम् , आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते, पुच्छमपरभागः, प्रतिष्ठापादौ, अयं पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा युक्ताः । तस्मात् - संसार्येवाऽऽनन्दमयः ॥ इत्येवं प्राप्ते, - ब्रूमः - आनन्दमयः परमात्मा । कुतः - अभ्यासात् "सैषाऽऽनन्दस्य मीमांसा भवति" "एतमानन्दमयमात्मानमुपसङ्क्रामति" इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् - तात्पर्यं च वेदान्तानां ब्रह्मण्येव – इत्यवोचाम । किञ्च "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मोपक्रमात् "इदं सर्वमसृजत" इति सर्वस्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयट्शब्दानुपपत्तिः, प्राचुर्यार्थत्वसम्भवात् । प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति । तस्मात् - परमात्माऽऽनन्दमयः - इत्येकदेशिनां मतम् ॥ इदानीं स्वमतानुसारेणाधिकरणं रच्यते - अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ॥
स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्वप्रसिद्धितः ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 लाङ्गूलासम्भवादत्र पुच्छेनाऽऽधारलक्षणा ॥
आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 "ब्रह्म पुच्छं प्रतिष्ठा" इति यच्छ्रुतं ब्रह्म, तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यते, उत स्वयं प्राधान्येन प्रतिपाद्यते - इति संशयः - आनन्दमयस्यावयवत्वेन – इति तावत्प्राप्तम् । लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वात् । उच्यते - न पुच्छशब्दोऽवयववाची । किन्तु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं सम्भवति । लाङ्गूलस्य गवादिलक्षणान्नमयावयवत्वादानन्दमयस्यावयवत्वायोगात् । अतः पुच्छशब्देन मुख्यार्थासम्भवे सति योग्यतावशादत्राऽऽधारो लक्ष्यते । ब्रह्म, - आनन्दमयस्य जीवस्याऽऽधारः, तत्कल्पनाधिष्ठानत्वात् । न च – आनन्दमयः परमात्मा, प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्मात् - जीवाधारो ब्रह्म प्राधान्येन प्रतिपाद्यते । तथाच - "असन्नेव स भवति असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" । इत्यादि ब्रह्माभ्यासः, "ब्रह्मविदाप्नोति परम्" इति ब्रह्मोपक्रमश्चानुकूलो भवति । (सप्तमे परमेश्वरस्यैव हिरण्मयपदवाच्यताधिकरणे सूत्रे - ) सप्तमाधिकरणमारचयति - हिरण्मयो देवतात्मा किं वाऽसौ परमेश्वरः ॥
मर्यादाधाररूपोक्तेर्देवतात्मैव नेश्वरः ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 सार्वात्म्यात्सर्वदुरितराहित्याच्चेश्वरो मतः ॥
मर्यादाद्या उपास्त्यर्थमीशेऽपि स्युरुपाधिगाः ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य प्रथमाध्याये उद्गीथोपासनायामुपसर्जनान्युपास्यान्यभिधाय प्रधानमुपास्यमभिधातुमिदमाम्नायते - "अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" इति । तत्र – आदित्यमण्डले विद्याकर्मातिशयवशात्कश्चिज्जीवो देवभावमुपेत्य जगदधिकारं निष्पादयन्नवतिष्ठते, ईश्वरश्च सर्वगतत्वान्मण्डलेऽपि वर्तते । अतस्तयोः संशयः । तत्र 'देवतात्मा' इति तावत्प्राप्तम् । कुतः - मर्यादाधाररूपाणामुच्यमानत्वात् । "ये चामुष्मात्पराञ्चो लोकाः, तेषां चेष्टे देवकामानां च" इत्यैश्वर्यमर्यादोक्तिः, "अन्तरादित्ये" इत्याधारोक्तिः, 'हिरण्मयः' इति रूपोक्तिः । न हि सर्वेश्वरस्य सर्वाधारस्य नीरूपस्य परमेश्वरस्यैश्वर्यमर्यादाधाररूपाणि सम्भवन्ति । तस्मात् - देवतात्मा । इति प्राप्ते, - उच्यते - हिरण्मय ईश्वरो भवेत् । कुतः - सर्वात्मत्वश्रवणात् । "सैवर्क् , तत्साम, तदुक्थम् , तद्यजुः, तद्ब्रह्म" इति वाक्ये तच्छब्दैः प्रकृतं हिरण्मयं पुरुषं परामृश्य तस्य ऋक्सामाद्यशेषजगदात्मकत्वमुपदिश्यते । तच्चाद्वितीये परमेश्वरे मुख्यमुपपद्यते । न तु सद्वितीयायां देवतायाम् । तथा - "स एष सर्वेभ्यः पाप्मभ्य उदितः" इति श्रूयमाणं सर्वपापराहित्यं ब्रह्मणोऽसाधारणं लिङ्गम् । यद्यपि देवतायाः कर्मण्यनधिकारात्क्रियमाणकरिष्यमाणपापयोरभावः । तथाऽप्यसुरादिजनितदुःखसद्भावात्तद्धेतुभूतं जन्मान्तरसञ्चितदुरितमनुवर्तत एव । मर्यादाधाररूपाणि तूपाधिधर्मतया सोपाधिके परमात्मन्युपास्ये वर्तितुमर्हन्ति । तस्मात् - ईश्वरो हिरण्मयः ॥ (अष्टमे ब्रह्मण एवाऽऽकाशशब्दवाच्यताधिकरणे सूत्रम् ॥ ) अष्टमाधिकरणमारचयति - आकाश इति होवाचेत्यत्र खं ब्रह्म वाऽत्र खम् ॥
शब्दस्य तत्र रूढत्वाद्वाय्वादेः सर्जनादपि ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 साकाशजगदुत्पत्तिहेतुत्वाच्छ्रौतरूढितः ॥
एवकारादिना चात्र ब्रह्मैवाऽऽकाशशब्दितम् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्ताद्धिरण्मयवाक्यादुत्तरस्मिन्वाक्ये शालावत्येन महर्षिणा सर्वलोकाधारवस्तुनि पृष्टे सति प्रवाहणो राजोत्तरमाह । तत्रत्यं वाक्यमेतत् - "आकाश इति होवाच, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् , आकाशः परायणम्" इति । तत्र – आकाशशब्दार्थो 'वियत्' , ब्रह्म वा - इति सन्देहः । रूढत्वात् वियत् इति प्राप्तम् । सर्वभूतोत्पत्तिलयहेतुत्वं च वियत उपपद्यते । "आकाशाद्वायुः, वायोरग्निः" - इत्यादौ वाय्वादीनां सर्वभूतानां वियत्कार्यत्वश्रवणात् ॥ अत्रोच्यते - ब्रह्मैवाऽऽकाशशब्दार्थः । "सर्वाणि ह वै" - इत्यत्रासङ्कुचितसर्वशब्देन वियत्सहितसर्वभूतोत्पत्तिहेतुत्वश्रवणात् । न च वियतो वियद्धेतुत्वं सम्भवति । रूढिस्तु लौकिकी वियत्येवास्तु । श्रौती तु ब्रह्मण्यपि । "आकाशो वै नामरूपयोर्निर्वहिता" इति प्रयोगदर्शनात् । किञ्च – "आकाशादेव" इत्येवकारः कारणान्तरं व्युदस्यति । न चैतद्वियत्पक्षे सम्भवति, घटादिषु वियद्व्यतिरिक्तानां मृदादिकारणानामुपलम्भात् । ब्रह्मपक्षे तु ब्रह्मणः सद्रूपस्य सर्वानन्यतया कारणान्तरव्युदास उपपद्यते । ज्यायस्त्वपरायणत्वे च श्रुत्यन्तरे ब्रह्मणः श्रूयेते - "ज्यायान्पृथिव्याः, ज्यायानन्तरिक्षात्" , "विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्" इति । 'कर्मफलं दातुं समर्थम्' इत्यर्थः । तस्मात् - ब्रह्मैवाऽऽकाशशब्देन विवक्षितम् ॥ (नवमे ब्रह्मण एव प्राणशब्दवाच्यत्वाधिकरणे सूत्रम् ॥ ) नवमाधिकरणमारचयति - मुखस्थो वायुरीशो वा प्राणः प्रस्तावदेवता ॥
वायुर्भवेत्तत्र सुप्तौ भूतसारेन्द्रियक्षयात् ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 सङ्कोचोऽक्षपरत्वे स्यात्सर्वभूतलयश्रुतेः ॥
आकाशशब्दवत्प्रणशब्दस्तेनेशवाचकः ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशवाक्यादुत्तरस्मिन्वाक्ये प्रस्तावनाम्नः सामभागस्य देवतां प्रस्तोत्रा पृष्टायामुषस्तिरुत्तरं ददौ । तत्रत्यं वाक्यमेतत् - "प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता" इति । तत्र – 'प्राणशब्दार्थो मुखबिलान्तर्वर्तिवायुः, ब्रह्म वा', इति - सन्देहः । मुखबिलान्तर्वर्ती वायुर्भवेत् , सर्वभूतलयस्य तत्र सुसम्पादत्वात् । सुषुप्तिकाले सर्वभूतसाराणामिन्द्रियाणां प्राणवायौ प्रविलयात् । इति प्राप्ते, - उच्यते - इन्द्रियमात्रलयपरत्वे व्याख्यायमाने "सर्वाणि ह वै" - इत्यसौ सर्वशब्दः सङ्कुचितः स्यात् । आकाशशब्दवत्प्राणशब्दोऽपि श्रौतरूढ्येवकाराभ्यां ब्रह्मवाचकः । अस्ति हि प्राणशब्दस्य ब्रह्मणि श्रौतरूढिः, "प्राणस्य प्राणम्" इत्यत्र ब्रह्मविवक्षया द्वितीयप्राणशब्दप्रयोगात् । तस्मात् - ईश्वरः प्राणः ॥ (दशमे ब्रह्मण एव ज्योतिःशब्दाभिधेयत्वाधिकरणे सूत्राणि ॥ ) दशमाधिकरणमारचयति - कार्यं ज्योतिरुत ब्रह्म ज्योतिर्दीप्यत इत्यदः ॥
ब्रह्मणोऽसंनिधेः कार्यं तेजोलिङ्गबलादपि ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 चतुष्पात्प्रकृतं ब्रह्म यच्छब्देनानुवर्त्यते ॥
ज्योतिः स्याद्भासकं ब्रह्म लिङ्गं तूपाधियोगतः ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य तृतीयेऽध्याये गायत्रीविद्यायां हृदयच्छिद्रोपासनमभिध्यायेदमाम्नायते - "अथ यदतः परो दिवो ज्योतिर्दीष्यते" इति । तत्र – 'द्युलोकात्परं दीप्यमानं वस्तु किं कार्यरूपं नेत्रानुग्राहकं तेजः, उत ब्रह्म' इति संशयः । 'कार्यम्' इति तावत्प्राप्तम् । ब्रह्मणोऽसंनिहितत्वेन वाक्यस्य ब्रह्मपरत्वायोगात् । तेजःपरत्वं तूपपद्यते, तल्लिङ्गसद्भावात् । "इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति श्रूयमाणो जाठराग्न्यभेदस्तेजोलिङ्गम् । अत्रोच्यते - असिद्धोऽसंनिधिः, पूर्वस्मिन्गायत्रीखण्डे - "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" । इति चतुष्पदो ब्रह्मणः प्रकृतत्वात् । तस्य चात्र प्रकृतवाचिना यच्छब्देनानुवर्तनात् । 'अस्य ब्रह्मणः सर्वाणि भूतान्येकांशः, पादत्रयोपलक्षितमनन्तस्वरूपं द्योतनात्मके दिवि स्वस्मिन्नेवावतिष्ठते' इत्यर्थः । न च ज्योतिःशब्दस्य ब्रह्मणि वृत्त्यनुपपत्तिः, भासकत्वत्वाचित्वात् । ब्रह्मणो जगद्भासकत्वात् । तेजोलिङ्गं त्वौपाधिके ब्रह्मण्यवकल्प्यते । तस्मात् - ज्योतिर्ब्रह्म ॥ (एकादशे ब्रह्मण एव प्राणशब्दव्युत्पाद्यत्वाधिकरणे सूत्राणि ॥ ) एकादशाधिकरणमारचयति - प्राणोऽस्मीत्यत्र वाय्विन्द्रजीवब्रह्मसु संशयः ॥
चतुर्णां लिङ्गसद्भावात्पूर्वपक्षस्त्वनिर्णयः ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मणोऽनेकलिङ्गानि तानि सिद्धान्यनन्यथा ॥
अन्येषामन्यथासिद्धेर्व्युत्पाद्यं ब्रह्म नेतरत् ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 कौषीतकीनामुपनिषदीन्द्रप्रतर्दनाख्यायिकायां प्रतर्दनं प्रतीन्द्रो वक्ति - "प्राणोऽस्मि प्रज्ञात्मा तं माम् - आयुरमृतम् - इत्युपास्स्व" इति । तत्र चतुर्विधलिङ्गवशाच्चतुर्धा संशयः । "इदं शरीरं परिगृह्योत्थापयति" इति प्राणवायोर्लिङ्गम् । "अस्मि" इति वक्तुरिन्द्रस्याहङ्कारवाद इन्द्रलिङ्गम् । "वक्तारं विद्यात्" इति वक्तृत्वं जीवलिङ्गम् । "आनन्दोऽजरोऽमृतः" इति ब्रह्मलिङ्गम् । तत्र – प्राबल्यदौर्बल्यविवेकाभावादनिर्णयः - इति पूर्वपक्षः । सिद्धान्तस्तु - सन्त्यत्र ब्रह्मणोऽनेकलिङ्गानि । तद्यथा - "त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमत्वमेकं लिङ्गम् । "यो मां विजानीयात् , नास्य केनचन कर्मणा लोको मीयते, न मातृवधेन, न पितृवधेन" इति ज्ञानमात्रेण महापातकाद्यलेपोऽपरं लिङ्गम् । एवमन्यान्यपि लिङ्गान्युदाहर्तव्यानि । न चैतानि प्राणेन्द्रजीवपक्षेषु कथञ्चिदप्युपपादयितुं शक्यन्ते । प्राणादिलिङ्गानि तु ब्रह्मण्युपपद्यन्ते, प्राणादीनां ब्रह्मबोधद्वारत्वात् । तथा सति ब्रह्मलिङ्गानामनेकत्वादनन्यथासिद्धत्वाच्च प्राबल्यम् । तस्मात् - 'ब्रह्मैवात्र व्युत्पाद्यम् , न प्राणादि' इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदिते अधिकरणानि ११ ११ सूत्राणि ३१ ३१ (प्रथमे ब्रह्मण एव मनोमयत्वाद्यधिकरणे सूत्राणि ॥ ) द्वितीयपादस्य प्रथमाधिकरणमारचयति - मनोमयोऽयं शारीर ईशो वा प्राणमानसे ॥
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगाः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ॥
प्राणादियोगश्चिन्तार्थश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य तृतीयेऽध्याये शाण्डिल्यविद्यायामिदमाम्नायते - "मनोमयः प्राणशरीरो भारूपः" इति । तत्र – 'जीवः ईशो वा' इति सन्देहः । 'जीवः' इति तावत्प्राप्तम् । मनःसम्बन्धादीनां जीवे सुसम्पादत्वात् । 'मनसो विकारो मनोमयः' इति मनः सम्बन्धः । 'प्राणः शरीरमस्य' इति प्राणसम्बन्धः । नचेदं द्वयमीश्वरे सुसम्पादम् । "अप्राणो ह्ममनाः शुभ्रः" इति निषेधात् । तथा - "एष म आत्माऽन्तर्हृदयेऽणीयान्" इति श्रूयमाणं हृदयेऽवस्थानम् , अणीयस्त्वं च निराधारस्य सर्वगतस्य न कथञ्चिदुपपद्यते । तस्मात् - जीवः । इति प्राप्ते, - ब्रूमः "सर्वं स्वल्विदं ब्रह्म तज्जलान् - इति शान्त उपासीत" इत्येतस्मिञ्शमविधिपरे पूर्ववाक्ये श्रूयमाणं यद्ब्रह्म, 'तदेव मनोमयः, प्राणशरीरः' इत्येताभ्यां तद्धितबहुव्रीहिभ्यां विशेष्यत्वेनापेक्ष्यते । शमवाक्यस्यायमर्थः - 'यस्मात्सर्वमिदं ब्रह्म तज्जत्वात् , तल्लत्वात् , तदंस्त्वाच्च, तस्मात्सर्वात्मके ब्रह्मणि रागद्वेषविषयासम्भवादुपस्तिकाले शान्तो भवेत्' इति । एतद्वाक्यगते ब्रह्मणि विशेष्यत्वेनान्विते मनोमयवाक्यमपि ब्रह्मपरं भविष्यति । न च – ब्रह्मणो मनःप्राणसम्बन्धाद्यनुपपत्तिः, निरुपाधिके तदनुपपत्तावपि सोपाधिकस्योपास्यस्य चिन्तनार्थतया तदुपपत्तेः । तस्मात् - सर्वेष्वपि वेदान्तवाक्येषु यद्ब्रह्मोपास्यत्वेन प्रसिद्धम् , तदेवात्राप्युपास्यम् । न हि क्वचिदपि वेदान्ते जीवस्योपास्यत्वं प्रसिद्धम् । ततो 'ब्रह्मैव' इति सिद्धान्तः ॥ (द्वितीये, ईश्वरस्यैवात्तृत्वाधिकरणे सूत्रे - ) द्वितीयाधिकरणमारचयति - जीवोऽग्निरीशो वाऽत्ता स्यादोदने जीव इष्यताम् ॥
स्वाद्वत्तीति श्रुतेर्वह्निर्वाऽग्निरन्नाद इत्यतः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मक्षत्रादिजगतो भोज्यत्वात्स्यादिहेश्वरः ॥
ईशप्रश्नोत्तरत्वाच्च संहारस्तस्य चातृता ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीषु द्वितीयवल्ल्यवसाने पठ्यते - "यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति । अयमर्थः - 'ब्राह्मणक्षत्रियजाती यस्यौदनस्थानीये, मृत्युश्चोपसेचनस्थानीयः, स पुरुषो यत्र वर्तते तत्स्थानम् इदमित्थम्' इति को वेद । न कोपि जानाति, इत्यर्थः । अत्र – ओदनोपसेचनशब्दाभ्यां कश्चिद्भक्षकः प्रतीयते । स जीवः, अग्निः, ईशो वा इति त्रेधा सन्दिह्यते । 'जीवः' इति तावत्प्राप्तम् । कुतः - "तयोरन्यः पिप्पलं स्वाद्वत्ति" इति जीवस्यात्तृत्वश्रवणात् । अथवा वह्निर्भवेत् , "अग्निरन्नादः" इत्यत्तृत्वावगमात् । इति प्राप्ते, - उच्यते - ब्रह्मक्षत्रयोरुपलक्षणत्वेन कृस्नं जगदिह भोज्यत्वेनावगम्यते । नहि तादृशस्य भोज्यस्येश्वरादन्योऽत्ता सम्भवति किञ्च - "अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद" । इति धर्माधर्मकार्यकारणकालत्रयातीते परमेश्वरे नचिकेतसा पृष्टे सति "यस्य ब्रह्म च" – इति वाक्येन यम उत्तरं ददौ । तस्माद् - ईश्वरोऽत्र प्रतिपाद्यः - "अनश्नन्नन्योऽभिचाकशीति" इतीश्वरे भोक्तृत्वं निषिध्यते - इति चेत् । तर्ह्यत्रात्तृत्वं नाम संहर्तृत्वं भविष्यति । तच्चेश्वरस्य सर्वेषु वेदान्तेषु प्रसिद्धम् ॥ (तृतीये जीवब्रह्मणोरेव गुहाप्रवेशाधिकरणे सूत्रे - ) तृतीयाधिकरणमारचयति - गुहां प्रविष्टौ धीजीवौ जीवेशौ वा हृदि स्थितेः ॥
छायातपाभ्यां दृष्टान्ताद्धीजीवौ स्तो विलक्षणौ ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 पिबन्ताविति चैतन्यं द्वयोर्जीवेश्वरौ ततः ॥
हृत्स्थानमुपलब्ध्यै स्याद्वैलक्षण्यमुपाधितः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीष्वेव तृतीयवल्ल्यादौ श्रूयते - "ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः" इति । अयमर्थः - "सुकृतस्य फलभूतं यद्ब्राह्मणादिशरीरं तत्परस्यार्धं परब्रह्मण उपलब्धिस्थानम् । तच्च परमम् , विद्याधिकारहेतुशमदमाद्युपेतत्वात् । तादृशस्य शरीरस्य मध्ये स्थितं हृदयपुण्डरीकं गुहा तां प्रविष्टौ । यद्वा - ऋतशब्दवाच्यं कर्मफलं पिबन्तौ छायातपवत्परस्परविलक्षणौ वेदविदो वदन्ति" इति । 'तौ द्वौ बुद्धिजीवौ, जीवेशौ वा' - इति सन्देहः । 'बुद्धिजीवौ' इति प्राप्तम् , तयोः परिच्छिन्नयोर्गुहाप्रवेशसम्भवात् । जडाजडरूपत्वेन च्छायातपवद्वैलक्षण्याच्च ॥ अत्रोच्यते - 'पिबन्तौ' इति द्विवचनेन द्वयोश्चेतनत्वं प्रतीयते । ततः - चेतनाविह जीवेश्वरौ भवतः । सर्वगतस्यापीश्वरस्य हृदयेऽवस्थानमुपलब्ध्यै वर्ण्यते । द्वयोश्चेतनत्वसाम्येऽपि सोपाधिकत्वनिरुपाधिकत्वाभ्यां वैलक्षण्यमुपपद्यते ॥ (चतुर्थे ब्रह्मण एवाक्षिगतत्वाधिकरणे सूूत्राणि - ) चतुर्थाधिकरणमारचयति - छायाजीवौ देवतेशौ वाऽसौ योऽक्षणि दृश्यते ॥
आधारदृश्यतोक्त्येशादन्येषु त्रिषु कश्चन ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 कं खं ब्रह्म यदुक्तं प्राक्तदेवाक्षण्युपास्यते ॥
वामनीत्वादिनाऽन्येषु नामृतत्वादिसम्भवः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य चतुर्थाध्याये - उपकोसलविद्यायामुपकोसलं शिष्यं प्रति सत्यकामो गुरुराह । तत्रत्यं वाक्यमेतत् - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच । एतदमृतम् , एतद्ब्रह्म" इति । तत्र चतुर्धा संशये सति - 'अक्षणि सर्वैर्दृश्यमाना छाया' इति तावत् प्राप्तम् , अक्ष्याधारत्वदृश्यत्वयोस्तस्यामपि स्पष्टत्वात् । यद्वा - जीवोऽयं भवितुमर्हति, रूपदर्शनवेलायां तस्य चक्षुष्यवस्थितत्वेनान्वयव्यतिरेकाभ्यां दृश्यमानत्वात् । अथवा - देवता स्यात् , "आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्" इति दर्शनात् । सर्वथा न परमात्मा, तस्याऽऽधारत्वदृश्यत्वासम्भवात् । तस्मात् - छायाजीवदेवेषु यः कोऽप्यस्तु ॥ इति प्राप्ते ब्रूमः - "कं ब्रह्म" "खं ब्रह्म" इति सुखरूपम् , आकाशवत्परिपूर्णं यद्ब्रह्म पूर्ववाक्येनोक्तम् , तदेव "य यषोऽक्षिणी" - इति प्रकृतवाचकेनैतच्छब्देन परामृश्याक्षण्युपास्यत्वेनोपदिश्य वामनीत्वभामनीत्वसंयद्वामत्वादिगुणानुपासनयोपगिशति । वामनीत्वं कामप्रापकत्वम् । भामनीत्वं जगद्भासकत्वम् । संयद्वामत्वं प्राप्तकामत्वम् । एतैर्गुणैरुपास्यब्रह्मणः सोपाधिकत्वादक्ष्याधारत्वं शास्त्रदृष्ट्या दृश्यमानत्वं च न विरुध्यते । छायाजीवदैवतेषु त्वमृतत्वाभयत्वादीनि न सम्भवन्ति । तस्मात् - ईश्वरोऽत्रोपास्यः ॥ (पञ्चमे परमेश्वरस्यैवान्तर्यामिताधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ॥
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 जीवैकत्वामृतत्वादेरन्तर्यामी परेश्वरः ॥
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह – "यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । तत्र – पृथिव्यादिजगत्प्रति योऽन्तर्यामी, श्रूयते, तस्मिंस्त्रेधा संशये सति 'प्रधानम्' इति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामकत्वसम्भवात् । अथवा - जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म स्वफलदानाय फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽन्तर्यामी ॥ इति प्राप्ते ब्रूमः - "एष त आत्माऽन्तर्याम्यमृतः" इत्यन्तर्यामिणो जीवतादात्म्यममृतत्वं च श्रूयते । तथा - पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्यापित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं सम्भवति, "अदृष्टो द्रष्टा, अश्रुतः श्रोता" इति द्रष्टृत्वश्रोतृत्वाद्यवगमादचेतनस्य प्रधानस्य तदसम्भवात् । नापि जीवोऽन्तर्यामी, "य आत्मानमन्तरो यमयति" इति जीवस्य नियम्यत्वश्रवणात् । तस्माद् - अन्तर्यामी परमेश्वरः ॥ (षष्ठे परमेश्वरस्यैव भूतयोनित्वाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - भूतयोनिः प्रधानं वा जीवो वा यदि वेश्वरः ॥
आद्यौ पक्षावुपादाननिमित्तत्वाभिधानतः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरो भूतयोनिः स्यात्सर्वज्ञत्वाादिकीर्तनात् ॥
दिव्याद्युक्तेर्न जीवः स्यान्न प्रधानं भिदोक्तितः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 मुण्डकोपनिषदि श्रूयते - "तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः" इति । तत्र त्रेधा संशये सति - प्रधानम् , जीवो वा, इति पक्षद्वयं तावत्प्राप्तम् । योनिशब्दस्योपादाननिमित्तलक्षणार्थद्वयवाचित्वात् । प्रधानस्य विश्वाकारेण परिणममानस्योपादानत्वात् । जीवस्य च धर्माधर्मद्वारेण निमित्तत्त्वात् ।। अत्रोच्यते - "यः सर्वज्ञः सर्ववित् , यस्य ज्ञानमयं तपः" । इति "सामान्याकारेण सर्वज्ञत्वम् , विशेषाकारेण सर्ववित्त्वम् , पर्यालोचनात्मकं तपश्च", इत्येतादृशस्य ब्रह्मलिङ्गस्य कीर्तनाद्भूतयोनिः परमेश्वरः । न च जीवस्य भूतयोनित्वं युक्तम् , "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" । इति बाह्याभ्यन्तरव्यापित्वजन्मराहित्ययोः श्रुतत्वात्परिच्छिन्नस्य जन्मादिमतो जीवस्य तदसम्भवात् । नापि प्रधानस्य भूतयोनित्वं युक्तम् , "अक्षरात्परतः परः" इत्यक्षरशब्दवाच्यात्प्रधानाद्भेदेन भूतयोनेः परत्वाभिधानात् । तस्मात् - ईश्वरो भूतयोनिः ॥ (सप्तमे परमेश्वरस्यैव वैश्वानरत्वाधिकरणेे सूत्राणि - ) सप्तमाधिकरणमारचयति - वैश्वानरः कौक्षभूतदेवजीवेश्वरेषु कः ॥
वैश्वानरात्मशब्दाभ्यामीश्वरान्येषु कश्चन ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 द्युमूर्धत्वादितो ब्रह्मशब्दाच्चेश्वर इष्यते ॥
वैश्वानरात्मशब्दौ तावीश्वरस्यापि वाचकौ ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य पञ्चमाध्याये वैश्वानरविद्यायामाम्नायते - "आत्मानं वैश्वारनमुपास्ते" इति । किमयं वैश्वानरः कुक्षिस्थितोऽग्निः, किंवा भूताग्निः, आहोस्वित् - आदित्यदेवता, किंवा जीवात्मा, अथवा परमात्मा, इति संशयः । तत्र वैश्वानरशब्दवशादाद्यं पक्षत्रयं प्राप्तम् । "अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे (येनेदमन्नं पच्यते )" इति श्रुतौ वैश्वानरशब्दो जाठराग्नौ प्रयुक्तः । "विश्वस्मा अग्निं भुवनाय देवा वैश्वानरम्" इति बाह्येऽग्नौ प्रयुक्तः । "वैश्वानरस्य सुमतौ स्याम" इति देवतायां प्रयुक्तः । अतः पक्षत्रयमुपपद्यते । आत्मशब्दस्य जीवे रूढत्वाज्जीवो वा वैश्वानरः स्यात् । न त्वीश्वरः, तद्नमकाभावात् । इति प्राप्ते, - ब्रूमः - वैश्वानरो ब्रह्म भवितुमर्हति, द्युमूर्धत्वादिश्रवणात् । "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाः" इत्यादिना द्युलोकाद्यशेषजगतो वैश्वानरावयवत्वं श्रूयते । न चैतदीश्वरादन्यत्र सम्भवति । "किञ्च को न आत्मा, किं ब्रह्म" इति ब्रह्मशब्दश्चेश्वरे मुख्यः । वैश्वानरशब्दस्तु योगवृत्त्या ब्रह्मणि वर्तते । विश्वश्चासौ नरश्च विश्वानरः । सर्वात्मकपुरुष इत्यर्थः । विश्वानर एव वैश्वानरः । आत्मशब्दश्च जीववद्ब्रह्मण्यपि वर्तते । तस्मात् - वैश्वानरः परमेश्वरः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ७ १८ सूत्राणि ३३ ६४ (प्रथमे ब्रह्मण एव द्युभ्वाद्यायतनत्वाधिकरणे सूत्राणि - ) प्रथमाधिकरणमारचयति - सूत्रं प्रधानं भोक्तेशो द्युभ्वाद्यायतनं भवेत् ॥
श्रुतिस्मृतिप्रतिद्धिभ्यां भोक्तृत्वाच्चेश्वरेतरः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 नाऽऽद्यौ पक्षावात्मशब्दान्न भोक्ता मुक्तगम्यतः ॥
ब्रह्मप्रकरणादीशः सर्वज्ञत्वादितस्तथा ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 मुण्डकोनपषदि श्रूयते - "यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः" इति । 'द्युलोकभूलोकाद्यशेषं जगद्यस्मिन्नाधारे आश्रितम् , तमाधारमेकमेवाऽऽत्मानं जानीथ, न त्वाश्रितं द्युपृथिव्यादि । इतोऽतिरिक्ता अनात्मप्रतिपादिकास्तर्कशास्त्रादिवाचो विमुञ्चथ, अपुरुषार्थत्वात्' इत्यर्थः । अत्र (संशयः) - किं द्युभ्वाद्यायतनं सूत्रात्मा, किंवा प्रधानम् , अथवा भोक्ता, आहोस्वित् ईश्वरः - इति सन्देहः । सूत्रात्मा स्यात् , "वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः, सर्वाणि च भूतानि सन्दृब्धानि भवन्ति इति श्रुतिप्रसिद्ध्या वायोः सूत्रात्मनो द्युभ्वाद्यायतनत्वावगमात् । प्रधानं वा स्यात् , तस्य साङ्ख्यस्मृतिप्रसिद्ध्या सर्वाधारत्वावगमात् । भोक्ता वा स्यात् , "तमेवैकं जानथाऽऽत्मानम् । इत्यात्मशब्दात्" इति प्राप्ते, - ब्रूमः - न तावदाद्यौ पक्षौ सम्भवतः, उक्तस्याऽऽत्मशब्दस्य तयोरसम्भवात् । नापि भोक्ता, "(यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । ) तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति" इति द्युभ्वाद्यायतनस्य मुक्तपुरुषप्राप्यत्वश्रवणाद्भोक्तुर्जीवस्य तत्प्राप्यत्वासम्भवात् । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इत्येकविज्ञानेन सर्वविज्ञानमुपक्रान्तम् । "ब्रह्म वेद ब्रह्मैव भवति" इत्युपसंहृतम् । ततो ब्रह्मप्रकरणाद्भूतयोन्यधिकरणोक्तसर्वज्ञत्वादियुक्तेरपि ब्रह्मैव द्युभ्वाद्यायतनम् ॥ (द्वितीये परमात्मन एव भूमत्वाधिकरणे सूत्रे - ) द्वीतीयाधिकरणमारचयति - भूमा प्राणः परेशो वा प्रश्नप्रत्युक्तिवर्जनात् ॥
अनुवर्त्यातिवादित्वं भूमोक्तेश्चासुरेव सः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 विच्छिद्यैष त्विति प्राणं सत्यस्योपक्रमात्तथा ॥
महोपक्रम आत्मोक्तेरीशोऽयं द्वैतवारणात् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये सप्तमाध्याये नारदं प्रात सनत्कुमारो नामादीन्युत्तरोत्तरभूयांसि बहूनि तत्त्वान्युपदिस्यान्ते निरतिशयं भूमानमुपदिशति - "यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्यद्विजानाति, स भूमा" इति । तत्र – भूमशब्दवाच्ये द्विधा सन्दिग्धे सति, 'प्राणः' इति तावत्प्राप्तम् । प्रश्नप्रत्युक्तिवर्जनात् । पूर्वेषु नामादितत्त्वेषु "अस्ति भगवो भूयः" इति नारदः पदे पदे पृच्छति, सनत्कुमारश्च 'अस्ति' इति प्रतिवक्ति, एवं च प्रश्नप्रतिवचनपूर्वकतया नामादीनि प्राणान्तानि तत्त्वान्युपदिश्य प्राणस्योपरि विनैव प्रश्नप्रत्युक्तिभ्यां भूमानमवतारयति । अतः प्राणभूम्नोर्मध्ये विच्छेदकस्याभावात्प्राण एव भूमा । किञ्च – प्राणतत्त्वमुपदिश्य प्राणोपासकतयाऽतिवादित्वनामकमुत्कर्षमभिधाय प्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य भूमानमुपदिशन्प्राणभूम्नोरभेदं गमयति । तस्मात् - प्राणो भूमा ॥ इति प्राप्ते, ब्रूमः - अयं भूमा परमेश्वरः । कुतः - "एष तु वा अतिवदति यः सत्येनातिवदति" इत्यत्रातिवादित्वहेतुं प्राणोपासनं तुशब्देन व्यावर्त्य मुख्यातिवादित्वहेतोर्ब्रह्मणः सत्यशब्देन पृथगुपक्रमात् । तथा - परमोपक्रमे "तरति शोकमात्मवित्" इति वेद्यतया परमात्मोच्यते । तथा - "यत्र नान्यत्पश्यति" इति द्वैतनिषेधेन भूमो लक्षणमभिधीयते । तस्मात् - अद्वैतः परमात्मैव भूमा ॥ (तृतीये ब्रह्मण एवाक्षरताधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - अक्षरं प्रणवः किंवा ब्रह्म लोकेऽक्षराभिधा ॥
वर्णे प्रसिद्धा तेनात्र प्रणवः स्यादुपास्तये ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 अव्याकृताधारतोक्तेः सर्वधर्मनिषेधतः ॥
शासनाद्द्रष्टृतादेश्च ब्रह्मैवाक्षरमुच्यते ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके पञ्चमाध्याये गार्गीं प्रति याज्ञवल्क्य आह – "एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वम्" इति । अत्र – 'अक्षरशब्देन प्रणवो ब्रह्म वाऽभिधीयते' - इति सन्देहे, 'प्रणवः' इति प्राप्तम् । कुतः - लोके "येनाक्षरसमाम्नायमधिगम्य" इत्यादौ वर्णेऽक्षरशब्दप्रसिद्धेः । प्रणवाक्षरस्यात्रोपास्यतया वक्तव्यत्वात् । इति प्राप्ते, - ब्रूमः - ब्रह्मैवाक्षरशब्दवाच्यम् । कुतः - "एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च" इत्याकाशशब्दवाच्यमव्याकृतं प्रत्यक्षरस्याऽऽधारतोक्तेः । प्रणवस्य तदसम्भवात् । किञ्च - "अस्थूलमनण्वह्रस्वम्" इत्यक्षरे सर्वसंसारधर्मा निषिध्यन्ते । तथा - "एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति तस्यैवाक्षरस्य जगच्छासितृत्वमुच्यते । (तथा) "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोतृ" इत्यादिना द्रष्टृत्वादिकं प्रमाणाविषयत्वम् चाऽऽम्नातम् । तदेतत्सर्वं न प्रणवपक्षेऽवकल्पते । तस्मात् - ब्रह्मैवाक्षरम् ॥ (चतुर्थे परब्रह्मण ईक्षतिकर्मता (ध्येयता) धिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ॥
ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 ईक्षितव्यो जीवघनात्परस्तत्प्रत्यभिज्ञया ॥
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 प्रश्नोपनिषदि श्रूयते - "यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत" इति । तत्र 'ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्म, उत परं ब्रह्म' – इति संशये सति, 'अपरम्' इति तावत्प्राप्तम् । कुतः - "स सामभिरून्नीयते ब्रह्मलोकम्" इति कमलासनलोकप्राप्तिफलश्रवणात् । परब्रह्मध्यानस्य परमपुरुषार्थस्य तावन्मात्रफलत्वानुपपत्तेः । "पुरं पुरुषम्" इति परशब्दविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते । तस्यापीतरापेक्षया परत्वात् । इति प्राप्ते - ब्रूमः - परमेव ब्रह्माभिध्येयम् । कुतः - ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात् । "स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते" इति वाक्यशेषे श्रूयते । तस्यायमर्थः - 'य उपासनया ब्रह्मलोकं प्राप्तः, स एतस्मात्सर्वजीवसमष्टिरूपादुत्कृष्टाद्धिरण्यगर्भादप्युत्कृष्टं सर्वप्राणिहृदये शयानं परमात्मानं पश्यति' इति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योपक्रमे ध्यानविषयत्वेनाभिप्रेतः - इत्यवगम्यते । परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात् । न च ब्रह्मलोकप्राप्तिमात्रं फलम् , क्रममुक्तिसम्भवात् । तस्मात् - ब्रह्मैव ध्येयम् ॥ (पञ्चमे ब्रह्मण एव दहराकाशत्वाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - दहरः को वियज्जीवो ब्रह्म वाऽऽकाशशब्दतः ॥
वियत्स्यादथवाऽल्पत्वश्रुतेर्जीवो भविष्यति ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 बाह्याकाशोपमानेन द्युभूम्यादिसमाहितेः ॥
आत्माऽपहतपाप्मत्वात्सेतुत्वाच्च परेश्वरः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्याष्टमाध्याये श्रूयते - "अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाशः, तस्मिन्यदन्तः, तदन्वेष्टव्यम् , तद्वाव विजिज्ञासितव्यम्" इति । 'ब्रह्मण उपलब्धिस्थानत्वेन शरीरं ब्रह्मपुरम् , तत्राल्पं हृदयपुण्डरीकं वेश्म यदवतिष्ठते, तस्मिन्वेश्मन्यल्प आकाशो वर्तते' इत्यर्थः । तत्राऽऽकाशस्य त्रेधा संशये सति, 'वियत्' इति तावत्प्राप्तम् , आकाशशब्दस्य वियति रूढत्वात् । यद्वा - दहरशब्देनाल्पत्वोक्तेः परिच्छिन्नो जीवो भविष्यति । न तु ब्रह्म ॥ इति प्राप्ते, ब्रूमः - ब्रह्मैवाऽऽकाशशब्दवाच्यम् । "यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः" इति प्रसिद्धेन वियतोपमितत्वात् । न हि वियतो वियदुपमानं सम्भवति । नाप्यल्पपरिमाणो जीवो वियत्परिमाणेनोपमातुं शक्यः । लौकिकरूढिस्तु श्रौतरूढ्या परिहृता । किञ्च – "उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते" इत्यादिना द्यावापृथिव्याद्यशेषजगदाधारत्वं दहराकाशस्य श्रूयते । "अथैष आत्माऽपहतपाप्मा" इत्यात्मत्वमपहतपाप्मत्वं च । "य आत्मा स सेतुर्विधृतिः" इति जगन्मर्यादानामसाङ्कर्याय विधारकत्वलक्षणसेतुत्वं च । तस्मादेतेभ्यो हेतुभ्यः परमात्मा ॥ (षष्ठ ईश्वरस्यैवाक्षिपुरुषत्वाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - यः प्रजापतिविद्यायां स किं जीवोऽथवेश्वरः ॥
जाग्रत्स्वप्नसुषुप्तोक्तेस्तद्वाञ्जीव इहोचितः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 आत्माऽपहतपाप्मेति प्रकम्यान्ते स उत्तमः ॥
पुमानित्युक्त ईशोऽत्र जाग्रदाद्यवबुद्धये ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 दहरविद्याया उपरि प्रजापतिविद्यायामिन्द्रविरोचनप्रजापतिसंवादे श्रूयते - "य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच" इति । तत्र – 'जीवात्मा' इति प्राप्तम् । कुतः - अवस्थात्रयोपन्यासात् । "अक्षिणि पुरुषः" इति जागरणोपन्यासः । "य एष स्वप्ने महीयमानश्चरति" इति स्वप्नोपन्यासः । "सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति" इति सुषुप्तोपन्यासः । एवमवस्थात्रय उपन्यस्ते सत्यवस्थावाञ्जीवो ग्रहीतुमुचितः, ईश्वरस्यावस्थाराहित्यात् ॥ इति प्राप्ते, ब्रूमः - ईश्वरोऽत्र ग्रहीतव्यः । कुतः - "य आत्माऽपहतपाप्मा विजरो विमृत्युः" इति परमात्मानमुपक्रम्य "स उत्तमः पुरुषः" इत्यनेन परमात्मन एवोपसंहारात् । नच - एवंसति जागरणाद्युपन्यासवैयर्थ्यम् , शाखाचन्द्रन्यायेन परमात्मबोधोपयुक्तत्वात् । तस्मात् - ईश्वरोऽक्षिपुरुषः ॥ (सप्तमे चैतन्यस्य सर्वजगद्भासकत्वाधिकरणे सूत्रे - ) सप्तमाधिकरणमारचयति - न तत्र सूर्यो भातीति तेजोन्तरमुतात्र चित् ॥
तेजोभिभावकत्वेन तेजोन्तरमिदं महत् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 चित्स्यात्सूर्याद्यभास्यत्वात्तादृक्तेजोप्रसिद्धितः ॥
सर्वस्मात्पुरतो भानात्तद्भासा चान्यभासनात् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 मुण्डकोपनिषदि श्रूयते - "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति । अयमर्थः - 'तत्र पूर्वप्रकृते ज्योतिषां ज्योतिषि चन्द्रसूर्यादयो न भान्ति, किं तु तमेव ज्योतिषां भासकं पुरतो भासमानं पदार्थमनु सर्वं जगद्भाति । भासनदशायां न स्वतन्त्रेण भानेन जगद्भाति । किं तर्हि तस्य भासकपदार्थस्य भासा सर्वमिदं विभाति' इति । 'अस्मिन्वाक्ये श्रूयमाणं जगद्भासकं किं सूर्यादिसदृशं चाक्षुषं तेजोन्तरम्' , उत चैतन्यम् इति संशये - 'तेजोन्तरम्' इति प्राप्तम् । कुतः - सूर्यादितेजोभिभावकत्वात् । महतस्तेजसः संनिधौ स्वल्पं तेजोऽभिभूयते यथा सूर्यसंनिधौ दीपः । तथाच सूर्यादीनां यदभिभावकं, तत्सूर्यादिभ्योऽप्यधिकं तेजोन्तरमेव ॥ इति प्राप्ते, उच्यते - सूर्यादिभिरभास्यतया श्रूयमाणं वस्तु चैतन्यम् । कुतः - सूर्याद्यभिभावकस्य महतस्तेजोन्तरस्याप्रसिद्धत्वात् । किञ्च "तमेव भान्तमनुभाति सर्वम्" इति सर्वस्मात्पुरोभासमानत्वं चैतन्यधर्मः । तथा - "तस्य भासा सर्वमिदं विभाति" इति प्रकाशाप्रकाशरूपसर्वजगद्भासकत्वं चैतन्यधर्म एव । तस्माच्चैतन्यं वाक्यप्रतिपाद्यम् ॥ (अष्टमे परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणे सूत्रे - ) अष्टमाधिकरणमारचयति - अङ्गुष्ठमात्रो जीवः स्यादीशो वाऽल्पप्रमाणतः ॥
देहमध्ये स्थितेश्चैव जीवो भवितुमर्हति ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 भूतभव्येशता जीवे नास्त्यतोऽसाविहेश्वरः ॥
स्थितिप्रमाणे ईशेऽपि स्तो हृद्यस्योपलब्धितः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीषु चतुर्थवल्ल्यामाम्नायते - "अङ्गुष्ठमात्र पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते " इति । तत्र – अङ्गुष्ठमात्रो जीवः । कुतः - "अङ्गुष्ठमात्रः" इत्यल्पप्रमाणत्वात् । "मध्य आत्मनि तिष्ठति" इति देहमध्यदेशावस्थानाच्च ॥ इति प्राप्ते, ब्रूमः - परमात्मा अङ्गुष्ठमात्रः । कुतः - "ईशानो भूतभव्यस्य" इत्यतीतानागतजगदीशितृत्वश्रवणात् । न च – ईशितृत्वं जीवेऽस्ति, जीवस्येशितव्यत्वात् । अल्पप्रमाणत्वं, देहमध्येऽवस्थानं चेश्वरस्यापि सम्भवतः, हृदयपुण्डरीके ब्रह्मण उपलम्भात्तदपेक्षया तदुभयसङ्कीर्तनात् । तस्मात् - अङ्गुष्ठमात्रः परमेश्वरः ॥ (नवमे देवादीनामप्यधिकारित्वाधिकरणे सूत्राणि - ) नवमाधिकरणमारचयति - नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ॥
