Vanamālā Vyākhyā
Vanamālī Miśra
गुरून्गूढार्थभानाय प्रणमामि निरन्तरम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 जगन्मङ्गलरूपाय सृष्टिस्थित्यन्तकारिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्यानन्दस्वरूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 आचार्यस्य प्रसादेन पूर्वपुण्यैकजन्मना ।
तैत्तिरीयकभाष्यस्य व्याख्यां कुर्वेऽतिभक्तितः ॥ ४ ॥ 【भाष्यम्】 【भाष्यम्】 तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारः तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन सामान्येनोपलक्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति — यस्माज्जातमिति ।
ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति — यैरिति ।
इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पदवाक्यप्रमाणानि । ‘सोऽकामयत’ इत्यादौ ब्रह्मसत्त्वसाधकतया विवक्षितान्यनुमानानि प्रमाणानि । तेषां पदवाक्यप्रामाणानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्साधुत्वविचाररूपत्वात् , वाक्यं मीमांसा वेदवाक्यविचाररूपत्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्यक्षादिप्रमाणविचारात्मकत्वात् ; ततश्च पदवाक्यप्रमाणैः साधनभूतैर्व्याख्याता इत्यर्थः ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 चिकीर्षितं निर्दिशति — तैत्तिरीयकेति । ननु व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसम्भवात्पदस्मारितपदार्थानां यथायोग्यं सम्बन्धस्यैव वाक्यार्थस्यावगन्तुं शक्यत्वात् सूत्रकारेण वेदान्ततात्पर्यस्य निरूपितत्त्वाच्च व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्क्याह — विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासम्भवादुपनिषद्गतनिःशेषपदार्थानां निःसंशयज्ञानं येभ्यो रोचते तेषामुपकारायेत्यर्थः ॥ ३ ॥ 【भाष्यम्】 【भाष्यम्】 उपनिषदः कर्मकाण्डेन नियतपौर्वापर्यसूचितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति — नित्यानीति । पूर्वस्मिन्ग्रन्थे नित्यानि कर्माणि सञ्चितदुरितक्षयार्थत्वेनाधिगतानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धान्तःकरणस्य कर्मानुष्ठानप्रयोजकाविद्याकामपरिहारद्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्तशुद्धिद्वारा साधनत्वात्तत्प्रतिपादकयोरपि कर्मकाण्डोपनिषदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः । ननु कर्मकाण्डस्य चेत्पापक्षयद्वारा विद्यायां विनियोगः, तर्हि पशुस्वर्गादिसाधनभूतानां काम्यकर्मणां तत्रोक्तिरसङ्गता तेषां विद्यासाधनत्वायोगादित्याशङ्क्याह — काम्यानि चेति । अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्यासाधनत्वमप्यस्त्येव, विविदिषावाक्येन नित्यकाम्यसाधारण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्यादिस्मृतिष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्यकर्मविधानमपि विद्योपयोग्येवेति । कर्मोपादानहेतुपरिहारायेत्यत्र निर्दिष्टः कर्मप्रवृत्तिहेतुः क इति जिज्ञासायामाह — कर्महेतुरिति । अत्र यद्यप्यविद्यापि कर्मोपादानहेतुः, तथा च वक्ष्यति - ‘तस्मादविद्यादिकर्मोपादानहेतुनिवृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्महेतुत्वात्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासेनाप्युक्तम् - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति । कामस्य कर्महेतुत्वेऽन्वयव्यतिरेकौ प्रमाणयति — प्रवर्तकत्वादिति । कामे सति प्राणिनां प्रवृत्तिदर्शनादित्यर्थः । आप्तकामानां हीति । अनुपपत्तिपदमभावपरम् । ततश्च आप्तकामानां प्राप्तस्वरूपानन्दानां स्वात्मनि स्वरूपानन्देऽवस्थानाद्धेतोः कामाभावे प्रवृत्त्यभावदर्शनाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः । नन्वाप्तकामत्वे को हेतुः तत्राह — आत्मकामत्वे चेति । आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मिन्सत्याप्तकामता भवतीत्यर्थः । ननु ब्रह्मविद्यैवाप्तकामताहेतुः नात्मानन्दसाक्षात्कारवत्त्वम् ; तत्राह — आत्मा च ब्रह्मेति । ‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः । ब्रह्मविद आत्मानन्दप्राप्तौ मानमाह — तद्विदो हीति । हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्मविदाप्नोति परम्’ इति श्रुतिर्वक्ष्यति, तस्माद्ब्रह्मविदाप्तकाम इत्यर्थः । नन्वात्मानन्दस्य नित्यप्राप्तत्वाद्विद्यया तत्प्राप्तिश्रुतिरनुपपन्ना ; नेत्याह — अत इति । आत्मस्वरूपत्वेऽप्यविद्यावृतत्वाद्विद्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र परप्राप्तिर्विवक्षिता ; अतो न विद्यावैयर्थ्यशङ्केति भावः । ब्रह्मविदः परप्राप्तावेवान्यदपि वाक्यद्वयं पठति — अभयमिति । ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्मभावेनावस्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं परमात्मानमुपसङ्क्रामति प्राप्नोतीत्यर्थः । इदं च वृत्तिकारमताभिप्रायेणोदाहृतम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥ ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरीरसम्बन्धाभावेन युक्ते स्वस्वरूपेऽवस्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरीरसम्बन्धाभावो ब्रह्मात्मैकत्वविद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते — काम्येति । काम्यं कर्म देवादिशरीरहेतुः, प्रतिषिद्धं कर्म तिर्यगादिशरीरहेतुः, नित्यनैमित्तिकाननुष्ठानं प्रत्यवायोत्पादनद्वारा नारक्यादिजन्महेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्यप्रतिषिद्धयोरनारम्भात्सम्यङ्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुत्पादाच्च न भाविजन्मप्राप्तिः, आरब्धफलयोश्च पुण्यपापयोरुपभोगेनैव नाशान्न ततोऽपि भाविजन्मप्राप्तिशङ्का ; तथा च विद्यासम्पादनयत्नं विना मुमुक्षोरेवं वर्तमानस्यात्यन्तिकशरीरसम्बन्धाभावशब्दितः स्वात्मन्येवावस्थानलक्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्मनिमित्तकत्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरीरसम्बन्धाभावरूपमोक्षस्य कर्मसाध्यत्वोक्तिरिति मन्तव्यम् । मीमांसक एव प्रकारान्तरमाह — अथवेति । यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्गशब्दवाच्यस्य निरतिशयसुखस्य स्वरूपानन्दलक्षणान्मोक्षादन्यत्वासम्भवात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्गशब्दवाच्यत्वावगमात् त्रिविष्टपादिजनितसुखे दुःखासम्भिन्नत्वादिविशेषणानामसम्भवात् । तथा च निरतिशयप्रीतिरूपस्य मोक्षस्य कर्महेतुकत्वावगमात्कर्मभ्य एव मोक्षः सिध्यति, किं विद्यासम्पादनयत्नेनेत्यर्थः । तत्राद्यं मतं निराकरोति — न ; कर्मानेकत्वादिति । कर्मणामनेकत्वसम्भवान्न विद्यां विना मोक्षसिद्धिरित्यर्थः । सङ्ग्रहं विवृणोति — अनेकानि हीति । कर्मानेकत्वप्रसिद्धिद्योतनार्थो हि-शब्दः । तेषु कर्मसु यान्यनारब्धफलानि तेषामुपभोगेन क्षयासम्भवात्तानि शेषकर्माणि तन्निमित्तशरीरारम्भ एवंवृत्तस्याप्युपपद्यत इत्यर्थः । नन्वनेकजन्मान्तरकृतानां सर्वेषामेव कर्मणां सम्भूय वर्तमानजन्मारम्भकत्वसम्भवादनारब्धफलानि कर्माणि न सन्त्येव ; नेत्याह — विरुद्धफलानीति । स्वर्गनरकादिरूपविरुद्धफलवतां ज्योतिष्टोमब्रह्महत्यादीनां सम्भूयैकजन्मारम्भकत्वासम्भवेनैकस्मिञ्जन्मन्युपभोगेन तेषां क्षयासम्भवात्सन्त्येव शेषकर्माणीत्यर्थः । सञ्चितकर्मसद्भावे मानमाह — कर्मशेषसद्भावसिद्धिश्चेति । तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः । ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भाविजन्मप्राप्तिरिति शङ्कते — इष्टानिष्टेति । नित्यानां सञ्चितकर्मक्षयफलकत्वं मीमांसकस्य स्वाभ्युपगमविरुद्धमिति दूषयति — नेति । असुखरूपस्येति । सुखसाधनस्येति यावत् । आगामिन इति । नित्याकरणानन्तरमेव प्रसक्तस्येत्यर्थः । नित्यानां तदभ्युपगमेऽपि परस्य नाभिमतसिद्धिरित्याह — यदि नामेति । नित्यान्यनारब्धफलकर्मक्षयार्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्राच्छुद्ध्यशुद्धिरूपयोः सुकृतदुष्कृतयोरेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अतस्तत्पुण्यनिमित्तं भाविजन्म मुमुक्षोरवश्यम्भावीत्यर्थः । विरोधाभावमेव साधयति — न हीत्यादिना । यदुक्तं काम्यप्रतिषिद्धयोरनारम्भादिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रतिषिद्धवर्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मापराधदर्शनात् , काम्यवर्जनमपि सर्वात्मना कर्तुमशक्यमित्याह — न चेति । आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामावश्यम्भावात् काम्यानुष्ठानमपि कदाचिन्मुमुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशेषकर्मक्षयोपपत्तिर्न चेत्यन्वयः । ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह — अनात्मविदो हीति । फलविषयत्वादिति । आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्यमानस्यात्मविदः स्वव्यतिरिक्तफलाभावादिति भावः । तर्हि स्वात्मन्येवानन्दरूपे तस्य कामोऽस्तु ; नेत्याह — स्वात्मनि चेति । नन्वात्मविदः प्राप्तस्वरूपानन्दस्यापि परब्रह्मप्राप्तौ कामोऽस्ति ; नेत्याह — स्वस्येति । विदुष इत्यर्थः । नित्यानुष्ठानेन च प्रत्यवायाभावादिति वदता त्वया यदि प्रत्यवायस्य नित्याकरणजन्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह — नित्यानां चेति । प्रत्यवायानुपपत्तिरिति । प्रत्यवायोत्पत्तिर्न सम्भवतीत्यर्थः । ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति’ इति वचनगतशतृप्रत्ययादकरणस्य प्रत्यवायहेतुत्वमवगम्यते ; अकरणात्प्रत्यवायोत्पत्त्यनुपगमे च शतृप्रत्ययानुपपत्तिरिति ; नेत्याह — इत्यत इति । वक्ष्यमाणरीत्या अकरणस्य प्रत्यवायाहेतुत्वादित्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते उच्यते - यदि यथावन्नित्यानुष्ठानमभविष्यत्तदा सञ्चितदुरितक्षयोऽभविष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति । ननु लक्षणे हेतौ च साधारणाच्छतृप्रत्ययादकरणस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते तत्राह — अन्यथेति । अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अकरणस्याभावरूपताया उक्तत्वादित्यर्थः । तत्रेष्टापत्तिं वारयति — सर्वेति । अभावस्य भावधर्माश्रयत्वायोग्यत्वं प्रत्यक्षादिप्रमाणसिद्धम् , अभावस्य कारणत्वरूपभावधर्माश्रयत्वस्वीकारे तु प्रत्यक्षादिप्रमाणविरोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानुपलब्धेरभावज्ञापकत्वमिति वाच्यम् , अकरणानुपलब्ध्योर्ज्ञातयोरेव ज्ञापकत्वाभ्युपगमेन स्वरूपतस्तयोर्ज्ञानहेतुत्वाभावादित्यन्यत्र विस्तरः । मीमांसकस्याद्यप्रकारनिराकरणमुपसंहरति — इत्यत इति । उक्तप्रकारेण ब्रह्मज्ञानं विना यथावर्णितचरितस्यापि मुमुक्षोर्मोक्षासम्भवादित्यर्थः । अथ वेत्याद्युक्तमप्यनूद्य निराकरोति — यच्चोक्तमित्यादिना । किं केवलकर्मणां मोक्षारम्भकत्वम् , विद्यासहितानां वा नाद्य इत्याह — तन्नेति । ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह — न हीति । लोके यन्नित्यमात्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्तिदर्शनादित्यर्थः । द्वितीयकल्पमनूद्य निराकरोति — विद्यासहितानामिति । विद्यारूपसहकारिमहिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः । विरुद्धमिति । विद्यारूपसहकारिमहिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्तिविरोधात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्यादिश्रुतिविरोधाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निरतिशयप्रीतेरात्मस्वरूपत्वेनारभ्यत्वायोगाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्गकामश्रुतिविरोधः, तत्र निरतिशयप्रीतिवाचकस्य स्वर्गशब्दस्य कर्मयोग्यतानुसारेण विषयजनितसुखविशेषे लाक्षणिकत्वोपपत्तेः । एतच्च बृहदारण्यकषष्ठाध्यायवार्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् । शङ्कते — यद्विनष्टमिति । यद्घटादि विनष्टं तत्पुनर्नोत्पद्यत इति दर्शनात् घटादिविनाशरूपस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुनरुत्पत्तिप्रसङ्गः स्यात् ; ध्वंसप्रागभावानधिकरणकालस्य प्रतियोगिकालत्वनियमादित्यर्थः । ततः किम् तत्राह — प्रध्वंसाभाववदिति । प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्तिर्विवक्षिता ; निरतिशयप्रीतिरूपा च मुक्तिर्भावरूपैव तवापि संमता, अतो न मुक्तेर्नित्यत्वं सिध्यतीति दूषयति — नेति । परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह — प्रध्वंसाभावोऽपीति । प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भावति, नैरुक्तैर्जनेर्भावपदार्थधर्मत्वप्रतिपादनविरोधेनाभावस्य भावरूपजन्माश्रयत्वायोगेन च प्रध्वंसाभावे जन्मरूपविशेषाभावाभ्युपगमादित्यर्थः । कथं तर्हि वादिनां प्रध्वंसाभावे जन्माश्रयत्वज्ञानमित्याशङ्क्य भ्रान्तिमात्रमेतदित्याह — विकल्पमात्रमेतदिति । ननु प्रध्वंसाभावस्य प्रतियोगिजन्यत्वाभावे तत्प्रतियोगिकत्वं न स्यादित्याशङ्क्य प्रागभावात्यन्ताभावयोरिव तस्य तत्प्रतियोगिकत्वं सम्भवतीत्याशयेनाह — भावप्रतियोगी ह्यभाव इति । अभावस्य भावप्रतियोगिकत्वं घटाभावः पटाभाव इति व्यवहारसिद्धमिति हि-शब्दार्थः । नन्वाभावे भावप्रतियोगिकत्वविशेषाभ्युपगमे तत्र जनिरूपविशेषोऽपि परमार्थोऽस्त्विति न शङ्कनीयम् , भावप्रतियोगिकत्वस्यापि तत्र परमार्थत्वासिद्धेरित्येतत्सदृष्टान्तमाह — यथा हीति । भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटादिभिर्विशेष्यते घटादिप्रतियोगिकत्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रतीयमानाभावोऽप्येक एव, समवायसत्ताजात्यादिवत् लाघवात् ; स चाभावः सर्वविशेषरहितोऽपि भावेषु घटादिषु मुद्गराभिघातादिजनितक्रियायोगाद्घटादिप्रतियोगिकत्वेन जातत्वेन च वादिभिर्भ्रान्त्या परिकल्प्यते, द्वावभावावित्यादिव्यवहारात् सङ्ख्यागुणयोगमभावस्य मत्वा द्रव्यत्वेनाभावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्यान्तर्भावमाशङ्कमानस्याभावे गुणाश्रयत्वद्रव्यत्वभ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भावप्रतियोगिकत्वजन्माश्रयत्वादिरस्तीति भ्रान्तिरिति । अभावस्य वस्तुतो जन्मादिरूपभावधर्माश्रयत्वे बाधकमाह — न ह्यभाव इत्यादिना । भावधर्माश्रयस्य भावत्वनियमप्रसिद्धिद्योतनार्थो हि-शब्दः । विशेषणसहभावीति । विशेषणाश्रय इत्यर्थः । नन्वेकस्याभावस्य जन्मादिकल्पनास्पदस्य ब्रह्मतुल्ययोगक्षेमस्याङ्गीकारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावाद्वैताभिप्रायेणास्य भाष्यस्य प्रवृत्त्युपपत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मातिरिक्तः, ब्रह्मणि कल्पितघटादिप्रतियोगिकत्वात् कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् । साध्यस्य मोक्षस्य स्वरूपेण नित्यत्वायोगेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते — विद्याकर्मकर्तुरिति । कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्याकर्मलक्षणसाधनसन्तानजनितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह — गङ्गेति । नेति । मुक्तिकालेऽपि साधनानुष्ठातृत्वरूपस्य कर्तृत्वस्यानुवृत्त्युपगमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छेदादनित्यत्वं तदवस्थमेवेत्यर्थः । तस्मादिति । मोक्षस्य साध्यत्वे नित्यत्वभङ्गप्रसङ्गादित्यर्थः । काम आदिपदार्थः । कर्मोपादानहेतोरविद्यादेर्निवृत्तौ सत्यामित्यर्थः । ननु ब्रह्मात्मनावस्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्मन्यवस्थानमिति शङ्कां निराकरोति — स्वयं चेति । नन्वविद्यादिनिवृत्तिरेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह — तद्विज्ञानादिति । कर्मणामविद्यानिवर्तने सामर्थ्याभावादिति भावः । इति-शब्दो विचारसमाप्त्यर्थः । एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति — अतो ब्रह्मविद्यार्थेति । ब्रह्मविद्याया एव मुक्तिसाधनत्वादित्यर्थः । ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याशयेनोपनिषच्छब्दार्थमाह — उपनिषदितीति । अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्मसामीप्यमुच्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयोरभेदनिश्चयरूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्रत्ययश्चात्र कर्तरि विवक्षितः । ततश्च प्रत्यग्ब्रह्मैक्यगोचरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्मविद्योच्यत इत्यर्थः । एतदेव विवृणोति — तच्छीलिनामिति । ब्रह्मविद्याभ्यासशीलवतामित्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भादीनामवसादनं नाशनम् । उपनिगमयितृत्वात् प्रत्यक्तया प्रापयितृत्वादित्यर्थः । एवमुपनिषत्पदस्य ‘षदॢ विशरणगत्यवसादनेषु’ इति वैयाकरणप्रसिद्धिमनुसृत्यार्थत्रयं दर्शितम् । इदानीं स्वयमर्थान्तरमाह — उप निषण्णं वेति । उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः । उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति — तदर्थत्वादिति । विद्याप्रयोजनकत्वाद्ग्रन्थोऽप्युपनिषत्पदेन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्मविद्यार्थत्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्कामोऽधिकारीति सूचितं भवति ॥ एवं विषयादिमत्त्वादुपनिषदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते — शं सुखमित्यादिना । शमित्यस्य सुखकृदित्यर्थः । चक्षुषीति । चक्षुष्यादित्यमण्डले च वर्तमानस्तयोरभिमानीत्यर्थः । बल इति । बाह्वोर्बलेऽभिमानित्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः । विस्तीर्णक्रम इति । त्रिविक्रमावतारे विस्तीर्णपादोपेत इत्यर्थः । शरीरस्थप्राणकरणाभिमानिनीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते अत्राह — तासु हीति । विद्यार्थं श्रवणम् , श्रुतस्याविस्मरणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमादिकमादिपदार्थः । नमो ब्रह्मण इत्यादेस्तात्पर्यमाह — ब्रह्म विविदिषुणेति । त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया । परोक्षेति । नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बोधनात्प्रत्यक्षतया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायोर्ब्रह्मशब्दितसूत्रात्मतारूपेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्यक्षत्वादित्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः । वायोः प्रत्यक्षब्रह्मत्ववदने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे — त्वमेव चक्षुराद्यपेक्ष्येत्यादिना । बाह्यमप्रत्यक्षं चक्षुराद्यपेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः । प्रत्यक्षत्वे हेतुरव्यवहितत्वम् ; तदेव विवृणोति — संनिकृष्टमिति । त्वगिन्द्रयसंनिकृष्टमित्यर्थः । वदिष्यामीति । वदामीत्यर्थः । ऋतसत्यशब्दयोरपुनरुक्तमर्थं वदन्नेव तौ व्याचष्टे — ऋतमित्यादिना । स एवेति । शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः । त्वदधीन एवेति । कर्मसम्पादनस्य प्राणवाय्वधीनत्वदर्शनादिति भावः । सर्वात्मकमिति । समष्टिव्यष्ट्यात्मकमित्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्मदादिप्राणरूपेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परोक्षप्रत्यक्षनिर्देशाभ्यां प्रकृतमिति मत्वा तत्सर्वात्मकमिति सर्वनामप्रयोग इति मन्तव्यम् । एवं स्तुतमिति । उक्तप्रकारेण ब्रह्मवदनक्रियया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् । आध्यात्मिकेति । ज्वरशिरोरोगादय आध्यात्मिकाः, चोरव्याघ्राद्युपद्रवा आधिभौतिकाः, यक्षराक्षसाद्युपद्रवा आधिदैविका इति विभागः ॥ शीक्षाध्यायारम्भस्य तात्पर्यमाह — अर्थज्ञानेत्यादिना । यत्नोपरम इति । अध्ययनकाले स्वरादिष्वौदासीन्यमित्यर्थः । स्वरवर्णादिव्यत्यासे च सत्यन्यथार्थावबोधः प्रसज्जेत ; ततश्चानर्थप्रसङ्गः स्यात् ‘मन्त्रो हीनः स्वरतो वर्णतो वा’ इत्यादिशास्त्रादिति भावः । नन्वेवं सति कर्मकाण्डेऽप्ययमध्यायो वक्तव्य इति चेत् , सत्यम् ; अत एवोभयसाधारण्यायायं काण्डयोर्मध्ये पठितः । ननु तर्हि भाष्ये उपनिषद्ग्रहणमनर्थकम् ; नानर्थकम् , उपनिषत्पाठे यत्नाधिक्यद्योतनार्थत्वोपपत्तेः । तथा हि - कर्मकाण्डे क्वचिदन्यथार्थज्ञानपूर्वकान्यथानुष्ठानस्य प्रायश्चित्तेन समाधानं सम्भवति, ‘अनाज्ञातं यदाज्ञातम्’ इत्यादिमन्त्रलिङ्गात् । ज्ञानकाण्डे तु सगुणनिर्गुणवाक्यानामन्यथार्थावबोधे सति सम्यगुपासनानुष्ठानतत्त्वज्ञानयोरलाभात्पुरुषार्थासिद्धिरेव स्यात् , प्रायश्चित्तेनात्र समाधानासम्भवात् । अतो यथावद्ब्रह्मबोधायोपनिषत्पाठे यत्नाधिक्यं कर्तव्यमिति द्योतनार्थत्वेनोपनिषद्ग्रहणमुपपद्यत इति ॥ शीक्षाशब्दस्य द्वेधा व्युत्पत्तिं दर्शयति — शिक्ष्यत इत्यादिना । लक्षणपदम् ‘अकुहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, ऌतुलसानां दन्ताः’ इत्यादिशास्त्रपरम् । नन्वेवं सति वर्णाद्युच्चारणलक्षणं शिक्ष्यतेऽनयेति व्युत्पत्तिरयुक्ता, तल्लक्षणस्य शीक्षाशब्दितेऽध्याये शिक्षणादर्शनादित्याशङ्क्य व्युत्पत्त्यन्तरं दर्शयति — शिक्ष्यन्त इति । वेदनीयत्वेनोपदिश्यन्त इत्यर्थः । चक्षिङ इति । ‘चक्षिङः ख्याञ्’ इति सूत्रेण ख्याञादिष्टो यस्य तस्येदं रूपम् , न तु ‘ख्या प्रकथने’ इत्यस्य, तस्यार्धधातुके प्रयोगाभावादित्यर्थः । व्यक्ता वाक्कर्म क्रिया अर्थो यस्य तस्येत्यर्थः । मध्यमवृत्त्येति । अतिद्रुतत्वादिकं विनेत्यर्थः ॥ अथातः संहिताया इत्यादेस्तात्पर्यमाह — अधुनेति । वर्णानामत्यन्तसामीप्यं संहिता, तद्विषयोपनिषदुपासनमिदानीमुच्यत इत्यर्थः । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः । संहितोपनिषच्छेषमाशीर्वादान्तरं प्रथममाह — तत्रेति । उपनिषत्परिज्ञानमुपासनविषयकं ज्ञानम् ; तच्च शिष्यस्याचार्योपदेशजनितमाचार्यस्य च तदुपदेशप्रयोजकम् , तन्निमित्तकं यश इत्यर्थः । तेज इति । मुखकान्त्यादिरूपमुपनिषत्परिज्ञाननिमित्तकमित्यर्थः । ननु सहैवास्त्विति केन प्रार्थ्यते तत्राह — शिष्यवचनमिति । तत्र विनिगमकमाह — शिष्यस्य हीति । तस्याकृतार्थत्वं प्रसिद्धमिति हि-शब्दार्थः । नन्वाचार्योऽप्यकृतार्थ एव शिष्यसापेक्षत्वादिति ; नेत्याह — कृतार्थो हीति । न ह्याचार्यस्य स्वप्रयोजनसिद्ध्यर्थं शिष्यापेक्षास्ति, किं तु केवलं तदनुग्रहार्थमेवाचार्यप्रवृत्तिरिति भावः । नन्वेवमाचार्यस्य शिष्येण किमर्थं यशआदि प्रर्थ्यते स्वार्थमेवेति ब्रूमः, यशस्विनः शिष्या हि लोके यशस्विनो भवन्ति ; यशस्विनां च लाभपूजादिकं फलं प्रसिद्धम् ; अतः स्वार्थमेव शिष्यो गुरोर्यशः प्रार्थयत इत्यनवद्यम् । पूर्ववृत्तस्यानन्तरमिति सम्बन्धः । वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह — यतोऽत्यर्थमिति । ज्ञानमुपासनम् , तदेव विषयः, तस्मिन्नित्यर्थः । ग्रन्थसंनिकृष्टामेवेति । संहितारूपग्रन्थप्रधानामेवेति यावत् । नन्वधिकरणेष्विति सप्तम्या लोकादिषु संहितादृष्टिविधिरिह विवक्षित इति प्रतीयते ; तथा सति लोकानामेव संहितादृष्ट्योपास्यत्वं स्यात् ; तच्चोपक्रमोपसंहारविरुद्धम् , ‘अथातः संहितायाः’ इत्युपक्रमे ‘य एवमेता महासंहीता व्याख्याता वेद’ इत्युपसंहारे च संहिताया एवोपास्यत्वावगमादित्याशङ्क्याह — ज्ञानविषयेष्वित्यर्थ इति । अधिकरणपदस्य विषयपरत्वोक्तिरुपलक्षणम् ; सप्तमी तृतीयार्थपरेत्यपि द्रष्टव्यम् । तथा च लोकाद्यात्मना संहितैवोपास्येति लभ्यते, अतो न विरोध इति भावः । लोकेष्वधीति । लोकविषयकमिति यावत् । एवमुत्तरत्रापि । अत्र विधित्सितानामुपासनानां स्तावकं ता महासंहिता इति वाक्यम् । तद्व्याचष्टे — ता एता इति । अथाधिलोकमथाधिज्योतिषमित्यादिवाक्यस्थाथशब्दानामर्थमाह — दर्शनक्रमेति । अत्रोपासनस्यैकत्वेन कर्तुरेकत्वाल्लोकादिभेदेन प्रयोगभेदाच्चावश्यम्भाविनि क्रमे तद्विधानार्था अथ-शब्दा इत्यर्थः । तत्राद्योऽथशब्द आरम्भार्थः, इतरे तन्निरूपितक्रमार्था इति भावः । उपनिषदः कथं कर्तव्या इत्याकाङ्क्षायामाह — तासामित्यादिना । ननु संहितायाः पूर्ववर्णः पृथिवीति कथं सामानाधिकरण्यं तयोर्भेदादित्याशङ्क्याह — पूर्ववर्ण इति । मनो ब्रह्म इत्यादिवदत्र सामानाधिकरण्यमिति भावः । मध्यमिति । पूर्वोत्तररूपे सन्धीयेते अस्मिन्निति व्युत्पत्त्या यत्सन्धिशब्दवाच्यं पूर्वोत्तररूपयोर्मध्यम् , तत्रान्तरिक्षलोकदृष्टिः कर्तव्येत्यर्थः ॥ वायुरिति । सन्धीयेते पूर्वोत्तररूपे अनेनेति व्युत्पत्त्या सन्धानशब्दवाच्यं यत्संहितारूपम् , तत्र वायुदृष्टिः कर्तव्येत्यर्थः । इदं च क्वचिदुदाहृत्य प्रदर्श्यते - ‘इषे त्त्वा’ इत्यत्र षकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपः ; यश्चोपरितनस्तकारः स द्युलोकः ; तयोर्वर्णयोर्मध्यदेशोऽन्तरिक्षलोकः ; तस्मिन्देशे संहितानिमित्तो द्विर्भावेनापादितो योऽन्यस्तकारः स वायुरिति । समानमिति । अथाधिज्योतिषम् , अग्निः पूर्वरूपम् , आदित्य उत्तररूपम् , आपः सन्धिः, वैद्युतः सन्धानम् , इत्यधिज्योतिषम् । ज्योतिःशब्देनात्र जहल्लक्षणया आपः सङ्गृहीताः । विद्युदेव वैद्युतः । अथाधिविद्यम् , आचार्यः पूर्वरूपम् , अन्तेवास्युत्तररूपम् , विद्या सन्धिः, प्रवचनं सन्धानम् , इत्यधिविद्यम् । इत्यधिविद्यमित्यत्र विद्याशब्देन आचार्यादयो जहल्लक्षणयैव सङ्गृहीता इति बोध्यम् । विद्याशब्दश्चाध्येतव्यग्रन्थपरः । ग्रन्थस्याध्ययनमध्यापनं वा प्रवचनम् । अथाधिप्रजम् , माता पूर्वरूपम् , पितोत्तररूपम् , प्रजा सन्धिः, प्रजननं सन्धानम् , इत्यधिप्रजमित्यत्र प्रजाशब्दो मात्रादीनपि पूर्ववत्सङ्गृह्णाति । प्रजननं प्रजाया उत्पत्तिः । अथाध्यात्मम् , अधरा हनुः पूर्वरूपम् , उत्तरा हनुरुत्तररूपम् , वाक्सन्धिः, जिह्वा सन्धानम् , इत्यध्यात्मम् । अत्रात्मा देहः, तदवयवविषयमुपासनमध्यात्ममित्यर्थः । एतेषु समानं योजनमित्यर्थः । उपप्रदर्श्यन्त इति । उपसंह्रियन्त इति यावत् । वेदेत्यस्य ज्ञानवाचित्वात्कथं ज्ञानावृत्तिरूपोपासनपरत्वमित्याशङ्क्य तत्साधयति — वेदेत्युपासनं स्यादित्यादिना । विज्ञानाधिकारादिति । उपास्तिप्रकरणादित्यर्थः । तत्र मानमाह — इति प्राचीनेति । यथाशास्त्रमित्यनेन यत्राहङ्ग्रहश्चोदितस्तत्राहङ्ग्रहेण, अन्यत्र तं विनेति विवक्षितम् । तुल्यत्वमेकविषयकत्वम् । अतत्प्रत्ययैरिति । ध्येयान्यगोचरैः प्रत्ययैरित्यर्थः । एकवस्तुगोचरा विच्छेदरहिता प्रत्ययसन्ततिरुपासनमिति निष्कर्षः । ननु सकृत्प्रत्यय एवोपासनमस्तु, किं तदावृत्त्येत्याशङ्क्य क्रियावृत्तावेवोपासनशब्दः प्रसिद्धो लोके, न सकृत्क्रियायाम् , अतोऽत्र वेदेत्यनेन प्रत्ययक्रियावृत्तिरेव लक्षणीयेत्याशयेनाह — प्रसिद्धश्चेत्यादिना । ननु तत्रापि सकृदुपचारक्रियैवोपासनम् ; नेत्याह — यो हीति । पृथिवी पूर्वरूपमित्यादिवेदनमात्रात्फलासम्भवादप्युपासनमेवात्र विधेयम् , उपासनस्य तु योग्यतया वक्ष्यमाणं फलं सम्भवति, लोकेऽप्युपासनस्य फलवत्त्वसिद्धेरित्याशयेनाह — स चेति । गुर्वाद्युपासक इत्यर्थः । अतोऽत्रापीति । गुर्वाद्युपासनस्य लोके फलवत्त्वदर्शनात् अत्रापि संहिताविषयेऽपि, य एवं लोकादिदृष्ट्या संहिता उपास्त इत्यर्थः । सन्धीयत इति । सम्बध्यत इत्यर्थः । अत्र फलकामिना क्रियमाणमुपासनं कामितफलाय भवति, फलाभिसन्धिरहितेन तु क्रियमाणं तदेव विद्यासाधनं भवतीति ब्रह्मविद्यासंनिध्याम्नानबलात्कल्प्यत इति मन्तव्यम् ॥ ननु यश्छन्दसामित्यादयो मन्त्राः किमर्थमाम्नायन्ते तत्राह — मेधेति । मेधाकामस्य मेधाप्राप्तिसाधनं जप उच्यते, श्रीकामस्य श्रीप्राप्तिसाधनं होम उच्यत इति विभागः । एवं तात्पर्यवर्णने कारणमाह — स मेन्द्र इत्यादिना । ऋषभ इति । गवां मध्ये प्रधानत्वाद्यथा ऋषभः श्रेष्ठः, तथा वेदानां मध्ये प्रणवः श्रेष्ठः प्राधान्यादित्यर्थः । ननु कथमोङ्कारस्य सर्वरूपत्वमित्याशङ्क्याह — सर्ववाग्व्याप्तेरिति । शब्दमात्रे कृत्स्नस्याभिधेयस्यान्तर्भावम् ‘तस्य वाक्तन्तिः’ इत्यादिश्रुत्युक्तं सिद्धं कृत्वा तस्य सर्वशब्दात्मकत्वे प्रमाणमाह — तद्यथेति । ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णा’ इति श्रुत्यन्तरम् । तस्य चायमर्थः - यथा लोके अश्वत्थपर्णानि शङ्कुशब्दवाच्येन स्वगतशलाकाविशेषेण व्याप्तानि, तद्वदोङ्कारेण सर्वा शब्दात्मिका वाग्व्याप्तेति । अत एवेति । विश्वरूपत्वाच्च तस्य श्रेष्ठत्वमित्यर्थः । नन्वोङ्कारस्यात्र स्तुतिरन्याय्या ; नेत्याह — ओङ्कारो ह्यत्रेति । अस्यां संहितोपनिषद्योङ्कारस्य ‘ओमिति ब्रह्म’ इत्यत्रोपासनं प्रसिद्धमिति हि-शब्दार्थः । ओङ्कारस्य सर्ववेदेषु प्राधान्यं कुत इत्याशङ्क्य तद्धेतुप्रदर्शनपरं छन्दोभ्य इति वाक्यं व्याचष्टे — वेदेभ्य इत्यादिना । अमृतादिति वेदविशेषणम् ‘वेदा ह्यमृताः’ इति श्रुत्यन्तरात् , एकवचनं च च्छान्दसमित्याशयेनाह — वेदा ह्यमृतमिति । वेदानाममृतत्वं नित्यत्वम् , तच्चावान्तरप्रलये नाशाभावरूपं विवक्षितम् । न त्वात्यन्तिकं नित्यत्वमस्ति वेदानाम् ; कल्पादौ सृष्टिश्रवणात् , महाप्रलये नाशाभ्युपगमाच्च । इदं च देवताधिकरणे विस्तरेण निरूपितं तत्रैव द्रष्टव्यम् । सम्बभूवेत्यस्यार्थमाह — लोकदेवेति । सारिष्ठमिति । सारतममित्यर्थः । तथा च श्रुतिः - ‘प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःसुवरिति तान्यभ्यतप्तेभ्योऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्’ इति । अभ्यतपत् सारजिघृक्षया पर्यालोचितवानित्यर्थः । त्रयो वेदास्त्रयी विद्या । यद्यप्यस्यां श्रुतौ लोकानन्तरं देवा न श्रूयन्ते, तथापि ‘प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां रसान्प्राबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां रसान्प्राबृहत्’ इत्यत्र देवा अपि श्रूयन्त इत्यभिप्रेत्य देवग्रहणमिति मन्तव्यम् । प्राबृहत् गृहीतवान् , सारत्वेन ज्ञातवानित्यर्थः । ननु सम्बभूवेति पदं जन्मपरत्वेनैव कुतो न व्याख्यायते तत्राह — न हीति । नित्यस्येति । अवान्तरप्रलयावस्थायिन इत्यर्थः । प्रणवस्य वेदान्तर्भूतत्वेन वेदसमानयोगक्षेमस्य वेदेभ्यः सकाशान्मुख्यं जन्म न हि सम्भवतीत्याशयः । परमेश्वर इत्यस्य विवरणं सर्वकामेश इति । ननु मेधाप्रदानेन यत्प्रीणनं तात्कालिकप्रीतिसम्पादनं न तद्विद्याकामस्य विवक्षितं प्रयोजनमित्यस्वरसादाह — बलयतु वेति । अत्र विद्याकामस्यापेक्षां दर्शयति — प्रज्ञाबलं हीति । प्रज्ञात्र मेधाशब्दार्थः । सा च ग्रन्थतदर्थधारणशक्तिः, सैव बलम् । प्रज्ञाबलस्य च ‘नायमात्मा बलहीनेन लभ्यः’ इति श्रुतिसिद्धं विद्यासाधनत्वं द्योतयितुं हि-शब्दः । तदधिकारादिति । अमृतशब्दमुख्यार्थस्य ब्रह्मणो धारणासम्भवादमृतशब्देन मुख्यार्थादन्यदेव किञ्चिल्लक्षणीयम् ; तच्चामृतशब्दितब्रह्मप्राप्तिसाधनं ब्रह्मज्ञानमेव वक्तव्यम् , तत्साधनप्रज्ञाप्रार्थनेन तस्यैव बुद्धिस्थत्वादित्यर्थः । पुरुषविपरिणाम इति । उत्तमपुरुषत्वेन पूर्वत्र प्रयुक्तस्य भूयासमित्यस्य भूयादिति प्रथमपुरुषत्वेनात्र व्यत्यासः कर्तव्य इत्यर्थः । मधुरभाषिणीति । भूयादित्यनुषङ्गः । ननु चक्षुरादेरपि ज्ञानं प्रत्यानुकूल्यं कुतो न प्रार्थ्यते प्रार्थ्यत एवेत्याशयेन शरीरं मे विचर्षणमित्यादेर्विवक्षितमर्थमाह — आत्मज्ञानेति । कार्यं स्थूलशरीरम् , करणानि चक्षुरादीनि, तेषां सङ्घातः समुदाय इत्यर्थः । ननु सङ्घातनिष्ठा योग्यता चेदात्मज्ञानाय प्रार्थ्यते, किमर्थं तर्हि मेधा प्रार्थ्यते तत्राह — मेधा चेति । रोगादिप्रतिबन्धरहितस्य जितेन्द्रियस्यापि मेधां विनात्मज्ञानासम्भवात्सापि प्राधान्येनात्मज्ञानार्थमेव प्रार्थ्यत इत्यर्थः । आत्मज्ञानं प्रति प्रज्ञायाः प्रकृष्टसाधनत्वद्योतनार्थो हि-शब्दः । अत्राचेतनस्याप्योङ्कारस्य ब्रह्माभेदेन प्रार्थितदाने सामर्थ्यमवगन्तव्यम् । ननु कथं तस्य ब्रह्माभेदः तत्प्रतीकत्वादिति ब्रूमः । कथं तस्य तत्प्रतीकत्वम् तत्राह — ब्रह्मणः परमात्मन इति । नन्वसिं प्रति प्रसिद्धकोशस्येव ब्रह्म प्रति प्रणवस्य स्वस्मिन्नन्तर्भावयितृत्वरक्षकत्वादेरभावान्न मुख्यं कोशत्वमस्ति ; तत्राह — उपलब्धीति । यथासिः कोशे उपलभ्यते तथा ओङ्कारे ब्रह्मोपलभ्यते ; ततश्चोपलब्धिस्थानत्वसाम्यात्कोशशब्दो गौण ओङ्कार इत्यर्थः । तदेव साम्यं विवृणोति — त्वं हीति । तस्य ब्रह्मप्रतीकत्वे श्रुत्यन्तरप्रसिद्धिद्योतनार्थो हि-शब्दः । प्रतीकमिति । दृष्ट्यालम्बनमित्यर्थः । ब्रह्मदृष्टिफलमाह — त्वयीति । उपलब्धिः साक्षात्कारः । ननु यद्योङ्कारः प्रार्थितफलदाने समर्थस्तर्हि किमिति स सर्वैर्नोपास्यत इति शङ्कावारणर्थं मेधया पिहित इति वाक्यम् । तद्व्याचष्टे — मेधयेत्यादिना । ननु शास्त्राजनिता प्रज्ञा लौकिकप्रज्ञा, तस्याः कथं पीठादेरिव पिधायकत्वमित्याशङ्क्यात्र विवक्षितं पिधानं कथयति — स त्वमिति । उक्तलौकिकप्रज्ञामात्रयुक्ताः सामान्यप्रज्ञाः ; स त्वं सामान्यप्रज्ञैरविदितमहिमासि ; तस्मात्त्वं न सर्वैरुपास्यत इत्यर्थः । श्रवणपूर्वकमात्मज्ञानादिलक्षणं विज्ञानं श्रुतम् , तत्प्राप्त्यविस्मरणादिना गोपायेति योजना । प्रथमादिपदेन मननजनितं ज्ञानं सङ्गृह्यते । द्वितीयादिपदेन रागादिलक्षणप्रतिबन्धनिवृत्तिः सङ्गृह्यते । तदुक्तं वार्त्तिके - ‘रागद्वेषादिहेतुभ्यः श्रुतं गोपाय मे प्रभो’ इति । तत्कर्मत्वादिति । तनोतेर्धातोस्तदर्थकत्वादित्यर्थः । ममेति । ममान्नपानादिकं सर्वमानयन्ती सर्वदा सम्पादयन्ती तथा सम्पादितं सर्वं विस्तारयन्ती वर्धयन्ती वर्धितं सर्वं चिरं दीर्घकालं कुर्वाणा वर्तयन्ती, यथा विनष्टं न भवति तथा कुर्वतीति यावत् । अचिरमिति च्छेदः सम्भावनामात्रेण । दैर्घ्यं छान्दसम् । किमित्याहेति । किमावहन्तीत्याकाङ्क्षायामाहेत्यर्थः । अत्रावहन्तीत्यादिपदत्रयं श्रियो विशेषणम् । नन्वावहन्तीत्यादिपदत्रयस्य प्रथमान्तस्य, द्वितीयान्तस्य श्रीपदस्य च कथं विशेषणविशेष्यभावेनान्वय इत्याशङ्क्याध्याहारेण योजयति — श्रीर्यातामीति । तामावहेत्युत्तरेणान्वयः । ततो मे श्रियमित्यत्र तत इत्यस्य व्याख्या मेधानिर्वर्तनात्परमिति । ननु मेधानिष्पत्त्यनन्तरमेव किमिति श्रीः प्रार्थ्यते तत्राह — अमेधसो हीति । प्रज्ञाहीनस्यापात्रव्ययादिना धनादिकमनर्थायैवेत्येतत्प्रसिद्धम् ; अतो मेधानन्तरमेव श्रीः प्रार्थ्यत इत्यर्थः । किंविशिष्टां चेति । पुनश्च किंविशिष्टामित्यर्थः । अजादीनां लोमशत्वात्तद्रूपा श्रीर्लोमशेति भावः । श्रियमावहेति कः सम्बोध्यते तत्राह — अधिकारादिति । संनिधानादित्यर्थः । ओङ्कारस्य प्रार्थितश्रीप्रदाने योग्यतासूचनार्थो हि-शब्दः । मेधाविनः श्रीयुक्तस्य विद्याप्रदानाय शिष्यप्राप्तिप्रार्थनामन्त्र आ मा यन्त्विति । तं व्याचष्टे — आयन्तु मामिति । स्वस्याचार्यत्वप्रयुक्तकीर्तिप्रार्थनामन्त्रो यशो जन इति । तं व्याचष्टे — यशस्वीति । ‘वस निवासे’ ‘वस आच्छादने’ इति धातुद्वयादुप्रत्ययः शीलार्थे । वेश्मसु वसनशीलः पराच्छादनशीलो वा वसुः ; अतिशयेन वसुर्वसीयान् , तस्माद्वसीयसः ईलोपश्छान्दसः । यद्वा धनवाचिना वसुशब्देन वसुमाँल्लक्ष्यते ; तथा च अतिशयेन वसुमान्वसुमत्तरः, तस्मादित्यर्थः इत्याशयेनाह — वसुमत्तराद्वेति । तेष्विति । वसीयःसु वसुमत्तरेषु वेत्यर्थः । विद्यातत्साधनप्रार्थनानन्तरं विद्याफलप्रार्थनां दर्शयति — किं चेति । नन्वत्र विदुषो ब्रह्मरूपे प्रणवे मुख्यप्रवेशासम्भवादहं ब्रह्मास्मीति ज्ञानमेव तस्य तस्मिन्प्रवेशत्वेन विवक्षणीयम् । तस्य चामृतस्य देव धारणो भूयसमित्यनेनैव प्रार्थितत्वात्पुनरुक्तिः स्यादित्याशङ्क्य तात्पर्यमाह — प्रविश्य चेति । वाक्यद्वयस्य विवक्षितमर्थं सङ्क्षिप्याह — आवयोरिति । भेदहेतुमज्ञानं नाशयेत्यर्थः ; तयोरेकत्वस्य स्वतः सिद्धत्वादिति मन्तव्यम् । बहुभेद इति । शिवविष्ण्वाद्यनेकमूर्त्युपेते त्वयि पापं नाशयामि, त्वन्मूर्तिभजनेन पापं नाशयामीति यावत् । यदुक्तं ब्रह्मचारिणो मामायन्त्विति, तदेव दृष्टान्तेन प्रपञ्चयति — यथेति । अतो मामिति । त्वन्निष्ठायाः संसारश्रमापनयनस्थानत्वात्तदपनयाय मां प्रति स्वात्मानं तत्त्वतः प्रकाशयेत्यर्थः । आदरसूचनार्थमुक्तज्ञानं पुनः संप्रार्थ्य मुक्तिमपि तदर्थमेव पुनः प्रार्थयते — प्रपद्यस्व चेति । रसविद्यो लोहो रसमयो भवति, तद्वन्मां त्वन्मयं कुर्वित्यर्थः । विद्यासंनिधौ श्रुतस्य श्रीकामस्य प्रणाड्या विद्यायामुपयोगं दर्शयति — श्रिकामोऽस्मिन्त्यादिना । विद्या प्रकाशत इति । प्रकाशतेऽभिव्यज्यते, उत्पद्यत इति यावत् । यथा आदर्शतले निर्मले प्रतिबिम्बं स्फुटं पश्यति, तथा पापक्षयेण निर्मलादर्शतलतुल्येऽन्तःकरणे ब्रह्मात्मानं पश्यतीति स्मृतेरुत्तरार्धार्थः ॥ वृत्तानुवादपूर्वकमुत्तरानुवाकद्वयतात्पर्यमाह — संहिताविषयमित्यादिना । संहितोपासनं फलाभिसन्धिं विनानुष्ठितं चित्तशुद्धिद्वारा विद्योपयोगार्थमिति सूचयति — ते चेति । च-शब्दोऽप्यर्थः । संहितोपासनवत्तेऽपीत्यर्थः । अन्तरिति । व्याहृतीनां श्रद्धागृहीतत्वात्तत्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहति । अतो व्याहृतिशरीरस्य ब्रह्मणो हृदयान्तरुपासनमुपदिश्यत इत्यर्थः । तात्पर्यमुक्त्वाक्षरव्याख्यानाय प्रतीकमादत्ते — भूर्भुवः सुवरिति । इतीत्युक्तेति । भूर्भुवःसुवरिति वाक्येनोक्तानां व्याहृतीनां पाठक्रमलब्धक्रमानुवादार्थः श्रुतावितिशब्द इत्यर्थः । प्रदर्शितानामिति । प्रदर्शितक्रमोपेतानां व्याहृतीनां स्वरूपानुवादार्थ एतास्तिस्रो व्याहृतय इति शब्द इत्यर्थः । ननु क्रमतः स्वरूपतश्च ताः किमर्थं परामृश्यन्ते तत्राह — परामृष्टा इति । स्मृतिं विवृणोति — तिस्र एता इति । स्मर्यन्ते तावदिति । तावच्छब्दः प्राथम्यार्थः । कर्मकाण्डे कर्माङ्गत्वेन प्रसिद्धव्याहृतयः इह प्रथमं स्मर्यन्ते वै-शब्देन तासु क्रमेणोपासनविधानार्थमित्यर्थः । सोमपानार्थं महांश्चमसो यस्य स महाचमस इति वेदभाष्यकाराः । अपत्यमिति । गोत्रापत्यमित्यर्थः । तथा च वार्त्तिके दर्शितम् - ‘महाचमसगोत्रत्वाद्गोत्रार्थस्तद्धितो भवेत्’ इति । प्रवेदयत इति लटो भूतार्थपरत्वेन व्याख्याने हेतुमहा — उ ह स्म इत्येतेषामिति । ऋषेश्चतुर्थव्याहृतिविषयकं वेदनं योगप्रभावजनितं प्रत्यक्षमेवेति मत्वाह — ददर्शेत्यर्थः इति । आर्षेति । ऋषिसम्बन्ध्यनुस्मरणमार्षम् , तस्यानुस्मरणस्य कर्तव्यताद्योतनार्थमित्यर्थः । ननु तस्योपासनाङ्गत्वे सति कर्तव्यता सिध्यति, तदेव कुत इति ; तत्राह — ऋष्यनुस्मरणमपीति । इहोपदेशादिति । उपासनप्रकरणे ऋषेः सङ्कीर्तनादित्यर्थः । उत्तरत्रोपदेक्ष्यमाणाया गतेरपि चिन्तनमुपासनाङ्गत्वेन कर्तव्यमिहोपदेशाविशेषादित्यपेरर्थः । तद्ब्रह्मेति । तच्चतुर्थव्याहृतिस्वरूपं ब्रह्मेति चिन्तयेदित्यर्थः । इतरव्याहृतित्यागेन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधाने नियामकमाह — महद्धि किल ब्रह्म महती च व्याहृतिरिति । महत्त्वं व्यापकत्वम् , तच्च ब्रह्मणः श्रुतिषु प्रसिद्धमिति द्योतनार्थौ हि किलेति निपातौ । चतुर्थव्याहृतेरितरव्याहृत्यपेक्षया व्यापकत्वं वक्ष्यति । तथा च व्यापकत्वसाम्येन चतुर्थव्याहृतिस्वरूपे ब्रह्मदृष्टिविधिरिति भावः । चतुर्थव्याहृतेर्व्यापकत्वं निरूपयितुं पृच्छति — किं पुनस्तदिति । मह इति व्याहृतिस्वरूपं ब्रह्मेत्युक्तम् , तद्व्याहृतिस्वरूपं पुनरपि किं कीदृशमित्यक्षरार्थः । अत्रोत्तरं स आत्मेति श्रुतिः । विधेयापेक्षया पुंलिङ्गनिर्देशः, स चतुर्थव्याहृतिस्वरूपमात्मा इतरव्याहृत्यपेक्षया व्यापकमित्यर्थः । ननु चेतने रूढस्यात्मशब्दस्य कथं व्यापकत्वमर्थः योगेनेत्याह — आप्नोतेरिति । व्याप्तिः कर्म क्रिया अर्थो यस्य ; ततश्च व्याप्तिवाचकादाप्नोतेः सकाशान्निष्पन्नोऽयमात्मशब्दो व्यापकत्वबोधक इत्यर्थः । मह इति व्याहृतेरात्मश्रुत्युक्तमितरव्याहृत्यपेक्षया व्यापकत्वमुपपादयति — इतराश्चेत्यादिना यतोऽत इत्यन्तेन । च-शब्दोऽवधारणे । नन्वितरव्याहृतयो मह इत्यनेन व्याप्यन्त इत्ययुक्तम् , इतरव्याहृतेषु मह इत्यस्याक्षरानुवृत्तेरदर्शनादित्याशङ्क्याह — आदित्यचन्द्रब्रह्मान्नभूतेनेति । मह इति व्याहृत्यात्मन आदित्यादिभूतत्वमित्थं श्रूयते - ’मह इत्यादित्यः, मह इति चन्द्रमाः मह इति ब्रह्म, मह इत्यन्नम्’ इति । मह इति ब्रह्मेत्यत्र ब्रह्मोङ्कार इति वक्ष्यति । नन्वादित्यादीनां लोकादिष्वेव व्याप्तिः, न व्याहृतिषु, अनुपलम्भात् ; ततश्च कथमादित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन इतरा व्याहृतयो व्याप्यन्त इत्याशङ्क्य तासामादित्यादिव्याप्यतासिद्ध्यर्थं लोकाद्यात्मकतामाह – लोकादेवावेदाः प्राणाश्चेति । इतरव्याहृतयो लकदेववेदप्राणात्मिका इत्यक्षरार्थः । तासामित्थं लोकाद्यात्मकत्वं श्रूयते - ‘भूरिति वा अयं लोकः, भुव इत्यन्तरिक्षम् , सुवरित्यसौ लोकः ; भूरिति वा अग्निः, भुव इति वायुः, सुवरित्यादित्यः ; भूरिति वा ऋचः, भुव इति सामानि, सुवरिति यजूषि ; भूरिति वै प्राणः, भुव इत्यपानः, सुवरिति व्यानः’ इति । अत्र पृथिव्यन्तरिक्षद्युलोकानामादित्यव्याप्यता प्रसिद्धा, अग्निवाय्वादित्यदेवतानां चन्द्रव्याप्यता प्रसिद्धैव, चन्द्रसूर्ययोः स्वदीप्त्या सर्वलोकव्यापकत्वात् ; वागात्मकानां वेदानामोङ्कारव्याप्यता ‘तद्यथा शङ्कुना’ इत्यादिश्रुतिसिद्धा, प्राणानामन्नरसद्वारान्नव्याप्यता प्रसिद्धा ; तथा च लोकदेववेदप्राणात्मिका इतरव्याहृतयो यत आदित्यचन्द्रब्रह्मान्नभूतेन मह इत्यनेन व्याहृत्यात्मना व्याप्यन्ते, अतो मह इति व्याहृतेरितरापेक्षया व्यापकत्वमित्यर्थः । इत्थं स आत्मेति वाक्यं व्याख्याय अनन्तरवाक्यमादत्ते — अङ्गानीति । नन्वन्या व्याहृतयो यथा देवतारूपत्वेन श्रुतास्तथा लोकादिरूपत्वेनापि श्रुताः ; ततश्च कथमग्न्यादिदेवतारूपाणामेव तासामङ्गत्ववचनम् तत्राह — देवताग्रहणमिति । देवतापदमजहल्लक्षणया लोकादीनामपि ज्ञापनार्थम् ; अतो नोक्तदोष इत्यर्थः । लोकाद्युपलक्षणे कृते सति फलितम् ‘अङ्गान्यन्या देवताः’ इति वाक्यार्थं दर्शयति — मह इत्येतस्येत्यादिना इतीत्यन्तेन । अत्रेतिशब्दोऽत इत्यर्थे, यत इत्युपक्रमात् ; तथा च यत आदित्यादिभिर्लोकादयो महीयन्ते अतः सर्वे देवा लोकादयश्च मह इत्येतस्य व्याहृत्यात्मनोऽवयवभूता इति योजना । अत्र दृष्टान्तमाह — आत्मना हीति । प्रसिद्धशरीरस्य मध्यभागोऽत्रात्मशब्दार्थः । तेन हस्तपादाद्यङ्गानि महीयन्ते । शरीरमध्यभागगतान्नादिना अङ्गानां वृद्धिः प्रसिद्धेति हि-शब्दार्थः । अयं भावः - यथा देवदत्तस्य मध्यमभागं प्रति पादादीन्यङ्गानि मध्यमभागाधीनवृद्धिभाक्त्वात् , मध्यमभागश्चाङ्गी तद्वृद्धिहेतुत्वात् , तथा लोकाद्यात्मिका इतरव्याहृतयः पादादिरूपाङ्गाणि, आदित्याद्यात्मकं चतुर्थव्याहृतिस्वरूपमङ्गीति कल्प्यते ; मह इत्यस्यादित्याद्यात्मनेतरवृद्धिहेतुत्वेन वृद्धिहेतुत्वसाम्यात् , इतरव्याहृतीनां च लोकाद्यात्मना तदधीनवृद्धिभाक्त्वेन प्रसिद्धाङ्गवद्वृद्धिभाक्त्वसाम्यात् ; तत्रापि प्रथमा व्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इति विभागः ; तथा च व्याहृतिचतुष्टयं मिलित्वा शरीरं सम्पद्यते ; तस्मिन्व्याहृतिमये शरीरे यदङ्गित्वेन कल्पितं चतुर्थव्याहृतिस्वरूपं तत्र तद्ब्रह्मेति वाक्येन ब्रह्मदृष्टिर्विहिता ; तथा च वक्ष्यति - मह इत्यङ्गिनि ब्रह्मणीति । आदित्यादीनां च लोकादिवृद्धिहेतुत्वमित्थं श्रूयते - ‘आदित्येन वाव सर्वे लोका महीयन्ते, चन्द्रमसा वाव सर्वाणि ज्योतीषि महीयन्ते, ब्रह्मणा वाव सर्वे वेदा महीयन्ते, अन्नेन वाव सर्वे प्राणा महीयन्ते’ इति । अयमर्थः लोकास्तावदादित्येन प्रकाशिताः सन्तः प्राणिनां व्यवहार्यत्वलक्षणां वृद्धिं प्राप्नुवन्ति ; अग्निवाय्वादित्यदेवतारूपाणि ज्योतींषि चन्द्रमसा वर्धन्त इत्येतत् ‘प्रथमां पिबते वह्निः’ इत्यादिशास्त्रसिद्धम् , चन्द्रकलापानेन तेषां वृद्धेरावश्यिकत्वात् ; ब्रह्मणा प्रणवेन सर्वे देवा वर्धन्ते वेदवृद्धेः प्रणवपूर्वकाध्ययनाधीनत्वात् , तथा च वक्ष्यति ‘ओमिति ब्राह्मणः प्रवक्ष्यन्नाह’ इति ; अन्नेन प्राणा वर्धन्त इत्येतत्प्रसिद्धम् , श्रुतिश्चात्र भवति ‘शुष्यति वै प्राण ऋतेऽन्नात्’ इति । भूरिति वा अयं लोक इत्यादावैकैका व्याहृतिश्चतुष्प्रकारा ज्ञातव्येति तात्पर्यमाह — अयं लोक इत्यादिना । भूरितीति । चतुर्धा भवतीति शेषः । एवमुत्तरा इति । अन्तरिक्षं वायुः सामान्यपान इति द्वितीया व्याहृतिर्भुव इति, सुवर्लोक आदित्यो यजूंषि व्यान इति तृतीया व्याहृतिः सुवरिति, आदित्यश्चन्द्रमा ओङ्कारोऽन्नमिति चतुर्थीं व्याहृतिर्मह इति ; एवमेता उत्तरा व्याहृतयः प्रत्येकं चतुर्धा भवन्तीत्यर्थः । मह इति ब्रह्मेत्यत्र ब्रह्मशब्दस्य मुख्यार्थपरत्वं वारयति — ब्रह्मेत्योङ्कार इति । भूरिति वा ऋच इत्यादिना वेदावयवभूतशब्दसंनिधाने मुख्यार्थग्रहणायोगात् , चतुर्थव्याहृतौ पूर्वमेव मुख्यब्रह्मदृष्टेरुक्तत्वेन पौनरुक्त्यप्रसङ्गाच्चेत्यपि द्रष्टव्यम् । धा-शब्दस्य प्रकारवचनत्वे सति चतस्रश्चतुर्धेति वाक्यस्य फलितमर्थं क्रियाध्याहारपूर्वकं दर्शयति — चतस्रश्चतस्रः सत्य इति । स्वरूपेण चतस्रो व्याहृतयो द्रष्टव्यलोकादिभेदेन प्रत्येकं चतस्रः सत्य इत्यर्थः । ननु व्याहृतिषु प्रत्येकं पदार्थचतुष्टयदृष्टिवाक्येभ्य एव तासां प्रत्येकं चतुर्धात्वक्लृप्तिसिद्धेः चतस्रश्चतुर्धेति वाक्यं पुनरुक्तमिति ; नेत्याह — तासां यथाक्लृप्तानामिति । भूरिति वा अयं लोक इत्यादिवचनानां व्याहृतिस्तुतिपरत्वशङ्कानिरासेन तथैवोपासनकर्तव्यतावश्यिकत्वद्योतनार्थं इत्यर्थः । चतस्रश्चतस्रो व्याहृतय इति वाक्यं तु निरूपितानां तासामुपसंहारार्थमिति भावः । ज्ञातस्य ब्रह्मणः पुनर्ज्ञानोपदेशे पौनरुक्त्यं स्यादिति शङ्कते — नन्विति । तद्ब्रह्मेति वाक्ये ब्रह्ममात्रमवगतं न तु तद्गुणजातम् , ‘स वेद ब्रह्म’ इति वाक्येतु वक्ष्यमाणगुणविशिष्टत्वेन ज्ञातव्यत्वमुपदिश्यते । तथा च वक्ष्यमाणगुणविशिष्टत्वेन पूर्वमज्ञातत्वान्न पौनरुक्त्यमिति परिहरति — नेति । न च वक्ष्यमाणगुणानामपि वक्ष्यमाणानुवाकेनैवावगन्तुं शक्यत्वादिदं वचनं व्यर्थमेव स्यादिति वाच्यम् ; एतदनुवाकावगते चतुर्थव्याहृत्यात्मके ब्रह्मणि वक्ष्यमाणगुणवत्त्वावगमस्यैतद्वचनाधीनत्वेन वैयर्थ्याप्रसक्तेरिति भावः । सङ्ग्रहं विवृणोति — सत्यमित्यादिना । न तु तद्विशेषो विज्ञायत इति सम्बन्धः । तस्य ब्रह्मणो विशेषमेव विवृणोति — हृदयान्तरित्यादिना । योऽयमुत्तरानुवाकोपक्रमे दर्शितो हृदयान्तरुपलभ्यमानत्वमनोमयत्वादिर्हिरण्मयत्वान्तो गुणपूगः यश्च तदुपसंहारे प्रदर्शित आकाशशरीरत्वादिशान्तिसमृद्धमित्येवमन्तो धर्मपूगः, स न ज्ञायत इत्यर्थः । विशेषणविशेष्यरूप इत्यत्र विशेष्यपदमविवक्षितार्थम् ; अत एव धर्मपूगस्य विशेषणत्वमात्रमेव वक्ष्यति — धर्मपूगेण विशिष्टं ब्रह्मेति । यद्वा अत्र विशेषणानां पाठक्रमानुसारेण क्रमविशिष्टतया चिन्तनमभिप्रेत्य विशेषणविशेष्यरूपत्वमुक्तम् ; तच्च पूर्वापरीभूतत्वरूपम् । अत एव ‘इति प्राचीनयोग्य’ इत्यत्र इति-शब्देन प्रकारवाचिना क्रमविशिष्टतयैव गुणानामुपासनं प्रतीयत इति बोध्यम् । ननु तद्ब्रह्म स आत्मेत्यत्रास्तु तद्विशेषाज्ञानम् ; ततः किम् तत्राह — तद्विवक्ष्विति । एवं पौनरुक्त्यदोषं परिहृत्य स वेद ब्रह्मेति वाक्यस्यार्थं कथयति — यो हीति । ननु लोकादिदृष्टिपरिगृहीतव्याहृतिशरीरब्रह्मोपासनविधायकस्यास्यानुवाकस्य वक्ष्यमाणेनानुवाकेनैकवाक्यतां विना कथं तत्रत्यगुणानामत्रान्वय इत्याशङ्क्य वक्ष्यमाणगुणाकर्षकात्स वेद ब्रह्मेति वाक्यादेवानयोरेकवाक्यत्वं कल्प्यत इत्याशयेनाह — अतो वक्ष्यमाणेति । नन्वनुवाकद्वये उपासनैक्यं विना कथमेकवाक्यत्वम् , अर्थैक्यनिबन्धनत्वादेकवाक्यताया इत्याशङ्क्य, तदपि वक्ष्यमाणगुणाकर्षकवाक्यबलादेव कल्प्यत इत्याशयेनाह — उभयोरिति । लिङ्गाच्चोपासनमेकमेवेत्युक्तमेव विवृणोति — भूरित्यग्नाविति । व्याहृत्यनुवाकोक्तानामग्न्यादिदृष्टीनां वक्ष्यमाणानुवाके फलकथनलिङ्गाद्व्याहृतिशरीरब्रह्मोपासनमुभयत्रैकमिति गम्यत इत्यर्थः । विधायकाभावाच्चेति । उपासनभेदकविध्यभावादित्यर्थः । तमेव विवृणोति — न हीति । ननु व्याहृत्यनुवाकस्थः ‘ता यो वेद’ इति विधिरेव तद्भेदकोऽस्तु ; नेत्याह — ता यो वेदेति त्विति । इतिशब्दो वेदेति विधिं परामृशति ; तथा च ‘ता यो वेद’ इत्ययं विधिर्नोपासनभेदक इति योजना । अयं भावः - ‘ता यो वेद’ इत्यत्र व्याहृतिशरीरस्य ब्रह्मणः प्रधानविद्याविधिरुत्तरानुवाके गुणविधिरिति प्रकारेणोपासनैक्येऽपि ‘ता यो वेद’ इति विधिसम्भवान्न तस्य विद्याभेदकत्वमिति । ननु तर्हि ‘स वेद ब्रह्म’ इति विधिर्भेदकोऽस्तु ; नेत्याह — वक्ष्यमाणार्थत्वान्नोपासनभेदक इति । ‘स वेद ब्रह्म’ इति वाक्यं व्याहृत्यनुवाकस्थे ब्रह्मोपासने वक्ष्यमाणगुणाकर्षणार्थत्वान्न विद्यैक्यविरोधि, किं तु तदनुकूलमेवेत्यर्थः । हेत्वसिद्धिं पूर्वोक्तार्थस्मारणेन निराचष्टे — वक्ष्यमाणार्थत्वं चेति । विदुषे देवाः कदा बलिं प्रयच्छन्तीत्याकाङ्क्षायां स्वाराज्यप्राप्त्यनन्तरमित्याशयेनाह — स्वाराज्येति । स्वयमेव राजा स्वराट् , तस्य भावः स्वाराज्यम् , अङ्गदेवताधिपतित्वमिति यावत् । तत्प्राप्त्यनन्तरमेवाङ्गदेवताभिर्बल्युपहारणमुचितम् ; अत एवार्थक्रमानुसारेण ‘सर्वेऽस्मै देवाः’ इति वाक्यम् ‘आप्नोति स्वाराज्यम्’ इति वाक्यानन्तरं पठनीयम् । एतच्चाग्रे स्फुटं वक्ष्यति - स्वयमेव राजाधिपतिर्भवत्यङ्गभूतानां देवतानां यथा ब्रह्म देवाश्च सर्वेऽस्मै बलिमावहन्तीति । एतेनानुवाकयोः पृथक्फलश्रवणादुपासनभेद इति शङ्कापि निरस्ता भवति फलभदेश्रवणस्यैवासिद्धेरिति ॥ वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह — भूर्भुवरित्यादिना । मह इति व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहृतयो देवतादिरूपाश्चतुर्थव्याहृत्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः । एतस्येति । स इति तच्छब्देनास्मिन्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षादुपलब्ध्यर्थं चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्कारस्य । उपासनार्थं स्थानविशेषोपदेशे दृष्टान्तमाह — सालग्राम इवेति । साक्षादुपलब्ध्यर्थमित्युक्तं प्रपञ्चयति — तस्मिन्हीति । उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः । व्युत्क्रम्येति । संनिहितमाकाशमुल्लङ्घ्येत्यर्थः । हृदयस्वरूपमाह — पुण्डरीकेति । प्राणायतन इति । ‘हृदि प्राणः’ इति प्रसिद्धेरिति भावः । अनेकेति । अनेकनाड्याश्रयभूतानि सुषिराणि यस्येति विग्रहः । पुण्डरीकाकारत्वाधोमुखत्वोर्ध्वनालत्वविशिष्टे मांसखण्डे मानमाह — विशस्यमान इति । ‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्’ इत्यादिश्रुतिप्रसिद्धो यथोक्तमांसखण्डो विशस्यमाने पशौ प्रत्यक्षत उपलभ्यत इत्यर्थः । प्रसिद्ध एवेति । ‘योऽयमन्तर्हृदय आकाशः’ इत्यादिश्रुतिष्विति शेषः । करकाकाशो यथा प्रसिद्ध इति दृष्टान्तयोजना । पुरि हृदये शरीरे वा शयनादवस्थानात्पुरुषः, पूर्णत्वाद्वा पुरुषः, भूरादयः पूर्णा येन स पुरुष इति वा । मननं मन इति भावव्युत्पत्तिमाश्रित्याह — मनो ज्ञानमिति । मननं ज्ञानमित्यत्र हेतुमाह — मनुतेरिति । ज्ञानं कर्म क्रिया वाच्यभूता यस्य तस्मान्मनुतेर्धातोर्निष्पन्नो मनःशब्दो यतो ज्ञानवाचीत्यर्थः । पुरुषस्य मनोविकारत्वाभावादाह — तत्प्राय इति । मनःप्रधान इत्यर्थः । तत्र हेतुमाह — तदुपलभ्यत्वादिति । तेनोपासनसंस्कृतेन मनसोपलभ्यमानत्वादित्यर्थः । तल्लिङ्गो वेति । अस्मदादिमनसा अस्मदादिभिरनिवार्येण तन्नियन्तृतया ब्रह्मानुमानसम्भवादिति भावः । ज्योतिर्मय इति । स्वप्रकाश इत्यर्थः । व्याहृतिशरीरे ब्रह्मणि मनोमयत्वादिगुणवत्यहङ्ग्रहमभिप्रेत्य विदुष आत्मभूतस्येत्युक्तम् , अहङ्ग्रहं विना तद्भावायोगात् तद्भावं विना च स्वाराज्यप्राप्त्ययोगात् ; अतः स्वाराज्यप्राप्तिवचनानुरोधेन विदुषो ब्रह्मभावो ब्रह्मण्यहङ्ग्रहश्च कल्प्यत इति भावः । तथा च श्रुतिः - ‘देवो भूत्वा देवानप्येति’ इति । इहैव भावनया देवभावं प्राप्य देहपातोत्तरकालं देवभावं प्राप्नोतीति तदर्थः । इन्द्ररूपस्येति । ‘सेन्द्रयोनिः’ इति वाक्यशेषदर्शनादिन्द्ररूपत्वमुक्तम् । ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि निःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति’ इति श्रुत्यन्तरमनुसृत्याह — हृदयादूर्ध्वमिति । श्रुतिप्रसिद्धायां शताधिकायां नाड्यां नामान्तरेण योगशास्त्रप्रसिद्धिं कथयति — सुषुम्नेति । स्तन इवेति । आस्यान्तरिति शेषः । तेनेति । तस्येत्यर्थः । तस्य चान्तरेण अन्तर्देशं प्राप्यमाणा शीर्षकपाले व्यपोह्य या निर्गतेति योजना । विनिष्क्रम्य प्रतितिष्ठतीति सम्बन्धः । लोकस्येति । ऋग्वेदस्य प्राणस्य चेत्यर्थः । इमं लोकमिति । ऋग्वेदं प्राणं चेत्यपि द्रष्टव्यम् । प्रथमव्याहृतौ लोकाग्निऋग्वेदप्राणानां चतुर्णां दृष्टत्वेन लोकाग्निभाववदृग्वेदप्राणभावस्यापि वक्तव्यत्वात् । न च प्रधानब्रह्मोपासनफलवचनेन ‘मह इति ब्रह्मणि’ इत्यनेन सर्वात्मकब्रह्मभावे कथिते सति विदुष ऋग्वेदप्राणभावस्यापि सिद्धत्वान्न पृथक्तद्भावो वक्तव्य इति वाच्यम् ; तथा सति लोकाग्निभावस्यापि तत एव सिद्धत्वेन ‘अग्नौ प्रतितिष्ठति’ इति श्रुतिवचनमग्न्यात्मनेमं लोकं व्याप्नोतीति भाष्यवचनं चानर्थकं स्यात् । एतेन भूरिति व्याहृतौ ऋग्वेदप्राणदृष्ट्योर्ब्रह्मोपासनं प्रत्यङ्गतया प्रधानफलेनैव फलवत्त्वाच्छ्रुतौ भाष्ये च पृथक्तद्भाववचनाभाव इति शङ्कापि निरस्ता, तस्यां लोकाग्निदृष्ट्योरप्यङ्गत्वेन तत्फलस्याप्यवक्तव्यत्वापत्तेः । यदि चाङ्गानां प्रधानफलेनैव फलवत्त्वेऽप्यङ्गस्तुत्यर्थं पृथक्फलवचनमपेक्षितमित्युच्येत, तदा ऋग्वेदादिदृष्टावपि तदर्थं पृथक्फलं वक्तव्यम् ; एवमुत्तरत्रापि द्रष्टव्यमिति सङ्क्षेपः । आत्मभावेन स्थित्वेति । अत्र क्रमकथनं पाठक्रममाश्रित्य । वस्तुतस्तु क्रमो न विवक्षितः, विदुषः सर्वात्मकब्रह्मभाव एवाग्न्यादिभावस्यान्तर्भावेण क्रमाभावादिति मन्तव्यम् । ब्रह्मभूतमिति । ‘मह इति ब्रह्मणि’ इति वाक्योक्तब्रह्मभावप्रयुक्तमित्यर्थः । उपासकः सर्वेषां हि मनसां पतिर्भवतीत्यत्र हि-शब्दसूचितं हेतुमाह — सर्वात्मकत्वाद्ब्रह्मण इति । ब्रह्मभूतस्य विदुषः सर्वजीवात्मकत्वादित्यर्थः । ननु ब्रह्मणः सर्वात्मकत्वे सिद्धे तद्भावमापन्नस्य विदुषः सर्वात्मकत्वं स्यात् , तदेव कुत इत्यत्राह — सर्वैर्हीति । तद्ब्रह्म सर्वैरुपाधिभूतैर्मनोभिः प्राप्तजीवभावं सन्मनुते चक्षुरादिद्वारा रूपादिकमनुभवति । ब्रह्मणो जीवभावे मानत्वेन प्रवेशवाक्यादिसूचनार्थो हि-शब्दः । न केवलमुपासकः सर्वमनसां पतिः, किं तु वागदीनामपीत्याह — किं चेति । सर्वात्मकत्वादिति । विदुष इति शेषः । ननु त्वगादिपतित्वमपि कुतो नोक्तमित्याशङ्क्य आप्नोति मनसस्पतिमित्यादेर्विवक्षितमर्थमाह — सर्वप्राणिनामिति । तद्वानिति । नियम्यनियामकभावसम्बन्धो मत्वर्थः । न केवलमेतावदेव विदुषः फलं भवति, किं त्वितोऽपि बहु फलं भवतीत्याह — किं च ततोऽपीति । शरीरमस्येति । शरीरपदं स्वरूपपरम् ; ततश्च आकाशमधिष्ठानभूतस्य ब्रह्मणः कल्पितं स्वरूपमित्यर्थः । सूक्ष्ममिति । जलादिभिर्दुःखादिभिश्च संश्लेषायोग्यत्वं सूक्ष्मत्वम् ; तदाह भगवान् - ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते’ इति । सत्यमिति । सद्भूतत्रयलक्षणं मूर्तम् , त्यद्वाय्वाकाशात्मकममूर्तम् , तदुभयं सच्च त्यच्च सत्त्यमिति व्युत्पत्त्या सत्त्यशब्दवाच्यम् , तदात्मा कल्पितं रूपमस्येत्यर्थः । सत्यशब्दस्य परमार्थवस्तुनि रूढिमाश्रित्याह — अवितथमिति । प्राणेष्विति । सविषयेष्विन्द्रियेष्वित्यर्थः । इदं च व्याख्यानं ब्रह्मणो जीवभावाभिप्रायम् । केवलब्रह्मपरत्वेनापि व्याचष्टे — प्राणानां वेति । यस्मिन्निति । यस्मिन्ब्रह्मणि नियन्तृरूपे सतीत्यर्थः । मनआनन्दमिति पदं ब्रह्मणो जीवभावाभिप्रायेणैव व्याचष्टे — मन इत्यादिना । शान्तिश्चेति । सर्वद्वैतनिवृत्तिरूपमित्यर्थः । अज्ञानतत्कार्यध्वंसस्याधिष्ठानब्रह्मानतिरेकादिति भावः । समृद्धं चेति । सम्यगात्मभावेन ऋद्धिं व्याप्तिं गतं समृद्धम् , सर्वव्यापकमित्यर्थः । शान्त्या वेति । सर्ववृत्त्युपरमलक्षणया समाधिशब्दितया शान्त्या समृद्धवत्पूर्णान्दरूपेण योगिभिरुपलभ्यत इत्यर्थः । एतच्चेति । ननु फलत्वेनोक्तस्याधिकतरविशेषणस्य कथमुपास्यगुणान्तर्भाव उच्यते नैष दोषः, ‘तं यथा यथोपासते’ इति श्रुत्या फलत्वेनावगतस्यापि विशेषणजातस्य ध्येयत्वावगमात् , विशिष्यात्र व्यवहितसंनिहितसकलगुणपूगलक्षणप्रकारपरामर्शिनेतिपदेनाधिकतरविशेषणस्याप्युपास्तिं प्रति विषयतया समर्पणाच्च । न चैवम् ‘आप्नोति स्वाराज्यम्’ इत्यादावुक्तानां सर्वदेवाधिपतित्वसर्वदेवपूज्यत्वसर्वकरणपतित्वानामपि फलरूपाणामुपास्यगुणत्वप्रसङ्ग इति वाच्यम् ; इष्टत्वात् । तत्सङ्ग्रहार्थ एवैतच्चेत्यत्र चकार इति सङ्क्षेपः । ननु उपासनस्य श्रुत्या स्वेन रूपेणोक्तावप्यनुष्ठानसिद्धेः आचार्योक्तिकल्पनं मुधा, नेत्याह — आदरार्थेति । उपासनानुष्ठाने आदरातिशयसिद्ध्यर्थेत्यर्थः । उक्त एवेति । उपासनं च यथाशास्त्रमित्यादाविति शेषः । नन्वत्र किमपरं ब्रह्मोपास्यं किं वा परं ब्रह्मेति किमत्र संशयकारणम् परं चापरं च ब्रह्मेत्यादावुभयत्र ब्रह्मशब्दप्रयोगदर्शनमेव । अत्र केचिदपरमेव ध्येयमिति वदन्ति । तथाहि - प्राणारामत्व मनआनन्दत्वयोः सूत्रात्मनि हिरण्यगर्भे स्वारस्यान्मनोमयपदस्य मनोभिमानीति भाष्यदर्शनेन भाष्कारस्यापि तत्रानुमत्यवगमाच्च, अन्येषामपि विशेषणानां तस्मिन्नेव यथाकथञ्चिदुपपादनसम्भवाच्चापरमेवात्र विवक्षितमिति । अन्ये तु परमीश्वररूपमेवात्र ब्रह्म ध्येयमिति वदन्ति । तथा हि - परं ब्रह्मैवात्र विवक्षितम् , ब्रह्मशब्दस्य तत्र मुख्यत्वात् ; नापरम् , तत्र तस्यामुख्यत्वात् ; तदुक्तं सूत्रकारेण ‘सामीप्यात्तु तद्व्यपदेशः’ इति । परब्रह्मसामीप्यादेव सूत्रात्मनि ब्रह्मशब्दप्रयोगो न मुख्यवृत्त्येति तदर्थः । तथा अमृतत्वं परस्यैव ब्रह्मणो लिङ्गम् । न च ‘सैषानस्तमिता देवता’ इत्यादावपरस्यापि नाशराहित्यरूपममृतत्वं श्रूयत इति वाच्यम् ; तस्यावान्तरप्रलये नाशाभावश्रवणेऽपि महाप्रलये नाशश्रवणेन मुख्यामृतत्वासम्भवात् । न च ‘प्राणारामं मनआनन्दम्’ इति लिङ्गद्वयानुरोधेनापेक्षिकमेवामृतत्वमिहास्त्विति वाच्यम् ; ब्रह्मश्रुत्यनुरोधेन मुख्यामृतत्वग्रहणसम्भवे दुर्बललिङ्गानुरोधेनापेक्षिकामृतत्वग्रहणायोगात् , उपसंहारेऽप्यमृतत्वश्रवणेनोपक्रमोपसंहारस्पर्शित्वलक्षणतात्पर्यलिङ्ग - युक्तस्यामृतत्वस्य तद्रहितप्राणारामत्वादिलिङ्गानुरोधेनान्यथानयनायोगाच्च । तथा पुरुषपदोदितं पूर्णत्वं हिरण्मयपदोदितं स्वयञ्ज्योतिष्ट्वमिन्द्रपदोदितं पारमैश्वर्यमाकाशशरीरपदोदितमाकाशदेहत्वं सूक्ष्मत्वं वा सत्यात्मपदोदितमवितथस्वभावत्वं शान्तिसमृद्धपदोदितं सर्वप्रपञ्चोपशमात्मकत्वमित्येतेषां लिङ्गानां परब्रह्मण्येव स्वारस्याच्च । मनोमयपदस्याप्यर्थत्रयं भाष्ये दर्शितम् । तत्र प्रथमतृतीयार्थौ परापरब्रह्मणोः साधारणौ । मनोभिमानीत्यर्थप्रदर्शनमात्रमपरब्रह्मपक्षपाति । तथा प्राणारामत्वमनआनन्दत्वे अपि । न चैतावता हिरण्यगर्भाख्यं ब्रह्म श्रुतिभाष्ययोरभिप्रेतमिति निश्चेतुं शक्यते । शाण्डिल्यविद्यादौ मनोमयत्वप्राणशरीरत्ववदत्रापि ब्रह्मणः सार्वात्म्यप्रयुक्ततया तेषामपि परस्मिन्ब्रह्मण्युपपत्तेः सार्वात्म्यं च प्रकृतस्य ब्रह्मणो दर्शितम् । न चैतत्परब्रह्मणोऽन्यत्र मुख्यं सम्भवति । तस्मात्परमेव ब्रह्मात्रोपास्यमिति सङ्क्षेपः ॥ पृथिव्यादिजगतः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह — पञ्चसङ्ख्येति । न केवलं पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दःसम्पादनम् , यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह — पाङ्क्तश्च यज्ञ इति । पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिर्योगाद्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः । पङ्क्तिच्छन्दसो यज्ञस्य च पञ्चसङ्ख्यायोगात्पाङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति — पञ्चाक्षरेति । जगतो यज्ञत्वसम्पादनमेव दर्शयति — तेनेति । पञ्चसङ्ख्यायोगलक्षणेन यज्ञसाम्येनेत्यर्थः । लोकाद्यात्मान्तं चेति । प्राणादिमज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः । एवं ब्रह्मोपाधिभूतं सर्वं जगत्पङ्क्तिच्छन्दोरूपं यज्ञरूपं च परिकल्प्य तादृक्पाङ्क्तजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भवतीत्याकाङ्क्षायामाह — तेन यज्ञेनेति । प्रजापतिमिति । स्थूलसर्वप्रपञ्चोपाधिकस्य ब्रह्मणः प्रजापतिरूपत्वात् ‘तं यथा यथोपासते’ इति न्यायेन जगदात्मब्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः । एवं तात्पर्यमुक्त्वा पृथिव्यादिजगतः पञ्चसङ्ख्यायोगात्पाङ्क्तस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति — तत्कथमित्यादिना । विराडिति । ‘आप ओषधयः’ इत्यादिस्थूलभूताधिकाराद्भूतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः । इत्यधिभूतमित्युपसंहारवचनमित्यधिलोकमित्यधिदैवतमित्येवंरूपयोरधिलोकाधिदैवतपाङ्क्तद्वयोपसंहारवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह — लोकदेवतापाङ्क्तयोश्चेति । तयोरपि पूर्वमुक्तत्वादित्यर्थः । अध्यात्ममिति । आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्ममित्यर्थः । ननु पाङ्क्तषट्ककथनेन कथं सर्वस्य जगतः पाङ्क्तत्वमुक्तम् तत्राह — एतावद्धीति । यद्बाह्यमध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽधिकमस्तीत्यवगन्तव्यमित्यर्थः । श्रुतिप्रदर्शितपाङ्क्तषट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति — एतदेवमिति । एतज्जगदेवं पाङ्क्तरूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन सम्बन्धः । सङ्ख्यासामान्यादिति । आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्तत्रयमित्यस्मात्सामान्यादाध्यात्मिकेन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः । ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भवतीत्याशङ्क्याह — एकात्मतयेति । बाह्यमाध्यात्मिकं च सर्वं पाङ्क्तजातमेकात्मत्वेनोपलभते, पाङ्क्तजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत् । एतदधिविधायेत्यादिनोक्तमुपासनमनूद्य तस्य फलमुपक्रमे कथितमित्याह — एतदेवमिति ॥ उत्तरोऽप्यनुवाकः प्रकारान्तरेण ब्रह्मोपासनविषय इत्याह — यदेतदित्यादिना । ननु शब्दमात्ररूपस्योङ्कारस्याचेतनतया फलदातृत्वासम्भवात् कथमुपास्यत्वमित्याशङ्क्याह — परापरेति । प्रतिमाद्यर्चन इव ब्रह्मैव फलदात्रिति भावः । ब्रह्मण एव सर्वत्र फलदातृत्वम् ‘फलमत उपपत्तेः’ इत्यधिकरणे प्रसिद्धमिति द्योतनार्थो दृष्ट्या हीत्यत्र हि-शब्दः । प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वं प्रसिद्धमिति सदृष्टान्तमाह — स हीति । प्रणवस्य परापरब्रह्मदृष्ट्यालम्बनत्वे तद्दृष्ट्योपासितस्य तस्य परापरप्राप्तिसाधनत्वे च श्रुतिमाह — एतेनैवेति । ओङ्कारेणैवायतनेन प्राप्तिसाधनेन परमपरं वा प्राप्नोतीत्यर्थः । एवं तात्पर्यमुक्त्वा अक्षराणि व्याचष्टे — इतीत्यादिना । परिच्छेदार्थ इति । सङ्ग्रहार्थ इत्यर्थः । ओङ्कारस्य परापरब्रह्मदृष्ट्यालम्बनत्वेन श्रुतिषु प्रसिद्धत्वेऽपि प्रकृते मुख्यत्वात्परब्रह्मदृष्टिरेवोङ्कारे विवक्षितेति मत्वा तत्र ब्रह्मदृष्ट्यध्यासे किं सादृश्यमित्याकाङ्क्षायामाह — यत ओमितीदं सर्वमिति । यत ओङ्कारः सर्वात्मकः ततः सर्वात्मकत्वसादृश्यादोङ्कारे सर्वात्मकब्रह्मदृष्टिर्युक्तेति भावः । ननु ब्रह्मणः सर्वात्मकत्वम् ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुतिसिद्धम् ; ओङ्कारस्य तु कथं सार्वात्म्यमित्याशङ्क्याह — सर्वं हीति । नन्वोङ्कारस्य सर्वशब्दात्मकत्वेऽपि कथमर्थप्रपञ्चात्मकत्वमित्याशङ्क्य शब्दद्वारेत्याह — अभिधानतन्त्रं हीति । अभिधेयजातस्याभिधानाधीनसिद्धिकत्वाद्वाच्यवाचकयोस्तादात्म्यस्वीकाराच्चाभिधेयजातस्याभिधानेऽन्तर्भावः सम्भवतीत्यर्थः । अत इदमिति । प्रणवसार्वात्म्यस्यापि श्रुत्यादिसिद्धत्वादिदं सर्वमोङ्कार इति प्रसिद्धवदुपदिश्यते ओमितीदं सर्वमिति वचसेत्यर्थः । ननु प्रथमवाक्येन प्रणवे ब्रह्मदृष्टिर्विहिता, तत्र तद्दृष्टिकरणे नियामकं द्वितीयवाक्येन दर्शितम् , अतो विवक्षितार्थस्य सिद्धत्वात्किमुत्तरग्रन्थेनेत्याशङ्क्याह — ओङ्कारस्तुत्यर्थ इति । अनुकरणमिति । अनुज्ञानरूपमिति यावत् । केनचित्करोमीत्युक्त्वा कृतं कर्मान्य ओमित्यनुकरोति अनुजानाति, तथा यास्यामि विष्ण्वालयमित्युक्तमन्य ओमित्यनुकरोतीति योजना । प्रसिद्धं हीति । प्रसिद्धिश्च करोमीत्यादिना पूर्वं प्रदर्शितैव । अप्यो श्रावयेत्यत्र अपि-शब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थ इति मत्वाह — अपि चेति । प्रैषपूर्वकमिति । ‘ओ श्रावय’ इति मन्त्रगतेनोङ्कारेणाग्नीध्रसम्बोधनपूर्वकमित्यर्थः । तदुक्तं वेदभाष्ये - ‘मन्त्रगतओङ्कार आग्नीध्रसम्बोधनार्थः । हे आग्नीध्र देवान्प्रति हविःप्रदानावसरं श्रावयेति मन्त्रार्थः’ इति । आश्रावयन्तीत्यस्यार्थमाह — प्रतिश्रावयन्तीति । प्रतिश्रवं कारयन्ति, प्रत्याश्रवणं कारयन्तीतित यावत् । शस्त्रशंसितारो होतारः, तेऽपि ’शों सावोम्’ इत्युपक्रम्य शस्त्राणि शंसन्ति, तान्योमिति समापयतन्ति चेत्यर्थः । प्रतिगरमिति । ’ओऽथामोद इव’ इति मन्त्रमित्यर्थः । ओकारेण होता सम्बोध्यते ; हे होतः अथ अर्धर्चशंसनानन्तरमस्माकमामोद इव हर्ष एव सम्पन्न इति तदर्थः । ब्रह्मेति । ऋत्विग्विशेषो ब्रह्मा यदा अन्येषामृत्विजामनुज्ञां प्रयच्छति तदा ओं प्रोक्षेत्यादिरूपेण प्रणवपुरःसरमेव प्रसौति । तस्यार्थमाह — अनुजानातीति । जुहोमीत्युक्तवन्तं प्रत्यन्य ओमित्येवानुज्ञां प्रयच्छतीत्यर्थः । प्रवचनं करिष्यन्निति । प्रवक्ष्यन्निति ‘वच परिभाषणे’ इत्यस्य रूपमस्मिन्व्याख्याने ; द्वितीयव्याख्याने तु ‘वह प्रापणे’ इत्यस्यान्तर्भावितण्यर्थस्य रूपमिति भेदः । वेदमिति । वेदं ग्रहीष्यामीत्यभिसन्धिमानादावोमित्येवाध्येतुं ब्राह्मण उपक्रमत इत्यर्थः । अध्ययनफलभूतां वेदावाप्तिं कथयति ब्रह्मैवोपाप्नोतीति ; तद्योजयति — उपाप्नोत्येवेति । प्रापयिष्यन्निति । परमात्मानमुपाप्नवानि प्रत्यक्त्वेन प्राप्नुयामित्यभिसन्धिमान्ब्राह्मण आत्मानं ब्रह्म प्रापयिष्यन्नात्मनो ब्रह्मभावप्राप्त्युपायमन्विष्यन्नोमित्याहेत्यर्थः । स चेति । स च ब्राह्मणस्तेनोङ्कारेण आत्मज्ञानलक्षणमुपायं लब्ध्वा ब्रह्म प्राप्नोत्येवेत्यर्थः । विवक्षितमनुवाकार्थं सङ्क्षिप्य दर्शयति — ओङ्कारपूर्वेति । अत्र यद्यपि ‘ओ श्रावय’ इति मन्त्रे ‘ओऽथामोद इव’ इति प्रतिगरनामकमन्त्रे च ओकार एव श्रूयते न त्वोङ्कारः, तथाप्योकारस्योङ्कारैकदेशत्वात्तत्पूर्व - प्रवृत्तानामप्योङ्कारपूर्वकत्वमुपचारादुक्तमिति मन्तव्यम् ॥ उत्तरानुवाकस्य सङ्गतिं वृत्तानुवादपूर्वकं दर्शयति — व्याहृत्यात्मन इति । अनन्तरं चेति । अव्यवहितपूर्वानुवाक इत्यर्थः । इदानीमिति । उक्तवक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओङ्कारस्तस्योपासनमिदानीं विधीयते ; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधानात्सङ्गतिरिति भावः । न चोङ्कारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेदवादिनामित्यर्थः । व्याख्यातमिति । शास्त्रान्निश्चितावस्थं दर्शादिकर्मजातमृतशब्दवाच्यमिति ऋतं वदिष्यामीत्यत्र व्याख्यातमित्यर्थः । उपासकस्याध्यापने प्रवृत्तावुपासनानुष्ठानासम्भवादध्यापनस्य काम्यत्वेन तदकरणे प्रत्यवायाभावाच्च प्रवचनमध्यापनमिति व्याख्यानमयुक्तमित्यस्वरसादाह — ब्रह्मयज्ञो वेति । यथाव्याख्यातार्थं वेति । शास्त्रात्कर्तव्यतया बुद्धौ विनिश्चितमेव कर्म वाक्कायाभ्यां सम्पाद्यमानं सत् सत्यशब्दवाच्यमिति सत्यं वदिष्यामीत्यत्र व्याख्यातार्थकं वात्र सत्यपदमित्यर्थः । कृच्छ्रादीति । आदिपदं चान्द्रायणादिसङ्ग्रहार्थम् । न चाशनपरित्यागप्रधाने कृच्छ्रादौ प्रवृत्तस्य कथं स्वाराज्यफलकोपासनानुष्ठानं सम्भवतीति वाच्यम् ; शक्तस्य तदुभयानुष्ठानसम्भवात् , अशक्तस्य तु धनिनो धनदानरूपं सर्वसाधारण्येन मिताशनादिरूपं वा तपो भविष्यति । तथा च श्रुतिः - ‘एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति’ इति । ‘हितमितमेध्याशनं तपः’ इति योगशास्त्रे मिताशनादितपसोऽप्युक्तत्वात् । विवाहादौ बन्ध्वाद्युपचारो लौकिकः संव्यवहारः । प्रजाश्चोत्पाद्या इति । प्रजोत्पत्त्यर्थाः