Vākyavṛtti
Śrī Ādi Śaṅkarācārya
सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुराशिं श्रीवल्लभं विमलबोधघनं नमामि ॥ १॥
यस्य प्रसादादहमेव विष्णुर्मय्येव सर्वं परिकल्पितं च । इत्थं विजानामि सदात्मरूपं तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ २॥
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३॥
अनायासेन येनास्मान्मुच्च्येयं भवबन्धनात् । तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥ ४॥
साध्वीते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५॥
तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६॥
को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥ ७॥
अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोऽहं ब्रह्मैवासि न संशयः ॥ ८॥
पदार्थमेव जानामि नाद्यापि भगवन्स्फुटम् । अहं ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथं वद ॥ ९॥
सत्यमाह भवानत्र विगानं नैव विद्यते । विज्ञानं हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १०॥
अन्तःकरणतद्वृत्तिसाक्षिचैतन्यविग्रहः । आनन्दरूपः सत्यः सन्किं नात्मानं प्रपद्यसे ॥ ११॥
सत्यानन्दस्वरूपं धीसाक्षिणं बोधविग्रहम् । चिन्तयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२॥
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् । वियदादिमहाभूतविकारत्वाच्च कुम्भवत् ॥ १३॥
अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः । करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४॥
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यवधारय ॥ १५॥
एवमिन्द्रियदृङ्नाहमिन्द्रियाणीति निश्चिनु । मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६॥
संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् । द्रष्टारमनुमानेन निपुणं सम्प्रधारय ॥ १७॥
देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः । यस्य सन्निधिमात्रेण सोऽहमित्यवधारय ॥ १८॥
अनापन्नविकारः सन्नयस्कान्तवदेव यः । बुद्ध्यादींश्चालयेत्प्रत्यक् सोऽहमित्यवधारय ॥ १९॥
अजडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि । देहेन्द्रियमनःप्राणाः सोऽहमित्यवधारय ॥ २०॥
अगमन्मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् । एवं यो वेत्ति धीवृत्तिं सोऽहमित्यवधारय ॥ २१॥
स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा । यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२॥
घटावभासको दीपो घटादन्यो यथेष्यते । देहावभासको देही तथाहं बोधविग्रहः ॥ २३॥
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४॥
परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमिति यो द्रष्टा सोऽहमित्यवधारय ॥ २५॥
यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥ २६॥
देहेन्द्रियमनःप्राणाहङ्कृतिभ्यो विलक्षणः । प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥ २७॥
त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः । अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८॥
निरस्ताशेषसंसारदोषोऽस्थुलादिलक्षणः । अदृश्यत्वादिगुणकः पराकृततमोमलः ॥ २९॥
निरस्तातिशयानन्दः सत्यप्रज्ञानविग्रहः । सत्तास्वलक्षणः पूर्ण परमात्मेति गीयते ॥ ३०॥
सर्वज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥ ३१॥
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२॥
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ । तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३॥
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४॥
जीवात्मना प्रवेशश्च नियन्तृत्वं च तान् प्रति । श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५॥
कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६॥
तत्त्वंपदार्थौ निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना । तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७॥
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः । अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८॥
प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः । अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९॥
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४०॥
तदर्थस्य पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१॥
तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थौ द्वावुपादाय प्रवर्तते ॥ ४२॥
हित्वा द्वौ शबलौ वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३॥
आलम्बनतयाभाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४॥
मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । परोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५॥
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते यतस्तस्माल्लक्षणा सम्प्रवर्तते ॥ ४६॥
मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७॥
तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८॥
अहं ब्रह्मेतिवाक्यार्थबोधो यावद्दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ ४९॥
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५०॥
विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥ ५१॥
प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् । किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२॥
निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३॥
Using this in academic work? Get formal citation
Śrī Ādi Śaṅkarācārya (2026). Vākyavṛtti. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/vakyavrtti
Śrī Ādi Śaṅkarācārya. "Vākyavṛtti." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/vakyavrtti.
Śrī Ādi Śaṅkarācārya. "Vākyavṛtti." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/vakyavrtti.