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 अविरुद्धज्ञातवादिमन्त्रादेर्देहसत्त्वतः ॥
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके तृतीयाध्याये श्रूयते - "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् , तथर्षीणाम्" इति । 'देवानां मध्ये यो ब्रह्म बुबुधे स एव ब्रह्माभवत्' इत्यर्थः । तत्र 'देवर्षयो विद्यायां नाधिक्रियन्ते' इति प्राप्तम् । कुतः - 'अर्थी समर्थो विद्वाञ्शास्त्रेणापर्युदस्तोऽधिक्रियते' इत्युक्तानामधिकारहेतूनामशरीरेषु देवेष्वसम्भवात् । न च – मन्त्रार्थवादादिभ्यो देवानां विग्रहवत्त्वम् , विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पर्याभावात् ॥ इति प्राप्ते ब्रूमः - त्रिविधो ह्यर्थवादः - गुणवादः, अनुवादः, भूतार्थवादश्चेति । तथा चाऽऽह - "विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः" इति । "आदित्यो यूपः" "यजमानः प्रस्तरः" इत्यादिषु प्रत्यक्षविरोधे सत्यादित्यादिवद्यागनिर्वाहकत्वगुण आदित्यादिशब्दैरुपलक्ष्यत इति गुणवादः । "अग्निर्हिमस्य भेषजम्" "वायुर्वै क्षेपिष्ठा देवता" इत्यादिषु मानान्तरसिद्धार्थानुवादित्वादनुवादत्वम् । तयोरुभयोः स्वार्थे तात्पर्यं मा भूत् । "इन्द्रो वृत्राय वज्रमुदयच्छत्" इत्यादिष्वविरुद्धेष्वननुवादेषु च भूतार्थवादेषु स्वतः प्रामाण्यवादे स्वार्थे तात्पर्यस्य निवारयितुमशक्यत्वात्पदैकवाक्यतया स्वार्थेऽवान्तरतात्पर्यं प्रतिपाद्य पश्चाद्वाक्यैकवाक्यतया विधिषु महातात्पर्यं भूतार्थवादाः प्रतिपद्यन्ते । मन्त्रेष्वप्ययं न्यायोयोज्यः । तथाच – मन्त्रार्थवादादिबलाद्देवादीनां विग्रहवत्त्वे सति श्रवणादिषु सामर्थ्यं सुलभम् । अर्थित्वं चैश्वर्यस्य क्षयित्वसातिशयत्वदर्शनान्मोक्षसाधनब्रह्मविद्याविषयमुपपद्यते । विद्वत्ता चोपनयनाध्ययनरहितानामपि स्वयम्भातवेदत्वात्सुलभैव । तस्मात् - देवानां विद्याधिकारो न निवारयितुं शक्यः । यद्यपि - आदित्यादिदेवतानामादित्याध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामादित्यादीनामसम्भवात् , आदित्यत्वादिप्राप्तिलक्षणस्य विद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः, तथाऽपि निर्गुणविद्यायामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ॥ (दशमे शूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणे सूत्राणि - ) दशमाधिकरणमारचयति - शूद्रोऽधिक्रियते वेदविद्यायामथवा न हि ॥
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 देवाः स्वयम्भातवेदाः शूद्रोऽध्ययनवर्जनात् ॥
नाधिकारी श्रुतौ स्मार्ते त्वधिकारो न वार्यते ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते - "आजहारेमाः शूद्र, अनेनैव मुखेनाऽऽलापयिष्यथाः" इति । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं दुहितरं मुक्ताहारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैक्वनामानं गुरुमुपससाद । तत्र रैक्ववचनमेतत् - 'हे शूद्र जानश्रुते, इमागोसहस्राद्या आहृतवानसि, अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेशयिष्यसि' इति । तत्र 'शूद्रोऽपि वेदविद्यायामधिकारवान्' इति प्राप्तम् । अत्रैवर्णिकदेवदृष्टान्ताच्छूद्रस्याप्यत्रैवर्णिकस्य तत्सम्भवात् ॥ इति प्राप्ते ब्रूमः - अस्ति देवशूद्रयोवैषम्यम् । उपनयनाध्ययनाभावेऽपि स्वयम्भातवेदा देवाः, तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु तादृशसुकृतराहित्यान्न स्वयम्भातवेदः । नापि तस्य वेदाध्ययनमस्ति, उपनयनाभावात् । अतो विद्वत्ताख्यस्याधिकारहेतोरभावान्न श्रौताविद्यायां शूद्रोऽधिकारी । कथं तर्हि - उदाहृते वाक्ये जानश्रुतिविषयः शूद्रशब्दः, 'यौगिकोऽयं, न रूढः' इति ब्रूमः । 'विद्याराहित्यजनितया शुचा गुरुं दुद्राव' इति शूद्रः । न च – रूढ्या योगापहारः, रूढेरत्रासम्भवात् । अस्मिन्नुपाख्याने क्षत्तृप्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात् । ननु - शूद्रस्य वेदविद्यायामनधिकारे सति मुमुक्षायां सत्यामपि मुक्तिर्नसिध्येत् - इति चेत् । न । स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये सति मुक्तिसिद्धेः । तस्मात् - न शूद्रो वेदविद्यायामधिक्रियते ॥ (एकादश ईश्वरस्यैव कम्पनहेतुताधिकरणे सूत्रम् - ) एकादशाधिकरणमारचयति - जगत्कम्पनकृत्प्राणोऽशनिर्वायुरुतेश्वरः ॥
अशनिर्भयहेतुत्वाद्वायुर्वा देहचालनात् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 वेदनादमृतत्वोक्तेरीशोऽन्तर्यामिरूपतः ॥
भयहेतुश्चालनं तु सर्वशक्तियुतत्वतः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीषु षष्ठवल्ल्यामाम्नायते - "यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥" इति । अयमर्थः - "निःसृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्तभूते सति कम्पते । तच्च प्राणशब्दवाच्यं वस्तूद्यतं वज्रमिव महाभयहेतुः । एतत्प्राणशब्दवाच्यं ये विदुः, ते मरणरहिता भवन्ति" इति । तत्र – जगत्कम्पनकारिणि प्राणे त्रेधा सन्दिग्धे सति - 'अशनिः' इति तावत्प्राप्तम् । कुतः - "महद्भयम्" इति भयहेतुत्वश्रवणात् । वायुर्वा भविष्यति "प्राण एजति" इति शब्दप्राणवाच्यस्य देहादिचालनकर्तृत्वावगमात् ॥ इति प्राप्ते, ब्रूमः - ईश्वरः प्राणशब्दवाच्यो भवितुमर्हति, "य एतद्विदुरमृतास्ते भवन्ति" इति तद्वेदनादमृतत्वोक्तेः । भयहेतुताऽप्यन्तर्यामिरूपेणेश्वरस्य भविष्यति "भीषाऽस्माद्वातः पवते" इति श्रुत्यन्तरात् । देहादिकम्पनत्वं च सर्वशक्तित्वादीश्वरस्योपपद्यते । तस्मात् - ईश्वरः प्राणशब्दवाच्यः ॥ (द्वादशे ब्रह्मण एव ज्योतिष्ट्वाधिकरणे सूत्रम् - ) द्वादशाधिकरणमारचयति - परं ज्योतिस्तु सूर्यस्य मण्डलं ब्रह्म वा भवेत् ॥
समुत्थायोपसम्पद्येत्युक्त्या स्याद्रविमण्डलम् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 समुत्थानं त्वम्पदार्थशुद्धिर्वाक्यार्थबोधनम् ॥
सम्पत्तिरुत्तमत्वोक्तेर्ब्रह्म स्यादस्य साक्ष्यतः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्येऽष्टमाध्याये प्रजापतिविद्यायामाम्नायते - "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः" इति । अस्यायमर्थः - 'सम्यक्प्रसीदत्यस्यामवस्थायाम्' इति सम्प्रसादः सुषुप्तिः तस्यामवस्थायां तद्वाञ्जीव उपलक्ष्यते । 'एष जीवोऽस्माच्छरीरात्समुत्थाय' इति । शेषं सुगमम् । तत्र ज्योतिःशब्दवाच्ये द्वेधा सन्दिग्धे सति, 'रविमण्डलम्' इति तावत्प्राप्तम् । कुतः - "शरीरात्समुत्थाय ज्योतिरुपसम्पद्य" इति 'देहान्निर्गत्य ज्योतिः प्राप्नोति' इत्युच्यमानत्वात् । ब्रह्मप्राप्तौ निर्गमाभावात्प्राप्तृप्राप्तव्यभेदानुपपत्तेश्च ॥ इति प्राप्ते, ब्रूमः - ज्योतिःशब्दवाच्यं ब्रह्म स्यात् । कुतः - "स उत्तमः पुरुषः" इत्युत्तमपुरुषकीर्तनाद्रविमण्डलस्य तदयोगात् । "यो वेद – इदं जिघ्राणि - इति, स आत्मा । यो वेद – इदं शृण्वानि - इति, स आत्मा" इत्यादिना घ्रातृ - घ्राण – घ्रेय – श्रोतृ - श्रवण – श्रोतव्यादिसाक्षित्वमात्मनः श्रूयते । तदेकवाक्यतया ज्योतिःशब्दवाच्यं ब्रह्म । यदुक्तम् - 'शरीरात्समुत्थाय, ज्योतीरूपं सम्पाद्य' इत्येतद्द्वयं ब्रह्मपक्षे न सम्भवति - इति । तदसत् । न ह्यत्र समुत्थानं निर्गमनम् , किं तर्हि त्वम्पदार्थस्य जीवस्य शरीरत्रयाद्विवेकः । नाप्युपसम्पत्तिः प्राप्तिः, किं तर्हि तस्य शोधितत्वं पदार्थस्य ब्रह्मत्वेनावबोधनम् । तस्मात् - ज्योतिर्ब्रह्म ॥ (त्रयोदशे ब्रह्मण एव नामरूपनिर्वाहकताधिकरणे सूत्रम् - ) त्रयोदशाधिकरणमारचयति - वियद्वा ब्रह्म वाऽऽकाशो वै नामेति श्रुतं, वियत् ॥
अवकाशप्रदानेन सर्वनिर्वाहकत्वतः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 निर्वोढृत्वं नियन्तृत्वं चैतन्यस्यैव तत्त्वतः ॥
ब्रह्म स्याद्वाक्यशेषे च ब्रह्मात्मेत्यादिशब्दतः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यस्याष्टमाध्यायस्यान्ते श्रूयते - "आकाशो ह वै नामरूपयोर्निर्वहिता, ते यदन्तरा तद्ब्रह्य, तदमृतम् , स आत्मा" इति । "अस्यायमर्थः - आकाशाख्यः कश्चित्पदार्थः स च जगद्रूपयोर्नामरूपयोर्निर्वहिता निर्वाहकः । ते च नामरूपे यस्मादाकाशाद्भिन्ने, अथवा - यस्याऽऽकाशस्यान्तराले वर्तेते । तदाकाशं मरणरहितं ब्रह्म, तदेव प्रत्यगात्मा" इति । तत्र "आकाशो ह वै नाम" – इति यच्छ्रुतं, तद्वियत् स्यात् , "नामरूपयोर्निर्वहिता" इत्युक्तस्य निर्वाहकत्वस्यावकाशप्रदातरि वियति सम्भवात् ॥ इति प्राप्ते, ब्रूमः - अत्र निर्वाहकत्वं नाम नावकाशप्रदानमात्रम् । किन्तु नियामकत्वम् । सर्वप्रकारनिर्वाहकत्वस्य नियन्तृत्वान्तर्भावात् । तच्च नियन्तृत्वं चेतनस्य ब्रह्मणो युज्यते । श्रुत्यन्तरे च श्रूयते - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति । न हि वियतोऽचेतनस्य नियम्यविशेषानजानतो नियन्तृत्वं सम्भवति । तत आकाशं ब्रह्म स्यात् । किञ्च वाक्यशेषे "तद्ब्रह्म, तदमृतं, स आत्मा" इति ब्रह्मत्वामृतत्वात्मत्वानि श्रूयन्ते । ततोऽपि ब्रह्मैवाऽऽकाशम् ॥ (चतुर्दशे ब्रह्मण एव विज्ञानमयत्वाधिकरणे सूत्रे - ) चतुर्दशाधिकरणमारचयति - स्याद्विज्ञानमयो जीवो ब्रह्म वा जीव इष्यते ॥
आदिमध्यावसानेषु संसारप्रतिपादनात् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 विविच्य लोकसंसिद्धं जीवं प्राणाद्युपाधितः ॥
ब्रह्मत्वमन्यतोऽप्राप्तं बोध्यते ब्रह्म नेतरत् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके षष्ठाध्याये श्रूयते - "योऽयं विज्ञानमयः प्राणिषु हृद्यन्तर्ज्योतिः पुरुषः समानः सन्नुभौ लोकावनुसञ्चरति" इति । अस्यायमर्थः - 'विज्ञानमयो लिङ्गशरीरमयः । तेन स्थूलदेहव्यतिरेकः सिद्धः । प्राणेषु चक्षुरादीन्द्रियेषु, प्राणादिवायुषु च, हृद्यन्तःकरणे, सप्तमीविभक्त्याधारत्वनिर्देशादाधेयस्य पुरुषस्येन्द्रियवायुमनोतिरिक्तत्वं सिद्धम् । अन्तःशब्देन धीवृत्तिभ्यः कामसङ्कल्पादिभ्यो व्यतिरेकः सिद्धः । बुद्धिपरिणामरूपाणां तासां वृत्तीनां बहिर्भावात् । एवं च सति - स्थूलदेहेन्द्रियेभ्यः प्राणवायुभ्योऽन्तःकरणात्तद्वृत्तिभ्यश्च व्यतिरिक्तः, तेषां साक्षित्वेन चिज्ज्योतिःस्वरूपः पुरुषः - इत्युक्तं भवति । स च पुरुषो लिङ्गशरीरतादात्म्याध्यासेन लिङ्गशरीरेण समानः सन्निहलोकपरलोकावनुसञ्चरति' इति । तत्र विज्ञानमयो जीवो भवितुमर्हति, ज्योतिर्ब्राह्मण – शारीरब्राह्मणयोरादिमध्यावसानेषु संसारस्यैव प्रपञ्च्यमानत्वात् । आदौ तावत् - "उभौ लोकावनुसञ्चरति" इति संसारोक्तिः स्पष्टा । मध्ये च – सम्प्रसादस्वप्नान्तबुद्धान्तकण्डिकाभिरवस्थात्रयं प्रपञ्च्यते । अन्तेऽपि "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयः" इत्यादिना सोपाधिकस्वरूपवर्णनेन संसार एवोच्यते । तस्मात् - जीवः ॥ इति प्राप्ते, ब्रूमः - न तावज्जीवोऽत्र प्रतिपाद्यः, लौकिकादहंप्रत्ययादेव सिद्धत्वात् । किमर्थं तर्हि जीवाद्यभिधानम् - इति चेत् । प्राणाद्युपाधिभ्यो विवेक्तुमादावभिधानम् । मध्येऽप्यवस्थात्रयसङ्गराहित्यं दर्शयितुमभिधीयते । अन्ते तूक्तजीवस्वरूपमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते । ब्रह्मत्वस्य मानान्तरेणाप्राप्तत्वात् । तस्मात् - ब्रह्मात्र प्रतिपाद्यम् , न तु जीवः । इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्रजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि १४ ३२ सूत्राणि ४३ १०७ (प्रथमे कारणशरीरस्यैवाव्यक्तशब्दवाच्यताधिकरणे सूत्राणि - ) चतुर्थपादस्य प्रथमाधिकरणमारचयति - महतः परमव्यक्तं प्रधानमथवा वपुः ॥
प्रधानं साङ्ख्यशास्त्रोक्ततत्त्वानां प्रत्यभिज्ञया ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतार्थप्रत्यभिज्ञानात्परिशेषाच्च तद्वपुः ॥
सूक्ष्मत्वात्कारणावस्थमव्यक्ताख्यां तदर्हति ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीषु तृतीयवल्ल्यामाम्नायते - "महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति । अत्र – अव्यक्तशब्देन साङ्ख्याभिमतं प्रधानमभिधीयते । कुतः - प्रत्यभिज्ञानात् । महदव्यक्तपुरुषाः साङ्ख्यशास्त्रे परापरभावेन यथा प्रसिद्धाः, तथैव श्रुतौ प्रत्यभिज्ञायन्ते । तस्मात् - अव्यक्तशब्दवाच्यं प्रधानम् ॥ इति प्राप्ते, ब्रूमः - अव्यक्तशब्दवाच्यं वपुर्भवितुमर्हति । पूर्ववाक्योक्तशरीरस्यात्र प्रत्यभिज्ञानात् । पूर्वस्मिन्वाक्ये शरीरादीनि रथादित्वेनोक्तानि - "आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्" इति । तानि पूर्ववाक्योक्तानि वस्तून्यस्मिन्वाक्ये प्रत्यभिज्ञायन्ते । इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । इति स्मार्तप्रत्यभिज्ञानादपि श्रौतं प्रत्यभिज्ञानं प्रत्यासन्नत्वात्प्रबलम् । नन्वेवमपि बहूनां प्रत्यभिज्ञायमानत्वाच्छारीरमेवाव्यक्तशब्दवाच्यम् - इति कुतो विनिगमः । 'परिशेषात्' इति ब्रूमः । तथाहि - पूर्वस्मिन्वाक्ये इन्द्रियार्थमनोबुद्धिशब्दैर्निर्दिष्टाः पदार्थाः, उत्तरस्मिन्वाक्ये तैरेव शब्दैर्निर्दिश्यन्ते । पूर्वत्राऽऽत्मशब्देन निर्दिष्टं वस्तूत्तरत्र पुरुषशब्देनोपदिष्टम् । उत्तरवाक्ये महच्छब्देन यदुक्तम् , तत्पूर्ववाक्ये बुद्धिशब्देन सङ्गृहीतम् । बुद्धिर्हि द्विधा - अस्मदादीनां बुद्धिरेका, तत्कारणभूता हिरण्यगर्भबूद्धिरपरा महच्छब्दवाच्या । तयोः पूर्वत्रैकत्वेन निर्दिष्टयोरुत्तरत्र भेदेन निर्देशः । एवं सति पूर्ववाक्ये शरीरमेकं परिशिष्टम् , उत्तरवाक्ये चाव्यक्तशब्दः परिशिष्यते । न च – एवं परिशेषेऽपि शरीरस्य स्पष्टत्वादव्यक्तशब्दवाच्यत्वमनुपपन्नम् - इति शङ्कनीयम् , कारणावस्थापन्नस्य शरीरस्य सूक्ष्मत्वेनास्पष्टतयाऽव्यक्तशब्दार्हत्वात् । तस्मात् - अव्यक्तशब्दवाच्यं वपुः ॥ (द्वितीये तेजोबन्नात्मकप्रकृतेरेवाजात्वाधिकरणे सूत्राणि - ) द्वितीयाधिकरणमारचयति - अजेह साङ्ख्यप्रकृतिस्तेजोबन्नात्मिकाऽथवा ॥
रजआदौ लोहितादिलक्ष्येऽसौ साङ्ख्यशास्त्रगा ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 लोहितादिप्रत्यभिज्ञा तेजोबन्नादिलक्षणाम् ॥
प्रकृतिं गमयेच्छ्रौतीमजाक्लृप्तिर्मधुत्ववत् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 श्वेताश्वतरोपनिषदि चतुर्थाध्याये श्रूयते - "अजामेकां लोहितशुक्लकृष्णाम्" इति । अत्र – अजाशब्देन साङ्ख्यशास्त्रोक्ता प्रधानशब्दवाच्या प्रकृतिर्विवक्षिता । अथवा - छान्दोग्य श्रुतावुक्ता तेजोबन्नात्मिका प्रकृतिः, इति सन्देहे 'प्रधानम्' इति तावत्प्राप्तम् । कुतः - सत्त्वरजस्तमोगुणात्मत्वप्रतीतेः । यद्यपि लोहितशुक्लकृष्णवर्णा एव श्रूयन्ते, न तु गुणाः । तथाऽपि लोहितादिशब्दैर्गुणा लक्ष्यन्ते । तत्र लोहितशब्देन रञ्जकत्वसाम्याद्रजोगुण उपलक्षितः, शुक्लशब्देन स्वच्छत्वसाम्यात्सत्त्वगुणः, कृष्णशब्देनाऽऽवरकत्वसाम्यात्तमोगुणः । एवंसति शास्त्रान्तरप्रतीतिरनुगृहीता भवति । तस्मात् - प्रधानम् ॥ इति प्राप्ते, ब्रूमः - "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति छान्दोग्ये तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि श्रुतान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रौतप्रत्यभिज्ञायाः प्राबल्यात् , लोहितादिशब्दानां मुख्यार्थसम्भवाच्च तेजोबन्नात्मिका प्रकृतिरजेति गम्यते । यद्यपि - अजाशब्दश्छगवाचित्वान्नोक्तप्रकृतौ रूढः । नापि 'न जायते' इति योगः सम्भवति, तेजोबन्नानां ब्रह्मणो जातत्वात् । तथाऽपि च्छागत्वमुक्तप्रकृतौ सुखावबोधाय परिकल्प्यते । यथा - आदित्यस्यामधुनो मधुत्वम् "असौ वा आदित्यो देवमधु" इत्यादिवाक्येन परिकल्पितम् , तद्वत् । तस्मात् - तेजोबन्नात्मिका प्रकृतिरजा, न साङ्ख्योपसङ्ग्रहादपि ॥ (तृतीये प्राणादीनामेव पञ्चजनत्वाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - पञ्च पञ्चजनाः साङ्ख्यतत्त्वान्याहो श्रुतीरिताः ॥
प्राणाद्याः साङ्ख्यतत्त्वानि पञ्चविंशतिभासनात् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 न पञ्चविंशतेर्भानमात्माकाशातिरेकतः ॥
संज्ञा पञ्चजनेत्येषा प्राणाद्याः संज्ञिनः श्रुताः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके षष्ठाध्याये श्रूयते - "यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्" ॥ अस्यायमर्थः - 'पञ्च पञ्चजना आकाशश्च यस्मिन्नाश्रिताः, तमेवाऽऽश्रयभूतमात्मानममृतं ब्रह्म मन्ये । इत्थं विद्वानहममृतो भवामि' इति । तत्र – "पञ्च पञ्चजनाः" इति प्रोक्ताः पदार्थाः किं साङ्ख्यशास्त्रोक्ततत्त्वानि, आहोस्वित् - श्रुतिप्रोक्ताः प्राणचक्षुःश्रोत्रमनोन्नसंज्ञकाः, - इति सन्देहे, 'साङ्ख्यतत्त्वानि' इति तावत्प्राप्तम् । कुतः - पञ्चविंशतिसङ्ख्यायाः साङ्ख्यशास्त्रप्रसिद्धाया अत्रावभासनात् । तथाहि - 'पञ्च पञ्च' इति शब्दद्वयं श्रूयते । तत्रैकेन पञ्चशब्देन तत्त्वगता पञ्चसङ्ख्या विवक्षिता, द्वितीयेन पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या विवक्षिता । तथाच 'पञ्चसङ्ख्याविशिष्टानि तत्त्वपञ्चकानि' इत्युक्तं भवति । ततश्च पञ्चभिः पञ्चकैः पञ्चविंशत्यवभासनात् ॥ साङ्ख्यतत्त्वानां प्राप्तौ ब्रूमः - यद्यपि पञ्चसङ्ख्याविषयाऽपरा पञ्चसङ्ख्या श्रूयते, तथाऽपि न पञ्चविंशतिरियं भवितुं शक्नोति, पञ्चविंशतिसङ्ख्यानां तत्त्वानामाश्रयत्वेनाऽऽत्मनोऽवभासनात् । नह्ययमात्मा पञ्चविंशत्यन्तःपाती । तथाच सति 'एकस्यैवाऽऽधेयत्वमाधारत्वं च' इति विरोधप्रसङ्गात् । आकाशोऽप्यपरः श्रूयते । न च तस्यापि पञ्चविंशत्यन्तःपातित्वम् , "आकाशश्च" इति पृथग्निर्देशसमुच्चययोर्विधानात् । तत आत्माकाशाभ्यां सह सप्तविंशतिसम्पत्तेर्न साङ्ख्यतत्त्वानामत्रावकाशः । कस्तर्हि वाक्यार्थः - उच्यते - पञ्चजनशब्दोऽयं समस्तः संज्ञावाची, "दिक्सङ्ख्ये संज्ञायाम्" (पा० सू० २ । १ । ५०) इति समासविधानात् । ततः 'पञ्चजनसंज्ञकाः पदार्थाः पञ्चसङ्ख्याकाः' इत्युक्तं भवति । संज्ञिनस्तु वाक्यशेषात्प्राणादयोऽवगन्तव्याः । "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नम् , मनसो ये मनो विदुः" इति वाक्य़शेषः । प्राणादीनां पञ्चानां साक्षी चिदात्मा द्वितीयैः प्राणादिशब्दैरभिधीयते । तस्माद्वाक्यशेषात्प्राणादयः पञ्चजना भवेयुः ॥ (चतुर्थे जगद्योनौ ब्रह्मण्येव वेदान्तवाक्यसमन्वयाधिकरणे सूत्रे - ) चतुर्थाधिकरणमारचयति - समन्वयो जगद्योनौ न युक्तो युज्यतेऽथवा ॥
न युक्तो वेदवाक्येषु परस्परविरोधतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 सर्गक्रमविवादेऽपि नासौ स्रष्टरि विद्यते ॥
अव्याकृतमसत्प्रोक्तं युक्तोऽसौ कारणे ततः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 योऽयं वेदान्तसमन्वयो जगत्कारणविषयः सार्धैस्त्रिभिः पादैः प्रतिपादितः, तमाक्षिप्य समाधातुमयमारम्भः - 'न युक्तोऽयं समन्वयः' इति तावत्प्राप्तम् । कुतः - वेदान्तेषु बहुशो विरोधप्रतीतेः प्रामाण्यस्यैव दुःसम्पादत्वात् । तथाहि - "आत्मन आकाशः सम्भूतः" इति तैत्तिरीयके वियदादीन्प्रति स्रष्टृत्वं श्रूयते, छान्दोग्ये - "तत्तेजोऽसृजत" इति तेज आदीन्प्रति । ऐतरेयके- "स इमाल्लोकानसृजत" इति लोकान्प्रति । मुण्डके - "एतस्माज्जायते प्राणः" इति प्राणादीन्प्रति । न केवलं कार्यद्वारेणैव विरोधः, किन्तु कारणस्वरूपोपन्यासेऽपि - "सदेव सौम्येदमग्र आसीत्" इति च्छान्दोग्ये सद्रूपत्वं कारणस्यावगम्यते । तैत्तिरीयके - "असद्वा इदमग्र आसीत्" इत्यसद्रूपत्वम् । ऐतरेयके तु - "आत्मा वा इदमेक एवाग्र आसीत्" इत्यात्मरूपत्वम् । अतो विरोधान्न समन्वयः ॥ इति प्राप्ते, ब्रूमः - भवतु नाम सृष्टेषु वियदादिषु तत्क्रमे च विवादः । वियदादीनामतात्पर्यविषयत्वादद्वितीयब्रह्मबोधायैव तदुपन्यासः । तात्पर्यविषये तु जगत्स्रष्टरि ब्रह्मणि न क्वापि विरोधोऽस्ति । क्वचित्सच्छब्देनोक्तस्य ब्रह्मणोऽन्यत्र सर्वजीवस्वरूपविवक्षयाऽऽत्मशब्देनाभिधानात् । यत्तु - असच्छब्देनाभिधानम् , तदव्यकृतत्वाभिधानाभिप्रायम् । न त्वत्यन्ताभावाभिप्रायम् , "कथमसतः सज्जायेत" इति श्रुत्यन्तरेणाभावस्य कारणत्वनिषेधात् । तस्मात् - एकवाक्यतायाः सुसम्पादत्वाद्युक्तो जगत्कारणे समन्वयः ॥ (पञ्चमे परमात्मन एव जगत्कर्तृत्वाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - पुरुषाणां तु कः कर्ता प्राणजीवपरात्मसु ॥
कर्मेति चलने प्राणो जीवोऽपूर्वे विवक्षिते ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 जगद्वाची कर्मशब्दः पुंमात्रविनिवृत्तये ॥
तत्कर्ता परमात्मैव न मृषावादिता ततः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 कौषीतकिब्राह्मणोपनिषदि बालाकिनाम्ना ब्राह्मणेनाऽऽदित्यादिषु षोडशसु पुरुषेषु ब्रह्मत्वेनोक्तेषु राजा तान्निराकृत्य स्वयमाह – "यो वै बालाके, एतेषां पुरुषाणां कर्ता, यस्य वै तत्कर्म, स वै वेदितव्यः" इति । अत्र त्रेधा संशये सति 'प्राणः' इति तावत्प्राप्तम् । कुतः - कर्मशब्दस्य चलनवाचित्वात् । देहादिचालनस्य प्राणासम्बन्धित्वात् । अथवा - पुरुषाणां कर्ता जीवो भवेत् । कुतः - कर्मशब्दस्यापूर्ववाचित्वात् । जीवस्य चापूर्वस्वामित्वात् सर्वथा न परमात्मा ॥ इति प्राप्ते, ब्रूमः - नात्र कर्मशब्दश्चलने वर्तते, नाप्यपूर्वे । किन्त्वयं जगद्वाची, 'क्रियत इति कर्म' इति व्युत्पत्तेः । सति जगद्वाचित्वे कर्मशब्दः सप्रयोजनो भविष्यति, पुरुषमात्रकर्तृत्वशङ्कानिवृत्त्यर्थत्वात् । तथाच श्रुतिवाक्याक्षराण्येवं योजयितव्यानि - 'हे बालाके त्वदुक्तानां पुरुषाणां षोडशानां यः कर्ता स एव वेदितव्यः' । न तु ते पुरुषाः । अथवा किमनेन 'षोडशानां कर्ता' इति सङ्कोचेन – एतत्कृत्स्नं जगद्यस्य कार्यम् , 'स एव वेदितव्यः' इति । कृत्स्नजगत्कर्तृत्वं च परमात्मन एव । न जीवप्राणयोः । एवं सति राज्ञो मृषावादित्वदोषो न भवति, "ब्रह्म ते ब्रवाणि" इति प्रतिज्ञाय षोडश पुरुषान्ब्रुवतो बालाकेः "मृषा वै किल" – इत्यनेन मृषावादित्वमापाद्य राजा स्वयं ब्रह्म विवक्षुर्यदि प्राणजीवौ ब्रूयात् , तदा बालाकेरिव राज्ञो मृषावादित्वं स्यात् । तच्चायुक्तम् । तस्माद् - वाक्योक्तो जगत्कर्ता परमात्मैव ॥ (षष्ठे परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणे सूत्रिाणि - ) षष्ठाधिकरणमारचयति - आत्मा द्रष्टव्य इत्युक्तः संसारी वा परेश्वरः ॥
संसारी पतिजायादिभोगप्रीत्याऽस्य सूचनात् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 अमृतत्वमुपक्रम्य तदन्तेऽप्युपसंहृतम् ॥
संसारिणमनूद्यातः परेशत्वं विधीयते ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके चतुर्थाध्याये मैत्रेयीं भार्यां प्रति याज्ञवल्क्यः पतिरुपदिशति - "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति । अत्र – आत्मनि द्वेधा सन्दिग्धे सति 'संसारी' इति तावत्प्राप्तम् । कुतः - "न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिवाक्यैर्भोगप्रीतियुक्तस्याऽऽत्मनः संसारित्वसूचनात् । अयमत्र वाक्यार्थः - 'पत्यौ प्रीतिं कुर्वती जाया न पत्युः सुखाय प्रीतिं करोति । किन्तु स्वसुखायैव' । एवं पतिपुत्रादयोऽपि स्वस्वभोगायैवेतरत्र प्रीतिं कुर्वन्ति, इति भोगश्च नासङ्गस्येश्वरस्यावकल्प्यते । तस्मात् - संसारी । इति प्राप्ते, ब्रूमः - एतद्वाक्योपक्रमे मैत्रेयी 'वित्तसाध्येन कर्मणा किं ममामृतत्वं स्यात्' इति पप्रच्छ । याज्ञवल्क्यस्तु "अमृतस्य तु नाऽऽशाऽस्ति वित्तेन" इति 'अमृत्वं प्रत्याशाऽपि कर्मणा नास्ति' इत्युत्तरमाह । ब्राह्मणावसानेऽपि "एतावदरे खल्वमृतत्वम्" इत्युपसंहृतम् । अत उपक्रमोपसंहारवशादमृतत्वसाधनमात्मज्ञानमत्र प्रतिपाद्यम् । जीवात्मज्ञानं च नामृतत्वसाधनम् । तस्मात् - भोगप्रीतिसूचितं जीवमनूद्य तस्य ब्रह्मत्वं प्रतिपाद्यते ॥ (सप्तमे ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - निमित्तमेव ब्रह्म स्यादुपादानं च वीक्षणात् ॥
कुलालवन्निमित्तं तन्नोपादानं मृदादिवत् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 बहु स्यामित्युपादानभावोऽपि श्रुत ईक्षितुः ॥
एकबुद्ध्या सर्वधीश्च तस्माद्ब्रह्मोभयात्मकम् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि विषयः । तत्र – 'किं ब्रह्म निमित्तकारणमेव, उत – उपादानकारणमपि' इति सन्देहे 'निमित्तिकारणमेव' इति तावत्प्राप्तम् । कुतः - "तदैक्षत" – इति सृज्यकार्यविषयपर्यालोचनश्रवणात् । पर्यालोचनं च निमित्तभूते कुलालादावेव दृष्टम् । नोपादानभूतमृदादौ । तस्मात् - निमित्तकारणमेव ॥ इति प्राप्ते, ब्रूमः - "तदैक्षत बहु स्यां प्रजायेय" इतीक्षितुरेव प्रकर्षेणोत्पत्त्या बहुभावः श्रूयते । तत उपादानत्वमस्ति । किञ्च "येनाश्रुतं श्रुतं भवति" इत्यादिना ब्रह्मण्येकस्मिञ्छ्रुते सति, अश्रुतमपि जगच्छ्रुतमेव भवति इति प्रतिपाद्यते । तदेकविज्ञानेन सर्वविज्ञानं च । तच्च ब्रह्मणः सर्वोपादानत्वे सति ब्रह्मव्यतिरेकेण कार्याणामभावादुपपादयितु सुशकम् । केवलनिमित्तत्वे तु सर्वेषु कार्येषु ब्रह्मव्यतिरिक्तेषु सत्सु कथं नामैकविज्ञानेन सर्वविज्ञानं प्रतिपाद्यते । तस्मात् - उभयविधकारणं ब्रह्म ॥ (अष्टमे ब्रह्मण एव जगत्कारणत्वाधिकरणे सूत्रम् - ) अष्टमाधिकरणमारचयति - अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥
वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 शून्याण्वादिष्वेकबुद्ध्या सर्वबुद्धिर्न युज्यते ॥
स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 वेदान्ता विषयः । तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि श्रौतं कारणत्वमस्ति, अथवा - सर्वत्र ब्रह्मण एव कारणत्वं प्रतिनियतम् , इति संश्यः । अण्वादेरपि कारणत्वं श्रौतम् । वटधानादिदृष्टान्तश्रवणात् । तथा हि - छान्दोग्ये षष्ठाध्याये श्वेतकेतुं प्रत्युपदिशन्नुद्दालकः सूक्ष्मतत्त्वे स्थूलस्य जगतोऽन्तर्भावं प्रतिपादयितुं महावृक्षगर्भितानि वटबीजानि दृष्टान्तत्वेनोदाजहार । अतस्तादृशाः परमाणवो दार्ष्टान्तिके श्रुता भवन्ति । शून्यस्य तु "असद्वा इदमग्र आसीत्" इति साक्षादेव कारणत्वं श्रुतं ।"स्वभावमेके कवयो वदन्ति, कालं तथाऽन्ये" इति स्वभावकालपक्षौ श्रुतौ । तस्मात् - परमाण्वादीनामपि श्रौतं कारणत्वम् ॥ इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं शून्यादिमतेषु नोपपद्यते । शून्यादिभिरजन्यस्य ब्रह्मणः शून्यादिज्ञानेनाज्ञातत्वात् । धानादृष्टान्तस्तु ब्रह्मण्यपीन्द्रियागम्यतया सूक्ष्मत्वादुपपद्यते । असच्छब्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वर्णितः । स्वभावकालपक्षौ तु पूर्वपक्षत्वेन श्रुत्योपन्यस्तौ । तस्मात् - ब्रह्मैव श्रुत्यभिहितं जगत्कारणं, न परमाण्वादीनि, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
॥ समाप्तश्च प्रथमोऽध्यायः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ८ ४० सूत्राणि २८ १३५ (प्रथमे साङ्ख्यस्मृतेर्बाध्यत्वाधिकरणे सूत्रे - ) प्रथमाधिकरणमारचयति - साङ्ख्यस्मृत्याऽस्ति सङ्कोचो न वा वेदसमन्वये ॥
धर्मे वेदः सावकाशः सङ्कोचोऽनवकाशया ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 प्रत्यक्षश्रुतिमूलाभिर्मन्वादिस्मृतिभिः स्मृतिः ॥
अमूला कापिली बाध्या न सङ्कोचोऽनया ततः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अस्मिन्पादे सर्वेष्वधिकरणेषु पूर्वाध्यायोक्तः समन्वयो विषयः । तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य साङ्ख्यास्मृत्या सङ्कोचोऽस्ति न वा इति सन्देहः । सङ्कोचोऽस्ति, इति तावत्प्राप्तम् । कुतः - सङ्ख्यस्मृतेरनवकाशत्वेन प्रबलत्वात् । साङ्ख्यस्मृतिर्हि वस्तुतत्त्वनिरूपणायैव प्रवृत्ता, न त्वनुष्ठेयं धर्मं क्वचिदपि प्रतिपादयति । यदि तस्मिन्नपि वस्तुन्यसौ बाध्येत, तदा निरवकाशा स्यात् । वेदस्तु धर्मब्रह्मणी प्रतिपादयन्ब्रह्मण्येकस्मिन्बाध्यमानोऽपि धर्मे सावकाशः स्यात् । तस्मात् - अनवकाशया स्मृत्या सावकाशस्य वेदस्य सङ्कोचो युक्तः ॥ इति प्राप्ते, ब्रूमः - साङ्ख्यस्मृत्या वेदस्य सङ्कोचो न युक्तः । कुतः - मन्वादिस्मृतिभिर्ब्रह्मकारणत्ववादिनीभिर्बाधितत्वात् । प्रबला हि मन्वादिस्मृतयः प्रत्यक्षवेदमूलकत्वात् । न तथा कपिलस्मृतेः प्रधानकारणवादिन्या मूलभूतं कञ्चन वेदमुपलभामहे दृश्यमानवेदवाक्यानां ब्रह्मपरत्वस्य पूर्वमेव निर्णीतत्वात् । तस्मात् - न साङ्ख्यस्मृत्या वेदस्य सङ्कोचो युक्तः ॥ (द्वितीये योगस्मृतेर्बाध्यत्वाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - योगस्मृत्याऽस्ति सङ्कोचो न वा योगो हि वैदिकः ॥
तत्त्वज्ञानोपयुक्तश्च ततः सङ्कुच्यते तया ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 प्रमाऽपि योगे तात्पर्यादतात्पर्यान्न सा प्रमा ॥
अवैदिके प्रधानादावसङ्कोचस्तयाऽप्यतः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 योगस्मृतिः पातञ्जलं शास्त्रम् । तत्रोक्तोऽष्टाङ्गयोगः प्रत्यक्षवेदेऽप्युपलभ्यते । श्वेताश्वतरादिशाखासु योगस्य प्रपञ्चितत्वात् । किञ्चायं योगस्तत्त्वज्ञानोपयोगी "दृश्यते त्वग्र्यया बुद्ध्या" इति योगसाध्यस्य चित्तैकाग्र्यस्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात् । ततः प्रमाणभूतं योगशास्त्रम् । तच्च प्रधानस्य जगत्कारणतां वक्ति तस्मात् - योगस्मृत्या वेदस्य सङ्कोचः ॥ इति प्राप्ते, ब्रूमः - अष्टाङ्गयोगे तात्पर्यवत्त्वात्प्रमाणभूताऽपि सती योगस्मृतिरवैदिके प्रधानादौ न प्रमाणम् , तत्र तात्पर्याभावात् । तथा हि - "अथ योगानुशासनम्" इति प्रतिज्ञाय "योगश्चित्तवृत्तिनिरोधः" इति योगस्यैव लक्षणमुक्त्वा तमेव कृत्स्नशास्त्रे प्रपञ्चयामासेति तत्र योगे तात्पर्यम् । न प्रधानादीनि प्रतिपाद्यतया प्रतिजज्ञे । किन्तर्हि द्वितीयपादे यमादिसाधनप्रतिपादके हेयं हेयहेतुं हानं हानहेतुं विवेचयन्प्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धानि प्रधानादीनि व्याजहार । ततो न तत्र तात्पर्यम् । तस्मात् - न योगस्मृत्या वेदस्य सङ्कोचः ॥ (तृतीये वैलक्षण्याभासस्य जगत्कारणत्वाबाधकत्वाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - वैलक्षण्याख्यतर्केण बाध्यतेऽथ न बाध्यते ॥
बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 मृद्धटादौ समत्वेऽपि दृष्टं वृश्चिककेशयोः ॥
स्वकारणेन वैषम्यं तर्काभासो न बाधकः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 'अचेतनं जगच्चेतनाद्ब्रह्मणो न जायते विलक्षणत्वात् । यद्यस्माद्विलक्षणं, तत्तस्मान्न जायते । यथा गोर्महिषः' इत्यनेन तर्केण समन्वयो बाध्यते ॥ इति प्राप्ते, ब्रूमः - 'ये ये कार्यकारणे ते ते सलक्षणे' इत्यस्या व्याप्तेर्वृश्चिकादौ व्यभिचारो दृश्यते । अचेतनाद्नोमयाद्वृश्चिकस्य चेतनस्योत्पत्तेः । चेतनात्पुरुषादचेतनानां केशनखादीनामुत्पद्यमानत्वात् । अतो वेदनिरपेक्षः शुष्कतर्को न क्वापि प्रतितिष्ठति । तदुक्तमाचार्यैः - "यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते" इति । तस्मात् - आभासत्वाद्वैलक्षण्यहेतुर्न बाधकः ॥ (चतुर्थे काणादादिमतैर्बाध्यत्वाभावाधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - बाधोऽस्ति परमाण्वादिमतैर्नो वा यतः पटः ॥
न्यूनतन्तुभिरारब्धो दृष्टोऽतो बाध्यते मतैः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 शिष्टेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तमतं किमु ॥
नातो बाधो विवर्ते तु न्यूनत्वनियमो न हि ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 साङ्ख्ययोगस्मृतिभ्यां तदीयतर्केण बाधो मा भून्नाम, कणादबुद्धादिस्मृतिभिस्तदीयतर्केण च समन्वयोऽपि बाध्यताम् । कणादो हि महर्षिः परमाणूनां जगत्कारणत्वं स्मरतिस्म, तर्कं च तस्मिन्नर्थे प्रोवाच – 'विमतं द्व्यणुकादिकं स्वस्मान्न्यूनपरिमाणेनाऽऽरब्धं, कार्यद्रव्यत्वात् , यथा तन्तुभिः पटः' इति बुद्धश्च भगवतो विष्णोरवतारोऽभावं जगद्धेतुं स्मरति स्म । तर्कं च तदनुकूलमाह – विमतं भावरूपं जगदभावपुरःसरं भावरूपत्वात् , यथा - 'सुषुप्तिपुरःसरः स्वप्नप्रपञ्चः' इति । तस्मात् - तैः प्रबलैः कणादादिमतैर्बाधितः ॥ इति प्राप्ते, ब्रूमः - यदा वैदिकशिरोमणिभिः पुराणकर्तृभिस्तत्र तत्र प्रसङ्गादुदाहृता प्रकृतिपुरुषादिप्रतिपादिका साङ्ख्ययोगस्मृतिर्जगत्कारणविषये दौर्बल्येन परित्यक्ता । तदा निखिलैः शिष्टैरुपेक्षितानां कणादादिमतानां दौर्बल्यम् - इति किमु वक्तव्यम् , न खलु - ब्रह्मपद्मादिपुराणेषु क्वचिदपि प्रसङ्गाद्व्यणुकादिप्रक्रियोदाहृता । प्रत्युत - "हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्" । इति बहुशो निन्दोपलभ्यते । यस्तु - न्यूनारभ्यत्वनियम उक्तः, नासौ विवर्तवादेऽस्ति दूरस्थस्य पर्वताग्रस्थितैर्महद्भिर्वृक्षैरत्यल्पदूर्वाग्रभ्रमस्य जन्यमानत्वात् । यदपिअभावपुरःसरत्वानुमानम् , तत्रापि साध्यविकलो दृष्टान्तः । सुषुप्तेरवस्थास्वेवावस्थानादात्मनः सद्रूपस्याङ्गीकरणीयत्वे सति स्वप्नस्याप्यभावपुरःसरत्वाभावात् । तस्मात् - एतैर्मतैर्नास्ति बाधः ॥ (पञ्चमे द्वैतस्य भोक्तृभोग्याकारभासमानत्वाधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - अद्वैतं बाध्यते नो वा भोक्तृभोग्यविभेदतः ॥
प्रत्यक्षादिप्रमासिद्धो भेदोऽसावन्यबाधकः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 तरङ्गफेनभेदेऽपि समुद्रेऽभेद इष्यते ॥
भोक्तृभोग्यविभेदेऽपि ब्रह्माद्वैतं तथाऽस्तु तत् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 समन्वयेनावगम्यमानमद्वैतं प्रत्यक्षादिसिद्धेन भोक्तृभोग्यभेदेन बाध्यते । इति चेत् । न । तरङ्गादिरूपेण भेदस्य, समुद्ररूपेणाभेदस्य च दृष्टत्वेन भेदाभेदयोर्विरोधाभावात् । भेदाभेदविरोधव्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि सावकाशत्वात् । तस्मात् - ब्रह्माकारेणाद्वैतम् । भोक्तृभोग्याकारेण द्वैतम् इत्याकारभेदाद्व्यवस्थासिद्धौ न कोऽपि बाधः ॥ (षष्ठे ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - भेदाभेदौ तात्त्विकौ स्तो यदि वा व्यावहारिकौ ॥
समुद्रादाविव तयोर्बाधाभावेन तात्त्विकौ ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 बाधितौ श्रुतियुक्तिभ्यां तावतो व्यावहारिकौ ॥
कार्यस्य कारणाभेदादद्वैतं ब्रह्म तात्त्विकम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 स्पष्टौ सन्देहपूर्वपक्षौ । "नेह नानाऽस्ति किञ्चन" इति श्रुतिर्भेदं बाधते । युक्तिश्च परस्परोपमर्दात्मकयोर्भेदाभेदयोरेकत्रासम्भवः । एकस्मिश्चन्द्रमसि द्वित्वासम्भवात् । यदुक्तं पूर्वाधिकरणे - आकारभेदाद्भेदः - इति । तदप्यसत् , अद्वैतवस्तुन्याकारभेदस्यैवाप्रतिपत्तेः । समुद्रादौ तु दृष्टत्वादभ्युपगम्यते । 'न हि दृष्टेऽनुपपन्नं नाम' इति न्यायात् । अत्रापि ब्रह्माकारजगदाकारौ दृष्टौ - इति चेत् । न । ब्रह्मणः शास्त्रैकसमधिगम्यत्वात् । तस्मात् - श्रुतियुक्तिबाधितत्वाद्व्यावहारिकौ भेदाभेदौ । किं तर्हि तत्त्वम् - इति चेत् - अद्वैतमेव तत्त्वम् - इति ब्रूमः । कार्यस्य कारणानतिरेकेण कारणमात्रस्य वस्तुत्वात् । तथाच श्रुतिर्मृत्तिकादिदृष्टान्तैः कारणस्यैव सत्यत्वं प्रतिपादयति - "यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । एवं सोम्य स आदेशः" इति । अस्यायमर्थः - प्रौढो मृत्पिण्डः कारणम् , तद्विकारो घटशरावादयः । तत्र – 'मृद्वस्त्वन्यत् , घटादीनि चान्यानि वस्तूनि' इति तार्किका मन्यन्ते । तत्र घटादीनां पृथग्वस्तुत्वनिरासाय विकारशब्देन श्रुतिस्तान्युदाहरति । मृद्वस्तुनो विकाराः संस्थानविशेषा घटादयो न पृथग्वस्तुभूताः । यथा देवदत्तस्य बाल्ययौवनस्थाविरादयः, तद्वत् । एवं सति घटाद्याकारप्रतिभासदशायामपि मृन्मात्रं स्वतन्त्रं वस्तु । ततो मृद्यवगतायां घटादीनां यत्तात्त्विकं स्वरूपं तत्सर्वमवगतम् - आकारविशेषो न ज्ञायते - इति चेत् । मा ज्ञायतां नाम । तेषामवस्तुभूतानामजिज्ञासार्हत्वात् । चक्षुषा प्रतिभासमाना अपि विकारा निरूपिताः सन्तो मृद्व्यतिरेकेण न स्वरूपं किञ्चिल्लभन्ते । 'घटोऽयं, शरावोऽयम्' इति वाङ्निष्पाद्यनामधेयमात्रं लभन्ते । अतो निर्वस्तुकत्वे सत्युपलभ्यमानत्वरूपेण मिथ्यात्वलक्षणे नोपेतत्वादसत्या विकाराः । मृत्तिका तु विकारव्यतिरेकेणापि स्वरूपं लभते, इति सत्या । तथा ब्रह्मोपदेशोऽवगन्तव्यः, ब्रह्मणि मृत्तिकान्यायस्य, जगति घटादिन्यायस्य योजयितुं शक्यत्वात् । तस्मात् - जगतो ब्रह्माभेदादद्वैतं ब्रह्म तात्त्विकम् । एवंविधविचारशून्यानां पुरुषाणामापातदृष्ट्या वेदेनाभ्युपेताद्वितीयब्रह्मप्रतिपत्तेः प्रत्यक्षादिभिर्भेदप्रतिपत्तेश्च सद्भावात्समुद्रतरङ्गन्यायेन भेदाभेदाववभासेते । तस्मात् - व्यावहारिकाविति स्थितिः ॥ (सप्तमे परमेश्वरस्य हिताहितभागित्वाभावाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - हिताक्रियादि स्यान्नो वा जीवाभेदं प्रपश्यतः ॥
जीवाहितक्रिया स्वार्था स्यादेषा नहि युज्यते ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 अवस्तु जीवसंसारस्तेन नास्ति मम क्षतिः ॥
इति पश्यत ईशस्य न हिताहितभागिता ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 परमेश्वरो हि केषाञ्चिज्जीवानां संसारसक्तानां वैराग्यादिकं हितं न निर्मिमीते, अहितं च नरकहेतुमधर्मं निर्मिमीते । निर्मिमाणश्च स्वस्य जीवैरभेदं सर्वज्ञतया पश्यति । तस्मात् - स्वस्यैव हिताकरणम् , अहितकरणं च प्रसज्येयाताम् । एतच्च न युक्तम् । नहि प्रेक्षावान्कश्चित्स्वस्य हितं न करोति, अहितं वा करोति । तस्मात् - हिताकरणादिदोषः ॥ इति प्राप्ते, ब्रूमः - सर्वज्ञत्वादीश्वरो जीवसंसारस्य मिथ्यात्वं स्वस्य निर्लेपत्वं च पश्यति । अतो - न हिताहितभाक्त्वत्वदोषः ॥ (अष्टमेऽद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणे सूत्रे - ) अष्टमाधिकरणमारचयति - न सम्भवेत्सम्भवेद्वा सृष्टिरेकाद्वितीयतः ॥
नानाजातीयकार्याणां क्रमाज्जन्म न सम्भवि ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अद्वैतं तत्त्वतो ब्रह्म तच्चाविद्यासहायवत् ॥
नानाकार्यकरं कार्यक्रमोऽविद्यास्थशक्तिभिः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 "एकमेवाद्वितीयम्" इति ब्रह्मणः स्वगतसजातीयविजातीयैर्भैदैः शून्यत्वमवगम्यते । स्रष्टव्यानि चाऽऽकाशवाय्वाग्न्यादीनि विचित्राणि । नह्यविचित्रे कारणे कार्यवैचित्र्यं युक्तम् । अन्यथैकस्मादेव क्षीराद्दधितैलाद्यनेकविचित्रकार्यप्रसङ्गात् । क्रमश्चाऽऽकाशादीनां श्रुत्याऽवगम्यते । नच तस्य व्यवस्थापकं किञ्चिदस्ति । तस्मात् - अनेककार्याणां क्रमेण जन्माद्वितीयब्रह्मणो न सम्भवति ॥ इति प्राप्ते, ब्रूमः - यद्यपि तत्त्वतो ब्रह्माद्वैतम् , तथाऽपि - अविद्यासहायोपेतम् - इति श्रुतियुक्त्यनुभवैरवगम्यते, "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" । इति श्रुतेः । मायैवाविद्या, उभयोरप्यनिर्वचनीयत्वलक्षणस्यैकत्वात् । न च – मायाङ्गीकारे द्वैतापत्तिः, वास्तवस्य द्वितीयस्याभावात् । अत एकमपि ब्रह्माविद्यासहायवशान्नानाकार्यकरं भविष्यति । न च कार्यक्रमस्य व्यवस्थापकाभावः, अविद्यागतानां शक्तिविशेषाणां व्यवस्थापकत्वात् । तस्मात् - अद्वितीयब्रह्मणो नानाकार्याणां क्रमेण सृष्टिः सम्भवति ॥ (नवमे ब्रह्मणः परिणामित्वाधिकरणे सूत्राणि - ) नवमाधिकरणमारचयति - न य़ुक्तो युज्यते वाऽस्य परिणामो न युज्यते ॥
कार्त्स्न्याद्ब्रह्मानित्यताप्तेरंशात्सावयवं भवेत् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 मायाभिर्बहुरूपत्वं न कार्त्स्न्यान्नापि भागतः ॥
युक्तोऽनवयवस्यापि परिणामोऽत्र मायिकः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 आरम्भणाधिकरणे (२ । १ । ६) कार्यकारणयोरभेदः प्रतिपादितः । अतो न वैशेषिकवदारम्भवादो ब्रह्मवादिनोऽभिमतः । तस्मात् - क्षीरदधिन्यायेन परिणामोऽभ्युपगन्तव्यः । तत्र किं ब्रह्म कार्त्स्न्येन परिणमते, उत – एकदेशेन । नाऽऽद्यः - अशेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वप्रसङ्गात् । द्वितीये - सावयवत्वप्रसङ्गः । तस्मात् - न परिणामः ॥ इति प्राप्ते, ब्रूमः - "इन्द्रो मायाभिः पुरुरूप ईयते" इति श्रुतेर्ब्रह्मणो मायाशक्तिभिर्जगद्रूपपरिणामः । न त्वसौ वास्तवः । तेन कृत्स्नैकदेशविकल्पयोर्नात्रावकाशः । तस्मात् - युज्यते परिणामः ॥ (दशमे ब्रह्मणोऽशरीरस्यैव मायासद्भावाधिकरणे सूत्रे - ) दशमाधिकरणमारचयति - नाशरीरस्य मायाऽस्ति यदि वाऽस्ति, न विद्यते ॥
ये हि मायाविनो लोके ते सर्वेऽपि शरीरिणः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 बाह्यहेतुमृते यद्वन्मायया कार्यकारिता ॥
ऋतेऽपि देहं मायैवं ब्रह्मण्यस्तु प्रमाणतः ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 लोके मायाविनामैन्द्रजालिकानां शरीरित्वदर्शनादशरीरस्य ब्रह्मणो माया न सम्भवति ॥ इति प्राप्ते, ब्रूमः - गृहादिनिर्मातृणां स्वव्यतिरिक्तमृद्दारुतृणादिबाह्मसाधनसापेक्षत्वदर्शनेऽप्यैन्द्रजालिकस्य बाह्यसाधनानैरपेक्ष्येण यथा गृहादिनिर्मातृत्वम् , तथा लौकिकमायाविनः शरीरसापेक्षत्वदर्शनेऽपि ब्रह्मणो मायासिद्ध्यर्थं तदपेक्षा मा भूत् । अथोच्येत – ऐन्द्रजालिकस्य बाह्यहेतुनैरपेक्ष्येण निर्मातृत्वे प्रत्यक्षं प्रमणमस्ति, - तर्हि ब्रह्मणोऽपि शरीरनैरपेक्ष्येण मायासद्भावे "मायिनं तु महेश्वरम्" इति श्रुतिः प्रमाणमस्तु ॥ (एकादशे तृप्तस्यापि ब्रह्मण एव जगत्स्रष्टृत्वाधिकरणे सूत्रे - ) एकादशाधिकरणमारचयति - तृप्तोऽस्रष्टाऽथवा स्रष्टा, न स्रष्टा फलवाञ्छने ॥
अतृप्तिः स्यादवाञ्छायामुन्मत्तनरतुल्यता ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 लीलाश्वासवृथाचेष्टा अनुद्दिश्य फलं यतः ॥
अनुन्मत्तैर्विरच्यन्ते तस्मात्तृप्तस्तथा सृजेत् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 "आनन्दो ब्रह्म" इति श्रुतेर्नित्यतृप्तः परमेश्वरः । तादृशस्य सृष्टिविषयायामिच्छायामभ्युपगम्यमानायां नित्यतृप्तिर्व्याहन्येत । अनभ्युपगम्यमानायां तु - अबुद्धिपूर्विकां सृष्टिं विरचयत उन्मत्तनरतुल्यता प्रसज्येत ॥ इति प्राप्ते, ब्रूमः - बुद्धिमद्भिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मृगयादिप्रवृत्तिः क्रियते । श्वासोच्छ्वासव्यवहारस्तु सार्वजनीनः । व्यर्थचेष्टाश्च बालकैः क्रियमाणा बहुशोदृश्यन्ते । तद्वन्नित्यतृप्तोऽपीश्वरः प्रयोजनमन्तरेणाप्यनुन्मत्तः सन्नशेषं जगत्सृजते । (द्वादशे ब्रह्मणो वैषम्यनैर्घृण्याभावाधिकरणे सूत्राणि - ) द्वादशाधिकरणमारचयति - वैषम्याद्यापतेन्नो वा सुखदुःखे नृभेदतः ॥
सृजन्विषम ईशः स्यान्निर्घृणश्चोपसंहरन् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 प्राण्यनुष्ठितधर्मादिमपेक्ष्येशः प्रवर्तते ॥
नातो वैषम्यनैर्घृण्ये संसारस्तु न चाऽऽदिमान् ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरो देवादीनत्यन्तसुखिनः सृजति, पश्वादीनत्यन्तदुःखिनः, मनुष्यान्मध्यमान् , एवं तारतम्येन पुरुषविशेषेषु सुखदुःखे सृजन्नीश्वरः कथं विषमो न स्यात् । कथं नीचैरप्यत्यन्तजुगुप्सितं देवतिर्यङ्मनुष्याद्यशेषं जगदुपसंहरन्निर्घृणो न भवेत् । तस्मात् - वैषम्यनैर्घृण्ये प्रसज्येयाताम् ॥ इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यप्रसङ्गोऽस्ति । प्राणिनामुत्तममध्यमाधमलक्षणवैषम्ये तत्तत्कर्मणामेव प्रयोजकत्वात् । न चैतावतेश्वरस्य स्वातन्त्र्यहानिः, अन्तर्यामितया कर्माध्यक्षत्वात् । नन्वेवं सति घट्टकुटीप्रभातन्याय आपद्यते, ईश्वरे वैषम्यं परिहर्तुं कर्मणां वैषभ्यहेतुत्वमुक्त्वा पुनरीश्वरस्य स्वातन्त्र्यसिद्धये तत्कर्मनियामकत्वेऽभ्युपगम्यमाने सत्यन्ततो गत्वेश्वरस्यैव वैषम्यप्रसङ्गात् । नायं दोषः । नियामकत्वं नाम तत्तद्वस्तुशक्तीनामव्यवस्थापरिहारमात्रम् । शक्तयस्तु मायाशरीरभूताः । न तासामुत्पादक ईश्वरः । ततश्च स्वस्वशक्तवशात्कर्मणां वैषम्यहेतुत्वेऽपि न व्यवस्थापकस्येश्वरस्य वैषम्यप्रसङ्गः । संहारस्य सुषुप्तिवद्दुःखाजनकत्वात् । प्रत्युत सर्वक्लेशनिवर्तकत्वात्सघृणत्वमेव । ननु - अवान्तरसृष्टिषु पूर्वपूर्वकर्मापेक्षया सृजत ईश्वरस्य वैषभ्याभावेऽपि प्रथमसृष्टौ पूर्वकर्मासम्भवाद्वैषभ्यदोषस्तदवस्थः - इति चेत् । न । सृष्टिपरम्पराया अनादित्वात् । "नान्तो नचाऽऽदिः" - इत्यादिशास्त्रात् । तस्मात् - न कोऽपि दोषः ॥ (त्रयोदशे निर्गुणस्यापि ब्रह्मणः प्रकृतित्वाधिकरणे सूत्रम् - ) त्रयोदशाधिकरणमारचयति - नास्ति प्रकृतिता यद्वा निर्गुणस्यास्ति, नास्ति सा ॥
मृदादेः सगुणस्यैव प्रकृतित्वोपलम्भनात् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रमाधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते ॥
निर्गुणेऽप्यस्ति जात्यादौ सा ब्रह्म प्रकृतिस्ततः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृतित्वं नाम कार्याकारेण विक्रियमाणत्वम् । तच्च लोके सगुण एव मृदादावुपलब्धम् । ततो न निर्गुणस्य ब्रह्मणः प्रकृतिता ॥ इति प्राप्ते, ब्रूमः - यद्यपि "प्रक्रियते विक्रियतेऽनया - इति प्रकृतिः" इति व्युत्पत्त्या विक्रियमाणत्वं प्रतियते । तथाऽपि तद्विक्रियमाणत्वं द्वेधा सम्भवति - क्षीरादिवत्परिणामित्वेन वा, रज्ज्वाादिवद्भ्रमाधिष्टानत्वेन वा । तत्र निर्गुणस्य परिणामित्वासंभवेऽपि भ्रमाधिष्ठानत्वमस्तु । दृश्यते तु निर्गुणे जात्यादौ भ्रमाधिष्ठानता । मलिनब्राह्मणं दृष्ट्वा 'शूद्रोऽयम्' इति भ्रान्तव्यवहारदर्शनात् । तस्मात् - निर्गुणमपि ब्रह्म प्रकृतिः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि १३ ५३ सूत्राणि ३७ १७२ (प्रथमे प्रधानस्य जगद्धेतुत्वाभावाधिकरणे सूत्राणि - ) द्वितीयपादस्य प्रथमाधिकरणमारचयति - प्रधानं जगतो हेतुर्न वा सर्वे घटादयः ॥
अन्विताः सुखदुःखाद्यैर्यतो हेतुरतो भवेत् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 न हेतुर्योग्यरचनाप्रवृत्त्यादेरसम्भवात् ॥
सुखाद्या आन्तरा बाह्मा घटाद्यास्तु कुतोऽन्वयः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 सुखदुःखमोहात्मकं प्रधानं जगतः प्रकृतिः, जगति सुखाद्यन्वयदर्शनात् । घटपटादय उपलभ्यमानाः सुखाय भवन्ति, उदकाहरणप्रावरणादिकारित्वात् । त एव घटादयोऽन्यैरपह्नियमाणास्तस्यैव दुःखजनकाः । यदोदकाहरणादिकार्यं नापेक्षितम् , तदा सुखदुःखे न जनयन्ति, केवलमुपेक्षणीयत्वेनावतिष्ठन्ते । तदिदमुपेक्षाविषयत्वं मोहः, "मुह वैचित्ये" इति धातोर्मोहशब्दनिष्पत्तेरुपेक्षणीयेषु चित्तवृत्त्यनुदयात् । अतः सुखदुःखमोहान्वयदर्शनात् 'प्रधानं प्रकृतिः' इति साङ्ख्या मन्यन्ते ॥ इति प्राप्ते, ब्रूमः - न प्रधानं जगद्धेतुः, देहेन्द्रियमहीधरादिरूपस्य विचित्रस्य प्रतिनियतनानासंनिवेशविशेषस्य जगतो रचनायामचेतनस्य प्रधानस्य योग्यत्वासम्भवात् । लोके हि प्रतिनियतकार्यस्य विचित्रनानाप्रासादादेरतिबुद्धिमत्कर्तृकत्वोपलम्भात् । आस्तां तावदियं रचना, तत्सिद्ध्यर्था प्रवृत्तिरपि नाचेतनस्योपपद्यते, चेतनानधिष्ठिते शकटादौ तददर्शनात् । अथ पुरुषस्य चेतनस्य प्रकृत्यधिष्ठातृत्वमभ्युपगम्येत तर्हि - असङ्गत्वं पुरुषस्य हीयेत – इत्यपसिद्धान्तापत्तिः । यदुक्तम् - सुखदुःखमोहान्विता घटादयः - इति । तदसत् । सुखादीनामान्तरत्वाद्घटादीनां बाह्यत्वात् । तस्मात् - न प्रधानं जगद्धेतुः ॥ (द्वितीये ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - नास्ति काणाददृष्टान्तः किं वाऽस्त्यसदृशोद्भवे ॥
नास्ति शुक्लापटः शुक्लात्तन्तोरेव हि जायते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अणु द्व्यणुकमुत्पन्नमनणोः परिमण्डलात् ॥
अदीर्धाद्व्यणुकाद्दीर्घं त्र्यणुकं तन्निदर्शनम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वस्मिन्पादे् चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगज्जायते - इत्यत्र साङ्ख्यान्प्रति लोकसिद्धं गोमयवृश्चिकादिनिदर्शनमभिहितम् , तावता साङ्ख्यैः क्रियमाणस्याऽऽक्षेपस्य परिहृतत्वात्स्वपक्षसाधनसम्पन्नं परपक्षदूषणं चास्मिन्पादे प्रक्रम्य पूर्वाधिकरणो साङ्ख्यमतं दूषितम् । इतःपरं वैशेषिकानां मतं दूषयितव्यम् । तन्मतस्य च प्रक्रियाबहुलत्वात् , तद्वासनावासितः पुरुषस्तत्प्रक्रियासिद्धविलक्षणोत्पत्तिदृष्टान्तमन्तरेण ब्रह्मकारणवादं न बहु मन्यते । अतो "विसदृशोत्पत्तौ काणादमतसिद्धो दृष्टान्तोऽस्ति, न वा" इति विचार्यते । 'नास्ति' इति तावत्प्राप्तम् । यतः शुक्लः पटः शुक्लेभ्य एव तन्तुभ्य़ो जायते, नतु रक्तेभ्यः । तस्मात् - नास्ति ॥ इति प्राप्ते, ब्रूमः - अस्त्येव विसदृशोत्पत्तौ दृष्टान्तः । तथाहि - परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः । न त्वणुपरिमाणयुक्ताः । द्वाभ्यां च परमाणुभ्यामणुपरिमाणरहिताभ्यामणुपरिमाणोपेतं द्व्यणुकमुत्पद्यते । इदमेकं निदर्शनम् । तथा - हृस्वपरिमाणोपेतं दीर्घपरिमाणरहितं द्व्यणुकम् । तादृशेभ्यो विसदृशेभ्यस्त्रिभ्यो द्व्यणुकेभ्यो दीर्घपरिमाणोपेतमणुपरिमाणरहितं त्र्यणुकमुत्पद्यते । इदमपरं निदर्शनम् । एवमन्यान्यपि तत्प्रक्रियासिद्धानि निदर्शनान्युदाहर्तव्यानि ॥ (तृतीये परमाणुकारणवादनिराकरणाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - जनयन्ति जगन्नो वा संयुक्ताः परमाणवः ॥
आद्यकर्मजसंयोगाद्व्यणुकादिक्रमाज्जनिः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 सनिमित्तानिमित्तादिविकल्पेष्वाद्यकर्मणः ॥
असम्भवादसंयोगे जनयन्ति न ते जगत् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 प्रलीने पूर्वसिद्धे जगति यदा महेश्वरस्य सिसृक्षा भवति तदा प्राणिकर्मवशान्निखिलेषु परमाणुष्वाद्यं कर्मोत्पद्यते । तस्मात्कर्मण एकः परमाणुः परमाण्वन्तरेण संयुज्यते । तस्माच्च संयोगाद्व्यणुकमारभ्यते । तेभ्यस्त्रिभ्यो द्व्यणुकेभ्यस्त्र्यणुकम् - इत्यादिक्रमेण जगदुत्पत्तौ बाधकाभावात्संयुक्ताः परमाणवो जगज्जनयन्ति ॥ इति प्राप्ते ब्रूमः - यदेतदाद्यं कर्म तन्निर्निमित्तं सनिमित्तं वा । निर्मिमित्तत्वे नियामकाभावात्सर्वदा तदुत्पत्तौ प्रलयेऽपि तत्प्रसङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टम् , अदृष्टं वा । न तावदृष्टम् , प्रयत्नस्याभिघातस्य वा शरीरोत्पत्तेः प्रागसम्भवात् । ईश्वरप्रयत्नस्य नित्यस्य कादाचित्काद्यकर्मोत्पत्ति प्रत्यनियामकत्वात् । नाप्यदृष्टमाद्यकर्मनिमित्तम् , आत्मसमवेतस्यादृष्टस्य परमाणुभिरसम्बन्धात् । अत एवमादिविकल्पप्रसरे सत्याद्यकर्मासम्भवान्न परमाणुसंयोगो जायते । ततः - 'संयुक्तेभ्यः परमाणुभ्यो जगज्जनिः' इति मतं दूरापास्तम् ॥ (चतुर्थे वैनाशिकखण्डने समुदायासिद्ध्यधिकरणे सूत्राणि - ) चतुर्थाधिकरणमारचयति - समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः ॥
एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 स्थिरचेतनराहित्यात्स्वयं वाऽचेतनत्वतः ॥
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते - द्वौ समुदायौ - बाह्यः, आभ्यन्तरश्चेति । तत्र बाह्यो भूनदीसमुद्रादिकः । आन्तरश्चित्तचैत्यात्मकः । तदेतत्समुदायद्वयमेवाशेषं जगत् । तत्र बाह्यसमुदाये परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः - केचित्कठिनाकाराः पारर्थिवाख्याः, अपरे स्निग्धा आप्याः, अन्ये चोष्णास्तैजसाख्याः, अन्ये चलनात्मका वायवीयाः । तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यसमुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धः, विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धश्चेति पञ्चस्कन्धाः । तत्र चित्तेन निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तदभिव्यक्तिर्विज्ञानस्कन्धः । तज्जन्यं दुःखं वेदनास्कन्धः । देवदत्तादिनामधेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः । तेभ्यः पञ्चेभ्यः पुञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्मात् - युज्यते समुदायद्वयम् ॥ इति प्राप्ते, ब्रूमः - किमणूनां स्कन्धानां च सङ्घातोत्पत्तौ निमित्तभूतश्चेतनोऽन्योऽस्ति, किंवा - स्वयमेव संहन्यते । आद्येऽपि चेतनः स्थायी, क्षणिको वा । स्थायित्वे अपसिद्धान्तः । क्षणिकत्वे - प्रथमं स्वयंलब्धात्मकः पश्चात्सङ्घातोत्पत्तिं करोति - इति वक्तुमशक्यम् ॥ द्वितीये तु - अचेतनाः स्कन्धा अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताकारेण कथं संहन्यन्ताम् । तस्मात् - ऩ युक्तं समुदायद्वयम् ॥ (पञ्चमे विज्ञानवादनिराकरणाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते ॥
युज्यते स्वप्नदृष्टान्ताद्बुद्ध्यैव व्यवहारतः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 अबाधात्स्वप्नवैषम्यं बाह्यार्थस्तूपलभ्यते ॥
बहिर्वदिति तेऽप्युक्तिर्नातो धीरर्थरूपभाक् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानमात्रं तत्त्वमाहुः । न च – तत्र व्यवहारानुपपत्तिः, स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुद्ध्या व्यवहारदर्शनात्तथैव जाग्रद्व्यवहारस्याप्युपपत्तेः । तस्मात् - विज्ञानस्कन्धमात्रत्वं युज्यते ॥ इति प्राप्ते, ब्रूमः - विषमो हि स्वप्नदृष्टान्तः, प्रबोधदशायां स्वप्नस्य बाध्यमानत्वात् । जाग्रद्व्यवहारस्य च न क्वचिद्बाधं पश्यामः । न च – बाह्यार्थसद्भावे प्रमाणाभावः, उपलब्धेरेव प्रमाणत्वात् । उपलभ्यते हि घटादयो बहिष्ट्वेन । अथोच्येत - बुद्धिरेव बाह्यघटादिवदवभासते । तथा चाऽऽहुः - "यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासते" । इति - (इति ) । एवं तर्हि - त्वदुक्तिरेव बाह्यर्थसद्भावे प्रमाणम् - इति ब्रूमः । क्वचिदपि बाह्यार्थाभावे तद्व्युत्पत्तिराहित्यात् 'बहिर्वत्' इत्युपमानोक्तिर्न सङ्गच्छेत । तस्मात् - बाह्यार्थसद्भावाद्विज्ञानमात्रत्वं न युक्तम् ॥ (षष्ठ आर्हतानां सप्तभङ्गीनिराकरणाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - सिद्धिः सप्तपदार्थानां सप्तभङ्गीनयान्न वा ॥
साधकन्यायसद्भावात्तेषां सिद्धौ किमद्भुतम् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 एकस्मिन्सदसत्त्वादिविरुद्धप्रतिपादनात् ॥
अपन्यायः सप्तभङ्गी न च जीवस्य सांशता ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 आर्हता मन्यन्ते - जीवोऽजीवश्चेति द्वौ पदार्थौ । जीवश्चेतनः शरीरपरिमाणः सावयवः । अजीवः षड्विधः । तत्र महीधरादिरेकः, आस्रवसंवरनिर्जरबन्धमोक्षाख्याः पञ्च । 'आस्रवत्यनेन जीवो विषयेषु' इत्यास्रव इन्द्रियसन्धातः । 'संवृणोति विवेकम्' इत्यविवेकादि संवरः । 'निःशेषेण जीर्यत्यनेन कामक्रोधादिः' इति केशोल्लुञ्चनतप्तशिलारोहणादिकं तपो निर्जरः । कर्माष्टकेनाऽऽपादिता जन्ममरणपरम्परा बन्धः । चत्वारि घातिकर्माणि पापविशेषरूपाणि । चत्वारि चाघातिकर्माणि पुण्यविशेषरूपाणि । शास्त्रोक्तोपायेन तेभ्योऽष्टभ्यः कर्मभ्यो विनिर्गतस्य जीवस्य सततोर्ध्वगमनं मोक्षः । त एते सप्त पदार्थाः सप्तभङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्च, इति सप्तभङ्गीनयः । अयमर्थः - स्याच्छब्द ईषदर्थवाची निपातः । प्रतिवादिनोऽपि चतुर्विधाः - सद्वादिनः, असद्वादिनः, सदसद्वादिनः, अनिर्वचनीयवादिनश्चेति । पुनरपि - अनिर्वचनीयमतेन मिश्रितानि सदादि मतानि, इति त्रिविधा वादिनः । तानेतान्सप्तविधान्वादिनः प्रति सप्तविधा न्यायाः प्रयोक्तव्याः । तद्यथा - सद्वादी समागत्याऽऽर्हतं प्रति 'किं त्वन्मते मोक्षोऽस्ति' इति पृच्छति । तत्राऽऽर्हत उत्तरं ब्रूते - 'ईषदस्ति' इति । एवमन्यानपि वादिनः प्रति 'स्यान्नास्ति' इत्यादीन्युदाहर्तव्यानि । तावता वादिनः सर्वे निर्विण्णाः सन्तो नोत्तरं प्रतिपद्यन्ते । अतोऽस्य सप्तभङ्गीरूपस्य साधकन्यायस्य सद्भावाज्जीवादीनां सप्तपदार्थानां सिद्धौ किमत्राऽऽश्चर्यम् ॥ इति प्राप्ते, ब्रूमः - सप्तभङ्गीरूपोऽयमपन्यायः । एकस्य जीवपदार्थस्य सद्वादिनं प्रति सद्रूपत्वम् , असद्वादिनं प्रत्यसद्रूपत्वं च, इत्येवमादिविरुद्धधर्मप्रतिपादकत्वात् । न च – जीवस्य सावयवत्वं युज्यते, अनित्यत्वप्रसङ्गात् । तदनित्यत्वे च मोक्षः कस्य पुरुषार्थः स्यात् । तस्मात् - न्यायाभासेन सप्तभङ्ग्याख्येन जीवादिपदार्थानां न सिद्धिः ॥ (सप्तमे तटस्थेश्वरवादनिराकरणाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - तटस्थेश्वरवादोऽयं स युक्तोऽथ न युज्यते ॥
युक्तः कुलालदृष्टान्तान्नियन्तृत्वस्य सम्भवात् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 न युक्तो विषमत्वादिदोषाद्वैदिक ईश्वरे ॥
अभ्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधतः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाध्यायस्योपान्त्याधिकरणे - 'जगतो निमित्तमुपादानं चेश्वरः' - इत्यागमबलाद्यदुक्तम् , तदेतदसहमानास्तार्किकाः शैवादयः केवलं निमित्तत्वमीश्वरस्य मन्यन्ते । युक्तिं चाऽऽहुः - यथा कुलालोऽनुपादानभूतो दण्डचक्रादीन्नियच्छन्कर्ता भवति, तथा तटस्थ ईश्वरः ॥ इति प्राप्ते, ब्रूमः - न युक्तं केवलनिमित्तत्वम् , वैषम्यनैर्घृण्यदोषस्य दुष्परिहरत्वात् । कथं तर्हि त्वया दोषः परिहृतः - इति चेत् । 'प्राणिकर्मसापेक्षत्वात्' इति ब्रूमः । तथात्वे चाऽऽगमोऽस्माकं प्रमाणम् । त्वयाऽप्यन्ततो गत्वाऽऽगमश्चेदङ्गीक्रियते, तर्हि तटस्थत्वमीश्वरस्य परित्याज्यं स्यात् । "बहु स्यां प्रजायेय" इत्युपादानश्रुत्या विरोधात् । तस्मात् - न युक्तस्तटस्थेश्वरवादः ॥ (अष्टमे जीवोत्पत्तिवादनिराकरणाधिकरणे सूत्राणि - ) अष्टमाधिकरणमारचयति - जीवोत्पत्त्यादिकं पञ्चरात्रोक्तं य़ुज्यते न वा ॥
युक्तं नारायणव्यूहतत्समाराधनादिवत् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 युज्यतामविरुद्धांशो जीवोत्पत्तिर्न युज्यते ॥
उत्पन्नस्य विनाशित्वे कृतनाशादिदोषतः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 पाञ्चरात्रा भागवता मन्यन्ते - 'भगवानेको वासुदेवो जगदुपादानं निमित्तं च' । तत्समाराधनध्यानज्ञानैर्भवबन्धच्छेदः । तस्माच्च वासुदेवात्सङ्कर्षणाख्यो जीवो जायते । जीवाच्च प्रद्युम्नाख्यं मनः । मनसश्चानिरुद्धाख्योऽहङ्कारः । त एते वासुदेवादयश्चत्वारो व्यूहाः सर्वात्मकाः - इति ॥ तत्र वासुदेवं सत्समाराधनादिकं च श्रुतेरविरोधादभ्युपगच्छामः । यत्तु - जीवउत्पद्यते - इत्युक्तम् । तदसत् । कृतनाशाकृताभ्यागमप्रसङ्गात् । पूर्वसृष्टौ यो जीवस्तस्योत्पत्तिमत्वे प्रलयदशायां तस्मिन्विनष्टे सति तत्कृतधर्माधर्मयोरफलप्रदत्वेन विनाशः प्रसज्येत । अस्मिंश्च कल्प उत्पद्यमाननूतनजीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृताभ्यागमः प्रसज्येत । तस्माज्जीवोत्पत्त्यादिकं न युक्तम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ८ ६१ सूत्राणि ४५ २१७ (प्रथम आकाशस्य ब्रह्मजन्यताधिकरणे सूत्राणि - ) तृतीयपादस्य प्रथमाधिकरणमारचयति - व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ॥
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाज्जनिश्रुतेः ॥
विवर्ते कारणैकत्वाद्ब्रह्मणो व्योम जायते ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयके - "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इति श्रूयते । तत्र – आकाशं नित्यं, न तु जन्मवत् । कुतः - आकाशोत्पादकस्य समवाय्यसमवायिनिमित्ताख्यकारणत्रितयस्य दुःसम्पादत्वात् । 'सम्भूतः' इति जनिश्रुतिस्तु सम्प्रतिपन्नब्रह्मकार्यवद्व्योम्नि सत्ताश्रयत्वगुणयोगात्प्रवृत्ता । तस्मात् - अनाद्यन्तं व्योम, न जायते ॥ इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । तच्च व्योम्नो ब्रह्मकार्यत्वे मृद्धटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम् , नान्यथा । किञ्च - आकाशं जायते, विभक्तत्वात् , घटवत् । नच – अयमसिद्धो हेतुः, वाय्वादिवैलक्षण्यस्याऽऽकाशे प्रसिद्धत्वात् । नच - ब्रह्मण्यनैकान्तिकत्वम् , सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्तत्वस्य दुर्भणत्वात् । जनिश्रुतिश्चोत्पत्तिवादिन्यनुगृहीता भवति । यत्तु - कारणत्रितयासम्भवः - इत्युक्तम् । तदसत् । आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात् । तस्मात् - एतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते ॥ (द्वितीये वायोर्ब्रह्मजन्यत्वाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - वायुर्नित्यो जायते वा छान्दोग्येऽजन्मकीर्तनात् ॥
सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुत्यन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः ॥
वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयक एव – "आकाशाद्वायुः" इति श्रूयते । सेयमुत्पत्तिश्रुतिर्गौणी, छान्दोग्ये सृष्टिप्रकरणे - तेजोबन्नानामेवोत्पत्तेरभिधानात् । ननु - 'क्वचिदश्रवणमन्यत्र श्रुतं न वारयितुमुत्सहते' इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वम् - इति चेत् । 'श्रुत्यन्तरविरोधात्' इति ब्रूमः । बृहदारण्यके - "सैषाऽनस्तमिता देवता यद्वायुः" इति वायोर्विनाशप्रतिषेधात् । उत्पत्तिमत्त्वे च तदयोगात् । तस्मात् - न जायते वायुः । इति प्राप्ते, ब्रूमः - छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या, उपासनाप्रकरणपठितत्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसन्धेयाः । न च – वायोराकाशकार्यत्वेन ब्रह्मण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येत् - इति शङ्कनीयम् , पूर्वपूर्वकार्यविशिष्टस्य ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारणत्वात् । तस्मात् - वायुर्जायते ॥ (तृतीये सद्ब्रह्मणोऽजन्यत्वाधिकरणे सूत्रम् - ) तृतीयाधिकरणमारचयति - सद्ब्रह्म जायते नो वा कारणत्वेन जायते ॥
यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 असतोऽकारणत्वेन स्वादीनां सत उद्भवात् ॥
व्याप्तेरजादिवाक्येन बाधात्सन्नैव जायते ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये - "सदेव सौम्येदमग्र आसीत्" इति श्रूयते । तत्सद्रूपं ब्रह्म जन्मवद्भवितुमर्हति, कारणत्वात् , वियद्वत् ॥ इति प्राप्ते, ब्रूमः - सद्रूपं ब्रह्म न जायते । कुतः - तज्जनकस्य कारणस्य दुर्निरूपत्वात् । तथा हि - न तावदसत्कारणम् "कथमसतः सज्जायेत" इति निषेधात् । नापि - सदेव सतः कारणम् , आत्माश्रयापत्तेः । नापि - वियदादिकं सतः कारणम् , वियदादीनां ततः सतो जायमानत्वात् । या तु व्याप्तिः - 'यद्यत्कारणं, तत्तज्जायेत' – इति । सा "स वा एष महानज आत्मा" इति श्रुतिबाध्या । तस्मात् - सद्ब्रह्म नैव जायते ॥ (चतुर्थे तेजसो ब्रह्मजन्यत्वाधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ॥
तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 वायोरग्निरिति श्रुत्या पूर्वश्रुत्यैकवाक्यतः ॥
ब्रह्मणो वायुरूपत्वमापन्नादग्निसम्भवः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये - "तत्तेजोऽसृजत" इति तेजसो ब्रह्मजत्वं श्रूयते । तैत्तिरीयके - "वायोरग्निः" इति वायुजत्वम् । तत्र – 'वायोः' इति पञ्चम्या आनन्तर्यार्थस्यापि सम्भवात्केवलब्रह्मजन्यं तेजः ॥ इति प्राप्ते, ब्रूमः - अनुवर्तमानेन सम्भूतशब्देनान्विताया 'वायोः' इति पञ्चम्यां उपादानार्थत्वस्यैव मुख्यत्वात् । उभयोः श्रुत्योरेकवाक्यत्वे सति - वायुरूपापन्नाद्ब्रह्मणस्तेजो जायते - इति लभ्यते ॥ (पञ्चम अपां ब्रह्मजन्यत्वाधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - ब्रह्मणोऽपां जन्म किंवा वह्नेर्नाग्नेर्जलोद्भवः ॥
विरुद्धत्वान्नीरजन्म ब्रह्मणः सर्वकारणात् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 अग्नेराप इति श्रुत्या ब्रह्मणो वह्न्युपाधिकात् ॥
अपां जनिर्विरोधस्तु सूक्ष्मयोर्नाग्निनीरयोः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 यद्यपि "तदपोऽसृजत" "अग्नेरापः" इत्युभयोश्छान्दोग्यतैत्तिरीययोस्तेजो जन्यत्वमेवापां श्रूयते । तथाऽपि न तद्युक्तम् । निवर्त्यनिवर्तकयोरग्निजलयोर्विरुद्धयोर्न हेतुहेतुमद्भावः । इति पूर्वपक्षः ॥ पञ्चीकृतयोर्दृश्यमानयोर्विरोधेऽप्यपञ्चीकृतयोः श्रुत्येकसमधिगम्ययोर्विरोधकल्पनायोगात् । सन्तापाधिक्ये स्वेदवृष्ट्युद्भवदर्शानाच्च । श्रुतिद्वयानुसारेण तेजोरूपापन्नाद्ब्रह्मणोऽपां जनिः । इति सिद्धान्तः ॥ (षष्ठे पृथिवीमात्रस्यान्नशब्दावाच्यताधिकरणे सूत्रम् - ) षष्ठाधिकरणमारचयति - ता अन्नमसृजन्तेति श्रुतमन्नं यवादिकम् ॥
पृथिवी वा यवाद्येव लोकेऽन्नत्वप्रसिद्धितः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 भूताधिकारात्कृष्णस्य रूपस्य श्रवणादपि ॥
तथाऽद्भ्यः पृथिवीत्युक्तेरन्नं पृथ्व्यन्नहेतुतः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये - "ता अन्नमसृजन्त" इत्यद्भ्योऽन्नस्य जन्म श्रूयते । तत्र – अन्नशब्दस्य लोकप्रसिद्ध्या व्रीहियवादिकमर्थः ॥ इति प्राप्ते, ब्रूमः - पृथिव्यत्रान्नशब्दार्थः । पञ्चमहाभूतसृष्टेरधिकृतत्वात् । किञ्च – "यदग्ने रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत्कृष्णं तदन्नस्य" इति कृष्णरूपं पृथिव्यां बहुलमुपलभ्यते, नतु व्रीहियवादौ । तथा - "अद्भ्यः पृथिवी" इति तैत्तिरीयकश्रुत्येकवाक्यताबलादत्रान्नं पृथिवी । न च – अन्नशब्दस्य तत्र प्रवृत्त्यनुपपत्तिः, कार्यकारणयोरन्नपृथिव्योरभेदविवक्षया तदुपपत्तेः । तस्मात् - अन्नं पृथिवी ॥ (सप्तमे सोपाधिकब्रह्मण एव कार्यकारणत्वाधिकरणे सूत्रम् - ) सप्तमाधिकरणमारचयति - व्योमाद्याः कार्यकर्तारो ब्रह्म वा तदुपाधिकम् ॥
व्योम्नो वायुर्वायुतोऽग्निरित्युक्तेः स्वादिकर्तृता ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरोऽन्तर्यमयतीत्युक्तेर्व्योमाद्युपाधिकम् ॥
ब्रह्म वाय्वादिहेतुः स्यात्तेजआदीक्षणादपि ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणेषु - पूर्वपूर्वकार्योपाधिकाद्ब्रह्मण उत्तरोत्तरकार्योत्पत्तिः - इति यदेतत्सिद्धवत्कृत्य सिद्धान्तितम् , तदयुक्तम् । "आकाशाद्वायुः", वायोरग्निः इत्यादौ ब्रह्मनिरपेक्षात्केवलाद्व्योमादेरुत्तरकार्योत्पत्तिश्रवणात् ॥ इति प्राप्ते, ब्रूमः - "य आकाशमन्तरो यमयति, यो वायुमन्तरो यमयति" इत्यादिनाऽन्तर्यामिब्राह्मणे व्योमादेः स्वातत्र्यं निवारितम् । तथा - "तत्तेज ऐक्षत ता आप ऐक्षन्त" इति तेजआदेरीक्षणपूर्वकं स्रष्टृत्वं श्रूयते । तच्चेक्षणं चेतनब्रह्मनिरपेक्षाणामचेतनानां न सम्भवति । तस्मात् - व्योमाद्युपाधिकस्य ब्रह्मण एव कारणत्वम् ॥ (अष्टमे लयक्रमनिरूपणाधिकरणे सूत्रम् - ) अष्टमाधिकरणमारचयति - सृष्टिक्रमो लये ज्ञेयो विपरीतक्रमोऽथवा ॥
क्लृप्तं कल्प्याद्वरं तेन लये सृष्टिक्रमो भवेत् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 हेतावसति कार्यस्य न सत्त्वं युज्यते यतः ॥
पृथिव्यप्स्विति चोक्तत्वाद्विपरीतक्रमो लये ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशादिक्रमः सृष्टौ क्लृप्तः । अतः प्रलयेऽपि स एव क्रमः । इति प्राप्ते, ब्रूमः - प्रथमतः कारणे लीने सति निरुपादानानां कार्याणां कञ्चित्कालमवस्थानं प्रसज्येत । किञ्च - "जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥(वायुः प्रलीयते व्योम्नि तच्चाव्यक्ते प्रलीयते" । ) इति पुराणे विपरीतक्रमस्योक्तत्वात्क्लृप्त एवायं क्रमः । तस्मात् - सृष्टिविपरीतेन पृथिव्यादिक्रमेण प्रलीयते ॥ (नवमे प्राणादिसृष्टौ क्रमनिरूपणाधिकरणे सूत्रम् - ) नवमाधिकरणमारचयति - किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि ॥
प्राणाक्षमनसां ब्रह्मवियतोर्मध्य ईरणात् ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ॥
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 मुण्डकोपनिषदि श्रूयते - "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी" इति । तत्र – प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाणत्वादाकाशादिकः पूर्वोक्तसृष्टिक्रमो भज्येत ॥ इति प्राप्ते, ब्रूमः - "अन्नमयं हि सौम्य मनः", "आपोमयः प्राणः", "तेजोमयी वाक्" इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावेन पृथक्क्रमो नापेक्षितः । न च – मुण्डकश्रुतिः क्रमवाचिनी, "आकाशाद्वायुः वायोरग्निः" इत्यादाविव क्रमस्याप्रतीयमानत्वात् , उत्पत्तिमात्रं केवलं ब्रूते । तस्मात् - नानया श्रुत्या पूर्वोक्तक्रमभङ्गोऽस्ति ॥ (दशमे जीवस्य जन्ममरणराहित्याधिकरणे सूत्रम् - ) दशमाधिकरणमारचयति - जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते ॥
जातो मे पुत्र इत्युक्तेर्जातकर्मादितस्तथा ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 मुख्ये ते वपुषो भाक्ते जीवस्यैते अपेक्ष्य हि ॥
जातकर्म च लोकोक्तिर्जीवापेतेतिशास्त्रतः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 लोके – 'पुत्रो मे जातः' इति व्यवहाराच्छास्त्रे जातकर्मादिसंस्कारोक्तेश्च जन्ममरणे जीवस्य ॥ इति प्राप्ते, ब्रूमः - जीवस्य मुख्यमरणाङ्गीकारे कृतनाशाकृताभ्यागमप्रसङ्गस्य दुर्निवारत्वाद्देहगते एव जन्ममरणे जीवस्योपचर्येते । औपचारिके एव ते अपेक्ष्य लोकव्यवहारकर्मशास्त्रयोः प्रवृत्तिः । उपनिषच्छास्त्रं तु "जीवापेतं वाव किलेदं म्रियते, न जीवो म्रियते" इति जीवविमुक्तस्यैव शरीरस्य मुख्यं मरणमभिधाय जीवस्य तन्निराचष्टे । तस्मात् - वपुषो जन्ममरणे ॥ (एकादशे जीवस्य नित्यत्वाधिकरणे सूत्रम् - ) एकादशाधिकरणमारचयति - कल्पादौ ब्रह्मणो जीवो वियद्वज्जायते न वा ॥
सृष्टेः प्रागद्वयत्वोक्तेर्जायते विस्फुलिङ्गवत् ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्माद्वयं जातबुद्धौ जीवत्वेन विशेत्स्वयम् ॥
औपाधिकं जीवजन्म नित्यत्वं वस्तुतः श्रुतम् ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 "एकमेवाद्वितीयम्" इति सृष्टेः प्रागद्वयत्वं श्रूयमाणं ब्रह्मव्यतिरिक्तस्य जीवस्यानुत्पत्तौ नोपपद्यते । श्रुतिश्च विस्फुलिङ्गदृष्टान्तेन जीवस्योत्पत्तिं प्रतिपादयति - "यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेतस्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युच्चरन्ति" इति । तस्मात् - कल्पादौ वियदादिवद्ब्रह्मणो जीवो जायते ॥ इति प्राप्ते, ब्रूमः - यदद्वयं ब्रह्म तदेव जातायां बुद्धौ जीवरूपेण प्रविशति "तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः । अतो जीवानुत्पत्तौ नाद्वयश्रुतिविरोधः विस्फुलिङ्गश्रुतिस्त्वौपाधिकजन्माभिप्राया प्रवृत्ता । अन्यथा कृतनाशादिदोषस्योक्तत्वात् । वस्तुत्तत्त्वाभिप्रायेण तु नित्यत्वं श्रुतिर्ब्रूते - "नित्यो नित्यानां चेतनश्चेतनानाम्" इति तस्मात्कल्पादौ जीवो नोत्पद्यते ॥ (द्वादशे जीवस्य चिद्रूपत्वाधिकरणे सूत्रम् - ) द्वादशाधिकरणमारचयति - अचिद्रूपोऽथ चिद्रूपो जीवोऽचिद्रूप इष्यते ॥
चिदभावात्सुषुप्त्यादौ जाग्रच्चिन्मनसा कृता ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मत्वादेव चिद्रूपश्चित्सुषुप्तौ न लुप्यते ॥
द्वैतादृष्टिद्वैतलोपान्नहि द्रष्टुरिति श्रुतेः ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 तार्किका मन्यन्ते - सुषुप्तिमूर्छासमाधिषु चैतन्यभावादचिद्रूपो जीवः । जागरणे चाऽऽत्ममनःसंयोगाच्चैतन्याख्यो गुणो जायते - इति । तदसत् । चिद्रूपस्य ब्रह्मण एव जीवरूपेण प्रवेशश्रवणात् । न च – चैतन्यं सुषुप्त्यादौ लुप्यते, सुषुप्त्यादिसाक्षित्वेनावस्थानात् । अन्यथा सुषुप्तादिपरामर्शायोगात् । कथं तर्हि - - सुषुप्त्यादौ द्वैताप्रतीतिः - इति चेत् । 'द्वैतलोपात्' इति ब्रूमः । तथाच श्रुतिः - "यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्" इति । अस्यायमर्थः - 'तत्र सुषुप्तौ जीवः किमपि न पश्यति', इति यल्लौकिकैरुच्यते, तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यति, इति भ्रान्त्या केवलं व्यपदिश्यते । कथं तद्दर्शनम् - इत्यत्र हेतुरुच्यते - द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो नहि विद्यते विनाशरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां 'न पश्यति' इति भ्रमः - इत्यत्र हेतुरुच्यते - ब्रह्मचैतन्यादन्यत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं यद्द्वितीयं वस्तु, तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरणवद्द्रष्टृदृश्यदर्शनव्यवहाराणामभावात् 'न पश्यति' इति लौकिकानां भ्रमः - इति । तस्मात् - चिद्रूपो जीवः ॥ (त्रयोदशे जीवस्य सर्वगतत्वाधिकरणे सूत्राणि - ) त्रयोदशाधिकरणमारचयति - जीवोऽणुः सर्वगो वा स्यादेषोऽणुरिति वाक्यतः ॥
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 साभासबुद्ध्याऽणुत्वेन तदुपाधित्वतोऽणुता ॥
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 "एषोऽणुरात्मा चेतसा वेदितव्यः" इत्युणुत्वं श्रुतम् । "अस्माच्छरीरादुत्क्रामति" इत्युत्क्रान्तिः । "चन्द्रमसमेव ते सर्वे गच्छन्ति" इति गतिः । "तस्माल्लोकात्पुनरैति" इत्यागमनम् । नह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरिमाणस्य तदुपपत्तावप्यणुश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मात् - अणुर्जीवः ॥ इति प्राप्ते, ब्रूमः - चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता । तदुपाधिकत्वाज्जीवस्याणुत्वोत्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । "स वा एष महानज आत्मा" "सर्वव्यापी सर्वभूतान्तरात्मा" इत्यादौ सर्वगतत्वं श्रुतम् । तस्मात् - सर्वगतो जीवः ॥ (चतुर्दशे जीवस्य कर्तृत्वाधिकरणे सूत्राणि - ) चतुर्दशाधिकरणमारचयति - जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसम्भवात् ॥
जीवकर्तृतया किं स्यादित्याहुः साङ्ख्यमानिनः ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ॥
व्यापारा न विना कर्त्रा तस्माज्जीवस्य कर्तृता ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 "बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं सम्भवति, न त्वसङ्गस्याऽऽत्मनः" - इति यत्साङ्ख्यैरुक्तम् । तदसङ्गतम् । करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृशक्तिर्न कल्पयितुं शक्या, कुठारादावदर्शनात् । बुद्धेः कर्तृत्वे करणान्तरस्य कल्पनीयत्वाच्च । न च – मा भूत्कर्ता - इति वाच्यम् , पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादिव्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्मात् - जीवः कर्ता ॥ (पञ्चदशे जीवस्याध्यस्तकर्तृत्वाधिकरणे सूत्रम् - ) पञ्चदशाधिकरणमारचयति - कर्तृत्वंं वास्तवं किंवा कल्पितं वास्तवं भवेत् ॥
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 असङ्गो हीति तद्बाधात्स्फटिके रक्ततेव तत् ॥
अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावद्वास्तवम् ॥ इति प्राप्ते, ब्रूमः - "असङ्गो ह्ययं पुरुषः" इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । अतो यथा जपाकुसुमसंनिधिवशात्स्फटिके रक्तत्वमध्यस्तम् , तथा - अन्तःकरणसंनिधिवशात्कर्तृत्वमात्मन्यध्यस्यते ॥ (षोडश ईश्वरस्य जीवप्रवर्तकत्वाधिकरणे सूत्रे - ) षोडशाधिकरणमारचयति - प्रवर्तकोऽस्य रागादिरीशो वा, रागतः कृषौ ॥
दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 सस्येषु वृष्टिवज्जीवेष्वीशस्याविषमत्वतः ॥
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तदनुसाराद्धर्माधर्मकर्तृजीवस्यापि तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति, कांश्चिदधर्मे, इति वैषम्यं दुर्वारम् । तस्मात् - नेश्वरः प्रवर्तकः ॥ इति प्राप्ते, ब्रूमः - न तावदीश्वरस्य वैषम्यदोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्तत्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहियवादिवैषम्ये बीजानामेव निमित्तत्वम् , तथेश्वरस्य 'यथायथं जीवाः प्रवर्तन्ताम्' इत्यनुज्ञया साधारणप्रवर्तकत्वात् । असाधारणप्रवर्तकत्वेऽपि न वैषम्यम् , पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् । - कर्मणां फलहेतुत्वमेव, न कर्मान्तरहेतुत्वम् - इति चेत् । सत्यम् । सुखदुःखरूपस्य स्वफलस्य प्रदानाय जीवं व्यापारयत्सु कर्मस्वर्थात्कर्मान्तरमपि निष्पद्यत इति दुर्वारं तद्धेतुत्वम् । वासनानां तु साक्षादेव कर्महेतुत्वम् । तथाचेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु - रागस्य प्रवर्तकत्वनिदर्शनमुदाहृतम् । तत्तथाऽस्तु । न तावतेश्वरस्य प्रवर्तकत्वहानिः, सर्वान्तर्यामिणेश्वरेण रागस्यापि नियम्यमानत्वात् । तस्मात् - ईश्वरो जीवस्य प्रवर्तकः ॥ (सप्तदशे जीवेश्वरव्यवस्थाधिकरणे सूत्राणि - ) सप्तदशाधिकरणमारचयति -
किं जीवेश्वरसाङ्कर्यं व्यवस्था वा श्रुतिद्वयात् ॥ अभेदभेदविषयात्साङ्कर्यं न निवार्यते ॥ ३४ ॥ अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ॥ जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 "तत्त्वमसि" इत्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति । "आत्मा वा अरे द्रष्टव्यः" इत्यादिना द्रष्टृद्रष्टव्यरूपेण भेदः प्रतीयते । तथाच सति भेदश्रुतिबलात् 'जीवो नास्ति' इत्यपलपितुमशक्यम् । अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्येश्वरेण साङ्कर्यं दुर्वारम् । परस्परं च जीवानामीश्वरादभेदद्वारा साङ्कर्यमानुषङ्गिकम् । तस्मात् - ब्रह्मवादिनो न जगद्व्यवस्था ॥ इति प्राप्ते, ब्रूमः - यद्यपि - गोमहिषवज्जीवेश्वरयोरत्यन्तभेदो वास्तवो नास्ति । तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणित्रेधा जीवं निरूपयन्ति - "ममैवांशो जीवलोके जीवभूतः सनातनः" । इत्यंशत्वमवगम्यते । "स समानः सन्नुभौ लोकावनुसञ्चरति" इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्दवाच्यया बुद्ध्या समानपरिमाणनिर्देशाद्घटाकाशवदवच्छिन्नत्वं प्रतीयते - "एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्" । इत्याभासत्वमवगम्यते तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते । तस्मात् - न कोऽपि दोषः - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि १७ ७८ सूत्राणि ५३ ३७० (प्रथम इन्द्रियाणां परमात्मजन्यत्वाधिकरणे सूत्राणि - ) चतुर्थपादस्य प्रथमाधिकरणमारचयति - किमिन्द्रयाण्यनादीनि सृज्यन्ते वा परात्मना ॥
सृष्टेः प्रागृषिनाम्नैषां सद्भावोक्तेरनादिता ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्रुतेः ॥
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 "ऋषयो वाव तेऽग्रे सदासीत् । (तदाहुः) के ते ऋषयः - इति । प्राणा वा ऋषयः" इति श्रुत्या सृष्टेः पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषाम् ॥ इति प्राप्ते, ब्रूमः - एकविज्ञानेन सर्वविज्ञानं तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा - "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः । तेजोमयी वाक्" इति भूतकार्यत्वमिन्द्रियाणां श्रूयते । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु - सृष्टेः प्राक्सद्भाववाक्यम् । तदवान्तरसृष्टिविषयतया व्याख्येयम् । तस्मात् - इन्द्रियाणि परमात्मन उत्पद्यन्ते ॥ (द्वितीय इन्द्रियाणामेकादशत्वाधिकरणे सूत्रे - ) द्वितीयाधिकरणमारचयति - सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ॥
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषणात् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अशीर्षण्यस्य हस्तादेरपि वेदे समीरणात् ॥
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुसारतः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 सप्तैवेन्द्रियाणि । कुतः - "सप्त प्राणाः प्रभवन्ति" इति सामान्यश्रुतेः । "सप्तशीर्षण्याः प्राणाः" इति शिरोदतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्च ॥ इति प्राप्ते, ब्रूमः - शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते । "हस्तौ चाऽऽदातव्यं च, उपस्थश्चाऽनन्दयितव्यं च" इत्यादिना । तथाच वेदान्निश्चये सत्येकादशव्यापाराणां दर्शनश्रवणघ्राणास्वादनस्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधनत्वेन – 'इन्द्रियाण्येकादश' इत्यभ्युपगन्तव्यम् ॥ (तृतीये, इन्द्रियाणामणुत्वाधिकरणे सूत्रम् - ) तृतीयाधिकरणमारचयति - व्यापीन्यणूनि वाऽक्षाणि साङ्ख्या व्यापित्वमूचिरे ॥
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 देहस्थवृत्तिमद्भागेष्वेवाक्षत्वं समाप्यताम् ॥
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 'सर्वगतानामिन्द्रियाणां तत्तच्छरीरावच्छिन्नप्रदेशेषु तत्तज्जीवकर्मफलोपभोगाय वृत्तिलाभो भवति' इति यत्साङ्ख्यैरुक्तम् । तदयुक्तम् । कल्पनागौरवप्रसङ्गात् । देहावच्छिन्नवृत्तिमद्भागैरेवाशेषव्यवहारसिद्धौ किमनया वृत्तिरहितानां सर्वगतानामिन्द्रियाणां कल्पनया । किञ्च – श्रुतिरुत्क्रान्तिगत्यागतीर्जीवस्य प्रतिपादयति । ताश्च सर्वगतस्य जीवस्य न मुख्याः सम्भवन्ति - इति मुख्यत्वसिद्ध्यर्थमिन्द्रियोपाधिः स्वीकृतः । यदि सोऽप्युपाधिः सर्वगतः स्यात् , कुतस्तर्ह्युत्क्रान्त्यादयो मुख्याः सम्भवेयुः । तस्मात् - असर्वगतान्यक्षाणि । मध्यमपरिमाणेष्वेवादृश्यत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः ॥ (चतुर्थे प्राणस्य जन्यताधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - मुख्यः प्राणः स्यादनादिर्जायते वा न जायते ॥
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 आनीदिति ब्रह्मसत्त्वं प्रोक्तं वातनिषेधनात् ॥
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 मुखबिले सञ्चरन्नुच्छ्वासकारी यो वायुः स प्राणः । सोऽनादिः । कुतः - "नासदासीत्" - इति सूक्ते - "आनीदवातम्" इति 'आनीत्' शब्देन सृष्टेः प्राक्प्राणचेष्टाश्रवणात् ॥ इति प्राप्तेः, ब्रूमः - 'आनीत्' शब्दो न प्राणव्यापारं वक्ति, "अवातम्" इति तन्निषेधात् । किं तर्हि - ब्रह्मसत्त्वं ब्रूते, "सदेव सौम्येदमग्र आसीत्" इत्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्रुत्यन्तरैः समानार्थत्वात् । "एतस्माज्जायते प्राणः" इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति । तस्मात् - इन्द्रियवत्प्राणो जायते ॥ (पञ्चमे प्राणस्य तत्त्वान्तरताधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणः श्रुतितोऽनिलः ॥
सामान्येन्द्रियवृत्तिर्वा साङ्ख्यैरेवमुदीरणात् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ॥
वायुजत्वेन सामन्यवृत्तिर्नाक्षेष्वतोऽन्यता ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु प्राणो नाम किञ्चित्तत्त्वान्तरमस्ति । कुतः - "यः प्राणः स वायुः" इति श्रुतेः । अथवा - पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति, एवमेकादशाक्षाणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो व्यापारः, स प्राणो भविष्यति । तथाच साङ्ख्यैरुक्तम् - "सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" इति । तस्मात् - न तत्त्वान्तरं प्राणः ॥ इति प्राप्ते, ब्रूमः - "प्राण एव ब्रह्मणश्चतुर्थः पादः, स वायुना ज्योतिषा भाति (च तपति च ) इति" श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपासनप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकरूपेण भेदः स्पष्टमेव निर्दिष्टः । अतः - "यः प्राणः स वायुः" इत्येकत्वश्रुतिः कार्यकरणयोरभेदवृत्त्या नेतव्या । यत्तु - साङ्ख्यैरुक्तम् । तदसत् , इन्द्रियाणां सामान्यवृत्त्यसम्भवात् । पक्षिणां तु चालनान्येकविधानि पञ्जरचालनस्यानुकूलानि, न तु तथेन्द्रियाणां दर्शनश्रवणगमनादिव्यापारा एकविधाः । नापि देहचालनानुकूलाः । तस्मात् - तत्त्वान्तरं प्राणः - इति परिशिष्यते ॥ (षष्ठे प्राणस्याणुत्वाधिकरणे सूत्रम् - ) षष्ठाधिकरणमारचयति - प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे ॥
हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 समष्टिव्यष्टिरूपेण विभुरेवाऽऽधिदैविकः ॥
आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 प्लुषिर्नाम मशकादपि न्यूनकायः पुत्तिकाख्यो जीवः । तमारभ्य सर्वात्मकहिरण्यगर्भपर्यन्तेषु देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते - "समः प्लुषिणा, समो मशकेन समो नागेन, सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण" इति । तस्मात् - व्यापी प्राणः । इति प्राप्ते, ब्रूमः - आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु - "वायुरेव व्यष्टिः, वायुरेव समष्टिः" इति श्रुतेः । तदेव विभुत्वं "समः प्लुषिणा" इत्यादिश्रुतावुपासनार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ॥ (सप्तमे, इन्द्रियाणां देवपरतन्त्रताधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्युः स्वतन्त्रता ॥
नो चेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतमग्न्यादितन्त्रत्वं भोगोऽग्न्यादेस्तु नोचितः ॥
देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 वागादीन्यक्षाणि स्वस्वविषयस्वातन्त्र्येण प्रवर्तन्ते, न तु देवतापरतन्त्राणि । अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यात् ॥ इति प्राप्ते, ब्रूमः - "अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादौ वागादीनामग्न्याद्यनुगृहीतत्वं श्रूयते । ततो देवतापरतन्त्रैवेन्द्रियवृत्तिः । न च – एतावता देवतानामत्र भोक्तृत्वम् , महापुण्यफलं देवत्वं प्राप्तानामधमभोगस्यानुचितत्वात् । देवतादेहेषु परमभोगस्य सिद्धत्वाच्च । मनुष्यादिजीवस्तु देवप्रेरितैरप्यक्षैरापादितं भोगं स्वकर्मफलतया भुङ्क्ते - इत्युपपद्यते । तस्मात् - देवतापरतन्त्राणीन्द्रियाणि ॥ (अष्टमे, इन्द्रियाणां प्राणात्तत्त्वान्तरत्वाधिकरणे सूत्राणि - ) अष्टमाधिकरणमारचयति - प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत्त्वान्तराणि वा ॥
तद्रूपत्वश्रुतेः प्राणनाम्नोक्तत्वाच्च वृत्तयः ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 श्रमाश्रमादिभेदोक्तेर्गोणे तद्रूपनामनी ॥
आलोचकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः - तेषां प्राणरूपत्वश्रवणात् । "हन्तास्यैव सर्वे रूपमसामेति, त एतस्यैव सर्वे रूपमभवन्" इति श्रुतेः । किञ्च – प्राणशब्देनैव तानि लोके व्यवह्नियन्ते - 'म्रियमाणस्य नाद्यापि प्राणानिर्गच्छन्ति' इत्यादौ । श्रुतिश्च वागादीनां प्राणनामकतामाह – "न वै वाचः, न चक्षूंषि, न श्रोत्राणि, न मनांसि, इत्याचक्षते । प्राणा इत्येवाऽऽचक्षते" इति तस्मात् - न प्राणादन्यानि तत्त्वानि ॥ इति प्राप्ते, ब्रूमः - "तानि मृत्युः श्रमो भूत्वोपयेमे । तस्माच्छ्राम्यत्येव वाक्" इत्यादिना वागादीनां स्वस्वविषयेषु श्रान्तिमभिधाय "अथेममेव नाऽऽप्नोत् , योऽयं मध्यमः प्राणः, यः सञ्चरंश्चासञ्चरंश्च न व्यथते" इति प्राणस्य स्वव्यापारे श्रान्त्यभावमाह । अयमेको भेदः । तथा - प्राणसंवादे वागादिनिर्गमनप्रवेशयोर्देहस्य मरणोत्थानाभावमभिधाय प्राणनिर्गमनप्रवेशयोर्मरणोत्थाने दर्शयति । अत एवमादिभेदोक्तेर्वागादीनां प्राणरूपत्वं प्राणनामत्वं च गौणम् । भृत्यन्यायेन प्राणानुवर्तित्वात् । व्यवहारभेदश्च भूयानुपलभ्यते । स्वं स्वं विषयं परिच्छिद्याऽऽलोचकानीन्द्रियाणि, प्राणस्त्वक्षाणां देहस्य च नेता । तस्मात् - बहुवैलक्षण्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि ॥ (नवमे, ईश्वरस्यैव नामरूपव्याकर्तृत्वाधिकरणे सूत्राणि - ) नवमाधिकरणमारचयति - नामरूपव्याकरणे जीवः कर्ताऽथवेश्वरः ॥
अनेन जीवेनेत्युक्तेर्व्याकर्ता जीव इष्यते ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 जीवान्वयः प्रवेशेन संनिधेः सर्वसर्जने ॥
जीवोऽशक्तः शक्त ईश उत्तमोक्तिस्तथेक्षितुः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 ईश्वरेण पञ्चभूतेषु सृष्टेषु भौतिकयोर्दृश्यमानयोर्महीधरादिनामरूपयोर्जीव एव स्रष्टा स्यात् । कुतः - "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति जीवरूपस्यैव सृष्टावन्वयश्रवणात् ॥ इति प्राप्ते, ब्रूमः - "जीवेनानुप्रविश्य" इति प्रवेशेनैव जीवोऽन्वेति संनिहितत्वात् । 'जीवेन व्याकरवाणि' इत्युक्तौ व्यवहितान्वयः स्यात् । नहि जीवस्य गिरिनदीनिर्माणे शक्तिरस्ति । ईश्वरस्तु सर्वशक्तियुक्तः "पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रवणात् । किञ्च – "व्याकरवाणि" इत्युत्तमपुरुषोऽपीश्वरपक्षे समञ्जसः । तस्मात् - ईश्वर एव नामरूपयोः स्रष्टा । कथं तर्हि - घटपटादौ कुलालादेर्निर्मातृत्वम् । 'ईश्वरप्रेरणात्' इति ब्रूमः । तस्मात् - ईश्वर एव सर्वकर्ता - इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
॥ इति द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ९ ८७ सूत्राणि २२ ३९२ (प्रथमे जीवस्य भूतसूक्ष्मवेष्टितस्यैव परलोकगमनागमनाधिकरणे सूत्राणि - ) तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति - अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ॥
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः ॥
पञ्चमाहुतितोक्तेश्च जीवस्तैर्याति वेष्टितः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वपादप्रतिपादितप्राणोपाधिको जीवः शरीरान्तरप्राप्तिवेलायामितो निर्गच्छन्भाविशरीरबीजैः सूक्ष्मभूतैरवेष्टितो गच्छति, पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य निरर्थकत्वात् ॥ इति प्राप्ते, ब्रूमः - भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सूलभानि । तस्मात् - इतो नेतव्यानि । किञ्च जीवोपाधिभूतेन्द्रियाणां भूताधारमन्तरेण परलोकगमनं न सम्भवति, जीवदशायामदर्शनात् । श्रुतिश्चैवमाह – "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति । अस्या अयमर्थः - द्युलोकपर्जन्यपृथिवीपुरुषयोषितः पञ्च पदार्था उपासनायामग्नित्वेन परिकल्पिताः । तेष्वग्निषु स्वर्गाय गच्छन्पुनरागच्छंश्च जीव आहुतित्वेन परिकल्पितः । इष्टापूर्तकारी जीवः स्वर्गमारुह्योपभोगेन कर्मणि क्षीणे पर्जन्ये पतित्वा वृष्टिरूपेण भूमिं प्राप्य, अन्नद्वारेण पुरुषं प्राप्य, रेतोद्वारेण योषितं प्रविश्य शरीरं गृह्णाति । ततोऽपशब्दोपलक्षितानि देहबीजानि पञ्च भूतानि जीवेन सह द्युलोकादिपञ्चस्थानेषु गत्वा पञ्चमस्थाने शरीरभावं प्राप्य पुरुषशब्दवाच्यानि भवन्ति - इति । तस्मात् - बीजैर्वेष्टित एव परलोकं गच्छति ॥ (द्वितीये स्वर्गादरोहतो जीवस्य सानुशयत्वाधिकरणे सूत्राणि - ) द्वितीयाधिकरणमारचयति - स्वर्गावरोही क्षीणानुशयः सानुशयोऽथवा ॥
यावत्सम्पातवचनात्क्षीणानुशय इष्यते ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 जातमात्रस्य भोगित्वादैकभव्ये विरोधतः ॥
चरणश्रुतितः सानुशयः कर्मान्तरैरयम् ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 स्वर्गमुपभुज्य ततोऽवरोहन्पुरुषो निरनुशय इहाऽऽगच्छति । अनुशयो नाम कर्मशेषः 'जीवमनुशेते' इति व्युत्पत्तेः । न च – स्वर्गादवरोहतोऽनुशयः सम्भवति, अनुशयफलस्य सर्वस्य तत्रैवोपभुक्तत्वात् । अत एवावरोहविषया श्रुतिः - "यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तते" इत्याह । 'सम्पतत्यनेन कर्मणा स्वर्गम्' इति सम्पातः कर्मसमूहः । सम्पातमनतिक्रम्य यावत्सम्पातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः । तस्मात् - कर्मशेषरहितोऽवरोहति ॥ इति प्राप्ते, ब्रूमः - स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोपभोगेऽप्यनुपभुक्तानि सञ्चितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा - सद्यःसमुत्पन्नस्य बालस्येह जन्मन्यनुष्ठितयोर्धर्माधर्मयोरभावात्सुखदुःखोपभोगो न स्यात् । यत्त्वत्र कैश्चिदुच्यते - एकस्मिञ्जन्मन्यनुष्ठितः कर्मसमूह उत्तरस्मिन्नेव जन्मन्युपभोगेन क्षीयते - इति । तदसत् , इन्द्रादिपदप्रापकाणामश्वमेधादीनाम् , विड्वराहादिदेहप्रापकाणां पापानां च युगपदुपभोगासम्भवेन 'ऐकभविकः कर्मानुशयः' इति मतस्य विरुद्धत्वात् । ततश्चैकस्मिञ्जन्मन्यनुष्ठितानां मध्ये कस्मिंश्चिज्ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यवशिष्येरन् । यावत्सम्पातशब्दश्च स्वर्गप्रदकर्म विषयः, नत्वितरकर्मविषयः । श्रुतिश्च स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां नपुरुषाणां तद्धेत्वोः पुण्यपापयोः सद्भावं दर्शयति - "य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा, क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा, शूकरयोनिं वा चाण्डालयोनिं" वा इति । रमणीयचरणाः सुकृतकर्माणः, कपूयचरणाः पापकर्माणः 'अभ्याशोहयत्' इत्यव्ययसमुदायस्य क्षिप्रत्वमर्थः । तदेवं - सानुशया अवरोहन्ति - इति स्थितम् ॥ (तृतीये पापिनां स्वर्गे गत्यभावाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ॥
पञ्चमाहुतिलाभार्थं भोगाभावेऽपि यात्यसौ ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी ॥
सर्वश्रुतिः सुकृतिनां, याम्ये पापिगतिः श्रुता ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 "ये वै के चास्माल्लोकात्प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति" इति श्रवणाच्चन्द्रलोकाख्ये स्वर्गे पापिनोऽपि गतिरस्ति । यद्यपि - पापिनस्तत्र भोगो न सम्भवति । तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेया ॥ इति प्राप्ते, ब्रूमः - भोगार्थमेव हि स्वर्गगमनम् । न पञ्चमाहुतिलाभार्थम् , पञ्चमाहुतेर्व्यभिचारित्वात् । द्रोणादीनां योषिदाहुतेरभावात् , सीतादीनां पुरुषाहुतेरप्यभावात् । 'ते सर्वे' इति सर्व श्रुतिस्तु सुकृतिविषया । पापिनां तु यमलोके गतिः श्रुता - "वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्यत" इति । पापजनैर्गन्तव्यं यमं प्रीणयत इत्यर्थः । तस्मात् - न पापिनां स्वर्गे गतिः ॥ (चतुर्थे स्वर्गावरोहे जीवस्याऽऽकाशादितुल्यत्वाधिकरणे सूत्राणि - ) चतुर्थाधिकरणमारचयति - वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ॥
वायुर्भूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 स्ववत्सूक्ष्मो वायुवशो युक्तो धूमादिभिर्भवेत् ॥
अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 स्वर्गादवरोहप्रकार एवं श्रूयते - "अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशम् , आकाशाद्वायुम् , वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽब्भ्रं भवति, अब्भ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति" इति । यथेतं यथागतं तथेत्यर्थः । अत्र स्वर्गादवरोहतो जीवस्याऽऽकाशादिस्वरूपत्वं भवति, 'वायुर्भूत्वा' इति तत्तद्भावप्रतिपत्तेः श्रुतत्वात् ॥ इति प्राप्ते, ब्रूमः - अन्यस्यान्यस्वरूपत्वासम्भवादाकाशप्रतिपत्तिर्नामाऽऽकाशवत्सौक्ष्म्यं रूपं विवक्षितम् । वायुभावो वायुवशता । धूमादिभावो धूमादिभिः सम्पर्कः - इति निर्णयः ॥ (पञ्चमे स्वर्गादवरोहतां त्वराविलम्बाधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ॥
तत्रानियम एव स्यान्नियामकविवर्जनात् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 दुःखं व्रीह्यादिनिर्याणमिति तत्र विशेषितः ॥
विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 प्रवर्षणानन्तरं व्रीह्यादिभाव आम्नायते - "त इह व्रीहियवा औषधिवनस्पतयस्तिलमाषा इति जायन्ते" इति । प्रागेतस्माद् व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्नियामकाभावादनियतिः ॥ इति प्राप्ते, ब्रूमः - व्रीह्यादिभावमभिधायानन्तरम् "अतो वै खलु दुर्निष्प्रपतरम्" इति 'व्रीह्यादिभावान्निर्गमनं दुःशकम्' इति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बनं विशेषयति । ततोऽर्थात् - 'पूर्वं त्वरा' इत्यवसीयते ॥ (षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - व्रीह्यादौ जन्म तेषां स्यात्संश्लोषो वा जनिर्भवेत् ॥
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ॥
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 आकाशादाविव व्रीह्यादौ न संश्लेषमात्रम् । किन्तु - व्रीह्यादिरूपेण मुख्यं जन्मविवक्षितम् , "जायन्ते" इति श्रवणात् । न च – स्वर्गे सुकृतफलमनुभूयावरोहतः पापफलरूपस्य स्थावरजन्मनोऽसम्भवः, तद्धेतोः पशुहिंसादेर्विद्यमानत्वात् । तस्मात् - मुख्यं जन्म ॥ इति प्राप्ते, ब्रूमः - वैधत्वान्न पशुहिंसादितः पापम् । अतः "जायन्ते" इति श्रुत्या संश्लेषमात्रं विवक्षितम् । न तु मुख्यं जन्म, कर्मव्यापारानभिधानात् । यत्र तु मुख्यं जन्म व्यवस्थितम् , तत्र कर्मव्यापारमभिधत्ते - "रमणीयचरणाः, कपूयचरणाः" इति । तस्मात् - स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रम् - इति स्थितम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ६ ९३ सूत्राणि २७ ३१९ (प्रथमे स्वप्नसृष्टेर्मिथ्यात्वाधिकरणे सूत्राणि - ) द्वितीयपादे प्रथमाधिकरणमारचयति - सत्या मिथ्याऽथवा स्वप्नसृष्टिः, सत्या श्रुतीरणात् ॥
जाग्रद्देशाविशिष्टत्वादीश्वरेणैव निर्मिता ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 देशकालाद्यनौचित्याद्बाधितत्वाच्च सा मृषा ॥
अभावोक्तेर्द्वैतमात्रासाम्याज्जीवानुवादतः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 "अथ रथान् , रथयोगान् , पथः सृजते" इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता । अतो वियदादिसृष्टिवद्व्यवहारदशायां सत्या भवितुमर्हति । न च – जाग्रद्देशस्य स्वप्नदेशस्य च कञ्चिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्याद्यर्थक्रियाकारित्वात् । अतो - विमता सृष्टिः सत्या, ईश्वरकर्तृवात् , वियदादिसृष्टिवत् ॥ इति प्राप्ते, ब्रूमः - स्वप्नसृष्टिर्मृषा । कुतः - तदुचितदेशकालाद्यसम्भवात् । न हि केशसहस्रांशपरिमितनाडीमध्ये गिरिनदीसमुद्रादीनामुचितो देशोऽस्ति, महानिशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति । नापि - अनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्तान्युचितानि । किञ्च - स्वप्नोपलब्धानां पदार्थानां स्वप्न एव बाधो दृश्यते - कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेनावसितो भवति । यदुक्तम् - 'स्वप्नसृष्टिं श्रुतिर्ब्रूते' इति । तत्र साऽपि श्रुतिरभावपूर्विकामेव सृष्टिमाह – "न तत्र रथाः, न रथयोगाः, न पन्थानो भवन्ति । अथ रथान् , रथयोगान् , पथः सृजते" इति । अतो 'वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवदवभासन्ते" इति श्रुतेरभिप्रायः । यदपि - जाग्रत्साम्यमुक्तम् । तदप्यप्रयोजकम् , अनुचितदेशकालादेर्भूयसो वैषम्यस्योक्तत्वात् । यदपि - ईश्वरनिर्मितत्वमुक्तम् । तदप्यसत् , "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः" इति जीवस्यैव स्वप्ननिर्मातृत्वेन श्रुत्याऽनूद्यमानत्वात् । तस्मात् - स्वप्नसृष्टिर्मृषा ॥ (द्वितीये सुषुप्तौ जीवस्य हृत्स्थब्रह्मणैक्याधिकरणे सूत्रे - ) द्वितीयाधिकरणमारचयति - नाडीपुरीतद्ब्रह्माणि विकल्प्यन्ते सुषुप्तये ॥
समुच्चितानि वैकार्थ्याद्विकल्प्यन्ते यवादिवत् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 समुच्चितानि नाडीभिरूपसृप्य पुरीतति ॥
हृत्स्थे ब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 "आसु तदा नाडीषु सृप्तो भवति" इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते "ताभिः प्रत्यवसृप्य पुरीतति शेते" इति श्रुतौ पुरीतति तदाश्रितत्वं प्रतीयते । "य एषोऽन्तर्हृदय आकशस्तस्मिञ्छेते" इति श्रुत्यन्तरादाकाशशब्दवाच्यब्रह्माश्रितत्वं प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति, एकप्रयोजनत्वात् । यथा "व्रीहिभिर्यजेत, यवैर्यजेत" इत्यत्र पुरोडाशनिष्पादकत्वस्य प्रयोजनस्यैकत्वेन विकल्प आश्रितः । तथा - अत्रापि सुषुप्त्याख्यं प्रयोजनमेकम् । तस्मात् - 'कदाचित्पुरीतति स्वपिति, कदाचिन्नाडीषु स्वपिति, कदाचिद्ब्रह्मणि' इति नाड्यादीनां विकल्पः ॥ इति प्राप्ते, ब्रूमः - एकप्रयोजनत्वमसिद्धम् । पृथगुपयोगस्य सुवचत्वात् । तथाहि - नाड्यस्तावच्चक्षुरादिषु सञ्चरतो जीवस्य हृदयनिष्ठं ब्रह्म गन्तुं मार्गभूता भविष्यन्ति । अत एव श्रुत्यन्तरे "ताभिः प्रत्यवसृप्य" इति तृतीयया साधनत्वं नाडीनां श्रुतम् । हृदयवेष्टनरूपं तु पुरीतत्प्रासादवदावरकं भविष्यति । ब्रह्म तु मञ्चकवदाधारः । अतो यथा द्वारेण प्रविश्य प्रासादे पर्यङ्के शेते, तथा नाडीभिः प्रत्यवसृप्य पुरीतति ब्रह्मणि जीवः शयिष्यते, इत्युपकारभेदान्नाड्यादीनां समुच्चयः । सुषुप्तौ ब्रह्मणि जीवावस्थाने कुत आधाराधेयभावो न प्रतिभाति - इति चेत् । 'एकीभावात्' इति ब्रूमः । यथा - सोदककुम्भस्तडागजले प्रक्षिप्तो मग्नो न पृथग्भाति, तथा - अन्तः करणोपाधिको जीव आवरकाज्ञानसहिते ब्रह्मणि मग्नत्वान्न पृथगवभासते । अत एव श्रुत्यन्तरे सुषुप्तौ जीवस्य ब्रह्मणा सह तादात्म्यप्रतिपत्तिमाह – "सता सोम्य तदा सम्पन्नो भवति" इति । यस्तु विकल्पस्त्वयोक्तः । सोऽष्टदोषग्रस्तत्वादनुपपन्नः । तथाहि - यदा जीवो नाडीषु सुप्तो भवति, तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तव्यं स्यात् , अप्राप्तं चाप्रामाण्यं स्वीक्रियेत । यदा - पुनः पुरीतद्बह्मणोः शेते, तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत, पूर्वं स्वीकृतं चाप्रामाण्यं परित्यज्येत, इति प्राप्तपरित्यागः, अप्राप्तस्वीकारः, त्यक्तस्वीकारः, स्वीकृतपरित्यागश्च, इति दोषचतुष्टयं पुरीतद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये योजिते सत्यष्टौ दोषाः सम्पद्यन्ते । तस्मात् - समुच्चय एव ग्राह्यः, नतु विकल्पः ॥ (तृतीये सुप्तस्यैव जागरणाधिकरणे सूत्रम् - ) तृतीयाधिकरणमारचयति - यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा ॥
उदबिन्दुरिवाशक्तेर्नियन्तुं कोऽपि बुध्यते ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 कर्माविद्यापरिच्छेदादुदबिन्दुविलक्षणः ॥
स एव बुध्यते शास्त्रात्तदुपाधेः पुनर्भवात् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 यथा समुद्रे प्रक्षिप्तो (यो) जलबिन्दुः, स एव नियमेन पुनरुद्धर्तुमशक्यः । तथा सुषुप्तौ ब्रह्म प्राप्तो (यो) जीवः, स एव बुध्यत इति नियन्तुमशक्यत्वात् - यः कोऽपि बुध्यते । इति प्राप्ते, ब्रूमः - विषम उपन्यासः । 'चिद्रूपो जीवः कर्माविद्यावेष्टितो ब्रह्मणि निमज्जति । उदबिन्दुस्त्ववेष्टितः' इति वैषम्यम् । यथा गङ्गोदकपरिपूर्णः पिहितद्वारः काञ्चनकुम्भः समुद्रे निक्षिप्तः पुनरुद्धियते, तत्रत्यं गङ्गाजलं तदेव पुनर्विवेक्तुं शक्यते, तथा स एव जीवः प्रतिबुध्यताम् । अत एव श्रुतिराह – "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तत्तदा भवन्ति" इति । 'व्याघ्रादयो ये जीवाः सषुप्तेः पूर्वं यच्छरीरं प्राप्य वर्तन्ते, त एव जीवाः सुषुप्तेरुपरि प्रबुध्यमानास्तदेव शरीरं प्राप्नुवन्ति' इत्यर्थः न च – सुषुप्तौ ब्रह्म प्राप्तस्य जीवस्य मुक्तवत्पुनरुद्भवानुपपत्तिः, अवच्छेदकस्योपाधेः सत्त्वेन तदुद्भवे जीवोद्भवसम्भवात् । तस्मात् - यः सुप्तः स एव प्रतिबुध्यते ॥ (चतुर्थे मूर्छाया अवस्थान्तरताधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - किं मूर्छैका जाग्रदादौ किंवाऽवस्थान्तरं भवेत् ॥
अन्याऽवस्था न प्रसिद्धा तेनैका जाग्रदादिषु ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 न जाग्रत्स्वप्नयोरेका द्वैताभानान्न सुप्तता ॥
मुखादिविकृतेस्तेनावस्थाऽन्या लोकसंमता ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 जाग्रत्स्वप्नसुषुप्तिभ्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्मूर्छाया जाग्रदादावन्तर्भावः ॥ इति प्राप्ते, ब्रूमः - परिशेषादवस्थान्तरमभ्युपेयम् । न तावज्जाग्रत्स्वप्नयोरन्तर्भावः द्वैतप्रतीत्यभावात् । नापि सुषुप्तौ, विलक्षणत्वात् । सुप्तः पुमान्प्रसन्नवदनः समश्वासो निष्कम्पशरीरो भवति, मूर्छितस्तु विकृतमुखो विषमश्वासः शरीरकम्पादियुक्तः । यद्यपि जाग्रदादिवद्दैनन्दिनत्वाभावान्न मूर्छाया बालकादिषु प्रसिद्धिरस्ति, तथाऽपि कादाचित्कीं मूर्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । तस्मात् - अन्येयमवस्था ॥ तदेवमधिकरणचतुष्टयेन त्वम्पदार्थः शोधितः । तत्र स्वप्नसृष्टेर्मिथ्यात्वेन सुखदुःखकर्तृत्वाद्यवभासेऽपि जीवोऽसङ्ग एवेति शोधितम् । सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गत्वमनुभावितम् । तस्यैव पुनः प्रतिबोधेनानित्यत्वाशङ्का निराकृता । मूर्छाविचारेण श्वासादिसर्वव्यवहारलोपेऽपि मरणे जीवनाशो नाऽऽशङ्कनीयः इति दर्शितम् ॥ (पञ्चमे ब्रह्मणो नीरूपत्वाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - ब्रह्म किं रूपि चारूपं भवेन्नीरूपमेव वा ॥
द्विविधश्रुतिसद्भावाद्ब्रह्म स्यादुभयात्मकम् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 नीरूपमेव वेदान्तैः प्रतिपाद्यमपूर्वतः ॥
रूपं त्वनूद्यते भ्रान्तमुभयत्वं विरुध्यते ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "तदेतच्चतुष्पाद्ब्रह्म" इत्यादिश्रुतयो रूपवद्ब्रह्म प्रतिपादयन्ति । "अस्थूलमनणु" - इत्यादिश्रुतयो नीरूपम् । तस्मात् - वस्तुत उभयात्मकं ब्रह्म ॥ इति प्राप्ते, ब्रूमः - नीरूपमेव शास्त्रप्रतिपाद्यम् , मानान्तरासिद्धत्वात् । जगत्कर्तृत्वादिरूपयुक्तं तु ब्रह्म 'क्षित्यादिकं सकर्तृकं कार्यत्वात्' इत्यनुमानेनाप्यवगन्तुं शक्यते । अत एवोपासनायानूद्यते, न तु तात्पर्येण प्रतिपाद्यते । न च - अनुमानशास्त्रसिद्धयोरुभयोर्वास्तवत्वम् , एकस्मिन्वस्तुनि सरूपत्वनीरूपत्वयोर्विरुद्धत्वात् । तस्मात् - अतात्पर्यविषयस्य सरूपत्वस्य भ्रान्तत्वान्नीरूपमेव वस्तुतो ब्रह्म ॥ (षष्ठे ब्रह्मणो निराकरणाविषयत्वाधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - ब्रह्मापि नेति नेतीति निषिद्धमथवा न हि ॥
द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 वीप्सेयमितिशब्दोक्ता सर्वदृश्यनिषिद्धये ॥
अनिदं सत्यसत्यं च ब्रह्मैकं शिष्यतेऽवधिः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च" इत्येतस्मिन्ब्राह्मणे महता प्रबन्धेन पृथिव्यप्तेजोलक्षणं र्मूतरूपम्, वाय्वाकाशलक्षणममूर्तरूपं प्रपञ्च्य तदन्ते ब्रह्मोपदेष्टुमिदमुक्तम् - "अथात आदेशो नेति नेति" इति । अस्यायमर्थः - 'अथ रूपद्वयकथनानन्तरमरूपिणो ब्रह्मणो वक्तव्यत्वात् 'नेति, नेति' इत्ययं ब्रह्मोपदेशः' इति । तत्र पूर्वपक्षी मन्यते - प्रथमनेतिशब्देन जगत एकस्यैव निषेध्यत्वे द्वितीयो 'नेति' शब्दो निरर्थकः स्यात् । अतो द्वितीयेन ब्रह्मापि निषिध्यते ॥ इति प्राप्ते, ब्रमः - न तावद्वितीयस्य निषेधस्य वैयर्थ्यम् , वीप्सार्थत्वात् । सत्यां च वीप्सायां यद्यद्दृृश्यते, इति शब्दनिर्देशार्हं च, तत्सर्वं ब्रह्म न भवति - इति निषिद्धं भविष्यति । विना तु वीप्सामेकेन नकारेण मूर्तामूर्तयोः प्रकृतत्वेनेतिशब्दनिर्देशार्हयोर्निषेधे सति मूर्ताद्यभावस्य मूलाज्ञानस्य चानिषिद्धत्वात्तयोर्ब्रह्मत्वं प्रसज्येत । ननु - सत्यामपि वीप्सायामस्त्येव दोषः, वीप्साया निरङ्कुशत्वाद्ब्रह्मापि निषिध्यते - इति । तन्न, ब्रह्मणो दृश्यत्वाभावेन निषेध्यसमर्पकेतिशब्दानर्हत्वात् । किञ्च – "अथात आदेशः" इति महता संभ्रमेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषेधन्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे सङ्गच्छते । वाक्यशेषे च "अथ नामधेयं सत्यस्य सत्यम्" इत्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्याद्गिरिनदीसमुद्रादेरधिकमात्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् । तस्मात् - न ब्रह्म निषिध्यते ॥ (सप्तमे ब्रह्मातिरिक्तवस्तुनिराकरणाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - वस्त्वन्यद्ब्रह्मणो नो वा विद्यते ब्रह्मणोऽधिकम् ॥
सेतुत्वोन्मानवत्त्वाच्च सम्बन्धाद्भेदवत्त्वतः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 धारणात्सेतुतोन्मानमुपास्त्यै भेदसङ्गती ॥
उपाध्युद्भवनाशाभ्यां नान्यदन्यनिषेधतः ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 यदेतद्ब्रह्म "नेति नेति" इति दृश्यप्रतिषेधेन व्यवस्थापितम् , तस्मादपि ब्रह्मणोऽन्यद्वस्त्वस्ति - इत्यभ्युपगन्तव्यम् । कुतः - सेतुत्वादिव्यपदेशेभ्यः । "अथ य आत्मा स सेतुर्विधृतिः" इति सेतुत्वं व्यपदिश्यते । तत्र यथा लोके पारावारवाञ्जलस्य विधारकः सेतुः, तं च सेतुं तीर्त्वा द्वितीयं जाङ्गलं प्रतिपद्यते । तथा - ब्रह्मणोऽपि सेतुत्वेन जगद्विधारकत्वाद्ब्रह्म तीर्त्वा गन्तव्येनान्येन केनचिद्भवितव्यम् । तथा - उन्मानव्यपदेशोऽपि ब्रह्मणः श्रूयते - "चतुष्पाद्ब्रह्म, षोडशकलं ब्रह्म" इति । तच्चोन्मानं सद्वितीये गवादौ दृष्टचरम् , न त्वद्वितीये कुत्रचित् । तथा - सम्बन्धव्यपदेशोऽपि ब्रह्मणः श्रूयते - "सता सोम्य तदा सम्पन्नो भवति" इति । स च सम्बन्धः सद्रूपाद्ब्रह्मणोऽन्यस्य विद्यमानतायामवकल्प्यते । तथा - "आत्मा वा अरे द्रष्टव्यः" इति द्रष्टृद्रष्टव्यभेदव्यपदेशोऽपि । तस्मात् - नाद्वितीयं ब्रह्म ॥ इति प्राप्ते, ब्रूमः - न तावद्ब्रह्मणः सेतुत्वं मुख्यं सम्भवति, मृद्दारुमयत्वप्रसङ्गात् । केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्षितम् । न तु - सद्वितीयत्वम् , "सेतुर्विधृतिः" इति श्रवणात् । उन्मानं तूपास्त्यै व्यपदिश्यते, तत्प्रकरणत्वात् । न तु तत्त्वावबोधार्थम् । भेदव्यपदेशश्चोपाध्युद्भवमपेक्ष्य घटाकाशमहाकाशवदुपपद्यते । सम्बन्धव्यपदेशश्चोपाधिनाशमपेक्ष्य घटभङ्गे घटाकाशमहाकाशवदुपचर्यते । तस्मात् - ब्रह्मव्यतिरिक्तवस्तुसाधकहेतूनामन्यथासिद्धत्वात् "एकमेवाद्वितीयं ब्रह्म" इत्यन्यवस्तुनिषेधाच्चाद्वितीयमेव ब्रह्म ॥ (अष्टमे कर्माराधितेश्वरस्यैव फलदातृत्वाधिकरणे सूत्राणि - ) अष्टमाधिकरणमारचयति - कर्मैव फलदं यद्वा कर्माराधित ईश्वरः ॥
अपूर्वावान्तरद्वारा कर्मणः फलदातृता ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अचेतनात्फलासूतेः शास्त्रीयात्पूजितेश्वरात् ॥
कालान्तरे फलोत्पत्तेर्नापूर्वपरिकल्पना ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 अनुक्षणविनाशिनोऽपि कर्मणोऽपूर्वव्यवधानेनापि कालान्तरभाविफलदातृत्वसम्भवादीश्वरकल्पने गौरवम् ॥ इति प्राप्ते, ब्रूमः - अचेतनस्य कर्मणोऽपूर्वस्य वा तारतम्येन प्रतिनियतं फलं दातुं न सामर्थ्यमस्ति, लोके सेवादिक्रियायामचेतनायां तददर्शनात् । ततः सेवितराजवत्पूजितेश्वरात्फलसिद्धिरभ्युपेया । न च - कल्पनागौरवम् , शास्त्रसिद्धत्वेनेश्वरस्या कल्पनीयत्वात् । "एष ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तम् , यमधो निनीषते" इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फलदातृत्वम् , तत्कारयितृत्वं चाभिदधाति । सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्युताश्रुतस्यापूर्वस्य कल्पने गौरवं भवेत् । तस्मात् - कर्मभिराराधित ईश्वरः फलदाता ॥ तदेवमधिकरणचतुष्टयेन तत्पदार्थः शोधितः । तत्र प्रथमेन ब्रह्मणो नीरूपत्वम् , द्वितीयेन निषेधाविषयत्वम् , तृतीयेनाद्वितीयत्वम् , चतुर्थे न व्यवहारदशायां कर्मफलदातृत्वम् , शाखाग्रचन्द्रन्यायेनोपलक्षणत्वाय प्रतिपादितम् । इत्येवं तत् - त्वम्पदार्थौ शोधितौ इति स्थितम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां
वैयासिकन्यायमालायां तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ८ १०१ सूत्राणि ४१ ३६० (प्रथमे सर्ववेदान्तप्रत्ययोपासनाया एकत्वाधिकरणे सूत्राणि - ) तृतीयपादस्य प्रथमाधिकरणमारचयति - सर्ववेदेष्वनेकत्वमुपास्तेरथवैकता ॥
अनेकत्वं कौथुमादिनामधर्मविभेदतः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 विधिरूपफलैकत्वादेकत्वं नाम न श्रुतम् ॥
शिरोव्रताख्यधर्मस्तु स्वाध्याये स्यान्न वेदने ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्यबृहदारण्यकयोः - पञ्चाग्न्युपासनमाम्नायते । तदेकं न भवति । नाम भेदात् । 'कौथुमम्' इति च्छान्दोग्यगतस्य नाम, 'वाजसनेयकम्' इति बृहदारण्यकगतस्य नाम । तथोपासनान्तरेषु योजयितव्यम् । धर्मभेदोऽप्युपासनाभेदगमकः शिराव्रतलक्षणो मुण्डकव्रतशाखायां श्रूयते - "तेषामेवैतां ब्रह्मविद्यां वदेत् , शिरोव्रतं विधिवद्यैस्तु चीर्णम्" इति । शिरोव्रतं नाम वेदव्रतविशेष आथर्वणिकान्प्रति विहितो, नेतरान्प्रति । तस्मात् - शाखाभेदादुपासनाभेदः ॥ इति प्राप्ते, ब्रूमः - शाखाभेदेऽपि विद्याद्यभेदादुपासनं न भिद्यते । तथा च च्छान्दोग्ये - "यो ह वै ज्येष्ठं च श्रेष्ठं च वेद" इति यादृशः प्राणविद्याविधिः, तादृश एव बृहदारण्यकेऽप्याम्नायते । तथा - द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यमग्निपञ्चकं वेद्यतया । पञ्चाग्निविद्यायां यत्स्वरूपम् , तदुभयोरपि शाखयोः समानम् । फलं च "ज्येष्ठश्च ह वै श्रेष्ठश्च भवति" इत्येवंरूपं प्राणोपास्तिजन्यं शाखाद्वयेऽप्येकविधम् । यस्तु कौथुमादिनामभेद उदाहृतः, नासौ श्रुत्याऽभिहितः । किं तर्हि - अध्येतार एव केवलं तत्तच्छाखाप्रवर्तकमुनिनाम्ना तं तं वेदं व्याहरन्ति । योऽपि शिरोव्रताख्यधर्मभेद उक्तः, सोऽप्यध्ययनविषय एव । नतूपास्तिविषयः, "नैतदचीर्णव्रतोऽधीते" इत्यध्ययनधर्मत्वावगमात् । तस्मात् - ऐक्यहेतुसद्भावात् , भेदहेत्वभावाच्च न शाखाभेदादुपासनं भिद्यते ॥ (द्वितीये शाखान्तरोक्तस्याप्युपसंहाराधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - एकोपास्तावनाहार्या आहार्या वा गुणाः श्रुतौ ॥
अनुक्तत्वादनाहार्या उपकारः श्रुतैर्गुणैः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतत्वादन्यशाखायामाहार्या अग्निहोत्रवत् ॥
विशिष्टविद्योपकारः स्वशाखोक्तगुणैः समः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 वाजसनेयके - प्राणविद्यायामधिको गुणो रेतआख्यः श्रुतः - "रेतो होच्चक्राम" इति । नासौ छान्दोग्ये - प्राणविद्यायामुपसंहर्तव्यः, अत्रानुक्तत्वात् । विद्योपकारस्त्वत्र श्रुतैरेव प्राणवागादिभिर्गुणैर्भविष्यति ॥ इति प्राप्ते, ब्रूमः - एतच्छाखायामश्रवणेेऽपि शाखान्तरे श्रुतत्वादुपसंहार्य एव । अग्निहोत्राद्यनुष्ठानेषु शाखान्तरोक्तगुणयुक्ततयैवानुष्ठानदर्शनात् । न च – स्वशाखोक्तगुणैरेव विद्योपकारसिद्धौ गुणोपसंहारो निरर्थकः - इति वाच्यम्, 'कर्मभूयस्त्वात्फलभूयस्त्वम्' इति न्यायेन स्वशाखोक्तगुणवत्परशाखोक्तगुणानामप्युपकारकत्वात् । तस्मात् - गुणोपसंहारः कर्तव्यः ॥ (तृतीये, उद्गीथविद्याया भिन्नताधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - एका भिन्नाऽथवोद्गीथविद्या छान्दोग्यकाण्वयोः ॥
एका स्यान्नामसामान्यात्सङ्ग्रामादिसमत्वतः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 उद्गीथावयवोङ्कार उद्गातेत्युभयोर्भिदा ॥
वेद्यभेदेऽर्थवादादिसाम्यमत्राप्रयोजकम् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 'उद्गीथविद्या' इति समाख्याया एकत्वाच्छान्दोग्यकाण्वशाखयोर्विद्यैक्यमुचितम् । अथ समाख्या न श्रौती, तथाऽपि - श्रौताः सङ्ग्रामादय उभयत्र समानाः । तथाहि - छान्दोग्ये देवासुरभावं क्रमेण सात्त्विकेन्द्रियवृत्तीनां तामसेन्द्रियवृत्तीनां चाङ्गीकृत्य तत्सङ्ग्रामं निरूप्य वागादिदेवानामसुरविद्धत्वमुक्त्वा प्राणस्यैव तदविद्धत्वमुक्तम् । एतत्सर्वं काण्ववेदेऽपि समानम् । तस्मात् - उभयत्र विद्यैक्यम् ॥ इति प्राप्ते, ब्रूमः - भिन्नेयमुद्गीथविद्या वेद्यस्वरूपभिन्नत्वात् । छान्दोग्ये तावत्सामभागविशेषस्योद्गीथस्यावयव ओङ्कारः । स एव प्राणदृष्ट्योपासनीयः । काण्ववेदेतु कृत्स्नोद्गीथभक्तेर्य उद्गाता वागिन्द्रयप्रेरकः प्राणः, स उद्गातृत्वेनोपास्य इति वेद्यभेदः । यत्तु - सङ्ग्रामादिसाम्यमुक्तम् । तदप्रयोजकम् , अर्थवादत्वात् । यदपि प्राणस्यासुरविद्धत्वाभावेन श्रेष्ठत्वम् । तद्यद्यप्युपास्यम् , तथाऽप्युक्तस्य वेद्यभेदस्यानिराकरणात् - भिन्नैवोद्गीथविद्या ॥ (चतुर्थे, उद्गीथस्योङ्कारविशेषणत्वाधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - किमध्यासोऽथवा बाध ऐक्यं वाऽथ विशेष्यता ॥
अक्षरस्यात्र मास्त्यैक्यं नियतं हेत्वभावतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 वेदेषु व्याप्त ओङ्कार उद्गीथेन विशेष्यते ॥
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 "ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते । तत्र चतुर्धा संशयः । तथाहि - "नाम ब्रह्मेत्युपासीत" इत्यत्र नाम्नि ब्रह्मदृष्ट्यध्यासाय सामानाधिकरण्यं श्रुतम् । तथा - बाधादिष्वप्युदाह्नियते । "यश्चौरः स स्थाणुः" इति चौरत्वस्य बाधः । "यो जीवस्तद्ब्रह्म" इत्येकत्वम् । 'यन्नीलं तदुत्पलम्' इति विशेष्यता । अतोऽक्षरस्य चतुर्धा सन्देहे सति 'इदमेव' इत्यत्र नास्त्यध्यवसायः, नियामकस्य हेतोरभावात् ॥ इति प्राप्ते, ब्रूूमः - अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओङ्कारो हि ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र 'कस्योपास्यत्वम्' इत्यपेक्षायाम् , 'उद्गीथभागस्थितस्य, न त्वितरस्य' इति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं प्रसज्येत, स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात् । विशेषणपक्षे तु वक्ष्यमाणरसतमत्वादिगुणोपासनाय प्रतीकत्वेनोङ्कार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम् । ततो न पृथक्फलं कल्पनीयम् । ननु - उद्गीथशब्दः कृत्स्नभक्तिवाचकः । अोङ्कारस्तु तदवयवः । एवं चोङ्कारं विशेष्टुमुद्गीथशब्देन तदंशलक्षणा स्वीकरणीया स्यात् । बाढम् । तथाऽप्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं परित्यज्यार्थान्तरभूतां शिलाप्रतिमां लक्षयति, तथोद्गीथशब्दोऽपीति विप्रकर्षः । अंशलक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः । अोङ्कारादितरदक्षरजातं यदस्ति सोऽयं परित्यक्तव्यस्तदेकदेशः । तस्मात् - वेदान्तरगतोङ्कारव्यावृत्त्यर्थमुद्गीथावयवत्वेनैतदक्षरं विशिष्यते ॥ (पञ्चमे वसिष्ठत्वादीनामाहार्यताधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - वसिष्ठत्वाद्यनाहार्यमाहार्यं वैवमित्यतः ॥
उक्तस्यैव परामर्शादनाहार्यमनुक्तितः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणद्वारेण बुद्धिस्थं वसिष्ठत्वादि तेन तत् ॥
एवंशब्दपरामर्शयोग्यमाहार्यमिष्यते ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 प्राणविद्यायां छन्दोगाः काण्वाश्च वसिष्ठत्वप्रतिष्ठादिकान्गुणानामनन्ति, न त्वैतरेयककौषीतक्यादयः । तत्र वसिष्ठत्वादिकं नोपसंहर्तव्यम् । कुतः - "य एवं वेद" इत्येवंशब्देन तत्तच्छाखोक्तगुणानामेव परामर्शात् ॥ इति प्राप्ते, ब्रूमः - उक्तगुणवदनुक्ता अपि गुणा एवंशब्दपरामर्शयोग्याः । कुतः - गुणिनः प्राणस्यैकत्वेन तद्द्वारा गुणाना बुद्धिस्थत्वात् । यथा - देवदत्तो मथुरायामध्यापयन्दृष्टः, पुनर्माहिष्मत्यामनध्यापयन्नप्यध्यापकत्वेनैव प्रत्यभिज्ञायते । तथा छान्दोग्यादौ वसिष्ठत्वादिगुणयुक्ततयोपलब्धः, पुनरैतरेयादौ केवल उपलभ्यमानोऽपि तद्गुणविशिष्टतयैव बुद्धिस्थो भवेत् ॥ तस्मात् - एवंशब्दपरामर्शयोग्यत्वाद्वसिष्ठत्वादिकमुपसंहर्तव्यम् ॥ (षष्ठे, आनन्दादीनामुपसंहाराधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - नाऽऽहार्या उत वाऽऽहार्या आनन्दाद्या अनाहृतिः ॥
वामनीसत्यकामादेरिवैतेषां व्यवस्थितेः ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 विधीयमानधर्माणां व्यवस्था स्याद्यथाविधि ॥
प्रतिपत्तिफलानां तु सर्वशाखासु संहृतिः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "आनन्दो ब्रह्म" "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यानन्दसत्यत्वादयस्तैत्तिरीयके परब्रह्मविद्यायां पठ्यन्ते । ते "प्रज्ञानं ब्रह्म" इत्याद्यैतरेयकादिप्रोक्तासु परब्रह्मविद्यासु नोपसंहर्तव्याः । वामनीत्वादिवद्व्यवस्थोपपत्तेः । "एष उ एव वामनीः, एष उ एव भामनीः" इति कामनेतृत्वभासकत्वादयो गुणा उपकोसलविद्यायामाम्नाताः । "सत्यकामः सत्यसङ्कल्पः" इति सत्यकामादयो गुणा दहरविद्यायां समाम्नाताः । तत्र यथा परस्परं गुणानुपसंहारः, एवमानन्दादीनां व्यवस्थाऽस्तु ॥ इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । वामनीत्वादिना ध्येयत्वेन विधीयमानत्वाद्यथाविधि व्यवस्था युक्ता । आनन्दादयस्तु प्रतिपत्तिफला इति न विधीयन्ते । अतो व्यवस्थापकविध्यभावात्प्रतिपत्तिफलस्य सर्वत्र समानत्वाच्चाऽऽनन्दादय उपसंहर्तव्याः ॥ (सप्तमे पुरुषस्यैव ज्ञेयताधिकरणे सूत्रे - ) सप्तमाधिकरणमारचयति - सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा ॥
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतो महान् ॥
तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमांस्ततः ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 कठवल्लीषु पठ्यते - "इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति" । अस्यायमर्थः - "मनसा विषयानभिलष्य पश्चादिन्द्रियैर्बाह्यन्विषयानाप्नोति" । तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम् । इन्द्रियेभ्यश्चाभिलष्यमाणत्वदशापन्ना अर्था आन्तराः । तेभ्योऽप्यभिलाषात्मिका मनोवृत्तिरान्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्ध्युपादानभूतो महच्छब्दवाच्यो हैरण्यगर्भरूपात्माऽऽभ्यन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञानमाभ्यन्तरम् । अव्यक्तादपि तदधिष्ठानभूतश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न किञ्चिदस्ति । पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः, 'पुरुषार्थकामैः परमो गन्तव्यश्च' इति । तत्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाद्यः, एवमिन्द्रियादिपरम्पराऽपि प्रतिपाद्यैव । अन्यथा - तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यात् - इति चेत् । बाढम् । सन्त्येव तानि बहूनि वाक्यानि, एकवाक्यत्वासम्भवात् ॥ इति प्राप्ते, ब्रूमः - पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः । अत एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः - "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः" इति । अस्यायमर्थः - 'सर्वाभ्यन्तरत्वेन गूढोऽयमात्मा बहिर्मुखानां न प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनैकाग्र्यमापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यते' इति । न च – पुरुषस्यैव प्रतिपाद्यत्वे परम्परोपदेशवैयर्थ्यम् , बहिर्मुखस्य चित्तस्य पुरुषप्रवेशं प्रति परम्परायाः साधनत्वात् । तस्मात् - पुरुष एव ज्ञातव्यः ॥ (अष्टमे, ईश्वरस्यैवाऽऽत्मशब्दवाच्यताधिकरणे सूत्रे - ) अष्टमाधिकरणमारचयति - आत्मा वा इदमित्यत्र विराट् स्यादथवेश्वरः ॥
भूतासृष्टेर्नेश्वरः स्याद्गवाद्यानयनाद्विराट् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 भूतोपसंहृतेरीशः स्यादद्वैतावधारणात् ॥
अर्थवादो गवाद्युक्तिर्ब्रह्मात्मत्वं विवक्षितम् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 "आत्मा वा इदमेक एवाग्र आसीत्" इत्यत्र विराडेवाऽऽत्मशब्दवाच्यः, नेश्वरः । कुतः - "स ऐक्षत – लोकान्नु सृजै" - इति पञ्चभूतसृष्टिमनुक्त्वा लोकमात्रसृष्टेरभिधानात् । ईश्वरप्रकरणे तैत्तिरीयच्छान्दोग्यादिषु भूतसृष्ट्यभिधानदर्शनात् । "ताभ्यो गामानयत्" इति प्रोक्तं गवाद्यानयनं शरीरिणो विराजो घटते, न त्वशरीरस्य परमेश्वरस्य ॥ इति प्राप्ते, ब्रूमः - "एक एवाग्र आसीत्" इत्यद्वैतावधारणादीश्वरोऽत्राऽऽत्मशब्दार्थः । तथाच सति शाखान्तरोक्तभूतसृष्टिरत्रोपसंहर्तुं शक्यते । यत्तु - गवाद्यानयनम् । तदर्थवादरूपम् । तद्वेदनस्य स्वातन्त्र्येण पुरुषार्थत्वाभावात् । अथ – भूतार्थवादत्वं मन्येथाः, । तर्हि विराडादिद्वारा परमेश्वर एव गवादिकमानयतु अथ – श्रूयमाणस्य गवानयनप्रपञ्चस्यार्थवादत्वे श्रुतेर्विवक्षितार्थः कोऽपि न सिध्येत् - इति चेत् । न, जीवब्रह्मैक्यस्य विवक्षितत्वात् । "आत्मा वै" - इत्युपक्रम्य "स एतमेव पुरुषं ब्रह्म ततममपश्यत् । प्रज्ञानं ब्रह्म" इत्युपसंहारात् । तस्मात् - ईश्वर एवाऽऽत्मशब्दवाच्यः । द्वितीयवर्णकमाह - द्वयोर्वस्त्वन्यदेकं वा काण्वच्छान्दोग्यषष्ठयोः ॥
उभयत्र पृथग्वस्तु सदात्मभ्यामुपक्रमात् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 साधारणोऽयं सच्छब्दः स आत्मा तत्त्वमित्यतः ॥
वाक्यशेषादात्मवाची तस्माद्वस्त्वेकमेतयोः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 काण्वषष्ठाध्याये "कतम आत्मा" इत्यारभ्याऽऽत्मा प्रपञ्चितः । छान्दोग्यषष्ठे तु "सदेव सोम्येदमग्र आसीत्" इत्युपक्रम्य सद्वस्तु प्रपञ्चितम् । न हि लोके सच्छब्दात्मशब्दौ पर्यायौ । तस्मात् - वस्तुभेदः ॥ इति प्राप्ते, ब्रूमः - सच्छब्दोऽयमात्मानात्मसाधारणत्वात्सन्दिग्धः । स च वाक्यशेषे "स आत्मा, तत्त्वमसि" इति श्रवणादात्मवाची भविष्यति । तस्मात् - एकमेवोभयत्र वस्तु ॥ (नवमे प्राणविद्यायामनग्नताबुद्धेरेव विधेयत्वाधिकरणे सूत्रम् - ) नवमाधिकरणमारचयति - अनग्नबुद्ध्याचमने विधेये बुद्धिरेव वा ॥
उभे अपि विधीयेते द्वयोरत्र श्रुतत्वतः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 स्मृतेराचमनं प्राप्तं प्रायत्यार्थमनूद्य तत् ॥
अनग्नतामतिः प्राणविदोऽपूर्वां विधीयते ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 प्राणविद्यायां वाक्यशेषे श्रूयते - "अशिष्यन्नाचामेत् , आशित्वा चाऽऽचामेत् । एवमेव तदनमनग्नं कुरुते " इति । तत्र प्राणस्यानग्नताबुद्धिः, आचमनञ्च, इत्युभयं विधेयम् । द्वयोः श्रुतत्वात् ।। इति प्राप्ते, ब्रूमः -"अप्राप्ते शास्त्रमर्थवत्" इति न्यायेन मानान्तराप्राप्तमनग्नताचिन्तनमेव विधेयम् । 'भोजनात्प्रागूर्ध्वं चाऽऽचमनीयास्वप्सु वासोबुद्धिं कृत्वा तेन वाससा प्राणस्यानग्नत्वं ध्यायेत्' इत्यर्थः । आचमनं तु शुद्ध्यर्थतया स्मृतिबलादेव प्राप्तम् - इति न विधीयते । न च – तस्याः स्मृतेरियं श्रुतिर्मूलम् - इति शङ्कनीयम् , वर्णाश्रमधर्मप्रकरणत्वाभावेन भिन्नविषयत्वात् । मूलभूतं तु श्रुत्यन्तरमनुमेयम् । तस्मात् - आचमनस्य प्राप्तत्वादनग्नताबुद्धिरेव प्राणोपासकं प्रति विधेया ॥ (दशमे शाण्डिल्यविद्यायाः समानताधिकरणे सूत्रम् - ) दशमाधिकरणमारचयति - शाण्डिल्यविद्या काण्वानां द्विविधैकविधाऽथवा ॥
द्विरुक्तेरेकशाखायां द्वे विद्ये इति गम्यते ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 एका मनोमयत्वादिप्रत्यभिज्ञानतो भवेत् ॥
विद्याया विधिरेकत्र स्यादन्यत्र गुणे विधिः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 काण्वानामग्निरहस्यब्राह्मणे शाण्डिल्यविद्या पठ्यते - "स आत्मानमुपासीत मनोमयं प्राणशरीरम्" इति । तथा - तेषामेव बृहदारण्यके सैव विद्या पठिता - "मनोमयोऽयम्पुरुषो भाःसत्यः" इति । तत्र पौनरुक्त्यभयाद्विद्याभेदः ॥ इति प्राप्ते, ब्रूमः - मनोमयत्वादिकस्य वेद्यस्वरूपस्य प्रत्यभिज्ञानादेकैव विद्या । न च – पुनरुक्तिः, एकत्र विद्यां विधायापरत्र तदनुवादेन सत्यत्वसर्वेशानत्वादिगुणानां विधातुं शक्यत्वात् । "अग्निहोत्रं जुहोति, दध्ना जुहोति" इत्यादिवत् । तस्मात् - एकविधैव शाण्डिल्यविद्या ॥ (एकादशे नाम्नोर्व्यवस्थाधिकरणे सूत्राणि - ) एकादशाधिकरणमारचयति - संहारः स्याद्व्यवस्था वा नाम्नोरहरहं त्विति ॥
विद्यैकत्वेन संहारः स्यादध्यात्माधिदैवयोः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 तस्योपनिषदित्येवं भिन्नस्थानत्वदर्शनात् ॥
स्थितासीनगुरूपास्त्योरिव नाम्नोर्व्यवस्थितिः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके सत्यविद्यायामाधिदैविकस्य पुरुषस्याऽऽदित्यस्य 'अहः' इत्येतन्नाम ध्यानायोपदिश्यते । आध्यात्मिकस्य त्वक्षिपुरुषस्य 'अहम्' इत्येतन्नाम । तत्र – विद्यैकत्वेन द्वयोर्नाम्नोः पुरुषद्वय उपसंहारः ॥ इति प्राप्ते, ब्रूमः - "य एष तस्मिन्मण्डले पुरुषः" इत्युपक्रम्य "तस्योपनिषदहः" इति तच्छब्देन मण्डलस्थमेव परामृश्य तस्यैव नामविशेष उपदिष्टः । तथा - "योऽयं दक्षिणेऽक्षन्पुरुषः" इत्युपक्रम्य "तस्योपनिषदहम्" इति तच्छब्देनाक्षिनिष्ठमेव परामृश्य नामविशेष उपदिष्टः । अतो विद्यैकत्वेन वेद्यस्य सत्याख्यस्य ब्रह्मण एकत्वेऽपि स्थानविशेषे कटाक्षेण नामविधानादाध्यात्मिकाधिदैविकयोर्व्यवस्थिते नामनी । न तु तयोरुपसंहारोऽस्ति । यथा लोके गुरोरुपास्यस्यैकत्वेऽपि तिष्ठतो गुरोर्य उपचारः, नासावासीनस्य युज्यते । आसीनस्य य उपचारः पादाभ्यङ्गादिः, नासौ तिष्ठतो भवति, तद्वत् ॥ तस्मात् - नाम्नोर्व्यवस्था द्रष्टव्या ॥ (द्वादशे सम्भृत्यादीनामनुपसंहाराधिकरणे सूत्रम् - ) द्वादशाधिकरणमारचयति - आहार्या वा न वाऽन्यत्र सम्भृत्यादिविभूतयः ॥
आहार्या ब्रह्मधर्मत्वाच्छाण्डिल्यादाववारणात् ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 असाधारणधर्माणां प्रत्यभिज्ञाऽत्र नास्त्यतः ॥
अनाहार्या ब्रह्ममान्नसम्बन्धोऽतिप्रसञ्जकः ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 राणायनीयानां खिलेषु पठ्यते - "ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माऽग्रे ज्येष्ठं दिवमाततान" इति । अस्यायमर्थः - यानि लोके वीर्याणि हरिहरकमलासनादिदेहेषु प्रसिद्धानि, तानि सर्वाणि ब्रह्मपुरः सराण्येव सम्भृतानि सम्भवन्ति । नहि सशक्तिकं ब्रह्मानपेक्ष्य वीर्याणि सम्भवन्ति । तच्च ब्रह्म ज्येष्ठं ब्रह्म पूर्वं दिवं व्याप्यावस्थितम् इति । अत्र – आधिदैविकस्य ब्रह्मणः सम्भृतिद्युव्याप्त्यादयो गुणा उपास्यत्वेनावगम्यन्ते । शाण्डिल्यादिदहरादिविद्यास्वाध्यात्मिकं हृदयान्तर्वर्ति ब्रह्मोपास्यतया श्रुतम् । तत्र – ब्रह्मण एकत्वात्सम्भृत्यादयो गुणाः शाण्डिल्यदहरादिविद्यासूपसंहर्तव्याः ॥ इति प्राप्ते, ब्रूमः - न तावत्सम्भृत्यादिगुणानामन्यतमोऽपि शाण्डिल्यादिविद्यासूपलभ्यते । अतो विद्यैकत्वप्रत्यभिज्ञानाभावाद्रुणा नोपसंहर्तव्याः । ब्रह्मैकत्वमात्रेणोपसंहृतौ न क्वाप्यनुपसंहार इति प्रसङ्गः । तस्मात् - सम्भृत्यादेर्नोपसंहारः ॥ (त्रयोदशे पुरुषविद्याया विभिन्नताधिकरणे सूत्रम् - ) त्रयोदशाधिकरणमारचयति - पुंविद्यैका विभिन्ना वा तैत्तिरीयकताण्डिनोः ॥
मरणावभृथत्वादिसाम्यादेकेति गम्यते ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 बहुना रूपभेदेन किञ्चित्साम्यस्य बाधनात् ॥
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 अस्ति तैत्तिरीये पुरुषविद्या - "तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति । तथा - ताण्डिशाखायामपि श्रूयते - "पुरुषो वा यज्ञः" इति । सेयमेकैव पुरुषविद्या, "यन्मरणं तदवभृथः", "मरणमेवावभृथः" इत्युभयत्र समानधर्मश्रवणात् । प्रातःसवनादीनां च समानत्वात् ॥ इति प्राप्ते, ब्रूमः - वेद्यस्य रूपस्य भूयानत्र भेदः श्रूयते । तथाहि - 'विदुषो यो यज्ञः, तस्य यज्ञस्याऽऽत्मा' इति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ । अन्यथा ' आत्मा यजमानः' इति व्याघातात् 'विद्वानेव यज्ञः, स एव यजमानः' इति कथं न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः । आत्मयजमानादिकं च सर्वत्र श्रुतम् , ताण्डिनां नोपलभ्यते । यत्तु ताण्डिनामुपलभ्यते त्रेधाविभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि, तन्न किञ्चिदपि तैत्तिरीयके पश्यामः । अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद एवोचितः । अपि च न तैत्तिरीयाणामुपासनमिदम् । किं तर्हि ब्रह्मविद्याप्रशंसा "तस्यैवं विदुषः" इति ब्रह्मविद उत्कर्षणात् - तस्मात् - न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति ॥ (चतुर्दशे वेधाद्यधिकरणे सूत्रम् - ) चतुर्दशाधिकरणमारचयति - वेधमन्त्रप्रवर्ग्यादि विद्याङ्गमर्थवा न तु ॥
विद्यासंनिधिपाठेन विद्याङ्गे मन्त्रकर्मणी ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 लिङ्गेनान्यत्र मन्त्राणां वाक्येनापि च कर्मणाम् ॥
विनियोगात्संनिधिस्तु बाध्योऽतो नाङ्गता तयोः ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 आथर्वणिकानामपुनिषदारम्भे - "सर्वं प्रविध्य हृदयं प्रविध्य" इत्यादय आभिचारिकमन्त्राः पठिताः । काण्वानामुपनिषदादौ प्रवर्ग्यब्राह्मणं पठितम् । एवमन्यत्राप्युदाहर्तव्यम् । तत्र विद्यासंनिधिवशान्मन्त्रकर्मणोर्विद्याङ्गत्वम् ॥ इति प्राप्ते, ब्रूमः - हृदयवेधादिमन्त्राणां लिङ्गादभिचारकर्मणि विनियोगः । प्रवर्ग्यस्य "पुरस्तादुपसदां प्रवृणक्ति" इत्यग्निष्टोमे विनियोगो दृश्यते । 'लिङ्गवाक्ये च संनिधेर्बलीयसी' इति पूर्वकाण्डे श्रुतिलिङ्गाधिकरणे व्यवस्थापितम् । तस्मात् - न विद्याङ्गत्वं मन्त्रकर्मणोः ॥ (पञ्चदशे ज्ञानिनः कर्मणां हान्युपायनाधिकरणे सूत्रम् - ) पञ्चदशाधिकरणमारचयति - प्रथमवर्णकमाह - उपायनमनाहार्यं हानायाऽऽह्नियतेऽथ वा ॥
अश्रुतत्वादनाक्षेपाद्विद्याभेदाच्च नाऽऽहृतिः ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 विद्याभेदेऽप्यर्थवाद आहार्यः स्तुतिसाम्यतः ॥
हानस्य प्रत्यभिज्ञानादेकविंशादिवादवत् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 शाट्यायनिनः पठन्ति - "तस्य पुत्रा दायमुपयन्ति, सुहृदः साधुकृत्याम् , द्विषन्तः पापकृत्याम्" इति । अस्यायमर्थः - 'ज्ञानिनः पुत्रस्थानीयाः सर्वे प्राणिनस्तदीयं वित्तस्थानीयं कर्म यथायोग्यं गृह्णन्ति' - । ताण्डिनस्तु पठन्ति - "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरम्" इति । तथाऽऽथर्वणिकाः पठन्ति - "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परं साम्यमुपैति" इति । निरञ्जनो भाविजन्मकारणरहितः, साम्यं ब्रह्मस्वरूपम् , इत्यर्थः । तत्र तत्त्वज्ञानिनः पापपुण्यपरित्यागप्रतिपादिकासु श्रुतिषु परित्यक्तयोः पुण्यपापयोरितरपुरुषस्वीकारो नोपसंहर्तव्यः, त्यागश्रुतिषु क्वाप्यन्यस्वीकारस्याश्रुतत्वात् । अश्रुतमप्याक्षिप्यते - इति चेत् । न । अनुपपत्तेरभावात् । इतरस्वीकारमन्तरेणापि ज्ञानिनां परित्याग उपपद्यत एव । किञ्च – इतरस्वीकारवाक्यं सगुणविद्यायां पठितम् । त्यागवाक्यं तु निर्गुणविद्यायाम् । तस्मात् - केवलायां हानौ श्रूयमाणायामुपायनं नोपसंहर्तव्यम् ॥ इति प्राप्ते, ब्रूमः - सत्यं विद्या भेदोऽस्ति । अत एव न वयमुपायनमनुष्ठेयधर्मतयोपसंहरामः । किं त्वर्थवादत्वेन । यथा श्रूयमाणेन पुण्यपापपरित्यागेन ब्रह्मविद्या स्तूयते, तथेतरस्वीकारेणापि स्तोतुं शक्यत एव । नच – अर्थवादत्वमात्रेण हानोपायनश्रुत्योः स्वार्थे तात्पर्याभावः, मानान्तरप्रसिद्धिविरोधयोरभावेन भूतार्थवादत्वात् । यत्तु - हानश्रुतिषु न काप्युपायनं श्रुतम् - इत्युक्तम् । तदसत् , कौषितकीश्रुतौ हानोपायनयोरुभयोरवगमात् । "तत्सुकृतदुष्कृते विधूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति, अप्रिया दुष्कृतम्" इति । तत्तत्र ब्रह्मलोकप्राप्तिवेलायामित्यर्थः । एवं च सति कौषीतकीश्रुतस्य हानस्याऽऽथर्वणिकताण्डिशाखयोः प्रत्यभिज्ञानात्कौषीतकीप्रोक्तस्योपायनस्योपसंहारो युक्तः । ननु - अर्थवादान्तरापेक्षोऽर्थवादो न क्वचिदृष्टचरः - इति चेत् । न, सामोपास्तिस्तावकत्वेन श्रुतस्य "एकविंशो वा इतोऽसावादित्याः" इत्यर्थवादस्यैकविंशत्वनिर्णयाय तैत्तिरीयक गतसत्रप्रकरणस्थार्थवादापेक्षत्वात् । "द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः" इति हि तत्र सङ्ख्यानिर्वाह उक्तः । तस्मात् - अर्थवादत्वेऽप्युपायनमुपसंहर्तव्यम् ॥ द्वितीयवर्णकमाह - विधूननं चालनं स्याद्धानं वा चालनं भवेत् ॥
दोधूयन्ते ध्वजाग्राणीत्यादौ चालनदर्शनात् ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 हानमेव भवेद्वाक्यशेषेऽन्योपायनश्रवात् ॥
कर्त्रा न ह्यपरित्यक्तमन्यः स्वीकर्तुमर्हति ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 "सुकृतदुष्कृते विधूनुते" इत्यत्र विधूननशब्दस्य 'दोधूयन्ते' इत्यादाविव चालनमर्थः । नतु परित्यागः ॥ इति प्राप्ते, ब्रूमः - वाक्यशेषे श्रूयमाणस्येतरस्वीकारस्य विना परित्यागमनुपपत्तेश्चालनवाचिना विधूननशब्देन परित्याग उपलक्ष्यते ॥ (षोडशे, उपासकानाङ्कर्मत्यागव्यवस्थाधिकरणे सूत्रे - ) षोडशाधिकरणमारचयति - कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ॥
उत्तीर्य विरजां त्यागस्तथा कौषीतकीश्रुतेः ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ॥
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकीक्रमः ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणोक्तः सुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति, तल्लोकसमीपवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् । "स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते" इति । तस्मात् - मार्गमध्ये परित्यागः ॥ इति प्राप्ते, ब्रूमः - ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्तव्यफलस्याभावात्तयोर्नदीपर्यन्तनयनं निरर्थकम् । किञ्च – मरणात्प्राक्परित्यक्तयोः सुकृतदुष्कृतयोर्मार्गमध्ये परित्यागस्य साधनं न सम्भवति, देहराहित्ये साधनस्यानुष्ठातुमशक्यत्वात् । न च – मरणात्पुरा तत्त्यागे प्रमाणाभावः, "अश्व इव रोमाणी" - इति ताण्डिश्रुतौ तदवगमात् ॥ तथा च श्रुत्या 'नदीमुत्तीर्य परित्यागः' इत्ययं कौषीतकीप्रोक्तः क्रमो बाधनीयः । तस्मात् - मरणात्प्रागेवोपास्ये साक्षात्कृते तयोः परित्यागः ॥ (सप्तदशे, उपासनया ब्रह्मलोकगन्तृणामेव मार्गव्यवस्थाधिकरणे सूत्रे - ) सप्तदशाधिकरणमारचयति - उपास्तिबोधयोर्मार्गः समो यद्वा व्यवस्थितः ॥
सम एवोत्तरो मार्ग एतयोः कर्महानवत् ॥ ३७ ॥ 【भाष्यम्】 【भाष्यम्】 देशान्तरफलप्राप्त्यै युक्तो मार्ग उपास्तिषु ॥
आरोग्यवद्बोधफलं तेन मार्गो व्यवस्थितः ॥ ३८ ॥ 【भाष्यम्】 【भाष्यम्】 चतुर्थाध्यायस्य तृतीयपादे वक्ष्यमाणोऽर्चिरादिमार्गः सगुणब्रह्मोपासकस्य निर्गुणब्रह्मतत्त्वविदश्च समान एव, सुकृतदुष्कृतकर्महानवत्समानत्वसम्भवात् ॥ इति प्राप्ते, ब्रूमः - उपास्तिप्राप्यस्य ब्रह्मलोकफलस्य देशान्तरवर्तित्वाद्युक्तस्तत्र मार्गः । ब्रह्मज्ञानफलं तु रोगनिवृत्तिवदविद्यानिवृत्तिमात्रमिति किं तत्र मार्गेण करणीयं स्यात् । तस्मात् - उपासकस्यैव, न तु ज्ञानिनः - इति व्यवस्थितो मार्गः ॥ (अष्टादशे सर्वास्वेवोपासनासु मार्गकल्पनाधिकरणे सूत्रम् - ) अष्टादशाधिकरणमारचयति - मार्गः श्रुतस्थलेष्वेव सर्वोपास्तिषु वा भवेत् ॥
श्रुतेष्वेव प्रकरणाद्विःपाठोऽस्य वृथाऽन्यथा ॥ ३९ ॥ 【भाष्यम्】 【भाष्यम्】 प्रोक्तो विद्यान्तरे मार्गो ये चेम इति वाक्यतः ॥
तेन बाध्यं प्रकरणं द्विःपाठश्चिन्तनाय हि ॥ ४० ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये पञ्चाग्निविद्यायामुपकोशलविद्यायां चोत्तरमार्गः पठितः । शाण्डिल्यवैश्वानरादिविद्यासु न पठितः । तथाच प्रकरणवशाद्यासु विद्यासु श्रुतः, तास्वेव मार्गो व्यवतिष्ठते, न त्वन्यत्रोपसंहर्तव्यः । उपसंहारे च सकृत्पठितस्यैव सर्वत्रोपसंहर्तुं शक्यतया विद्याद्वये पाठो निरर्थकः स्यात् । तस्मात् - श्रुतस्थलेष्वेव मार्गः ॥ इति प्राप्ते, ब्रूमः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्न्युपासकानामुत्तरमार्गं ब्रुवती श्रुतिर्विद्यान्तरशालिनां च मुखत एवार्चिरादिमार्गमुदाजहार - "तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धातप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति अस्यायमर्थः - 'य उपासका इत्थं पञ्चाग्नीनुपासते, ये चारण्ये श्रद्धा तप इत्येवमादिधर्मयुक्ताः सन्तोऽप्युपासनान्तरेषु प्रवर्तन्ते, ते सर्वेऽप्यर्चिरादिमार्गं प्राप्नुवन्ति' इति । ततश्च मार्गप्रतिपादकवाक्येन प्रकरणं बाधितव्यम् । न च – द्विःपाठवैयर्थ्यम् , उपास्यगुणचिन्तनार्थत्वोपपत्तेः । तस्मात् - सर्वोपास्तिषूत्तरो मार्गोऽवगन्तव्यः ॥ (एकोनविंशे तत्त्वज्ञानिनां मुक्तिनैयत्याधिकरणे सूत्रम् - ) एकोनविंशाधिकरणमारचयति - ब्रह्मतत्त्वविदां मुक्तिः पाक्षिकी नियताऽथवा ॥
पाक्षिक्यपान्तरतमः प्रभृतेर्जन्मकीर्तनात् ॥ ४१ ॥ 【भाष्यम्】 【भाष्यम्】 नानादेहोपभोक्तव्यमीशोपास्तिफलं बुधाः ॥
भुक्त्वाऽधिकारिपुरुषा मुच्यन्ते नियता ततः ॥ ४२ ॥ 【भाष्यम्】 【भाष्यम्】 पुराणेषु - अपान्तरतमा नाम वेदप्रवर्तक आचार्यो विष्णोराज्ञया द्वापरान्ते कृष्णद्वैपायनरूपेण शरीरान्तरं जग्राह – इति स्मर्यते । तथा - सनत्कुमारः स्कन्दरूपेण पार्वतीपरमेश्वराभ्यामजायत । एवमन्येऽपि वसिष्ठादयस्तत्त्वज्ञानिन एव सन्तस्तत्र तत्र शापद्वारा स्वेच्छया वा शरीरान्तराणि जगृहुः - इति स्मरणात् - मुक्तिस्तत्त्वविदां पाक्षिकी ॥ इति प्राप्ते, ब्रूमः - य एते त्वयोदाहृताः पुरुषाः, ते सर्वे जगन्निर्वाहकारिणः, ते च पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमधिकारिपदं भेजिरे । क्षीणे प्रारब्धे कर्मणि मोक्षन्ते । तथा - अनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य निवारयितुमशक्यत्त्वात्तत्त्वविदां मुक्तिर्नियतैव ॥ (विंशे निषेधोपसंहाराधिकरणे सूत्रम् - ) विंशाधिकरणमारचयति - निषेधानामसंहारः संहारो वा न संहृतिः ॥
आनन्दादिवदात्मत्वं नैषां सम्भाव्यते यतः ॥ ४३ ॥ 【भाष्यम्】 【भाष्यम्】 श्रुतानामाहृतानां च निषेधानां समा यतः ॥
आत्मलक्षणता तस्माद्दार्ढ्यायास्तूपसंहृतिः ॥ ४४ ॥ 【भाष्यम्】 【भाष्यम्】 "अस्थूलमनण्वह्रस्वम्" इत्यादिना ब्रह्मावबोधनाय गार्गीब्राह्मणे केचिन्निषेधाः श्रुताः । तथा च कठवल्लीषु - "अशब्दमस्पर्शमरूपमव्ययम्" इति । एवमन्यत्राप्युदाहर्तव्यम् । तत्र निषेधानां परस्परमुपसंहारो नास्ति, आनन्दसत्यत्वादिधर्मवदात्मस्वरूपत्वाभावेनोपसंहारे प्रयोजनाभावात् ॥ इति प्राप्ते, ब्रूमः - यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरूपत्वाभावेऽप्यात्मोपलक्षकत्वम् , तथा - शाखान्तरेभ्य उपसंहृतानां निषेधानामपि तत्समानम् । न च – स्वशाखोक्तनिषेधैरेवोपलक्षणसिद्धावितरोपसंहारवैयर्थ्यम् , इतरोपसंहारस्य दार्ढ्यार्थत्वात् । अन्यथा स्वशाखायामपि द्वित्रप्रतिषेधमात्रेण तत्सिद्धावितरवैयर्थ्यं प्रसज्येत । तस्मात् - निषेधा उपसंहर्तव्याः ॥ (एकविंशे मन्त्रद्वयस्य विद्यैक्यताधिकरणे सूत्रम् - ) एकविंशाधिकरणमारचयति - पिबन्तौ द्वा सुपर्णेति द्वे विद्ये अथवैकता ॥
भोक्तारौ भोक्त्रभोक्ताराविति विद्ये उभे इमे ॥ ४५ ॥ 【भाष्यम्】 【भाष्यम्】 पिबन्तौ भोक्त्रभोक्तारावित्युक्तं हि समन्वये ॥
इयत्ताप्रत्यभिज्ञानाद्विद्यैका मन्त्रयोर्द्वयोः ॥ ४६ ॥ 【भाष्यम्】 【भाष्यम्】 "ऋतं पिबन्तौ सुकृतस्य लोके" - इत्यस्मिन्मन्त्रे द्विवचनेन द्वयोर्भोक्तृत्वं प्रतीयते । "द्वा सुपर्णा" - इत्यस्मिन्मन्त्रे "तयोरन्यः पिप्पलं स्वाद्वत्ति" इत्येकस्यैव कर्मफलभोक्तृत्वम्, "इतरस्य तु अनश्नन्नन्योऽभिचाकशीति" इत्यभोक्तृत्वम् । ततो वेद्यस्वरूपभेदाद्विद्याभेदः ॥ इति प्राप्ते, ब्रूमः - प्रथमाध्यायस्य द्वितीयपादे तृतीयाधिकरणे - "पिबन्तौ" इति शब्दस्य जीवब्रह्मपरत्वेन भोक्त्रभोक्तारावर्थः - इत्युक्तम् । अतो न वेद्यभेदः । द्वित्वसङ्ख्या चोभयत्र प्रत्यभिज्ञायते । तस्मात् - एका विद्या ॥ (द्वाविंशे, उषस्त – कहोलयोर्विर्द्यैक्याधिकरणे सूत्रे - ) द्वाविंशाधिकरणमारचयति - विद्याभेदोऽथ विद्यैक्यं स्यादुषस्तकहोलयोः ॥
समानस्य द्विराम्नानाद्विद्याभेदः प्रतीयते ॥ ४७ ॥ 【भाष्यम्】 【भाष्यम्】 सर्वान्तरत्वमुभयोरस्ति विद्यैकता ततः ॥
शङ्काविशेषनुत्यै द्विःपाठस्तत्त्वमसीतिवत् ॥ ४८ ॥ 【भाष्यम्】 【भाष्यम्】 "यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः" इत्येकस्यां शाखायामेवोषस्तब्राह्मणे कहोलब्राह्मणे च पठितम् । 'अपरोक्षात्' इत्यत्र विभक्तिव्यत्ययेन 'अपरोक्षम्' इत्यर्थः । तयोरुभयोर्ब्राह्मणयोरन्यूनानतिरिक्ततया पठितस्य वाक्यस्य पौनरुक्त्यपरिहाराय विद्याभेदः ॥ इति प्राप्ते, ब्रूमः - द्वयोरपि ब्राह्मणयोः सर्वान्तरत्वं प्रतिपाद्यते । तच्चैकस्मिन्नेव वस्तुनि सम्भवति । द्वयोस्तु वस्तुनोरेकतरस्य बहिर्भावोऽवश्यम्भावी । तस्मात् - सर्वान्तरस्य वेद्यस्यैकत्वान्न विद्याभेदः । न च – पुनरूक्तिः, यथा शाखान्तरे तद्विशेषशङ्कापनुत्त्यर्थम् "तत्त्वमसि" इति नवकृत्व उपन्यस्तम् , तथाऽत्राप्युपपत्तेः । उषस्तब्राह्मणेन देहाद्यात्मत्वशङ्काऽपोद्यते, कहोलब्राह्मणेन देहादिव्यतिरिक्तस्य ब्रह्मत्वमापाद्यते । वाक्यशेषयोस्तथादर्शनात् । तस्मात् - एका विद्या ॥ (त्रयोविंशे देहादित्यमण्डलवर्त्युपासनाया विद्याभेदाधिकरणे सूत्रम् - ) त्रयोविंशाधिकरणमारचयति - व्यतिहारे स्वात्मरव्योरेकधा धीरुत द्विधा ॥
वस्त्वैक्यादेकधैक्यस्य दार्ढ्याय व्यतिहारगीः ॥ ४९ ॥ 【भाष्यम्】 【भाष्यम्】 ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वेधेशस्य जीवता ॥
युक्तोपास्त्यै वाचनिकी मूर्तिवद्दार्ढ्यमार्थिकम् ॥ ५० ॥ 【भाष्यम्】 【भाष्यम्】 ऐतरेयके पठ्यते - "तद्योऽहं सोऽसौ, योऽसौ सोऽहम्" इति । अस्यायमर्थः - 'य यष देहेन्द्रियसाक्षी जीवात्मा, स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती, स एवास्मद्देहादिवर्ती' इति । तत्र – स्वदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यतिहारपाठवैयर्थ्यम् , एकस्यापि वस्तुनो दार्ढ्याय तदुपपत्तेः ॥ इति प्राप्ते, ब्रूमः - न खल्विदं तत्त्वावबोधप्रकरणम् । येनैकत्वप्रतिपत्तिर्दार्ढ्यमपेक्षते । किं तर्हि सगुणोपास्तिप्रकरणम् । उपास्तिश्च यथावचनमनुष्ठेया । ततो व्यतिहारेण द्वेधाबुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते, ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यात् - इति चेत् । नायं दोषः, यथा देहादिरहितस्याप्युपासकचित्तस्थैर्यार्थ चतुर्भुजाष्टभुजादिमूर्त्युपदेशेऽपि नापकर्षः, तथा वचनबलादीशस्य जीवत्वोपासनेन तव का हानिः । यदि - उपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवब्रह्मणोरेकत्वप्रतिपत्तिर्दृढा भवेत् , तर्हि चरितार्थाः सम्पद्यामहे । तस्मात् - व्यतिहारेण द्विधाबुद्धिः कर्तव्या ॥ (चतुर्विंशे सत्यविद्याधिकरणे सूत्रम् - ) चतुर्विशाधिकरणमारचयति - द्वे सत्यविद्ये एका वा यक्षरव्यादिवाक्ययोः ॥
फलभेदादुभे लोकजयात्पापहतेः पृथक् ॥ ५१ ॥ 【भाष्यम्】 【भाष्यम्】 प्रकृताकर्षणादेका पापघातोऽङ्गधीफलम् ॥
अर्थवादोऽथवा मुख्यो युक्तोऽधिकृतकल्पकः ॥ ५२ ॥ 【भाष्यम्】 【भाष्यम्】 बृहदारण्यके श्रूयते - "स यो हैतन्महद्यक्षं प्रथमजं वेद - सत्यं ब्रह्म – इति, जयतीमाल्लोकान्" इति । यक्षं पूज्यम् , प्रथमजं हिरण्यगर्भरूपेण प्रथममुत्पन्नम् - इत्यर्थः । अनेन वाक्येन सत्यविद्यां प्रतिपाद्य पश्चादिदं प्रतिपाद्यते - "तद्यत्तत्सत्यम् , . असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः" इति । तत्तत्रेत्यर्थः । एवं वाक्यद्वयोक्ते सत्यविद्ये द्वे भवतः । कुतः - फलभेदात् । यक्षवाक्ये - लोकजयः फलमुक्तम् । रविवाक्ये च "हन्ति पाप्मानं जहाति" च इति पापघातलक्षणं पृथक्फलं श्रूयते । तस्मात् - विद्याभेदः ॥ इति प्राप्ते, ब्रूमः - एकैवेयं सत्यविद्या । "तद्यत्तत्सत्यम्" इति प्रकृतं सत्यं ब्रह्मानूद्य "असौ स आदित्यः" इति रविरूपत्ववर्णनात् । न च – अत्र फलभेदोऽस्ति, पापघातस्योपास्तिफलत्वेनार्थवादत्वात् । 'अङ्गेषु फलश्रुतिरर्थवादः' इतिन्यायेनाविवक्षितत्वात् । अथवा - अत्रोपासनायामधिकार्य श्रवणाच्छ्रूयमाणफलस्यैव कामोपबन्धमध्याहृत्याधिकारिणि कल्पयितव्ये सति 'पापघातलोकजयकाम उपासीत', इति वक्तुं शक्यत्वाद्विशिष्टफलस्य विवक्षितत्वम् । तस्मात् - एकैवेयं सत्यविद्या ॥ (पञ्चविंशे दहरहार्दाकाशयोरुपसंहाराधिकरणे सूत्रम् - ) पञ्चविंशाधिकरणमारचयति - असंहृतिः संहृतिर्वा व्योम्नोर्दहरहार्दयोः ॥
उपास्यज्ञेयभेदेन तद्गुणानामसंहृतिः ॥ ५३ ॥ 【भाष्यम्】 【भाष्यम्】 उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः ॥
दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥ ५४ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये - "दहरोऽस्मिन्नन्तराकाशः" इति हृदयान्तर्गतत्वेन श्रुतस्य दहराकाशस्य सत्यकामत्वादयो गुणा उक्ताः । बृहदारण्यके तु "य एषोऽन्तर्हृदय आकाशः" इत्युक्तस्य हार्दाकाशस्य वशित्वादयो गुणा उक्ताः । तत्र न परस्परगुणोपसंहारः, दहराकाशस्योपास्यत्वेन, हार्दाकाशस्य ज्ञेयत्वेन विद्याभेदात् ॥ इति प्राप्ते, ब्रूमः - तत्र वशित्वादीनां दहराकाश उपसंहार उपास्त्यै भविष्यति । सत्यकामत्वादीनां तु हार्दाकाश उपसंहारः स्तुत्यर्थः । न च – प्रयोजनवत्त्वेऽपि विद्याभेदो दुष्परिहरः - इति वाच्यम् , विद्याभेदेऽप्युभयत्राऽऽकाशशब्दवाच्यस्याऽऽत्मन एकत्वात् । दहराकाशस्य तावदात्मत्वं दहराधिकरणे (ब्र० सू० १ । ३ । ५ ) वर्णितम् । हार्दाकाशस्यापि "महानज आत्मा" इत्युपक्रमादात्मत्वमवगन्तव्यम् । तस्मात् - उभयत्रोपसंहारः ॥ (षड्विंशे, उपवासे प्राणाहुतिलोपाधिकरणे सूत्रे - ) षड्विंशाधिकरणमारचयति - न लुप्यते लुप्यते वा प्राणाहुतिरभोजने ॥
न लुप्यतेऽतिथेः पूर्वं भुञ्जीतेत्यादरोक्तितः ॥ ५५ ॥ 【भाष्यम्】 【भाष्यम्】 भुज्यर्थान्नोपजीवित्वात्तल्लोपे लोप इष्यते ॥
भुक्तिपक्षे पूर्वभुक्तावादरोऽप्युपपद्यते ॥ ५६ ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये वैश्वानरविद्यावाक्यशेषे - "यां प्रथमामाहुतिं जुहुयात् , तां जुहुयात् - प्राणाय स्वाहेति" इति प्राणाहुतयः पठ्यन्ते । तत्र केनचिन्निमित्तेन भोजनलोपेऽप्युपासकस्य प्राणाहुतिर्न लुप्यते, "पूर्वोऽतिथिभ्योऽश्नीयात्" इत्यतिथिभोजनात्पूर्वमुपासकस्य यजमानस्य भोजनं प्रतिपादयन्त्याः श्रुतेः प्राणाहुतावादरदर्शनात् । तमादरं प्रख्यापयितुमेवातिथिभोजनस्य प्राथम्यं निन्दति - "यथा ह वै स्वयमहुत्वाऽग्निहोत्रं परस्य जुहुयात् , तादृक्तत्स्यात्" इति । तस्मात् - प्राणाहुतेरलोपः ॥ इति प्राप्ते, ब्रूमः - "तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्" इति भोजनार्थान्नस्य होमद्रव्यत्वश्रवणाद्भोजनलोपे द्रव्याभावादाहुतिर्लुप्यते । आदरस्तु भोजनपक्षे प्राथम्यविधानाय भविष्यति । तस्मात् - भोजनलोपे प्राणाहुतिर्लुप्यते ॥ (सप्तविंशे, अङ्गावबद्धोपास्त्यनैयत्याधिकरणे सूत्रम् - ) सप्तविंशाधिकरणमारचयति नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ॥
पर्णवत्क्रतुसम्बन्धो वाक्यान्नित्यास्ततो मताः ॥ ५७ ॥ 【भाष्यम्】 【भाष्यम्】 पृथक्फलश्रुतेर्नैता नित्या गोदोहनादिवत् ॥
उभौ कुरुत इत्युक्तं कर्मोपास्यनुपासिनोः ॥ ५८ ॥ 【भाष्यम्】 【भाष्यम्】 उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्प्रतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवन्नियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्याध्ययनाभावेऽपि वाक्यात्क्रतुसम्बन्धोपपत्तेः । यथा - "यस्य पर्णमयी जुहूर्भवति" इत्यनारभ्याधीतस्याप्यव्यभिचारिजुहूद्वारा वाक्यात्क्रतुसम्बन्धः, तथा "य एवं विद्वानुद्गायति, य एवं विद्वान्साम गायति" इत्यादिष्वव्यभिचारितक्रतुसम्बन्धिसामोद्गीथादिद्वारा तदुपासनानां क्रतुसम्बन्धः प्रतीयते । तस्मात् - कर्मसु नियता उपास्तयः ॥ इति प्राप्ते, ब्रूमः - गोदोहनादिवदनियता उपास्तयः । यथा - "चमसेनापः प्रणयेत् , गोदोहनेन पशुकामस्य" इत्यत्राप्प्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादैच्छिकम् , न तु प्रणयनादिवन्नियतम् । तथा - कर्माङ्गान्याश्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः, किन्तु पुरुषार्थाः, कर्मफलात्पृथक्फलश्रवणात् । "वर्षति हास्मै" इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते । किञ्च "तेनोभौ कुरुतो यस्त्वेतदेवं वेद, यश्च न वेद" इत्यस्मिन्नङ्गावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमाम्नायते । तस्मात्कर्मस्वनियता उपास्तयः ॥ (अष्टाविंशे वायुप्राणोपासनयोः प्रयोगभेदाधिकरणे सूत्रम् - ) अष्टाविंशाधिकरणमारचयति - एकीकृत्य पृथग्वा स्याद्वायुप्राणानुचिन्तनम् ॥
तत्त्वाभेदात्तयोरेकीकरणेनानुचिन्तनम् ॥ ५९ ॥ 【भाष्यम्】 【भाष्यम्】 अवस्थाभेदतोऽध्यात्ममधिदैवं पृथक् श्रुतेः ॥
प्रयोगभेदो राजादिगुणकेन्द्रप्रदानवत् ॥ ६० ॥ 【भाष्यम्】 【भाष्यम्】 संवर्गविद्यायाम् - अधिदैवं वायुरुपास्यत्वेन श्रुतः, अध्यात्मं च प्राणः । तत्र – प्राणस्य वायुकार्यत्वेन तत्त्वभेदाभावादुभयोरेकीकरणेन चिन्तनम् ॥ इति प्राप्ते, ब्रूमः - तत्त्वभेदाभावेऽपि कार्यत्वेन कारणत्वेन चावस्थाभेदस्य सद्भावात् "इत्यधिदैवम् । अथाध्यात्मम्" इति विविच्य पृथगनुचिन्तनाय श्रुतिर्विविनक्ति । तस्मात् - इन्द्रप्रदानवत्प्रयोगभेदो द्रष्टव्यः । यथा - "इन्द्राय राज्ञे पुरोडाशमेकादशकपालम् , इन्द्रायाधिराजाय, इन्द्राय स्वराज्ञे" इतीन्द्रस्यैकत्वेऽपि राजादिगुणभेदात्पृथक्पुरोडाशप्रदानं कृतम् , तथा - एकस्यापि वायुतत्त्वस्य स्थानभेदात्पृथक्चिन्तनं भविष्यति ॥ (एकोनत्रिंशे मनश्चिदादीनां स्वतन्त्रताधिकरणे सूत्राणि - ) एकोनत्रिंशाधिकरणमारचयति - कर्मशेषाः स्वतन्त्रा वा मनश्चित्प्रमुखाग्नयः ॥
कर्मशेषाः प्रकरणाल्लिङ्गं त्वन्यार्थदर्शनम् ॥ ६१ ॥ 【भाष्यम्】 【भाष्यम्】 उन्नेयविधिगाल्लिङ्गादेव श्रुत्या च वाक्यतः ॥
बाध्यं प्रकरणं तस्मात्स्वतन्त्रं वह्निचिन्तनम् ॥ ६२ ॥ 【भाष्यम्】 【भाष्यम्】 अग्निरहस्ये कस्मिश्चिद्ब्राह्मणे श्रूयते - "षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः" इति । अस्यायमर्थः - 'पुरुषस्य शतसंवत्सरपरिमित आयुषि षट्त्रिंशत्सहस्राणि दिनानि भवन्ति । तत्रैकैकस्मिन्दिवसे या मनोवृत्तिः, तस्या एकैकाग्नित्वेन ध्याने सति ध्यातव्या अग्नयः षट्त्रिंशत्सहस्राणि सम्पद्यन्ते । ते च प्रत्यगात्मस्वरूपत्वेन ध्येयाः । एत एवार्चनीयाः । मनसा चीयन्ते सम्पद्यन्त इति मनश्चितः । एवं - वाक्चितः, प्राणचितः, चक्षुश्चितः' - इति ते चाग्नयोऽग्निचयनप्रकरणपठितत्वात्कर्मशेषाः, न तु स्वतन्त्रविद्यात्मकाः । ननु - लिङ्गबलात्स्वतन्त्रविद्यात्मका भविष्यन्ति । तथाहि - "तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते" इति वाक्यशेषः पठ्यते । तस्यायमर्थः - 'उपासकस्य स्वपतोऽप्यग्नयो' न च्छिन्नाः । स्वकीयमनोवागादिवृत्त्युपरमेऽपि प्रबुद्धपुरुषमनोवागादिवृत्तीनां सर्वदा प्रवर्तमानत्वात् , अविशेषेण पुरुषमनआदिवृत्तीनामग्नित्वेन वर्णनात् । तस्मात् - एवंविदे स्वपतेऽपि तानेतानग्नीन्सर्वदा सर्वाणि भूतानि चिन्वन्ति, - इति । अत्र यावज्जीवमग्नीनामविच्छेदेन नैरन्तर्यं प्रतीयते । तच्च विद्यास्वातन्त्र्ये लिङ्गम् । कर्मशेषत्वे हि - कर्मणो यावज्जीवं नैरन्तर्याभावात्तच्छेषाणां मनश्चिदादीनां कथं नैरन्तर्यं स्यात् । तच्च लिङ्गं प्रकरणाद्बलीयः । तस्मात् - स्वतन्त्राः - इति चेत् । नायं दोषः, अन्यार्थदर्शनरूपत्वेन लिङ्गस्यैतस्य दुर्बलत्वात् । तथाहि - द्विविधं लिङ्गम् - सामर्थ्यम् , अन्यार्थदर्शनं च, इति । तत्र – विध्युद्देशगतं लिङ्गं सामर्थ्यम् । तच्च स्वातत्र्येण प्रमाणम् । अर्थवादगतं त्वन्यशेषवाक्ये दृश्यमानत्वादन्यार्थदर्शनम् । तच्च तात्पर्यरहितत्वान्न स्वातन्त्र्येण प्रमाणम् । किन्तु प्रमेयस्तावकप्रमाणान्तरे केवलमुपोद्बलकं भवति । एवं च सत्यत्रोदाहृतलिङ्गस्य दुर्बलत्वात्प्रकरणात्कर्मशेषा मनश्चिदादयः ॥ इति प्राप्ते, ब्रूमः - न तावदत्र शाब्दो विधिरुपलभ्यते, लिङ्गादेरश्रवणात् । किं तर्हि - अर्थवादसामर्थ्यादुन्नेयो विधिः । तथा च – फलप्रतिपादकस्तावकवाक्यानां रात्रिसत्रन्यायेनाधिकारिसमर्पणपर्यवसानादशेषमप्येतद्ब्राह्मणं विधिरूपं भविष्यति । ततो विध्युद्देशगतत्वेन लिङ्गस्य प्राबल्यम् । किञ्च "ते हैते विद्याचित एव" इत्येव श्रुत्या कर्माङ्गत्वं व्यावर्तते तथा "विद्यया हैवैत एवंविदश्चिता भवन्ति" इति वाक्यमपि स्वातन्त्र्यगमकम् । तस्मात् - श्रुतिलिङ्गवाक्यैः प्रकरणं बाधित्वा स्वतन्त्रविद्यात्मकत्वं मनश्चिदादीनामभ्युपगन्तव्यम् ॥ (त्रिंशे, आत्मनो देहातिरिक्तत्वाधिकरणे सूत्रे - ) त्रिंशाधिकरणमारचयति - आत्मा देहस्तदन्यो वा चैतन्यं मदशक्तिवत् ॥
भूतमेलनजं देहे नान्यत्राऽऽत्मा वपुस्ततः ॥ ६३ ॥ 【भाष्यम्】 【भाष्यम्】 भूतोपलब्धिर्भूतेभ्यो विभिन्ना विषयित्वतः ॥
सैवाऽऽत्मा भौतिकाद्देहादन्योऽसौ परलोकभाक् ॥ ६४ ॥ 【भाष्यम्】 【भाष्यम्】 'मनश्चिदादीनां क्रत्वर्थता नास्ति, किन्तु पुरुषार्थत्वम्' इत्युक्ते सति 'कोऽसौ पुरुषः' इति प्रसङ्गाद्विचार्यते । तदेतदधिकरणं पूर्वोत्तरयोरुभयोर्मीमांसयोः शेषभूतम् , स्वर्गमोक्षभागिन आत्मनः प्रतिपाद्यत्वात् । तत्र – बौद्धा लौकायतिकाः - देह एवाऽऽत्मा - इति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति हि देहे चैतन्यमुपलभ्यते, न त्वसति । न च – चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्त आत्मत्वं शङ्कनीयम् , क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्मात् - चेतनो देह आत्मा ॥ इति प्राप्ते, ब्रूमः - पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति, विषयित्वात् , 'यद्यद्विषयि, तत्तद्विषयाद्व्यतिरिक्तं, यथा रूपाच्चक्षुः । तथासति तादृशचैतन्यमात्मतत्त्वं वदन्तं प्रति कथं भौतिकदेहरूपत्वमापद्येत । सत्येव देहेचैतन्यमुपलभ्यते, नासति' इति यावन्वयव्यतिरेकावुक्तौ, तत्र व्यतिरेकोऽसिद्धः, असत्यपि देेहे परलोकगामिनश्चिदात्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् । सत्यपि मृते देहे चैतन्यानुपलब्धेश्चान्वयासिद्धिः ॥ (एकत्रिंशे, उक्थादिधियोः शाखान्तरेऽनुवृत्त्यधिकरणे सूत्रे - ) एकत्रिंशाधिकरणमारचयति - उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् ॥
सांनिध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्टते ॥ ६५ ॥ 【भाष्यम्】 【भाष्यम्】 उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते ॥
श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ॥ ६६ ॥ 【भाष्यम्】 【भाष्यम्】 अङ्गावबद्धोपासनेषु - उक्थशास्त्राख्ये कर्माङ्गपृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र – 'पृथिव्यादिदृष्टिरैतरेयगतोक्थ एव व्यवतिष्ठते, उत – कौषीतक्यादिष्वनुवर्तते' इति सन्देहे सति संनिहितत्वात्स्वशाखायामेव व्यवतिष्ठते ॥ इति प्राप्ते, ब्रूमः - उक्थशब्दस्तावन्मुख्यया वृत्त्या सर्वशाखागतमुक्थसामान्यमाचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थशास्त्रेष्वनुवृत्तिः प्राप्ता । श्रुतिश्च संनिधेर्बलीयसी । तस्मात् - क्वचिद्विहिता धीः शाखान्तरेष्वनुगच्छति ॥ (द्वात्रिंशे वैश्वानरविद्यायां समस्तोपासनाधिकरणे सूत्रम् - ) द्वात्रिंशाधिकरणमारचयति - ध्येयो वैश्वानराशोऽपि ध्यातव्यः कृत्स्न एव वा ॥
अंशेषूपास्तिफलयोरुक्तेरस्त्यंशधीरपि ॥ ६७ ॥ 【भाष्यम्】 【भाष्यम्】 उपक्रमावसानाभ्यां समस्तस्यैव चिन्तनम् ॥
अंशोपास्तिफले स्तुत्यै प्रत्येकोपास्तिनिन्दनात् ॥ ६८ ॥ 【भाष्यम्】 【भाष्यम्】 वैश्वानरविद्यायां विराड्रूपवैश्वानरस्य द्युलोकसूर्यवाय्वाकाशोदकपृथिव्यो मूर्धचक्षुप्राणमध्यशरीरमूत्रस्थानपादरूपेण ध्यातव्यांशा निरूपिताः । तेषामंशानामपि प्रत्येकं स्वातन्त्र्येणोपासनं विद्यते, उपास्तिशब्दस्य फलकथनस्य च प्रत्येकमुपलभ्यमानत्वात् । तथाहि - "औपमन्यव कं त्वमात्मानमुपास्से" इति, "दिवमेव भगवो राजन्निति होवाच" इति प्रश्नोत्तराभ्यां द्युलोकमात्रोपास्तिरवगम्यते । तस्मात् - "तव सुतं प्रसुतमासुतं कुले दृश्यते" इति सुतादिशब्दवाच्यानां सोमयागविशेषाणां सम्पत्तिः फलत्वेनावगम्यते । एवमंशान्तरेषूदाहर्तव्यम् । सर्वावयवसमष्ट्युपासनं "तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य" इति वाक्यशेषे विस्पष्टं प्रतीयते । तस्मात् - व्यस्तोपासनं समस्तोपासनं चोभयं विवक्षितम् ॥ इति प्राप्ते, ब्रूमः - समस्तोपासनमेव विवक्षितम् , न तु व्यस्तोपासनम् । कुतः - उपक्रमोपसंहाराभ्यामेकवाक्यत्वावगमात् । उपक्रमे तावत् "को न आत्मा किं ब्रह्म" इति कृत्स्नमेव ब्रह्मोपास्यत्वेन विचारयितुं प्रक्रान्तम् । उपसंहारेऽपि "तस्य ह वै" - इत्यादिना समस्तोपासनं विस्पष्टमभिधीयते । तथा च सति - अंशोपास्तिषु पृथगभ्युपगम्यमानासु वाक्यभेदः प्रसज्यते । पृथगुपास्तिफलकथनं तु कैमुतिकन्यायेन स्तुत्यै भविष्यति । अथ – बहूपास्तिलाभाय वाक्यभेदोऽप्यभ्युपगम्यते, तदा प्रत्येकोपास्तिनिन्दावचनानि कथं समर्थयेथाः । निन्द्यन्ते हि प्रत्येकोपास्तयः । "मूर्धा ते व्यपतिष्यत्" इति शिरोमात्रोपासनं निन्द्यते । तस्मात् - समस्तोपासनमेव विवक्षितम् ॥ (त्रयस्त्रिंशे शाण्डिल्यादिविद्यानां भिन्नताधिकरणे सूत्रम् - ) त्रयस्त्रिंशाधिकरणमारचयति - न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः ॥
समस्तोपासनश्रैष्ठ्याद्ब्रह्मैक्यादप्यभिन्नता ॥ ६९ ॥ 【भाष्यम्】 【भाष्यम्】 कृत्स्नोपास्तेरशक्यत्वाद्गुणैर्ब्रह्म पृथक्लृतम् ॥
दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात् ॥ ७० ॥ 【भाष्यम्】 【भाष्यम्】 छान्दोग्ये शाण्डिल्यविद्यायां मधुविद्येत्यादयः पठिताः । तथा - शाखान्तरेष्वपि । तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वात् , वेद्यस्य ब्रह्मण एकत्वाच्च सर्वासामेकविद्यात्वम् ॥ इति प्राप्ते, ब्रूमः - अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति विद्याभेदोऽभ्युपगन्तव्यः । न च – वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयम् , गुणभेेदेन भेदोपपत्तेः । नच – एकैकस्या विद्याया इयत्ता निश्चेतुमशक्या । प्रत्येकमुपक्रमोपसंहारयोस्तन्निश्चायकत्वात् । तस्मात् - विद्यानां नानात्वमिति ॥ (चतुस्त्रिंशे, अहङ्ग्रहविद्यायां विकल्पनियमाधिकरणे सूत्रम् - ) चतुस्त्रिंशाधिकरणमारचयति - अहङ्ग्रहेष्वनियमो विकल्पनियमोऽथवा ॥
नियामकस्याभावेन याथाकाम्यं प्रतीयताम् ॥ ७१ ॥ 【भाष्यम्】 【भाष्यम्】 ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः ॥
अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ ॥ ७२ ॥ 【भाष्यम्】 【भाष्यम्】 द्विविधान्युपासनानि - अहङ्ग्रहाणि, प्रतीकानि चेति । आत्मनः सगुणत्वोपासनेष्वहङ्ग्रहस्य चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहङ्ग्रहाणि । अनात्मवस्तुनि देवतादृष्ट्या संस्कृत्योपास्यमानानि प्रतीकानि । तत्र – अहङ्ग्रहेषु शाण्डिल्यविद्याद्युपासनेषु, एकं द्वे वहूनि चोपासनानि याथाकाम्येनानुष्ठेयानि, विकल्पस्य नियामकाभावात् । न हि 'शाण्डिल्योपासनं दहरोपासनमन्यद्वा, एकमेवानुष्ठेयं नेतरत्' इति विकल्पनियमे किञ्चित्कारणमस्ति । तस्मात् - याथाकाम्यम् ॥ इति प्राप्ते, ब्रूमः - अन्यानर्थक्यं तावदेकं नियामकम् । तथा हि - ईश्वरसाक्षात्कार उपासनस्य प्रयोजनम् । तच्चैकेनैवोपासनेन सिध्यति, तत्रान्योपासनवैयर्थ्यम् । किञ्च – उपासनेषु न प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरभावनया ध्येयतादात्म्याभिमानः । स चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र प्रवर्तमानस्य पुरुषस्य चित्तविक्षेपात्कथं नाम दृढीभवेत् । तस्मात् - आनर्थक्यविक्षोपयोर्नियामकत्वाद्विकल्पो नियम्यते ॥ (पञ्चत्रिंशे लौकिकप्रतीकेषु याथाकाम्याधिकरणे सूत्रम् - ) पञ्चत्रिंशाधिकरणमारचयति - प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मतिः ॥
अहङ्ग्रहेष्विवैतेषु साक्षात्कृत्यै विकल्पनम् ॥ ७३ ॥ 【भाष्यम्】 【भाष्यम्】 देवो भूत्वेतिवन्नात्र काचित्साक्षात्कृतौ मितिः ॥
याथाकाम्यमतोऽमीषां समुच्चयविकल्पयोः ॥ ७४ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतीकोपासनेषु पूर्वाधिकरणन्यायः ॥ इति प्राप्ते, ब्रूमः - अस्त्यत्र महद्वैषम्यम् । "देवो भूत्वा देवानप्येति" इति 'जीवन्नेव भावनाप्रकर्षवशाद्देवसाक्षात्कारं प्राप्य मृतो देवत्वमुपैति' इति यथाऽहङ्ग्रहेष्ववगम्यते, न तथा प्रतीकेषु साक्षात्कारफलत्वे किञ्चिन्मानमस्ति । साक्षात्करफलत्वभावे च तत्र तत्र प्रोक्ता भोग्यवस्तुप्राप्तयः फलत्वेनाभ्युपगन्तव्याः । तथा च सति भिन्नफलत्वान्नान्यानर्थकत्वम् । विक्षेपशङ्का तु दूरापेता, एकं प्रतीकं केषुचित्क्षणेषूपास्य क्षणान्तरे प्रतीकान्तरोपासने पूर्वोपास्तिजन्यस्यापूर्वस्याविनाशात् । तस्मात् - विकल्पेनैकमेव वा, बहूनि समुच्चित्य वा, याथाकाम्येन प्रतीकमुपासितव्यम् ॥ (षट्त्रिंशे कर्माङ्गप्रतीकेषु याथाकाम्याधिकरणे सूत्राणि - ) षट्त्रिंशाधिकरणमारचयति - समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः ॥
समुच्चितत्वादङ्गानां तद्बद्धेषु समुच्चयः ॥ ७५ ॥ 【भाष्यम्】 【भाष्यम्】 ग्नहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्नहि ॥
श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥ ७६ ॥ 【भाष्यम्】 【भाष्यम्】 द्विविधानि प्रतीकानि - लौकिकानि, कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु निर्णयः पूर्वत्रोक्तः । अत्र कर्माङ्गेषु समुच्चययाथाकाम्ये विचार्येते । तत्र कर्माणि कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियमः ॥ इति प्राप्ते, ब्रूमः - "ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्स्तुतमनुशंसति" इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतः पौर्वापर्येण सहभावः श्रुतः । न तथोपासनेषु श्रूयते । तस्मात् - विकल्पसमुच्चययोर्याथाकाम्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ३६ १३७ सूत्राणि ६६ ४२६ (प्रथमे पुरुषार्थाधिकरणे - आत्मज्ञानस्य स्वतन्त्रताधिकरणे सूत्राणि - ) तृतीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति - क्रत्वर्थमात्मविज्ञानं स्वतन्त्रं वाऽऽत्मनो यतः ॥
देहातिरेकमज्ञात्वा न कुर्यात्क्रतुगं ततः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 नाद्वैतधीः कर्महेतुर्हन्ति प्रत्युत कर्म सा ॥
आचारो लोकसङ्ग्राही स्वतन्त्रा ब्रह्मधीस्ततः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मनो देहादिव्यतिरेकज्ञानमन्तरेण परलोकगामित्वानिश्चयाज्ज्योतिष्टोमादिप्रवृत्तिरेव न स्यादिति क्रतुषु प्रवर्तकत्वेनौपनिषदमात्मतत्त्वज्ञानं कर्माङ्गम् ॥ इति प्राप्ते, ब्रूमः - द्विविधं देहव्यतिरिक्तात्मज्ञानम् - परलोकगामिकर्त्रात्मविज्ञनमेकम् , द्वितीयं ब्रह्मात्मतत्त्वज्ञानं चेति । तत्र – कर्त्रात्मज्ञानस्य प्रवर्तकत्वेऽपि नाद्वैतब्रह्मतत्त्वज्ञानं प्रवर्तकम् । प्रत्युत – क्रियाकारकफलनिषेधेन निवर्तकमेव । ननु तत्त्वविदामपि जनकादीनां कर्मप्रवृत्तिलक्षण आचारो दृश्यते । बाढम् । लोकसङ्ग्रहार्थमयमाचारः स्यात् । यदि तत्त्वविदामपि मुक्तये कर्माण्यनुष्ठेयानि स्युः, कथं तर्हि प्रजादिवैयर्थ्यश्रुतिरुपपद्यते । "किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः" इति - आत्मतत्त्वस्वरूपस्य लोकस्यापरोक्षत्वे सत्यनात्मलोकसाधनभूतायाः प्रजाया वैयर्थ्यं श्रूयते । एवं "किमर्था वयमध्येष्यामहे, किमर्था वयं यक्ष्यामहे" इत्याद्युदाहरणीयम् । तस्मात् - आत्मतत्त्वज्ञानं स्वतन्त्रं पुरुषार्थसाधनम् , न तु कर्माङ्गम् ॥ (द्वितीये परामर्शाधिकरणे - संन्यासिन एव ब्रह्मनिष्ठताधिकरणे सूत्राणि - ) द्वितीयाधिकरणस्य प्रथमवर्णकमारचयति - नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ॥
वीरघातो विधेः क्लृप्तावन्धपङ्ग्वादिगा स्मृतिः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अस्त्यपूर्वविधेः क्लृप्तेर्वीरहाऽनग्निको गृही ॥
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणे - स्वतन्त्रमात्मविज्ञानम् - इत्युक्तम् । तस्य चाऽऽत्मविज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र – नास्त्यूर्ध्वरेताः - इति प्राप्तम् । कुतः - विध्यभावात् । छान्दोग्ये - "त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः" इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य, तपःशब्दलक्षितवानप्रस्थत्वस्य, नैष्ठिकब्रह्मचर्यस्य परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते । न च – अपूर्वार्थत्वेन विधिः कल्पयितुं शक्यः, "वीरहा वा एष देवानां योऽग्निमुद्धासयते" इत्यग्न्युद्वासनलक्षितस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् । "चत्वार आश्रमाः" - इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतान्धपङ्ग्वादिविषया भविष्यति । न ह्यन्धस्याऽऽज्यावेक्षणोपेते कर्मण्यधिकारोऽस्ति । नापि पङ्गोर्विष्णुक्रमाद्युपेते कर्मण्यधिकारः । तस्मात् - चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्ति ॥ इति प्राप्ते, ब्रूमः - अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन विधेः कल्पयितुं शक्यत्वात् । न च – वीरघातदोषः उत्सन्नाग्निगृहस्थविषयत्वाद्वीरहत्यायाः । यत्तु - अन्धादिविषयत्वं स्मृतेरुक्तम् । तदसत् , "अथ पुनरव्रती व्रती वा, स्नातकोऽस्रातको वा उत्सन्नाग्निरनग्निको वा, यदहरेव विरजेत् , तदहरेव प्रव्रजेत्" इति गार्हस्थ्यानधिकृतानां पृथक्संन्यासविधानात् । न च – चक्षुरादिपाटववतामाश्रमान्तरविधिः कल्पनीयः, जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मात् - अस्त्याश्रमान्तरम् ॥ द्वितीयवर्णकमारचयति - लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ॥
यथावकाशं ब्रह्मैष ज्ञातुमर्हत्यवारणात् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ॥
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 "त्रयो धर्मस्कन्धाः" इत्यत्राऽऽश्रमानधिकृत्य "सर्व एते पुण्यलोका भवन्ति" इत्याश्रमानुष्ठायिनां पुण्यलोकमभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः सुकरत्वात् । नहि 'लोककामी ब्रह्म न जानीयात्' इति निषेधोऽस्ति । तस्मात् - अस्ति सर्वस्याऽऽश्रमिणो ब्रह्मानिष्ठा ॥ इति प्राप्ते, ब्रूमः - ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः । न चासौ कर्मशूरे सम्भवति, कर्मानुष्ठानत्यागयोः परस्परं विरोधात् । तस्मात् - कर्मत्यागिन एव ब्रह्मनिष्ठा ॥ (तृतीये रसतमत्वादीनां ध्येयत्वाधिकरणे सूत्रे - ) तृतीयाधिकरणमारचयति - स्तोत्रंं रसतमत्वादि ध्येयं वा गुणवर्णनात् ॥
जुहूरादित्य इत्यादाविव कर्माङ्गसंस्तुतिः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 भिन्नप्रकरणस्थत्वान्नाङ्गविध्येकवाक्यता ॥
उपासीतेतिविध्युक्तेर्ध्येयं रसतमादिकम् ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 उद्गीथावयवस्योकारस्य रसतमत्वादयो गुणाः श्रूयन्ते - "स एष रसानां रसतमः परमः" इत्यादिना । तद्रसतमत्वादिकमोङ्कारस्य स्तुतिः, न तु ध्यातव्यम् । यथा "इयमेव जूहूरादित्यः कूर्मः स्वर्लोकः", इत्यादौ कर्माङ्गभूतानां जुह्वादीनामदित्यादिरूपेण स्तुतिः, तथा रसतमत्वादिगुणैरोङ्कारस्य स्तुतिः ॥ इति प्राप्ते, ब्रूमः - विषमो दृष्टान्तः । 'जुहूरादित्यः' इत्यादिकं जुहूविधिप्रकरणे पठितत्वात्स्तोत्रमस्तु, रसतमत्वादिकं तूपनिषदि षठितत्वेन कर्मप्रकरणपठितोद्गीथविधिवाक्येनैकवाक्यत्वाभावान्न स्तावकम् । किन्तु "ओमित्येतदक्षरमुद्गीथमुपासीत" इति संनिहितेन विधिनैकवाक्यत्वाद्रसतमत्वादिकं ध्यातव्यम् ॥ (चतुर्थे, आख्यानस्य विद्यास्तुत्यर्थताधिकरणे सूत्रे - ) चतुर्थाधिकरणमारचयति - पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिस्तुतेः ॥
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ॥
अत्र विद्यैकवाक्यत्वभावाद्विद्यास्तुतिर्भवेत् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः" - "जनको ह वैदेह आसाञ्चक्रे" इत्यादिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्यं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं सकुटुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यध्वर्युणा वक्तव्यानि । तदिदं पारिप्लवाख्यं कर्म "पारिप्लवमाचक्षीत" इति वाक्येन विहितम् । तदर्थत्वे सत्यौपनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेः । तस्मात्पारिप्लवार्थम् ॥ इति प्राप्ते, ब्रूमः - प्रथमेऽहनि - 'मनुर्वैवस्वतो राजा', द्वितीयेऽहनि - 'यमो वैवस्वतो राजा', इत्याद्याख्यानानां पारिप्लवार्थानां विशेषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न सम्भवति । संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लक्ष्यते । तस्मात् - विद्यास्तावकमाख्यानम् ॥ (पञ्चमे, आत्मज्ञानस्य कर्मानपेक्षत्वाधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - आत्मबोधः फले कर्मापेक्षो नो वा, ह्यपेक्षते ॥
अङ्गिनोऽङ्गेष्वपेक्षायाः प्रयाजादिषु दर्शनात् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 अविद्यातमसोर्ध्वस्तौ दृष्टं हि ज्ञानदीपयोः ॥
नैरपेक्ष्यं ततोऽत्रापि विद्या कर्मानपेक्षिणी ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 विमतो ब्रह्मतत्त्वावबोधः स्वफलप्रदाने स्वाङ्गभूतकर्मापेक्षः, अङ्गित्वात् , प्रयाजापेक्षदर्शपूर्णमासवत् । यद्यपि प्रथमाधिकरणे विद्यायाः स्वतन्त्रपुरुषार्थत्वप्रतिपादनेन कर्माङ्गत्वं निवारितम् । तथाऽप्यङ्गित्वं न निवारितम् । अतो नासिद्धो हेतुः । अतः कर्माङ्गापेक्षो बोधः ॥ इति प्राप्ते, ब्रूमः - विमतं ब्रह्मज्ञानं स्वविरोधिनिवर्त्यनिवर्तनेऽन्यापेक्षं न भवति, प्रकाशत्वात् , दीपवत् , घटज्ञानवच्च । यत्तु - अङ्गित्वमुक्तम् । तत्र कर्मणः कीदृशमङ्गत्वमभिप्रेतम् - किं प्रयाजादिवत्फलोपकार्यङ्गत्वम् , उत - अवघातादिवत्स्वरूपोपकार्यङ्गत्वम् । नाऽऽद्यः, मुक्तेः कर्मजन्यत्वेनानित्यत्वप्रसक्तेः । द्वितीये - साध्यविकलो दृष्टान्तः, अवघातादौ प्रयाजादीनां स्वरूपोपकार्यङ्गत्वाभावात् । तस्मात् - उत्पन्ना विद्या स्वफलदाने कर्माणि नापेक्षते ॥ (षष्ठे ज्ञानोत्पत्तौ यज्ञशमदमाद्यपेक्षाधिकरणे सूत्रे - ) षष्ठाधिकरणमारचयति - उत्पत्तावनपेक्षेयमुत कर्माण्यपेक्षते ॥
फले यथाऽनपेक्षैवमुत्पत्तावनपेक्षता ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 यज्ञशान्त्यादिसापेक्षं विद्याजन्म श्रुतिद्वयात् ॥
हलेऽनपेक्षितोऽप्यश्वो रथे यद्वदपेक्ष्यते ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मविद्या स्वफले यथा कर्माणि नापेक्षते, तथा स्वोत्पत्तावपि । अन्यथा - क्वचिदपेक्षते, क्वचिन्नापेक्षते - इत्यर्धजरतीयन्यायः प्रसज्येत ॥ इति प्राप्ते, ब्रूमः - नार्धजरतीयत्वदोषोऽत्रास्ति, योग्यतावशेनैकस्यैव कार्यविशेषेष्वपेक्षानपेक्षयोरुपपत्तेः । यथा लाङ्गलवहनेऽनपेक्षितोऽप्यश्वो रथवहनेऽपेक्ष्यते, तद्वत् । न च विद्यायाः स्वोत्पत्तौ कर्मापेक्षायां प्रमाणाभावः, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसाधनत्वावगमात् । "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति" इति निवृत्तिरूपाणां शमदमादीनां विद्योत्पत्तिकालेऽप्यनुवर्तमानतयाऽन्तरङ्गसाधनत्वावगमात् । तस्मात् - यज्ञादीनि शमादीनि च विद्या स्वोत्पत्तावपेक्षते ॥ (सप्तमे, आपदि सर्वान्नभोजनानुज्ञाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - सर्वाशनविधिः प्राणविदोऽनुज्ञाऽथवाऽऽपदि ॥
अपूर्वत्वेन सर्वान्नभुक्तिर्ध्यातुर्विधीयते ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 श्वाद्यन्नभोजनाशक्तेः शास्त्राच्चाभोज्यवारणात् ॥
आपदि प्राणरक्षार्थमेवानुज्ञायतेऽखिलम् ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 प्राणविद्यायां श्रूयते - "न ह वा एवंविदि किञ्चनानन्नं भवति" इति । 'प्राणोपासकेन भोक्तुमयोग्यं न किञ्चिदस्ति' इत्यर्थः । तत्र सर्वान्नभोजनस्य मानान्तरेणाप्राप्तत्वात्प्राणोपासकस्य तद्विधीयते ॥ इति प्राप्ते, ब्रूमः - "यदिदं किञ्चाऽऽश्वभ्य आकृमिभ्य आकीटपतङ्गेभ्यः, तत्तेऽन्नम्" इति श्वादि भोज्यमन्नमुपासकस्य भोज्यतया विधेयम् , न च तद्विधातुं शक्यम् , यतो भक्ष्याभक्ष्यविभागशास्त्रं सर्वान्नाशनविधौ बाध्येत । तस्मात् - आपदि यावता प्राणरक्षा भवति तावन्मात्रं निषिद्धान्नमप्यनुज्ञायते । अत एव चाक्रायणो मुनिः प्राणात्यये प्राप्ते पर्युषितान्गजतत्पालकोच्छिष्टान्कुल्माषान्भक्षयित्वा शूद्रभाण्डस्थमुदकं न पपौ, तत्रोभयत्र कारणं चावोचत् - "न वा अजीविष्यमिमानखादन्" इति, "कामो म उदपानम्" इति च । तस्मात् - आपदि सर्वान्नभक्षणमभ्यनुज्ञातम् ॥ (अष्टमे यज्ञादीनामाश्रमविद्योभयहेतुत्वाधिकरणे सूत्राणि - ) अष्टमाधिकरणमारचयति - विद्यार्थमाश्रमार्थं च द्विः प्रयोगोऽथवा सकृत् ॥
प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 श्राद्धार्थभुक्त्या तृप्तिः स्याद्विद्यार्थेनाऽऽश्रमस्तथा ॥
अनित्यनित्यसंयोग उक्तिभ्यां खादिरे मतः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 यानि यज्ञादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि, तान्येवाऽऽश्रमधर्मत्वेन पूर्वकाण्डे विहितानि । तेषां प्रयोजनद्वैविध्याद्द्विरनुष्ठानम् ॥ इति प्राप्ते, ब्रूमः - यथा श्राद्धार्थभोजनेन तृप्तिर्नान्तरीयकतया सिध्यति, तथा विद्यार्थमनुष्ठितैः कर्मभिराश्रमधर्मः सिध्यतु । न च – विद्याहेतूनां काम्यत्वात् , आश्रमधर्माणां च नित्यत्वात्सकृत्प्रयोगे नित्यानित्यसंयोगविरोधः - इति वाच्यम् । वचनद्वयबलेनैकस्य कर्मण आकारद्वयोपपत्तेः । यथा - "खादिरो यूपो भवति, खादिरं वीर्यकामस्य यूपं कुर्वीत" इत्यत्र वचनद्वयबलेनैकस्य नित्यत्वं काम्यत्वं च तद्वत् । तस्मात् - उभयविधानां यज्ञादीनां सकृदेव प्रयोगः ॥ (नवमे, अनाश्रमिणोऽपि ब्रह्मज्ञानाधिकरणे सूत्राणि - ) नवमाधिकरणमारचयति - नास्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते ॥
धीशुद्ध्यर्थाश्रमित्वस्य ज्ञानहेतोरभावतः ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अस्त्येव सर्वसम्बन्धिजपादेश्चित्तशुद्धितः ॥
श्रुता हि विद्या रैक्वादेराश्रमे त्वतिशुद्धता ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वमाश्रमं परिसमाप्य केनापि कारणेनोत्तरमाश्रममप्रतिपन्नोऽनाश्रमी । स्नातकविधुरादिः । तस्य तत्त्वज्ञानं न सम्भाव्यते, बुद्धिशुद्धिहेतोराश्रमित्वस्याभावात् ॥ इति प्राप्ते, ब्रूमः - सम्भवत्यनाश्रमिणोऽपि ज्ञानम् । आश्रमनिरपेक्षस्य जपादेर्बुद्धिशुद्धिहेतुत्वात् । "जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः" इति स्मृतेः । श्रुतश्च संवर्गविद्यायामधिकारोऽनाश्रमिणो विवाहार्थिनो रैक्वस्य । एवमाश्रमरहिता गार्ग्यादय उदाहार्याः । न च – एवं सत्याश्रमवैयर्थ्यम् , शुद्ध्यतिशयहेतुत्वात् । तस्मात् - अनाश्रमिणोऽपि सम्भवत्येव ज्ञानम् ॥ (दशमे, आश्रमाणामवरोहनिराकरणाधिकरणे सूत्रम् - ) दशमाधिकरणमारचयति - अवरोहोऽस्त्याश्रमाणां न वा, रागात्स विद्यते ॥
पूर्वधर्मश्रद्धया वा यथाऽऽरोहस्तथैच्छिकः ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मतः ॥
आरोहनियमोक्त्यादेर्नावरोहोऽस्त्यशास्त्रतः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 "ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्" इत्याश्रमाणामारोहो यथेच्छाधीनो भवति, तथा 'पारिव्राज्याद्वनस्थः' इत्याद्यवरोहोऽपि क्वचिद्रागवशात् , क्वचित्पूर्वाश्रमधर्मश्रद्धावशाच्च युक्तः ॥ इति प्राप्ते, ब्रूमः - रागस्तावन्मिथ्याज्ञानमूलत्वादतिनिषिद्धः । न च पूर्वाश्रमधर्मे श्रद्धा युज्यते, उत्तराश्रमिणं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि - यो येनानुष्ठातुं शक्यते श्रद्धीयते च, स तस्य धर्मो भवति । किं तर्हि - यो यं प्रति विहितः, स तस्य धर्मः । किञ्च "ततो न पुनरेयात्" इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न चाऽऽरोहवदवरोहेऽपि शिष्टाचारो विद्यते । तस्मात् - नास्त्यवरोहः ॥ (एकादशे, ऊर्ध्वरेतसः पातित्ये प्रायश्चित्ताधिकरणे सूत्रे - ) एकादशाधिकरणमारचयति - भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ॥
अदर्शनोक्तेर्नास्त्येव व्रतिनो गर्दभः पशुः ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 उपपातकमेवैतद् व्रतिनो मधुमांसवत् ॥
प्रायश्चित्ताच्च संस्काराच्छुद्धिर्यत्नपरं वचः ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्तस्य पुनः स्त्रीसङ्गेन भ्रष्टस्य प्रायश्चितं नास्ति । "आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति प्रायश्चित्तादर्शनवचनात् । "अथ यो ब्रह्मचारी स्त्रीमुपेयात् , स गर्दभं पशुमालभेत" इत्यस्ति प्रायश्चितम् - इत्युच्यते । तन्न, तस्य व्रतिविषयत्वात् । उपकुर्वाणकाख्यो यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति, तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मात् - ऊर्ध्वरेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चितम् ॥ इति प्राप्ते, ब्रूमः - यथोपकुर्वाणकस्य मधुमांसभक्षणमुपपातकमिति प्रायश्चितं पुनःसंस्कारो विद्यते, तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्तिरुपपातकमेव न तु महापातकम् । ततः प्रायश्चित्तात्पुनः संस्काराच्च शुद्धिर्भवति । यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत, तर्ह्यदर्शनवाक्यस्य का गतिः - इति चेत् । "यत्नपरं तद्वाक्यम्" इति ब्रूमः । 'अत एव प्रायश्चित्तं न पश्यामि' इत्याह, न तु 'नास्ति' इति । प्रायश्चित्तं तु गर्दभपशुरेव, ब्रह्मचारित्वस्य समानत्वात् । तथा - वनस्थपरिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते - "वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्" । 'भिक्षुर्वनस्थवत्सोमवृद्धिवर्जम्' - इति । कक्षवृद्धिर्वनवासः । सोमवृद्धिरपि स एव ॥ (द्वादशे भ्रष्टस्य कृतप्रायश्चित्तस्याप्यव्यवहार्यताधिकरणे सूत्रम् - ) द्वादशाधिकरणमारचयति - शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः ॥
उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्ति तम् ॥
प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वोक्तप्रायश्चित्तापादितशुद्ध्यन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यवहारोऽस्ति ॥ इति प्राप्ते, ब्रूमः - आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्शनवचनादैहिकशुद्ध्यभावाच्छिष्टैरेष न व्यवहार्यः ॥ (त्रयोदशे, ऋत्विक्कृताङ्गध्यानस्य स्वामिगामित्वाधिकरणे सूत्राणि - ) त्रयोदशाधिकरणमारचयति - अङ्गध्यानं याजमानमार्त्विजं वा यतः फलम् ॥
ध्यातुरेव श्रुतं तस्माद्याजमानमुपासनम् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रूयादेवंविदुद्गातेत्यार्त्विजत्वं स्फुटं श्रुतम् ॥
क्रीतत्वादृत्विजस्तेन कृतं स्वामिकृतं भवेत् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता, नार्त्विजः ध्यातुः फलश्रवणात् । फलं तु यजमानस्यैवोचितं, स्वामित्वात् । तस्मात् - फलिनो यजमानस्यैव ध्यातृत्वम् ॥ इति प्राप्ते, ब्रूमः - "एवंविदुद्गाता ब्रूयात्" । इति वाक्यशेष उद्नातुरुपासकत्वं स्पष्टं श्रूयते । युक्तं चैतत् - ऋत्विजामशेषकर्मानुष्ठानाय यजमानेन क्रीतत्वात् । तस्मात् - ऋत्विग्भिः कृतं यजमानेनेव कृतमिति फलित्वोपपत्तेरुपासनमृत्विजां कर्म ॥ (चतुर्दशे मौनस्य विधेयत्वाधिकरणे सूत्राणि - ) चतुर्दशाधिकरणमारचयति - अविधेयं विधेयं वा मौनं तन्न विधीयते ॥
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥ २९ ॥ 【भाष्यम्】 【भाष्यम्】 निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ॥
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥ ३० ॥ 【भाष्यम्】 【भाष्यम्】 कहोलब्राह्मणे श्रूयते - "तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् , बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इति । अस्यायमर्थः - यस्माद्ब्रह्मभावः परमपुरुषार्थः, तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण सम्पाद्य बालवन्नीरागद्वेषत्वेन युक्तोऽसम्भावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् , ततः पाण्डित्यबाल्ये निःशेषेण सम्पाद्य, अथ मुनिः - इति । तत्र - 'भवेत्' इति विध्यश्रवणान्मुनित्वं न विधेयम् । नच – विधिः कल्पयितुं शक्यः, पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थत्वाभावात् । पण्डितस्य विदुषो भावः पाण्डित्यम् - इति ज्ञानवाचकोऽयं शब्दः । तथा मुनिशब्दोऽपि, 'मन ज्ञाने' इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात् - प्राप्तस्य मौनस्य नैव विधिकल्पनम् ॥ इति प्राप्ते, ब्रूमः - पूर्वोक्तस्य पाण्डित्यस्य पुनर्मुनिशब्देनाभिधाने प्रयोजनाभावान्निरन्तरज्ञाननिष्ठाऽपूर्वार्थो मुनिशब्देन विवक्षितः । ततः 'तिष्ठासेत्' इति पदानुवृत्त्या विधिर्लभ्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् , प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थत्वात् । तस्मात् - निदिध्यासनात्मकं मौनं विधेयम् ॥ (पञ्चदशे भावशुद्धेरेव बाल्यशब्दाभिधेयताधिकरणे सूत्रम् - ) पञ्चदशाधिकरणमारचयति - बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ॥
वयस्तस्याविधेयत्वे कामचारोऽस्तु नेतरा ॥ ३१ ॥ 【भाष्यम्】 【भाष्यम्】 मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ॥
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥ ३२ ॥ 【भाष्यम्】 【भाष्यम्】 "बाल्येन तिष्ठासेत्" इत्यत्र – बालस्य भावो बाल्यम् - इति प्रसिद्ध्या वयो भवेत् । अथ – तस्य विध्यनर्हत्वम् , - तर्हि - बालस्य कर्म – इति व्युत्पत्त्या कामचारादिकमस्तु । सर्वथा धीशुद्धिर्न बाल्यम् ॥ इति प्राप्ते, ब्रूमः - पाण्डित्यमौनाख्ययोः श्रवणनिदिध्यासनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता, रागद्वेषमानापमानादिदोषग्रस्तत्वेन बहिः प्रवृत्तिमपरित्यज्य मन्तुमशक्यत्वात् । - बालस्य कर्म - इति व्युत्पत्तिस्तु यथेच्छाचारे, भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तमनुपयुक्तौ । प्रत्युत विरोधिनौ, मूढस्य बहिःप्रवृत्तस्य वा मनसो मननविनाशकत्वात् । तस्मात् - भावशुद्धिरेव बाल्यम् , नेतरदुभयम् ॥ (षोडशे, आत्मज्ञानस्यैहिकामुष्मिकात्वव्यवस्थाधिकरणे सूत्रम् - ) षोडशाधिकरणमारचयति - इहैव नियतं ज्ञानं पाक्षिकं वा, नियम्यते ॥
तथाऽभिसन्धेर्यज्ञादिः क्षीणां विविदिषाजनौ ॥ ३३ ॥ 【भाष्यम्】 【भाष्यम्】 असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा ॥
श्रवणायेत्यादिशास्त्राद्वामदेवोद्भवादपि ॥ ३४ ॥ 【भाष्यम्】 【भाष्यम्】 श्रवणमनननिदिध्यासनेष्वनुष्ठीयमानेषु - अस्मिन्नेव जन्मनि ज्ञानं जायते - इति नियम्यते । न तु - इह वा, जन्मान्तरे वा इति कालविकल्पः । कुतः - श्रवणादिषु प्रवर्तमानस्य पुरुषस्य ज्ञानेच्छाया ऐहिकज्ञानोत्पत्तिविषयत्वात् । 'इहैव मे विद्या जायताम्' इत्यभिसन्धाय पुरुषः प्रवर्तते । न च – अदृष्टफलानां यज्ञादीनां तत्साधकत्वेन स्वर्गवज्जन्मान्तरे ज्ञानोत्पत्तिः शङ्कनीया, श्रवणादिप्रवृत्तेः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरितार्थत्वात् । तस्मात् - ऐहिकत्वेन ज्ञानोत्पत्तिर्नियम्यते । इति प्राप्ते, ब्रूमः - असति प्रतिबन्धे ज्ञानमिहैव सम्भवति, सति तु प्रतिबन्धेऽत्रानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानमुत्पद्यते । प्रतिबन्धश्च बहुविधः श्रूयते - "श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः" इति । न च – पूर्वजन्मानुष्ठितैः श्रवणादिभिर्जन्मान्तरे ज्ञानोत्पत्तिर्न दृष्टचरी, वामदेवस्य गर्भ एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात् । "गर्भ एवैतच्छयानो वामदेव एवमुवाच" इति श्रुतेः । तस्मात् - इह वा, जन्मान्तरे वा ज्ञानोत्पत्तिः ॥ (सप्तदशे मुक्तेरेकविधत्वाधिकरणे सूत्रम् - ) सप्तदशाधिकरणमारचयति - मुक्तिः सातिशया नो वा फलत्वाद्ब्रह्मलोकवत् ॥
स्वर्गवच्च नृभेदेन मुक्तिः सातिशयैव हि ॥ ३५ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मैव मुक्तिर्न ब्रह्म क्वचित्सातिशयं श्रुतम् ॥
अत एकविधा मुक्तिर्वेधसो मनुजस्य च ॥ ३६ ॥ 【भाष्यम्】 【भाष्यम्】 यथा ब्रह्मलोकाख्यं फलं सालोक्यसारूप्यसामीप्यसार्ष्टिभेदेन चतुर्विधम् । तत्र सार्ष्टिर्नाम चतुर्मुखेन समानैश्वर्यत्वम् । यथा वा - "कर्मभूयस्त्वात्फलभूयस्त्वम्" इति न्यायेन स्वर्गो बहुविधः । तथा मुक्तिरपि फलत्वाविशेषात्सातिशया ॥ इति प्राप्ते, ब्रूमः - मुक्तिर्नाम निजसिद्धब्रह्मस्वरूपमेव, न तु स्वर्गवदागन्तुकं किञ्चिद्रूपम् - इति वक्ष्यते । ब्रह्म चैकविधत्वेन श्रुतं निर्णीतं च । तस्मात् - चतुर्मुखस्य मनुजस्य वा मुक्तिरेकविधैव । सालोक्यादिविशेषस्तु जन्यरूपत्वादुपासनातारतम्येन सातिशयो भविष्यति । मुक्तिस्तु न तादृशी, इति सिद्धम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】
॥ तृतीयोऽध्यायश्च समाप्तः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि १७ १५४ सूत्राणि ५२ ४७८ (प्रथमे श्रवणमननादीनामावृत्त्यधिकरणे सूत्रे - ) चतुर्थाध्यायस्य प्रथमपादस्य प्रथमाधिकरणमारचयति - श्रवणाद्याः सकृत्कार्या आवर्त्या वा सकृद्यतः ॥
शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृतेः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 आवर्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत् ॥
दृष्टेऽत्र सम्भवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 "सकृत्कृते कृतः शास्त्रार्थः" इति न्यायेन श्रवणादीनां प्रयाजादिवत्सकृदेवानुष्ठानम् ॥ इति प्राप्ते, ब्रूमः - उक्तन्यायस्यादृष्टफलविषयत्वात् । अत्र ब्रह्मसाक्षात्कारलक्षणस्य दृष्टफलस्य सम्भवात् 'दृष्टे सम्भवत्यदृष्टं न कल्पनीयम्' इति न्यायेनावघातवत्फलसिद्धिपर्यन्तं श्रवणाद्यावर्तनीयम् ॥ (द्वितीये, आत्मत्वेन ब्रह्मणो ग्रहणाधिकरणे सूत्रम् - ) द्वितीयाधिकारणमारचयति - ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ॥
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यताम् ॥
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्ति च ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 यच्छास्त्रप्रतिपाद्यं ब्रह्म, तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम् , दुःख्यदुःखिनोर्जीवब्रह्मणोरेकत्वविरोधात् ॥ इति प्राप्ते, ब्रूमः - 'वस्तुतो ब्रह्मस्वरूपस्यैव सतो जीवस्यान्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः' इति वियत्पादे (ब्र० सू० अ० २ पा० ३) जीवविचारे प्रपञ्चितम् । अतो वास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्यताम् । अत एव "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" इत्यादिमहावाक्यैस्तत्त्वविद आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा "तत्त्वमसि" इत्यादिमहावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि । तस्मात् - आत्मत्वेनैव ब्रह्म ग्रहीतव्यम् ॥ (तृतीये प्रतीकेऽहन्दृष्टिनिराकरणाधिकरणे सूत्रम् - ) तृतीयाधिकरणमारचयति - प्रतीकेऽहन्दृष्टिरस्ति न वा, ब्रह्माविभेदतः ॥
जीवप्रतीकयोर्ब्रह्मद्वाराऽहन्दृष्टिरिष्यते ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 प्रतीकत्वोपासकत्वहानिर्ब्रह्मैक्यवीक्षणे ॥
अवीक्षणे तु भिन्नत्वान्नास्त्यहन्दृष्टियोग्यता ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 "मनो ब्रह्मेत्युपासीत" "आदित्यो ब्रह्म" इत्यादिषु ब्रह्मदृष्ट्या संस्कृतं मनआदित्यादिप्रतीकमुपास्यम् । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम् , प्रतीकस्य ब्रह्मकार्यत्वेन ब्रह्मणा सह भेदाभावात् , जीवस्य च ब्रह्माभिन्नत्वात् , ब्रह्मद्वारोपास्यप्रतीकस्योपासकजीवस्य च भेदाभावेनैकत्वसम्भवात् ॥ इति प्राप्ते, ब्रूमः - यदि ब्रह्मकार्यस्य प्रतीकस्य ब्रह्मैक्यमवलोक्यते, तदा प्रतीकस्वरूपमेव विलीयेत, घटस्य मृद्रूपेणैक्ये विलयदर्शनात् । यदि च जीवस्य ब्रह्मैक्यमवलोक्येत, तदा जीवत्वापाये सत्युपासकत्वं हीयेत । अथ – उपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवब्रह्मैक्यं च न पर्यालोच्येत, तदा गोमहिषवदत्यन्तभिन्नयोः प्रतीकोपासकयोर्नास्त्येकत्वयोग्यता । तस्मात् - प्रतीके नास्त्यहन्दृष्टिः ॥ (चतुर्थे, उपास्ये ब्रह्मदृष्ट्यधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - किमन्यधीर्ब्रह्मणि स्यादन्यस्मिन्ब्रह्मधीरुत ॥
अन्यदृष्ठ्योपासनीयं ब्रह्मात्र फलदत्वतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 उत्कर्षेतिपरत्वाभ्यां ब्रह्मदृष्ट्याऽन्यचिन्तनम् ॥
अन्योपास्त्या फलं दत्ते ब्रह्मातिथ्याद्युपास्तिवत् ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 "मनो ब्रह्म" – इत्यत्र ब्रह्मस्वरूपमनोदृष्टिं ब्रह्मणि कृत्वा ब्रह्मोपासनीयम् , ब्रह्मणः फलमदत्वेनोपास्यतार्हत्वात् ॥ इति प्राप्ते, ब्रूमः - ब्रह्मण उत्कृष्ठत्वादृष्टिर्निकृष्टे मनसि कर्तव्या । लोके हि निकृष्टे भृत्ये राजदृष्टिं कृत्वा राजवत्तं पूजयन्ति । किञ्च "मनो ब्रह्मेत्युपासीत" इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दष्टिलक्षको भविष्यति । मनःशब्दश्चानितिपरत्वान्मुख्यार्थवाची । यथा 'स्थाणुं चौर इति प्रत्येति' इत्यत्र स्थाणुशब्दो मुख्यार्थवाची चौरशब्दो दृष्टिलक्षकस्तद्वत् | न चाब्रह्मस्वरूपस्य मनस उपास्यत्वे स्थाणुशब्दो ब्रह्मणः फलप्रदत्वानुपपत्तिः, अब्रह्मस्वरूपस्याप्यतिथेरुपासने कर्माध्यक्षत्वेन यथा फलं प्रयच्छति, तद्वदत्रापि सम्भवात् । तस्मादब्रह्मणि प्रतीके ब्रह्मधीः कर्तव्या ॥ (पञ्चमे, अङ्गेष्वादित्यत्वादिधीकरणाधिकरणे सूत्रम् - ) पञ्चमाधिकरणमारचयति - आदित्यादावङ्गदृष्टिरङ्गे रव्यादिधीरुत ॥
नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैच्छिकी मतिः ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले ॥
युज्यतेऽतिश्यस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "य एवासौ तपति, तमुद्गीथमुपासीत" इत्यत्राऽऽदित्यदेवतां प्रतीकं कृत्वा कर्माङ्गभूतोद्गीथदृष्टिः कर्तव्या, विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभयोर्ब्रह्मकार्यत्वेन पूर्वाधिकरणोत्कर्षन्यायानवतारेण नियामकाभावात् ॥ इति प्राप्ते, ब्रूमः - आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् ॥ तथासति दृष्टिभिः संस्कृतस्य कर्मणः फलातिशयसम्भवात् । विपर्यये तु कर्माङ्गैरादित्यदेवतायां संस्कृतायां किं तव फलिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति । अन्यथा देवतायाः साधारणत्वेन यजमानायजमानयोः फलसाम्यप्रसङ्गात् । तस्मात् - अङ्गेष्वादित्यादिदृष्टयः कर्तव्याः ॥ (षष्ठे, उपासन आसनावश्यकताधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - नास्त्यासनस्य नियम उपास्तावुत विद्यते ॥
न देहस्थितिसापेक्षं मनोऽतो नियमो न हि ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 शयनोत्थानगमनैर्विक्षेपस्यानिवारणात् ॥
धीसमाधानहेतुत्वात्परिशिष्यत आसनम् ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 'आसीनेनैवोपासितव्यम्' इति नास्ति नियमः, मानसव्यापारं प्रति देहस्थितिविशेषस्यानुपयुक्तत्वात् ॥ इति प्राप्ते, ब्रूमः - परिशेषादासनं नियम्यते । तथाहि - न तावच्छयानेनोपासितुं शक्यम् , अकस्मान्निद्रयाऽभिभूतेः सम्भवात् । नाप्युत्थितेन गच्छता वा, देहधारणमार्गनिश्चयादिव्यापारेण चित्तस्य विक्षिप्तत्वात् । अत आसीनेनैवोपासितव्यम् ॥ (सप्तमे, उपासने दिगादिनियमनिराकरणाधिकरणे सूत्रम् - ) सप्तमाधिकरणमारचयति - दिग्देशकालनियमो विद्यते वा न विद्यते ॥
विद्यते वैदिकत्वेन कर्मस्वेतस्य दर्शनात् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 ऐकाग्र्यस्याविशेषेण दिगादिर्न नियम्यते ॥
मनोनुकूल इत्युक्तेदृष्टार्थं देशभाषणम् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 "ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि" इति दिग्नियमः । "प्राचीनप्रवणे वैश्वदेवेन यजेत" इति देशनियमः । "अथ यदपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति कालनियमः । तदेतन्नियमत्रयं यथा कर्मणि दृश्यते, तथोपासनेऽपि द्रष्टव्य़म् । वौदिकत्वस्याविशेषात् । इति प्राप्ते, ब्रूमः - ऐकाग्र्यं हि ध्यानस्य प्रधानं साधनम् । न च – तस्य दिगादिनियन्त्या कश्चिदतिशयो विद्यते । अतो नास्ति नियमः । अत एव श्रुतिर्योगाभ्यासाय प्रदेशं निर्दिशन्ती "मनोनुकूले" इत्येवाऽऽह । "यस्मिन्देशे सौमनस्यं, तत्रैव मनो युञ्ज्यात् , नतु शास्त्रेण नियमितः कश्चिद्देशोऽस्ति" इत्यर्थः । "समे शुचौ शर्करावह्निवालुकावर्जिते" इति योगाभ्यासाय देशविशेषः श्रूयते - इति चेत् । सत्यम् । दृष्टसौकर्यार्थं तु तत् - इति वाक्यशेषे मनोनुकूलत्वविशेषणान्निश्चीयते । तस्मात् - नास्ति दिगादिनियमः ॥ (अष्टमे, उपासनानामामरणावर्तनाधिकरणे सूत्रम् - ) अष्टमाधिकरणमारचयति - उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽमृति ॥
उपास्त्यर्थाभिनिष्पत्तेर्यावदिच्छं न तूपरि ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्प्रसिद्धये ॥
आमृत्यावर्तनं न्याय्यं सदातद्भाववाक्यतः ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 विजातीयप्रत्ययेनानन्तरितसजातीयप्रत्ययप्रवाह उपास्तिशब्दार्थः । स च कियताऽपि कालेन सम्पद्यते । अतो यावदिच्छमावृत्तिः, न त्वामरणम् ॥ इति प्राप्ते, ब्रूमः - भाविजन्मनः प्रयोजकोऽन्त्यप्रत्यय आमरणमावृत्तिमन्तरेण न सुलभः । अत एव स्मृतिः - "सदा तद्भावभावितः" इत्याह । कथं तर्हि - ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः - । 'कर्मजन्यापूर्ववशात्' इति ब्रूमः - उपासनेऽप्यपूर्वमस्ति - इति चेत् । बाढम् । नैतावता निरन्तरावृत्तिलक्षणो दृष्टोपायः परित्याज्यो भवति । अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्यत्वेन भोजनाद्यर्थो दृष्टः प्रथत्नः परित्यज्येत । ततो दृष्टार्थोपायत्वादामरणमावर्तनं कर्तव्यम् ॥ यद्यपि - एतान्यष्टावधिकरणानि साधनविचारत्वात्पूर्वाध्याये योग्यानि, तथाऽपि फलप्रत्यासन्नसाधनत्वात्फलाध्याये विचारितानि ॥ (नवमे ज्ञानिनः पापलेपनिराकरणाधिकरणे सूत्रम् - ) नवमाधिकरणमारचयति - ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ॥
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ॥
अश्लेषानाशावप्युक्तावज्ञे घोषस्तु सार्थकः ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" । इति पापाविनाशस्य सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेपः ॥ इति प्राप्ते, ब्रूमः - तत्र तावन्निर्गुणब्रह्मात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति 'नाकार्षम् , न करोमि' न करिष्यामि, इति कालत्रयेऽप्यकर्तृब्रह्मस्वरूपत्वेन निश्चितत्वात् । न ह्यकर्तुर्लेपं मन्दा अपि शङ्कन्ते । नापि सगुणब्रह्मविदो लेपोऽस्ति, अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूर्ध्वं देहेन्द्रियव्यवहारवशात्सम्भावितस्य़ पापस्याश्लेषः श्रूयते । तद्यथा - "यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यते" इति । साक्षात्कारात्पूर्वं त्विह जन्मनि जन्मान्तरेषु च सञ्चितस्य पापसङ्घातस्य विनाशः श्रूयते - "तद्यथेषीकातूलमग्नौ प्राोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति । "नाभुक्तम्" - इत्यादि शास्त्रं तु सगुणनिर्गुणब्रह्मज्ञानरहितविषयम् । तस्मात् - नास्ति ज्ञानिनः पापलेपः । (दशमे ज्ञानिनः पुण्यलेपनिराकरणाधिकरणे सूत्रम् - ) दशमाधिकरणमारचयति - पुण्येन लिप्यते नो वा, लिप्यतेऽस्य श्रुतत्वतः ॥
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ॥
श्रुतं पुण्यं पापतया तरणं च समं श्रुतम् ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 मा भूत्पापलेपः । पुण्यलेपस्तु विद्यते, पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन समं विरोधाभावात् ॥ इति प्राप्ते, ब्रूमः - अकर्त्रात्मवस्तुसामर्थ्यात्पापवत्पुण्येनापि न लिप्यते । सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्महेतुत्वात्पापसममेवेतिमत्त्वा पापत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति - "सर्वे पाप्मानोऽतो निवर्तन्ते" इति । अस्यायमर्थः - 'सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तम्, ते सर्वे पाप्मानोऽस्मादुपासकान्निवर्तन्ते' इति । किञ्च – "उभे उ हैवैष एते तरति" इति श्रुतिः पुण्यपापयोरुभयोर्ज्ञानिनां तरणं सममेव ब्रूते । तस्मात् - पापवत्पुण्येनापि न लिप्यते ॥ (एकादशे ज्ञानादनारब्धपुण्यपापयोरेव निवृत्त्यधिकरणे सूत्रम् - ) एकादशाधिकरणमारचयति - आरब्धे नश्यतो नो वा सञ्चिते इव नश्यतः ॥
उभयत्राप्यकर्तृत्वतद्बोधौ सदृशौ खलु ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 आदेहपातसंसारश्रुतेरनुभवादपि ॥
इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानात्पूर्वं सञ्चिते पुण्यपापे द्विविधे - आरब्धे, अनारब्धे च । तयोर्द्विविधयोरप्यकर्तृत्वमात्मनः समानम् , तद्बोधश्च समः । ततः - अनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाशः ॥ इति प्राप्ते, ब्रूमः - श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते । "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये" इति श्रुतिः । अस्या अयमर्थः 'तस्य तत्त्वविदो मुक्तिर्विलम्बमानाऽपि नात्यन्तं विलम्बते । किन्तु गर्भाधानकाले क्लृप्तस्याऽऽयुषः क्षयाभावेन यावद्देहः प्राणैर्न विमोक्ष्यते, तावदेव विलम्बते । अथ देहप्राणवियोगे सति ब्रह्म सम्पद्यते' इति । यथाऽनया श्रुत्या तत्त्वविदोऽप्यादेहपातं संसारोऽङ्गीकृतः, तथा विद्वदनुभवोऽप्यस्मिन्नर्थे स्फुटः । युक्तिश्चोच्यते - यथा लोके तूणनिष्टेषु बाणेषु धानुष्कस्य स्वीकारपरित्यागयोः स्वातन्न्येऽपि मुक्ते बाणे स्वातन्त्र्यं न दृश्यते, स तु बाणो वेगे क्षीणे स्वयं पतति । एवं कुलालचक्रभ्रमणमुदाहर्तव्यम् । तथा दार्ष्टान्तिकब्रह्मज्ञानस्याप्यनारब्धकर्मनाशकत्वे स्वातन्त्र्यमस्तु, न त्वारब्धे कर्मणि, आरब्धस्य प्रवृत्तफलत्वात् । यद्येतैः श्रुत्यादिभिरारब्धस्थितिर्नारभ्युपगम्यते, तदोपदेष्टुरभावाद्विद्यासम्प्रदाय उच्छिद्येत । न तावत् - अविद्वानुपदेष्टा - इति वक्तुं शक्यम् । विद्वांस्तु वेदनसमय एव मुच्यत इति को नामोपदेष्टा सम्भवति । तस्मात् - नाऽऽरब्धयोर्नाशः ॥ (द्वादशे, अग्निहोत्रादिनित्यकर्मणो नाशनिराकरणाधिकरणे सूत्रे - ) द्वादशाधिकरणमारचयति - नश्येन्नो वाऽग्निहोत्रादि नित्यं कर्म, विनश्यति ॥
यतोऽयं वस्तुमहिमा न क्वचित्प्रतिहन्यते ॥ २३ ॥ 【भाष्यम्】 【भाष्यम्】 अनुषक्तफलांशस्य नाशेऽप्यन्यो न नश्यति ॥
विद्यायामुपयुक्तत्वाद्भाव्यश्लेषस्तु काम्यवत् ॥ २४ ॥ 【भाष्यम्】 【भाष्यम्】 ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म, तस्यापि काम्यकर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेयः ॥ इति प्राप्ते, ब्रूमः - द्वावंशौ नित्यकर्मणः - एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः, अपरोऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः । तस्य नाशोऽस्तु नाम । चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः । न हि लोके भोगेनोपक्षीणं व्रीह्यादिकं नष्टं मन्यन्ते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य काम्यवदश्लेषः ॥ (त्रयोदशे नित्यकर्मणोर्विद्यासाधनताधिकरणे सूत्रम् - ) त्रयोदशाधिकरणमारचयति - किमङ्गोपास्तिसंयुक्तमेव विद्योपयोग्युत ॥
केवलं वा, प्रशस्तत्वात्सोपास्त्येवोपयुज्यते ॥ २५ ॥ 【भाष्यम्】 【भाष्यम्】 केवलं वीर्यवद्विद्यासंयुक्तं वीर्यवत्तरम् ॥
इति श्रुतेस्तारतम्यादुभयं ज्ञानसाधनम् ॥ २६ ॥ 【भाष्यम्】 【भाष्यम्】 विद्यासाधनं नित्यकर्म द्विविधं सम्भाव्यते - अङ्गावबद्धोपास्तिसहितम् , तद्रहितं च । तत्र – सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यासाधनम् , न तूपास्तिरहितम् । इति प्राप्ते, ब्रूमः - "यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति श्रुतिः "सोपासनस्य कर्मणोऽतिशयेन वीर्यमस्ति" इति वदन्ती निरुपासनस्यापि वीर्यमात्रमभ्यनुजानाति । अन्यथा तरप्रत्ययानुपपत्तेः । तस्मात् - सोपासननिरुपासनयोस्तारतम्येन विद्यासाधनत्वम् ॥ (चतुर्दशे, अधिकारिणामपि मुक्तिसम्भवाधिकरणे सूत्रम् - ) चतुर्दशाधिकरणमारचयति - बहुजन्मप्रदारब्धयुक्तानां नास्त्युतास्ति मुक् ॥
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥ २७ ॥ 【भाष्यम्】 【भाष्यम्】 आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ॥
सुप्तबुद्धवदश्लेषतादवस्थ्यात्कुतो न मुक् ॥ २८ ॥ 【भाष्यम्】 【भाष्यम्】 अधिकारिपुरुषाणां मुक्तिर्नास्ति, प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वार्जितविद्यायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अवश्यंभावित्वात् ॥ इति प्राप्ते, ब्रूमः - आरब्धं कर्म स्वफले सुखदुःखे भोजयेत् , तदर्थमेव प्रवृत्तत्वात् । न हि विद्यालोपार्थं किञ्चित्कर्म पूर्वमनुष्ठितम् , येन कर्मवशाद्विद्यालोप आशङ्क्येत । न च - मरण व्यवधानमात्रेण विद्यालोपः, सुषुप्तिव्यवधानेन तल्लोपादर्शनात् । अतो विद्यायामवस्थितायां बहुभिरपि क्रियमाणैः कर्मभिरश्लेषात् - अस्त्यधिकारिणां मुक्तिः ॥ यद्यप्येतद्गुणोपसंहारपादे निर्णीतम् , तथाऽपि तस्यैवाऽऽक्षेपसमाधाने - इत्यनवद्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि १४ १६८ सूत्राणि १९ ४९७ (प्रथमे वागादीनां मनसि वृत्तिलयाधिकरणे सूत्रे - ) चतुर्थाध्यायस्य द्वितीयपादे प्रथमाधिकरणमारचयति - वागादीनां स्वरूपेण वृत्त्या वा मानसे लयः ॥
श्रुतिर्वाड्मनसीत्याह स्वरूपविलयस्ततः ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 न लीयतेऽनुपादाने कार्यं वृत्तिस्तु लीयते ॥
वह्निवृत्तेर्जले शान्तेर्वाक्शब्दो वृत्तिलक्षकः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 उत्क्रान्तिक्रमश्छान्दोग्ये श्रूयते - "अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्" इति तत्र – म्रियमाणस्य पुरुषस्य वागादीनि दशेन्द्रियाणि मनसि लीयन्ते । स च लयः किं स्वरूपेण, वृत्त्या वा - इति संशये सति "वाङ्मनसि" इति श्रुतौ वृत्तिशब्दाश्रवणात्स्वरूपलयः ॥ इति प्राप्ते, बूमः - मनसो वागादिकं प्रत्यनुपादानत्वात् उपादान एव कार्यस्य स्वरूपलयः इति मृद्घटादौ व्याप्तिदर्शनान्न वागादीनां स्वरूपेण लयः । वृत्तिस्त्वनुपादानेऽपि लयमर्हति । अङ्गारेषु जलमध्ये प्रक्षिप्तेषु वह्निवृत्तेर्दाहप्रकाशात्मिकाया अनुपादाने जले लयदर्शनात् । श्रुतौ तु वाक्शब्देन वृत्तिर्लक्ष्यते । वृत्तिवृत्तिमतोरभेदोपचारात् - वागादीनां मनसि वृत्तिलयः ॥ (द्वितीये मनसः प्राणे लयाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - मनः प्राणे स्वयं वृत्त्या वा लीयेत, स्वयं यतः ॥
कारणान्नोदकद्वारा प्राणो हेतुर्मनः प्रति ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 साक्षात्स्वहेतौ लीयेत कार्यं प्राणालिके न तु ॥
गौणः प्राणालिको हेतुस्ततो वृत्तिलयो धियः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 वागादिषु मनसि वृत्त्या प्रलीनेषु तन्मनः प्राणे स्वरूपेण लयमर्हति, मनः प्रति प्राणस्योपादानत्वसम्भवात् । तथा हि - "अन्नमयं हि सोम्य मनः" इति श्रुतेर्मनसोऽन्नं कारणम् , "आपोमयः प्राणः" इति श्रुतेश्च प्राणस्याऽऽपः कारणम् । तथासति मनःप्राणशब्दाभ्यां तत्कारणे अन्नोदके उपलक्ष्य 'मनः प्राणे लीयते' इतिवाक्यस्य 'अन्नमप्सु लीयते' इत्यर्थो व्याख्यातव्यः । तथाच कार्यस्य स्वोपादाने लयो भविष्यति तस्मात् - मनसः स्वरूपेण लयः ॥ इति प्राप्ते, ब्रूमः - द्विविधमुपादानम् - मुख्यम्, प्राणालिकं च । तत्र प्राणमनसोर्मृद्घटयोरिव न मुख्य उपादानोपादेयभावोऽस्ति । किं तर्हि - त्वदुक्तप्रकारेण सम्बन्धपरम्परया प्रणाल्या । नहि प्राणालिक उपादाने कार्यस्य लयं क्वचित्पश्यामः । तस्मात् - मनसः प्राणे साक्षादनुपादाने वृत्त्या प्रविलयो द्रष्टव्यः ॥ (तृतीये प्राणानां जीवे लयाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - असोर्भूतेषु जीवे वा लयो, भूतेषु तच्छ्रुतेः ॥
स प्राणस्तेजसीत्याह न तु जीव इति क्वचित् ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 एवमेवेममात्मानं प्राणा यन्तीति च श्रुतेः ॥
जीवे लीत्वा सहैतेन पुनर्भुतेेषु लीयते ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 अन्तर्लीनैकादशेन्द्रिययुक्तस्य प्राणस्य तेजोबन्नेषु भूतेषु वृत्त्या प्रविलयः । न तु जीवे, "प्राणस्तेजसि" इति श्रुतेः ॥ इति प्राप्ते, ब्रूमः - "एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति" इति श्रुतिजीवे प्राणलयमाह । 'यथा राजानं प्रयियासन्तं सर्वे भृत्याः समायन्ति, तद्वत्' इति श्रुतेरर्थः । न च "प्राणस्तेजसि" इति श्रुत्या विरोधः जीवेन सहितः प्राणः पश्चात्तेजआदिभुतेषु लीयते इति व्याख्यातुं शक्यत्वात् । तस्मात् - प्राणो जीवे प्रथमतो लयं प्राप्य पश्चात्तद्द्वारा भूतेषु लीयते ॥ (चतुर्थे ज्ञान्यज्ञानिनोरुत्क्रान्तिसामान्याधिकरणे सूत्रम् - ) चतुर्थाधिकरणमारचयति - ज्ञान्यज्ञोत्क्रान्तिरसमा समा वा, न हि सा समा ॥
मोक्षसंसाररूपस्य फलस्य विषमत्वतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 आसृत्युपक्रमं जन्म वर्तमानमतः समा ॥
पश्चात्तु फलवैषम्यादसमोत्क्रान्तिरेतयोः ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 'निर्गुणब्रह्मज्ञानिनस्तावदुत्क्रान्तिरेव नास्ति' - इति वक्ष्यति । या तु सगुणब्रह्मज्ञानिन उत्कान्तिः नासावज्ञान्युत्क्रान्त्या समाना, ब्रह्मलोकरूपस्य मोक्षस्य, तद्विप रीतसंसारस्वरूपस्य च फलस्य विषमत्वेन तत्प्राप्तिद्वारभूताया उत्क्रान्तेर्वैषम्यस्योचितत्वात् ॥ इति प्राप्ते, ब्रूमः - सगुणज्ञानिनो मूर्धन्यनाडीप्रवेशः, उत्तरमार्गोपक्रमः, ज्ञानरहितस्य नाड्यन्तरप्रवेशो मार्गान्तरोपक्रमः, मार्गपर्यन्तमिदमेव वर्तमानं जन्म, अत ऐहिकसुखदुःखवदुत्क्रान्तिरपि समाना । उपक्रान्ते तु मार्गे त्वदुक्तफलभेदाद्वैषम्यमस्तु ॥ (पञ्चमे, उपासकस्य ब्रह्मणि स्वरूपेण लयनिराकरणाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - स्वरूपेणाथ वृत्त्या वा भूतानां विलयः परे ॥
स्वरूपेण लयो युक्तः स्वोपादाने परात्मनि ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 आत्मज्ञस्य तथात्वेऽपि वृत्त्यैवान्यस्य तल्लयः ॥
न चेत्कस्यापि जीवस्य न स्याज्जन्मान्तरं क्वचित् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "तेजः परस्यां देवतायाम्" इत्यत्र तेजःप्रभृतीनां भूतानां परमात्मनि स्वरूपेण लयो युज्यते, परमात्मनो भूतोपादानत्वात् ॥ इति प्राप्ते, ब्रूमः - आत्मतत्त्वज्ञानिनस्त्वदुक्तप्रकारेण भूतानां स्वरूपेण लयोऽस्तु । तस्य निर्णेष्यमाणत्वात् । उपासकस्य कर्मिणश्च जन्मान्तरसिद्धये वृत्तिलय एवाभ्युपगन्तव्यः ॥ (षष्ठे ज्ञानिनः प्राणानां देहादनुत्क्रान्त्यधिकरणे सूत्राणि - ) षष्ठाधिकरणमारचयति - किं जीवादथवा देहात्प्राणोतत्क्रान्तिर्निवार्यते ॥
जीवान्निवारणं युक्तं जीवेद्देहोऽन्यथा सदा ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 तप्तश्मजलवद्देहे प्राणानां विलयः स्मृतः ॥
उच्छ्वयत्येव देहोऽन्ते देहात्सा विनिवार्यते ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "न तस्य प्राणा उत्क्रामन्ति" इति तत्त्वविदः प्राणानामुत्क्रान्तिर्निषिध्यते । तस्य निषेधस्यापादानं जीवः, न तु देहः । अन्यथा देहादनुत्क्रान्तौ मरणाभावः प्रसज्येत ॥ इति प्राप्ते, ब्रूमः - तप्ताश्मनि प्रक्षिप्तं जलं न यथाऽन्यत्र गच्छति, नापि तत्र दृश्यते, किन्तु स्वरूपेण लीयते । तद्वत्तत्त्वविदः प्राणा देहादनुत्क्रान्ता अपि न देहेऽवतिष्ठन्ते किन्तु विलीयन्ते । अतो जीवनासम्भवात् 'मृतो देहः' इति व्यवहारः । अनुत्क्रान्तानां प्राणानां देहावस्थानाभावे देहस्योच्छूनत्वमेव लिङ्गम् । ननु - इयतः प्रयासाद्वरं देहादुत्क्रान्तिरस्तु, प्रतिषेधस्तु जीवापादानको भविष्यति । मैवम् , देहादुत्क्रान्तस्य जीवेन सहावस्थितेषु प्राणेषु देहान्तरग्रहणस्याऽऽवश्यकत्वान्मुक्तिरेव न स्यात् । तस्मात् - उत्क्रान्तिप्रतिषेधस्य देह एवापादनं, न जीवः ॥ (सप्तमे तत्त्ववित्प्राणानां परमात्मन्येव लयाधिकरणे सूत्रम् - ) सप्तमाधिकरणमारचयति - ज्ञस्य वागादयः स्वस्वहेतौ लीनाः परेऽथ वा ॥
गताः कला इति श्रुत्य स्वस्वहेतुषु तल्लयः ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 नद्यब्धिलयसाम्योक्तेर्वेद्वद्दृष्ट्या लयः परे ॥
अन्यदृष्टिपरं शास्त्रं गता इत्याद्युदाहृतम् ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 तत्त्वज्ञानिनो वागादयः प्राणा विलीयमानाः प्रातिस्विकेष्वगन्न्याद्यधिकरणेषु विलीयन्ते, न तु परमात्मनि "गताः कलाः पञ्चदश प्रतिष्ठाः" इति कलाशब्दवाच्यानां प्राणादीनां प्रतिष्टाशब्दवाच्यस्वस्वकारणप्राप्तिप्रतिपादकत्वात् । "यत्रास्य पुरुषस्याग्निं वागप्येति, वातं प्राणः चक्षुरादित्यम्" इत्यादिश्रुतेः ॥ इति प्राप्ते, ब्रूमः - तत्त्वविदो दृष्ट्या परमात्मन्येव लय इति श्रुत्यन्तरान्निश्चीयते । यथा "नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति श्रुतौ नद्यब्धिलयदृष्टान्त उपन्यस्यते । अथ – दार्ष्टान्तिके परमात्मानि लय इत्ययमर्थो न विशदः - तर्हि श्रुत्यन्तरे विशदो गम्यते - "यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'समुद्रः' इत्येवं प्रोच्यते, एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, 'पुरुष' इत्येवं प्राोच्यते" इति । भिद्येते विलीयेते । सेयं श्रुतिस्तत्त्वविदृष्टिविषया । "गताः कलाः" इति शास्त्रं तु तटस्थपुरुषप्रतीतिविषयम् । म्रियमाणे तत्त्वविदि समीपवर्तिनः पुरुषाः स्वस्वदृष्टान्तेन तदीयवागादीनामप्यग्न्यादिषु लयं मन्यन्ते । अतः श्रुत्योर्न विरोधः । तस्मात् - परमात्मनि तत्त्वविदः प्राणानां लयः ॥ (अष्टमे तत्त्वविद्वागादिलयस्य निःशेषत्वाधिकरणे सूत्रम् - ) अष्टमाधिकरणमारचयति - तल्लयः शक्तिशेषेण निःशेषेणाथवाऽऽत्मनि ॥
शक्तिशेषेण युक्तोऽसावज्ञानिष्वेतदीक्षणात् ॥ १५ ॥ 【भाष्यम्】 【भाष्यम्】 नामरूपविभेदोक्तेर्निःशेषेणैव तल्लयः ॥
अज्ञे जन्मान्तरार्थं तु शक्तिशेषत्वमिष्यते ॥ १६ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरण उक्तो लयो न निःशेषः, किन्तु सावशेषो भवितुमर्हति, वागादिलयत्वात् , अज्ञानिवागादिलयवत् ॥ इति प्राप्ते, ब्रूमः - "भिद्येते तासां नामरूपे" इत्यत्र जीवस्य याः षोडशकलाः संसारहेतवः, तासां कलानां नामरूपविभेदः श्रूयते । कलाश्च वाक्योपक्रमेऽनुक्रान्ताः - "स प्राणमसृजत, प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम् , अन्नाद्वीर्यं तपो मन्त्राः कर्म लोकाः, लोकेषु च नाम च" इति । यदि प्राणादीनां नामान्तानां नामरूपे शक्त्यवशेषेण लीयेते, तदा नामरूपविभेदश्रुतिरुपरुध्यते, शक्त्यात्मान नामरूपयोः सूक्ष्मयोरवस्थानात् अज्ञानिनस्तु जन्मान्तरसिद्धये शक्त्यवशेषत्वमिष्यते । तस्मात् - तत्त्वविदो वागादीनां निःशेषेण परमात्मनि लयः ॥ (नवमे, उपासकोत्क्रान्तेर्विशेषाधिकरणे सूत्रम् - ) नवमाधिकरणमारचयति - अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ॥
हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥ १७ ॥ 【भाष्यम्】 【भाष्यम्】 मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ॥
विद्यासामर्थ्यतश्चापि विशेषोऽस्त्यन्यनिर्गमात् ॥ १८ ॥ 【भाष्यम्】 【भाष्यम्】 उपासकस्य येयमुत्क्रान्तिः, सेयमितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समा - इत्युक्तम् । अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति, हृत्प्रद्योतनादेः समत्वश्रवणात् । तथा हि - "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्रो वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति श्रूयते । अस्यायमर्थः - 'वाड्मनसि सम्पद्यते' इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यशेषं परमात्मनि यदा लीयते, तदा पूर्वजन्म समाप्तं भवति । अथ जन्मान्तराय तल्लिङ्गं पुनर्हृदये प्रादुर्भवति, तस्मिन्नवसरे हृदयाग्नेऽवस्थितस्य लिङ्गस्य गन्तव्यभाविजन्मालोचकात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः कश्चित्प्रद्योतो भवति, तेन युक्तः सन्नाडीभ्यो निर्गच्छति इति । एतच्च सर्वेषां समानम् । तस्मात् - नोपासकस्येतरेभ्यो विशेषः ॥ इति प्राप्ते, ब्रूमः - मूर्धन्ययैव नाड्योपासको निर्गच्छति, इतराभ्य एव नाडीभ्य इतरे । कुतः - उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात् । सगुणब्रह्मविद्यासामर्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमेव गम्यते - "शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिः सृतैका ॥ तयोर्ध्वमायन्नमृनतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति" इति । 'अन्या नाड्य उत्क्रमणायोपयुज्यन्ते, न त्वमृतत्वप्राप्तये' इत्यर्थः । तस्मात् - अस्त्युपासकस्य विशेषः ॥ (दशमे रात्रिमृतस्यापि रश्म्यनुसारित्वाधिकरणे सूत्रे - ) दशमाधिकरणमारचयति - अहन्यव मृतो रश्मीन्याति निश्यपि वा निशि ॥
सूर्यरश्मेरभावेन मृतोऽहन्येव याति तम् ॥ १९ ॥ 【भाष्यम्】 【भाष्यम्】 यावद्देहं रश्मिनाड्योर्योगो ग्रीष्मक्षपास्वपि ॥
देहदाहाच्छ्रुतत्वाच्च रश्मीन्निश्यपि यात्यसौ ॥ २० ॥ 【भाष्यम्】 【भाष्यम्】 "अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते" इति मूर्धन्यनाड्या निर्गतस्य रश्मिसम्बन्धः श्रूयते । स चाहन्येव मृतस्य सम्भवति । न तु रात्रौ, रश्म्यभावात् ॥ इति प्राप्ते, ब्रूमः - रश्मिनाड्योः सम्बन्धो यावद्देहभावी । अत एव ग्रीष्मनिशासु देहदाह उपलभ्यते । ऋत्वन्तरेषु तु प्रतिषिद्धत्वादनुपलम्भः । श्रुतिश्च रश्मिनाड्योरवियोगं दर्शयति - "अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ताः, आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः" इति तस्मात् - निश्यपि मृतो रश्मीन्याति ॥ (एकादशे, अयनाधिकरणे - तत्त्वविदो दक्षिणायनेऽपि विद्याफलाधिकरणे सूत्रे - ) एकादशाधिकरणमारचयति - अयने दक्षिणे मृत्वा धीफलं नैत्यथैति वा ॥
नैत्युत्तरायणाद्युक्तेर्भीष्मस्यापि प्रतीक्षणात् ॥ २१ ॥ 【भाष्यम्】 【भाष्यम्】 आतिवाहिकदेवोक्तेर्वरख्यात्यै प्रतीक्षणात् ॥
फलैकान्त्याच्च विद्यायाः फलं प्राप्नोत्युपासकः ॥ २२ ॥ 【भाष्यम्】 【भाष्यम्】 दक्षिणायने मृतस्योपासकस्य न विद्याफलं ब्रह्मलोकप्राप्तिः सभवति, उत्तरायणस्य ब्रह्मलोकमार्गस्य श्रुतिस्मृत्योः पाठात् । दक्षिणायने मृतस्यापि विद्याफलाङ्गीकारे भीष्मस्योत्तरायणप्रतीक्षणं निरर्थकं स्यात् ॥ इति प्राप्ते, ब्रूमः - 'नोत्तरायणशब्देन कालो विवक्षितः किं त्वातिवाहिकदेवता' इति (ब्र० सू० ४ । ३ । ४) वक्ष्यति । भीष्मस्य प्रतीक्षणं तु पितृप्रसादलब्धस्वच्छन्दमरणवरख्यापनाय । यदि कालविशेषमरणापराधेन फलं न प्राप्नुयात् , तर्हि पाक्षिकफला विद्या प्रसज्येत । तस्मात् - दक्षिणायणे मृतोऽपि विद्याफलं प्राप्नोति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ११ १७९ सूत्राणि २१ ५१८ (प्रथमे, अर्चिरादिकस्यैव ब्रह्मलोकमार्गताधिकरणे सूत्रम् - ) तृतीयपादे प्रथमाधिकरणमारचयति - नानाविधो ब्रह्मलोकमार्गो यद्वाऽर्चिरादिकः ॥
नानाविधः स्याद्विद्यासु वर्णनादन्यथाऽन्यथा ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 एक एवार्चिरादिः स्यान्नानाश्रुत्युक्तपर्वकः ॥
यतः पञ्चाग्निविद्यायां विद्यान्तरवतां श्रुतः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मलोकमार्गश्छान्दोग्यबृहदारण्यकयोः पञ्चाग्निविद्यायामर्चिरादिकः पठितः - "तेऽर्चिषमभिसम्भवन्ति", "अर्चिषोऽहः" - इति । विद्यान्तरे तु वाय्वादिकः - "स वायुमागच्छति" इति । कौषीतकिनः पर्यङ्कविद्यायामग्निलोकादिकमामनन्ति - "स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति" इति । एवमन्यत्रापि द्रष्टव्यम् । तस्मात् - बहुविधो मार्गः ॥ इति प्राप्ते, ब्रूमः - अर्चिरादिक एक एव मार्गः । कुतः - पञ्चाग्निविद्यावाक्यशेषे पञ्चाग्निविद्याविदो विद्यान्तरोपासकांश्चोद्दिश्यार्चिरादिमार्गस्यैव पठितत्वात् । "य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धां तप इत्युपासते, तेऽर्चिषमभिसम्भवन्ति" इति श्रुत्यन्तरोक्तानां वाय्वादीनां गुणोपसंहारन्यायेनार्चिरादिमार्गप्रवेशे सति तत्पूर्वत्वसम्भवात् । तस्मात् - अर्चिरादिमार्ग एक एव ॥ (द्वितीये वायोः संनिवेशाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - संनिवेशयितुं वायुरत्राशक्योऽथ शक्यते ॥
न शक्यो वायुलोकस्य श्रुतक्रमविवर्जनात् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 वायुच्छिद्राद्विनिष्क्रम्य स आदित्यं व्रजेदिति ॥
श्रुतेरर्वाग्रवेर्वायुर्देवलोकस्ततोऽप्यधः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 "तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अन्ह आपूर्यमाणपक्षम् , आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् , मासेभ्यः संवत्सरम् , संवत्सरादादित्यम् , आदित्याच्चन्द्रमसम् , चन्द्रमसो विद्युतम् , तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इति श्रूयमाणेऽर्चिरादिमार्गे शाखान्तरे श्रुतो वायुः केनापि संनिवेशेनान्तर्भावयितुमशक्यः 'अस्योपरि वायुः' इति क्रमस्याश्रुतत्वात् , कल्पकाभावाच्च ॥ इति प्राप्ते, ब्रूमः - श्रुत्यन्तरं तत्कल्पकम् । तथाहि - "स वायुमागच्छति तस्मै स विजिहीते यथा रथचक्रस्य खम् , तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति" इति । इतो निर्गत्योपासको यदा वायुमागच्छति, तदा तद्वायुमण्डलं छिद्रितं भवति, तेन रथचक्रच्छिद्रप्रमाणेन वायुच्छिद्रेण वायुमण्डलमुल्लङ्ध्याऽऽदित्यमण्डलं प्राप्नोति इत्यर्थः । एवं च वायोरादित्यात्पूर्वत्वप्रतीतेः क्रमविशेषोऽवगन्तुं शक्यते । - "मासेभ्यः संवत्सरम् , संवत्सराद्वायुम् , वायोरादित्यम्" इत्येवं सन्निवेशः कर्तव्यः । बृहदारण्यके तु - मासानन्तरं संवत्सरं परित्यज्य तस्य स्थाने देवलोकः पठितः । स च संवत्सरानन्तरं वायोरर्वाङ्निवेशयितव्यः, माससंवत्सरयोः सम्बन्धित्वेन प्रसिद्धयोरानन्तर्यस्यानिवारणीयत्वात् । तदेवं संवत्सरादित्ययोर्मध्ये देवलोकवायुलोकौ संनिवेशयितव्यौ ॥ (तृतीये, वरुणादिलोकानां व्यवस्थाधिकरणे सूत्रम् - ) तृतीयाधिकरणमारचयति - वरुणादेः संनिवेशो नास्ति तत्रोत विद्यतेे ॥
नास्ति वायोरिवैतस्य व्यवस्थाश्रुत्यभावतः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 विद्युत्सम्बन्धिवृष्टिस्थनीरस्याधिपतित्वतः ॥
वरुणो विद्युतोऽस्त्यूर्ध्वं तत इन्द्रप्रजापती ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 कौषीतकिनः पठन्ति - "स वरुणलोकम् , स इन्द्रलोकम् , स प्रजापतिलोकम्" इति । ते वरुणादयस्त्रयो लोका अर्चिरादिमार्गे निवेशयितुमशक्याः, वायोरिव व्यवस्थापकाभावात् ॥ इति प्राप्ते, ब्रूमः - विद्युल्लोकस्योपरि वरुणलोकः सम्बन्धवशाद्व्यवस्थाप्यते, 'विद्युत्पूर्वकवृष्टिगतनीरस्य वरुणोऽधिपतिः' - इति विद्युद्वरुणयोः सम्बन्धः । इन्द्रप्रजापत्योस्तु स्थानान्तरासम्भवेऽपि 'आगन्तुकानामन्ते संनिवेशः' इति न्यायेन वरुणलोकस्योपरि संनिवेशः । तदेवं वरुणादीनां संनिवेशादर्चिरादिमार्गो व्यवस्थितः ॥ (चतुर्थे, अर्चिरादीनामातिवाहिकत्वाधिकरणे सूत्राणि - ) चतुर्थाधिकरणमारचयति - मार्गचिह्नं भोगभूर्वा नेतारो वाऽर्चिरादयः ॥
आद्यौ स्यातां मार्गचिह्नसारूप्याल्लोकशब्दतः ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 अन्ते गमयतीत्युक्तेर्नेतारस्तेषु चेदृशः ॥
निर्देशोऽस्त्यत्र लोकाख्या तन्निवासिजनान्प्रति ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 य एतेऽर्चिरादयः श्रुताः, ते मार्गचिह्नानि भवितुमर्हन्ति, लौकिकमार्गचिन्हसारूण्येण निर्दिश्यमानत्वात् । लोका हि मार्गज्ञानायैवं निर्दिशन्ति - ग्रामान्निर्गत्य नदीं व्रज, ततः पर्वतम् , ततो घोषम् , इति । तद्वदत्रापि - "अर्चिषोऽहः, अह्न आपूर्यमाणपक्षम्" इति निर्दिश्यते । तस्मात् - मार्गचिह्नानि । यद्वा - ब्रह्मलोकं जिगमिषोर्विश्रामस्थान – भोगभूमयोऽर्चिरादयः । कुतः - वायुलोकम् , वरुणलोकम् , इति प्रयुक्तस्य लोकशब्दस्य भोगभूमौ प्रसिद्धत्वात् ॥ इति प्राप्ते, ब्रूमः - "तत्पुरुषोऽमानवः, स एतान्ब्रह्म गमयति" इत्यन्ते श्रूयमाणस्यामानवस्य विद्युत्पुरुषस्य नेतृत्वावगमात् , । तत्साहचर्येणार्चिरादयोऽप्यातिवाहिकदेवता इत्यवगम्यते । यत्तु - निर्देशसाम्यमुक्तम् , तदातिवाहिकदेवतास्वपि समानम् , 'गच्छ त्वमितो बलवर्माणम् , ततो जयगुप्तम् , ततो देवदत्तम्' , इत्यादिनिर्देशदर्शनात् । लोकशब्दस्तूपासकानां तत्र भोगाभावेऽप्यातिवाहिकदेवानां योगमपेक्ष्योपपद्यते । तस्मात् - आतिवाहिका अर्चिरादयः ॥ (पञ्चमे कार्यब्रह्मण एवोत्तरमार्गगम्यत्वाधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - परं ब्रह्माथ वा कार्यमुदङ्मार्गेण गम्यते ॥
मुख्यत्वादमृतत्वोक्तेर्गम्यते परमेव तत् ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 कार्यं स्याद्गतियोग्यत्वात्परस्मिंस्तदसम्भवात् ॥
सामीप्याद्ब्रह्मशब्दोक्तिरमृतत्वं क्रमाद्भवेत् ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "स एतान्ब्रह्म गमयति" इति श्रूयमाणं य़दुत्तरमार्गप्राप्यं वस्तु, तत्परं ब्रह्म भवितुमर्हति । कुतः - ब्रह्मशब्दस्य तत्र मुख्यत्वात् । "तयोर्ध्वमायन्नमृतत्वमेति" इत्यमृतत्वकथनाच्च ॥ इति प्राप्ते, ब्रूमः - सत्यलोकाख्यं कार्यं ब्रह्म, उपासकव्यतिरिक्तत्वात्परिच्छिन्नत्वाच्च गतिपूर्वकप्राप्तियोग्यम् , न तु तथा परं ब्रह्म, तस्य सर्वगत्वात् । उपासकस्वरूपत्वाच्च । ब्रह्मशब्दस्तु मुख्यार्थासम्भवेन सामीप्यसम्बन्धात्सत्यलोकमाचष्टे । समीपो हि सत्यलोकः परब्रह्मणः तल्लोकवासिनां तत्त्वज्ञानेऽवश्यम्भाविनि सति पुनर्जन्मव्यवधानमन्तरेण मोक्ष्यमाणत्वात् । अत एव स्मृतिराह - "ब्रह्मणा सह ते सर्वे प्राप्ते च प्रतिसञ्चरे ॥ परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इति । एवं च सत्यमृतत्वश्रुतिः क्रममुक्त्यभिप्राया । तस्मात् - उत्तरमार्गेण प्राप्यं कार्यं ब्रह्म ॥ (षष्ठे प्रतीकोपासकानां ब्रह्मलोकगतिनिराकरणाधिकरणे सूत्रे - ) षष्ठाधिकरणमारचयति - प्रतीकोपासकान्ब्रह्मलोकं नयति वा नवा ॥
अविशेषश्रुतेरेतान्ब्रह्मोपासकवन्नयेत् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मक्रतोरभावेन प्रतीकार्हफलश्रवात् ॥
न तान्नयति पञ्चग्निविदो नयति तच्छ्रुतेः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "स एतान् ब्रह्म गमयति" इति श्रूयमाणोऽमानवः षुरुषो ब्रह्मोपासकवत्प्रतीकोपासकानपि सत्यलोकं प्रापयति, अविशेषश्रवणात् ॥ इति प्राप्ते, ब्रूमः - "तं यथा यथोपासते तदेव भवति" इति श्रुतौ ब्रह्मभावनारूपः ऋतुर्ब्रह्मप्राप्तिहेतुरित्यवगम्यते । न हि प्रतीकोपासकानां ब्रह्मक्रतुरस्ति, येन ते सत्यलोकं गच्छेयुः । किञ्च यथाप्रतीकमर्वाचीनानि फलानि तेषु श्रूयन्ते - "यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति" इति । 'नामब्रह्मोपासितुः शब्दशास्त्रादिलक्षणे नामविशेषे स्वातन्त्र्यं भवति' इत्यर्थः । कथं तर्हि पञ्चाग्निविदां प्रतीकोपासकानां सत्यलोकप्राप्तिः - 'वचनबलात्' इति ब्रूमः । तस्मात् - प्रायतो न प्रतीकोपासकान्सत्यलोकं प्रापयति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य तृतीयः पादः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अत्र पादे आदितः अधिकरणानि ६ १८५ सूत्राणि १६ ५३४ (प्रथमे मुक्तेर्नवीनत्वनिराकरणाधिकरणे सूत्राणि - ) चतुर्थाध्यायस्य चतुर्थपादे प्रथमाधिकरणमारचयति - नाकवन्नूतनं मुक्तिरूपं यद्वा पुरातनम् ॥
अभिनिष्पत्तिवचनात्फलत्वादपि नूतनम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 स्वेन रूपेणेति वाक्ये स्वशब्दात्तत्पुरातनम् ॥
आविर्भावोऽभिनिष्पत्तिः फलं चाज्ञानहानितः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 "एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति श्रूयते । "अस्यायमर्थः सम्यक्प्रसीदत्युपाध्युपशान्तौ", इति सम्प्रसादो जीवः । स च शरीरत्रयाभिमानं परित्यज्य परं ब्रह्म प्राप्य मुक्तिरूपेणावतिष्ठते, - इति । तत्र – एतन्मुक्तिरूपं न जीवस्य पूर्वसिद्धम् , किन्तु स्वर्गवदागन्तुकम् । कुतः - "अभिनिष्पद्यत" इत्युत्पाद्यत्वश्रवणात् । पूर्वसिद्धत्वे संसारदशायामपि सद्भावेन फलत्वं न स्यात् । तस्मात् - स्वर्गवदिदं नूतनं मुक्तिरूपम् ॥ इति प्राप्ते, ब्रूमः - "स्वेन रूपेणाभिनिष्पद्यते" इति स्वशब्देन विशेषितत्वात्पूर्वमपि विद्यत एवेदं मुक्तिरूपम् । नच – अत्र स्वशब्दः स्वकीयमभिधत्ते, विशेषणवैयर्थ्यप्रसङ्गात् – यद्यद्रूपं मुक्तावुपादत्ते, तत्तत्स्वकीयमेव – इति कस्य व्यावृत्तये विशेष्येत । आत्मवाचित्वे तु स्वशब्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम् । नच – अभिनिष्पत्तिरुत्पत्तिः, पूर्वसिद्धस्योत्पत्तेरसम्भवात् । किं तर्हितत्त्वज्ञानेन ब्रह्मत्वाविर्भावोऽभिनिष्पत्तिः । नच – एवंसति 'उपसम्पद्य, अभिनिष्पद्यते' इत्यनयोः पुनरुक्तिः - इति शङ्कनीयम् , उपसम्पत्तिशब्देन तत्पदार्थशोधनस्य विवक्षितत्वात् । अभिनिष्पत्तिस्तु वाक्यार्थावबोधः । नच – पूर्वसिद्धत्वे मुक्तिरूपस्य फलत्वविरोधः, निवृत्ताज्ञानत्वाकारेण पूर्वसिद्धत्वाभावात् । तस्मात् - पुरातनं वस्त्वेव मुक्तिरूपम् ॥ (द्वितीये मुक्तेर्ब्रह्मभिन्नतानिराकरणाधिकरणे सूत्रम् - ) द्वितीयाधिकरणमारचयति - मुक्तरूपाद्ब्रह्म भिन्नमभिन्नं वा, विभिद्यते ॥
सम्पद्य ज्योतिरित्येवं कर्मकर्तृभिदोक्तितः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 अभिनिष्पन्नरूपस्य स उत्तमपुमानिति ॥
ब्रह्मत्वोक्तेरभिन्नं तद्भेदोक्तिरुपचारतः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणे निर्णीतं यदेतन्मुक्तस्वरूपम् , तत्परस्माद्ब्रह्मणो भिन्नं भवितुमर्हति । कुतः - कर्मकर्तृभेदव्यपदेशात् । "एष सम्प्रसादः परं ज्योतिरुपसम्पद्य" इत्यत्र सम्प्रसादशब्दोदितो जीव उपसम्पत्तौ कर्तृत्वेन व्यपदिश्यते । ज्योतिःशब्दवाच्यं च ब्रह्म कर्मत्वेन । तस्मात् - मुक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नम् ॥ इति प्राप्ते, ब्रूमः - "ज्योतिरुपसम्पद्य" इति वाक्यं तत्पदार्थशुद्धिविषयमुक्तम् । अतस्तदानीं भेदोऽस्तु नाम । तत उपरि "स्वेन रूपेणाभिनिष्पद्यते" इति वाक्यं वाक्यार्थदशापन्नं मुक्तिस्वरूपं प्रतिपादय़ति । न च – तस्य ब्रह्मणा भेदोऽस्ति, "स उत्तमः" पुरुषः इति वाक्ये तच्छब्देनाभिनिष्पन्नरूपमुक्तस्वरूपं परामृश्य तस्योत्तमपुरुषशब्दवाच्यब्रह्मस्वरूपत्वाभिधानात् । तस्मात् - मुक्तस्वरूपं ब्रह्माभिन्नम् ॥ (तृतीये सविशेषत्वादिव्यवस्थानिराकरणाधिकरणे सूत्राणि - ) तृतीयाधिकरणमारचयति - क्रमेण युगपद्वाऽस्य सविशेषाविशेषते ॥
विरुद्धत्वात्कालभेदाद्व्यवस्था श्रुतयोस्तयोः ॥ ५ ॥ 【भाष्यम्】 【भाष्यम्】 मुक्तामुक्तादृशोर्भेदाद्व्यवस्थासम्भवे सति ॥
अविरूद्धं योगपद्यमश्रुतं क्रमकल्पनम् ॥ ६ ॥ 【भाष्यम्】 【भाष्यम्】 मुक्तस्य स्वरूपभूतं ब्रह्म श्रुतिषु द्विधा प्रतिपाद्यते - क्वचित्सविशेषम् । क्वचिन्निर्विशेषम् । तथाहि - "य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः" इति सविशेषत्वश्रुतिः । "स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव" एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इति निर्विशेषत्वश्रुतिः । ते एते सविशेषत्वनिर्विशेषत्वे मुक्तिदशायां ब्रह्मणो न युगपत्सम्भवतः, परस्परविरुद्धत्वात् । अतः कालभेदेनोभे व्यवस्थापनीये ॥ इति प्राप्ते, ब्रूमः - प्रतिपत्तृभेदाद्युगपदेव सविशेषत्वनिर्विशेषत्वे उपपद्येते । मुक्तप्रतिपत्त्या निर्विशेषत्वमेव, बद्धप्रतिपत्त्या तु सविशेषं मुक्तस्वरूपं ब्रह्म सर्वज्ञत्वादिगुणविशिष्ट सज्जगत्कारणत्वेनावभासते । न हि मुक्ताः पुरुषाः कदाचिदपि 'सर्वज्ञत्वसत्यसङ्कल्पत्वादिगुणयुक्ता वयम्' इति प्रतिपद्यन्ते, तत्प्रतिपत्तिहेतुभूताया अविद्याया विनाशितत्वात् । बद्धस्वरूपास्त्वविद्यायुक्ताः सन्तो निर्विशेषमेव ब्रह्म "सर्वज्ञत्वादिविशिष्टम्" इति कल्पयन्ति । अतः प्रतिपत्तृभेदाद्व्यवस्थासिद्धौ किमनेन कालभेदकल्पनेन । तस्मात् - युगपदेव सविशेषत्वनिर्विशेषत्वे ॥ (चतुर्थे परलोकगोपासकस्य भोग्यवस्तुसृष्टौ सङ्कल्पहेतुताधिकरणे सूत्रे - ) चतुर्थाधिकरणमारचयति - भोग्यसृष्टावस्ति बाह्यो हेतुः सङ्कल्प एव वा ॥
आशामोदकवैषम्याद्धेतुर्बाह्योऽस्ति लोकवत् ॥ ७ ॥ 【भाष्यम्】 【भाष्यम्】 सङ्कल्पादेव पितर इति श्रुत्याऽवधारणात् ॥
सङ्कल्प एव हेतुः स्याद्वैषम्यं चानुचिन्तनात् ॥ ८ ॥ 【भाष्यम्】 【भाष्यम्】 पूर्वाधिकरणत्रयेण विदेहमुक्तौ विचारितायां ब्रह्मलोकलक्षणाया मुक्तेरवशिष्टत्वात्तद्विचार आपादसमाप्तेः प्रवर्तते । तत्र – अर्चिरादिमार्गेण ब्रह्मलोकं प्राप्तस्योपासकस्य भोग्यवस्तूनां सृष्टौ बाह्यहेतुरपेक्षितः, न तु मानससङ्कल्पमात्रं तद्धेतुः, तथात्वे सत्याशामोदकसमत्वेन पुष्कलभोगाभावप्रसङ्गात् ॥ इति प्राप्ते, ब्रूमः - "स यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इत्यादिना पितृमातृभ्रातृगन्धमाल्यादिभोग्यसृष्टौ सङ्कल्पस्य साधनत्वमभिधायैवकारेण बाह्यहेतुं निराचष्टे । न च – सङ्कल्पकार्याणामाशामोदकसमानत्वं शङ्कनीयम् , उपार्जितमोदकसमानत्वस्यापि सङ्कल्पयितुं शक्यत्वात् । सङ्कल्पशक्तेरुपासनाप्रसादेन निरङ्कुशत्वात् । तस्मात् - सङ्कल्प एव भोग्यसृष्टौ हेतुः ॥ (पञ्चमे देहभावाभावयोरैच्छिकताधिकरणे सूत्राणि - ) पञ्चमाधिकरणमारचयति - व्यवस्थितावैच्छिकौ वा भावाभावौ तनोर्यतः ॥
विरुद्धौ तेन पुम्भेदादुभौ स्यातां व्यवस्थितौ ॥ ९ ॥ 【भाष्यम्】 【भाष्यम्】 एकस्मिन्नपि पुंस्येतावैच्छिकौ कालभेदतः ॥
अविरोधात्स्वप्नजाग्रद्भोगवद्युज्यते द्विधा ॥ १० ॥ 【भाष्यम्】 【भाष्यम्】 "मनसैतान्कामान्पश्यन्रमते, य एते ब्रह्मलोके" इति मानसं भोगमुपपादयन्ती श्रुतिर्बाह्यदेहस्य सेन्द्रियस्याभावमाह । "स एकधा भवति त्रिधा भवति" इति श्रुतिर्देहसद्भावं ब्रूते । तावेतौ देहभावाभावावेकस्मिन्पुरुषे विरुद्धौ । तयोः पुरुषभेदेन व्यवस्थितिः ॥ इति प्राप्ते, ब्रूमः - एकस्यापि पुरुषस्य कालभेदेन तौ व्यवस्थितौ । यदा देहमिच्छति, तदा सङ्कल्पेन देहं सृष्ट्वा तत्रावस्थितो जाग्रद्दशायामिव भोगान्भुङ्क्ते, यदा देहं नेच्छति, तदा सङ्कल्पेन तमेव देहमुपसंहृत्य स्वप्नदशायामिव मनसैव भोगान्भुङ्क्ते । तस्मात् - एकस्यापि पुरुषस्यैच्छिकौ देहभावाभावौ ॥ (षष्ठे ज्ञानिनोऽनेकदेहेषु सात्मकत्वाधिकरणे सूत्रे - ) षष्ठाधिकरणमारचयति - निरात्मानोऽनेकदेहाः सात्मका वा, निरात्मकाः ॥
अभेदादात्ममनसोरेकस्मिन्नेव वर्तनात् ॥ ११ ॥ 【भाष्यम्】 【भाष्यम्】 एकस्मान्मनसोऽन्यानि मनांसि स्युः प्रदीपवत् ॥
आत्मभिस्तदवच्छिन्नैः सात्मकाः स्युस्त्रिधेत्यतः ॥ १२ ॥ 【भाष्यम्】 【भाष्यम्】 "स एकधा भवति, त्रिधा भवति, पञ्चधा, सप्तधा, नवधा" इति युगपदनेकशरीरस्वीकार ऐच्छिक आम्नायते ॥ तत्र – एको देहः सात्मकः, इतरे निरात्मकाः, आत्ममनसोर्बहुभावस्याश्रुतत्वात् । कल्पकाभावाच्च ॥ इति प्राप्ते, ब्रूमः - अस्ति कल्पकं युगपदनेकदेहभोगानुपपत्तिरूपम् । भोगाय हि वहवो देहा निर्मिताः । न च – एकेनैवाऽऽत्मना मनसा च युगपद्बहुदेहानां भोगो दृष्टचरः । तस्मात् - आत्ममनसोर्बहुत्वं कल्पयितव्यम् ॥ यद्यपि नाऽऽत्मान उत्पाद्याः, तथाऽप्येकेन मनसा सङ्कल्प्य बहुषु मनःसूत्पादितेषु तैर्मनोभिरवच्छिन्ना आत्मानो बहवः स्युः । एतदेवाभिप्रेत्य "स एकधा भवति, त्रिधा भवति" इत्यादि श्रुतम् । तस्मात् - सात्मकाः सर्वे देहाः ॥ (सप्तमे ज्ञानिनो जगत्स्रष्टृत्वनिराकरणाधिकरणे सूत्राणि - ) सप्तमाधिकरणमारचयति - जगत्स्रष्टृत्वमस्त्येषां योगिनामथ नास्ति वा ॥
अस्ति स्वाराज्यमाप्नोतीत्युक्तैश्वर्यानवग्रहात् ॥ १३ ॥ 【भाष्यम्】 【भाष्यम्】 सृष्टावप्रकृतत्वेन स्रष्टृता नास्ति योगिनाम् ॥
स्वाराज्यमीशो भोगाय ददौ मुक्तिं च विद्यया ॥ १४ ॥ 【भाष्यम्】 【भाष्यम्】 ब्रह्मलोकं प्राप्तानामुपासकानां यथा भोगयोग्यदेहेन्द्रियस्रष्टृत्वमस्ति, तथा वियदादिजगत्स्रष्टृत्वमस्ति "आप्नोति स्वाराज्यम्" इति श्रुत्या निरवग्रहैश्वर्यावगमात् ॥ इति प्राप्ते, ब्रूमः - वियदादिजगत्सृष्टिप्रतिपादकेषु प्रकरणेषु सर्वत्र परमात्मैव स्रष्टृत्वेनावगम्यते, न क्वापि योगिनस्तथाऽवगम्यन्ते । अतो न तेषां जगत्स्रष्टृत्वम् । अन्यथाऽनेकेश्वरत्वे सति कश्चित्सिसृक्षति, कश्चित्सञ्जिहीर्षति, इति जगद्व्यवस्था न सिध्येत् । कथं तर्हि - स्वाराज्यश्रुतिः 'ईश्वराधीनस्वाराज्याभिप्रायेण' इति ब्रूमः । ईश्वरो ह्युपासनया तोषितस्तेषां भोगमात्रसिद्धये स्वाराज्यं ददौ, मुक्तिं च तत्त्वविद्योत्पादनेन दत्तवान् । तस्मात् - जगत्सृष्टौ स्वातन्त्र्याभावेऽपि भोगमोक्षयोस्तेषां स्वातन्त्र्यमस्ति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीभारतीतीर्थमुनिप्रणीतायां वैयासिकन्यायमालायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 ॥ समाप्तश्वायमध्यायो ग्रन्थश्च ॥ अत्र पादे आदितः अधिकरणानि ७ १९२ सूत्राणि २२ ५५६ प्रथमोऽध्यायः प्रथमः पादः जिज्ञासाधिकरणम् जन्माद्यधिकरणम् शास्त्रयोनित्वाधिकरणम् समन्वयाधिकरणम् ईक्षत्यधिकरणम् आनन्दमयाधिकरणम् अन्तरधिकरणम् आकाशाधिकरणम् प्राणाधिकरणम् ज्योतिश्चरणाधिकरणम् प्रतर्दनाधिकरणम् द्वितीयः पादः सर्वत्रप्रसिद्ध्यधिकरणम् अत्त्रधिकरणम् गुहाप्रविष्टाधिकरणम् अन्तराधिकरणम् अन्तर्याम्यधिकरणम् अदृश्यत्वाधिकरणम् वैश्वानराधिकरणम् तृतीयः पादः द्युभ्वाद्यधिकरणम् भूमाधिकरणम् अक्षराधिकरणम् ईक्षतिकर्माधिकरणम् दहराधिकरणम् अनुकृत्यधिकरणम् प्रमिताधिकरणम् देवताधिकरणम् अपशूद्राधिकरणम् कम्पनाधिकरणम् ज्योतिरधिकरणम् अर्थान्तरत्वादिव्यपदेशाधिकरणम् सुषुप्त्युत्क्रान्त्यधिकरणम् चतुर्थः पादः आनुमानिकाधिकरणम् चमसाधिकरणम् संख्योपसङ्ग्रहाधिकरणम् कारणत्वाधिकरणम् बालाक्यधिकरणम् वाक्यान्वयाधिकरणम् प्रकृत्यधिकरणम् सर्वव्याख्यानाधिकरणम् द्वितीयोऽध्यायः प्रथमः पादः स्मृत्यधिकरणम् योगप्रत्युक्त्यधिकरणम् नविलक्षणत्वाधिकरणम् शिष्टापरिग्रहाधिकरणम् भोक्त्रापत्त्यधिकरणम् आरम्भणाधिकरणम् इतरव्यपदेशाधिकरणम् उपसंहारदर्शनाधिकरणम् कृत्स्नप्रसक्त्यधिकरणम् सर्वोपेताधिकरणम् प्रयोजनवत्त्वाधिकरणम् वैषम्यनैर्घृण्याधिकरणम् सर्वधर्मोपपत्त्यधिकरणम् द्वितीयः पादः रचनानुपपत्त्यधिकरणम् महद्दीर्घाधिकरणम् परमाणुजगदकारणत्वाधिकरणम् समुदायाधिकरणम् अभावाधिकरणम् एकस्मिन्नसम्भवाधिकरणम् पत्यधिकरणम् उत्पत्त्यसम्भवाधिकरणम् तृतीयः पादः वियदधिकरणम् मातरिश्वाधिकरणम् असम्भवाधिकरणम् तेजोऽधिकरणम् अबधिकरणम् पृथिव्यधिकाराधिकरणम् तदभिध्यानाधिकरणम् विपर्ययाधिकरणम् अन्तराविज्ञानाधिकरणम् चराचरव्यपाश्रयाधिकरणम् आत्माधिकरणम् ज्ञाधिकरणम् उत्क्रान्तिगत्यधिकरणम् कर्त्रधिकरणम् तक्षाधिकरणम् परायत्ताधिकरणम् अंशाधिकरणम् चतुर्थः पादः प्राणोत्पत्त्यधिकरणम् सप्तगत्यधिकरणम् प्राणाणुत्वाधिकरणम् प्राणश्रैष्ठ्याधिकरणम् वायुक्रियाधिकरणम् श्रेष्ठाणुत्वाधिकरणम् ज्योतिराद्यधिकरणम् इन्द्रियाधिकरणम् संज्ञामूर्तिकॢप्त्यधिकरणम् तृतीयोऽध्यायः प्रथमः पादः तदन्तरप्रतिपत्त्यधिकरणम् कृतात्ययाधिकरणम् अनिष्टादिकार्यधिकरणम् साभाव्यापत्त्यधिकरणम् नातिचिराधिकरणम् अन्याधिष्ठिताधिकरणम् द्वितीयः पादः सन्ध्याधिकरणम् तदभावाधिकरणम् कर्मानुस्मृतिशब्दविध्यधिकरणम् मुग्धाधिकरणम् उभयलिङ्गाधिकरणम् प्रकृतैतावत्त्वाधिकरणम् पराधिकरणम् फलाधिकरणम् तृतीयः पादः सर्ववेदान्तप्रत्ययाधिकरणम् उपसंहाराधिकरणम् अन्यथात्वाधिकरणम् व्याप्त्यधिकरणम् सर्वाभेदाधिकरणम् आनन्दाद्यधिकरणम् आध्यानाधिकरणम् आत्मगृहीत्यधिकरणम् कार्याख्यानाधिकरणम् समानाधिकरणम् सम्बन्धाधिकरणम् सम्भृत्यधिकरणम् पुरुषविद्याधिकरणम् वेधाद्यधिकरणम् हान्यधिकरणम् साम्परायाधिकरणम् गतेरर्थवत्त्वाधिकरणम् अनियमाधिकरणम् यावदधिकाराधिकरणम् अक्षरध्यधिकरणम् इयदधिकरणम् अन्तरत्वाधिकरणम् व्यतिहाराधिकरणम् सत्याद्यधिकरणम् कामाद्यधिकरणम् आदराधिकरणम् तन्निर्धारणाधिकरणम् प्रदानाधिकरणम् लिङ्गभूयस्त्वाधिकरणम् ऐकात्म्याधिकरणम् अङ्गावबद्धाधिकरणम् भूमज्यायस्त्वाधिकरणम् शब्दादिभेदाधिकरणम् विकल्पाधिकरणम् काम्याधिकरणम् यथाश्रयभावाधिकरणम् चतुर्थः पादः पुरुषार्थाधिकरणम् परामर्शाधिकरणम् स्तुतिमात्राधिकरणम् पारिप्लवाधिकरणम् अग्नीन्धनाद्यधिकरणम् सर्वापेक्षाधिकरणम् सर्वान्नानुमत्यधिकरणम् आश्रमकर्माधिकरणम् विधुराधिकरणम् तद्भूताधिकरणम् आधिकारिकाधिकरणम् बहिरधिकरणम् स्वाम्यधिकरणम् सहकार्यन्तरविध्यधिकरणम् अनाविष्काराधिकरणम् ऐहिकाधिकरणम् मुक्तिफलाधिकरणम् चतुर्थोऽध्यायः प्रथमः पादः आवृत्त्यधिकरणम् आत्मत्वोपासनाधिकरणम् प्रतीकाधिकरणम् ब्रह्मदृष्ट्यधिकरणम् आदित्यादिमत्यधिकरणम् आसीनाधिकरणम् एकाग्रताधिकरणम् आप्रायणाधिकरणम् तदधिगमाधिकरणम् इतरासंश्लेषाधिकरणम् अनारब्धाधिकरणम् अग्निहोत्राद्यधिकरणम् विद्याज्ञानसाधनत्वाधिकरणम् इतरक्षपणाधिकरणम् द्वितीयः पादः वागधिकरणम् मनोऽधिकरणम् अध्यक्षाधिकरणम् आसृत्युपक्रमाधिकरणम् संसारव्यपदेशाधिकरणम् प्रतिषेधाधिकरणम् वागादिलयाधिकरणम् अविभागाधिकरणम् तदोकोऽधिकरणम् रश्म्यधिकरणम् दक्षिणायनाधिकरणम् तृतीयः पादः अर्चिराद्यधिकरणम् वाय्वधिकरणम् तडिदधिकरणम् आतिवाहिकाधिकरणम् कार्याधिकरणम् अप्रतीकालम्बनाधिकरणम् चतुर्थः पादः सम्पद्याविर्भावाधिकरणम् अविभागेन दृष्टत्वाधिकरणम् ब्राह्माधिकरणम् सङ्कल्पाधिकरणम् अभावाधिकरणम् प्रदीपाधिकरणम् जगद्व्यापाराधिकरणम्
Using this in academic work? Get formal citation
Bhāratī Tīrtha (2026). Vaiyāsika Nyāyamālā. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/vaiyasika-nyayamala
Bhāratī Tīrtha. "Vaiyāsika Nyāyamālā." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/vaiyasika-nyayamala.
Bhāratī Tīrtha. "Vaiyāsika Nyāyamālā." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/vaiyasika-nyayamala.