पुत्रकामेष्ट्यादयः कर्तव्या इत्यर्थः । निवेशयितव्य इति । निवेशो विवाहः । पुनः पुनः स्वाध्यायग्रहणस्य तात्पर्यमाह — सर्वैरित्यादिना । यत्नतोऽनुष्ठेये इत्यत्र हेतुमाह — स्वाध्यायाधीनां हीति । अध्ययनाधीनमित्यर्थः अध्ययनस्यार्थज्ञानपर्यन्तत्वं पूर्वतन्त्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः । अर्थज्ञानायत्तं चेति । प्रणाड्या कर्मकाण्डार्थज्ञानायत्तं परं श्रेयः, साक्षादेव ज्ञानकाण्डार्थज्ञानायत्तं परं श्रेय इति विभागसूचनार्थश्चकारः । अत इति । स्वाध्यायस्यार्थज्ञानद्वारा परमश्रेयःसाधनत्वात्प्रवचनस्याविस्मरणादिसाधनत्वाच्चेत्यर्थः । सत्यमेवेति । अनुष्ठेयानां मध्ये सत्यमेव प्रशस्तं कर्मेति राथीतरस्य मतमिति भावः । तथा च वचनम् - ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते’ इति । अत्र द्वितीयनामशब्दः प्रसिद्धिद्योतकः । तप एवेति । कृच्छ्रचान्द्रायणादिमिताशनधनदानरूपं तप एव प्रशस्तं कर्मेति पौरुशिष्टेर्मतम् । तस्य प्राशस्त्यं चोत्तमलोकप्राप्तिसाधनत्वात् । तथा च श्रुतिः - ‘तपसर्षयः सुवरन्वविन्दन्’ इति । मौद्गल्याभिमते स्वाध्ययप्रवचनयोरुत्तमकर्मत्वे हेतुमाह श्रुतिः — तद्धि तप इति । हि-शब्दार्थकथनम् — यस्मादिति । तत्र स्वाध्यायशब्दितस्याध्ययनस्य नियमोपेतत्वात्तपःशब्दवाच्यत्वम् । तदुक्तम् - ‘नियमेषु तपःशब्दः’ इति । प्रवचनशब्दितस्य च ब्रह्मयज्ञस्य तपस्त्वम् ‘तपो हि स्वाध्यायः’ इत्यादिश्रुतिप्रसिद्धमिति मत्वा तपस्त्वं तयोरुत्तमकर्मत्वे हेतुतयोक्तमित्यनुसन्धेयम् । उक्तानामपीति । ‘सत्यं च स्वाध्यायप्रवचने च तपश्च स्वाध्यायवचने च’ इत्यत्रोक्तानामपीत्यर्थः । आदरार्थमिति । आदरसूचनद्वारा मतभेदेनोत्तमकर्मत्वख्यापनार्थमित्यर्थः ॥ उत्तरानुवाकस्य व्यवहितानुवाकेन सम्बन्धमाह — विज्ञानादेवेत्यादिना । कर्मणां स्वाराज्यप्राप्तावनुपयोगः प्राप्त इति शङ्कार्थः । उपासनसहकारितया तत्फलेन स्वाराज्येन कर्मणां फलवत्त्वसिद्ध्यर्थमस्मिन्ननुवाके तेषामुपन्यास इति परिहारार्थः । पुरुषार्थपदं स्वाराज्यपरम् , कर्मणामुपासनसहकारितया तत्फलं प्रत्युपयोगप्रकारश्चेत्थम् - उपासकेन स्वकर्माननुष्ठाने तदकरणसूचितेन प्रत्यवायेन प्रतिबद्धमुपासनं फलपर्यवसायि न भवेत् ; अतः प्रतिबन्धापनयद्वारा कर्मणां तत्रोपयोग इति । तथा च श्रुतिः - ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ इति । अविद्यया कर्मणा प्रतिबन्धकपापलक्षणं मृत्युं नाशयित्वा विद्यया उपासनलक्षणया स्वाराज्यलक्षणममृतमश्नुत इति हि तदर्थः । नन्वहं वृक्षस्येत्यादिमन्त्रपाठः किमर्थ इत्याशङ्क्याह — स्वाध्यायार्थ इति । जपार्थम् इत्यर्थः । ननु तज्जपस्य क्वोपयोगः तत्राह — स्वाध्यायश्चेति । प्रकरणादिति हेतुं विवृणोति — विद्यार्थं हीति । प्रकरणस्य संहितोपनिषद्गतमन्त्रब्राह्मणजातस्य विद्याप्रयोजनकत्वादित्यर्थः । ब्रह्मविद्यासंनिधौ पाठादिति भावः । अहं वृक्षस्येत्यादिमन्त्राम्नायस्य कर्मशेषत्वशङ्कां निराकरोति — न चेति । तदवगमकश्रुतिलिङ्गादेरदर्शनादिति भावः । स्वाध्यायो विद्योत्पत्तये भवतीत्युक्तम् ; तत्र विवक्षितं द्वारं समर्पयति — स्वाध्यायेन चेति । जपादिरूपस्य धर्मस्य पापक्षयरूपशुद्धिद्वारा विद्योत्पत्तिहेतुत्वम् ‘तपसा कल्मषं हन्ति’ इत्यादिशास्त्रसिद्धमिति विशेषसूचनार्थश्चकारः । अहमिति । साक्षात्कृतब्रह्मतत्त्वस्त्रिशङ्कुनामा ऋषिः अहंशब्दार्थः । उच्छेद्यात्मकस्येति । उच्छेद्यस्वभावस्येत्यर्थः । संसारवृक्षस्येति । विद्याप्रतिपादके मन्त्रे प्रसिद्धवृक्षग्रहणायोगात्संसार एवोच्छेद्यस्वभावत्वसाम्याद्वृक्षशब्देन गृह्यत इति भावः । जगदात्मकस्य संसारवृक्षस्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह — अन्तर्याम्यात्मनेति । ब्रह्मविदः सर्वात्मकत्वादिति भावः । कीर्त्तिरिति । मेरोः शृङ्गमिव मम ब्रह्मविदः कीर्त्तिः प्रसिद्धिः स्वर्गलोकव्यापिनीत्यर्थः । उपरिभागवाचिनोर्ध्वशब्देन संसारमण्डलादुपरि वर्तमानं जगत्कारणत्वोपलक्षितं ब्रह्म लक्ष्यत इत्याशयेनाह — उर्ध्वं कारणमिति । वस्तुतः संसारास्पृष्टमिति यावत् । अत एवाह — पवित्रमिति । नन्वेवंभूतमपि ब्रह्म सर्वप्राणिसाधारणमेव, वस्तुत एकात्मकत्वात्सर्वप्राणिनामिति, तत्राह — ज्ञानप्रकाश्यमिति । अन्येषां ज्ञानाभावादिति भावः । ब्रह्मेत्यनन्तरं स्वरूपभूतमिति शेषः । अन्नमिति । कर्मफलरूपं वस्वादिदेवभोग्यममृतमन्नम् ; तद्वत्त्वमादित्यस्य मधुविद्यायां प्रसिद्धमिति बोध्यम् । यथा सवितरि श्रुतिस्मृतिशतेभ्यो विशुद्धममृतमात्मतत्त्वं प्रसिद्धम् , एवं मय्यपि पुरुषे श्रुतिस्मृतिशतेभ्य एव विशुद्धमात्मतत्त्वं प्रसिद्धमस्ति । इत्थमुभयत्र प्रसिद्धमात्मतत्त्वं स्वमृतशब्दितमस्मीत्यर्थः । तथा च श्रुतयः - ‘स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः’ इत्याद्याः, स्मृतयश्च - ‘आदित्ये शुद्धममृतमात्मतत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः’ इत्याद्या द्रष्टव्याः । धनमिति । लौकिकस्य रत्नादिकं धनम् ; ब्रह्मविदस्तु निरतिशयानन्दमात्मतत्त्वमेव धनम् , तच्च स्वप्रकाशत्वाद्दीप्तिमदित्यर्थः । साकाङ्क्षत्वादाह — अस्मीत्यनुवर्तत इति । द्रविणं सवर्चसमित्यस्यार्थान्तरमाह — ब्रह्मज्ञानं वेति । ब्रह्मज्ञानं वा द्रविणमिति सम्बन्धः । ब्रह्मज्ञानस्य सवर्चसत्वे हेतुमाह — अमृतत्वेति । अमृतत्वं ब्रह्म, तदावरणनिवर्तनद्वारा तत्प्रकाशकत्वात् ; ब्रह्मणि ‘अहं ब्रह्मास्मि’ इति व्यवहार्यतापादकत्वादित्यर्थः । मोक्षेति । प्रकृताभिप्रायं मोक्षग्रहणम् । पुरुषार्थहेतुत्वसाम्याद्द्रविणशब्दो ब्रह्मज्ञाने प्रयुक्त इत्यर्थः । ब्रह्मस्वरूपव्यञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम् , तर्हि तदस्मीति पूर्ववदन्वयो न घटते ; तत्राह — अस्मिन्पक्ष इति । शोभनेति । शोभना ब्रह्मज्ञानोपयोगिनी मेधा ग्रन्थतदर्थधारणसामर्थ्यलक्षणा यस्य सोऽहं सुमेधा इत्यर्थः । सार्वज्ञ्येति । सार्वज्ञ्यलक्षणा वा मेधा यस्य सोऽहमित्यर्थः । विदुषः सर्वज्ञत्वलक्षणमेधावत्त्वं साधयति — संसारेति । संसारो जगत् । जगज्जन्मादिहेतुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते - ‘अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति । अस्मादित्यस्य साक्षात्कृतादित्यर्थः । छान्दोग्येऽपि श्रूयते - ‘एवं विजानत आत्मनः प्राणाः’ इत्यादिना । तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रूयते - ‘स सर्वज्ञः सर्वमेवाविवेश’ इति । अत एवेति । जगद्धेतुत्वादेवेत्यर्थः । जगत्कारणस्य ब्रह्मचैतन्यस्य नित्यत्वात्तद्रूपस्य विदुषो नास्ति मरणमित्यर्थः । अव्यय इति । अवयवापचयो व्ययः, तद्रहित इत्यर्थः । अक्षतो वेति । शस्त्रादिकृतक्षतरहित इत्यर्थः । निरवयवत्वादिति भावः । अमृतेन वेति । स्वरूपानन्दानुभवेन सदा व्याप्त इति यावत् । इतीत्यादीति । इति त्रिशङ्कोर्वेदानुवचनमिति वाक्यं ब्राह्मणमित्यर्थः । कृतकृत्यतेति । यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् ‘अहं मनुरभवम्’ इत्यादिवचनम् , तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम् ; तत्ख्यापनं च मुमुक्षूणां कृतकृत्यतासम्पादके ब्रह्मविचारे प्रवृत्त्यर्थमिति बोध्यम् । पूर्वम् ‘अहं वृक्षस्य’ इति मन्त्रस्य विद्याप्रयोजनकप्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम् । इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितं मन्त्रार्थं कथयति — त्रिशङ्कुनेति । आर्षेणेति । तपःप्रभावजनितेनेत्यर्थः । मन्त्रस्य विद्याप्रकाशकत्वे फलितमाह — अस्य चेति । विद्याप्रकाशनसामर्थ्यरूपाल्लिङ्गाच्चेति चकारार्थः । पूर्वानुवाके कर्माण्युपन्यस्यानन्तरमेव ऋषेरात्मविषयदर्शनोपन्यासे श्रुतेः कोऽभिप्राय इत्याकाङ्क्षायामाह — ऋतं चेत्यादिना । अनन्तरं चेति । चकारोऽवधारणार्थः । सकामस्य पितृलोकप्राप्तिरेव ‘कर्मणा पितृलोकः’ इति श्रुतेः, नात्मदर्शनमित्याशयेनाह — निष्कामस्येति । सांसारिकफलेषु निःस्पृहस्यापि विद्यामकामयमानस्य न विद्योत्पत्तिः, किं तु प्रत्यवायनिवृत्तिमात्रमित्याशयेनाह — ब्रह्म विविदिषोरिति । आर्षाणीति । नित्यनैमित्तिककर्मस्वपि ‘तपसा कल्मषं हन्ति’ इत्यादौ तपस्त्वप्रसिद्धेस्तज्जन्यानामपि दर्शनानामार्षत्वमुक्तमिति मन्तव्यम् ॥ उत्तरानुवाके कर्मणां कर्तव्यता किमर्थमुपदिश्यत इत्याकाङ्क्षायामाह — वेदमनूच्येत्यादिना । ज्ञानात्पूर्वं कर्मणां ज्ञानार्थिनावश्यं कर्तव्यत्वे हेतुमाह — पुरुषेति । संस्कारस्वरूपं कथयन्संस्कारद्वारा तेषां ब्रह्मविज्ञानसाधनत्वमाह — संस्कृतस्य हीति । सत्त्वस्यान्तःकरणस्य विशिष्टा या शुद्धिः सैव संस्कार इति भावः । अञ्जसैवेति । अप्रतिबन्धेनैवेत्यर्थः । पापरूपस्य चित्तमालिन्यस्य ज्ञानोत्पत्तिप्रतिबन्धकत्वात् , शुद्धिद्वारा कर्मणां विद्योदयहेतुत्वे हि-शब्दसूचितं मानमाह — तपसेति । तपसा कर्मणा कल्मषनिवृत्तौ विद्या भवति, तया विद्यया अमृतमश्नुत इति स्मृत्यर्थः । इति हि स्मृतिरिति । इति स्मृतेरित्यर्थः । ननु कर्मभिर्विशुद्धसत्त्वस्यापि तत्त्वचिन्तां विना कथमात्मविज्ञानमञ्जसैवोत्पद्येत तत्राह — वक्ष्यति चेति । तत्त्वचिन्तामपि विद्यासाधनत्वेन श्रुतिर्वक्ष्यतीत्यर्थः । श्रुतौ तपःशब्दस्तत्त्वविचारपर इत्येतदग्रे स्फुटीकरिष्यते । उपसंहरति — अत इति । पुरुषसंस्काद्वारा कर्मणां विद्यासाधनत्वादित्यर्थः । ननु उपदिशतीत्यनुक्त्वा राजेवानुशास्तीति किमर्थं वदति श्रुतिरित्याङ्क्य गुरूपदेशातिक्रमे महाननर्थो भवेदिति सूचनार्थमित्याह — अनुशासनशब्दादिति । तदतिक्रमे दोषो भवतीति गम्यत इति शेषः । तत्रोपपत्तिमाह — अनुशासनेति । लोके राजानुशासनातिक्रमे दोषोत्पत्तिप्रसिद्धेरिति हि-शब्दार्थः । ननु यथा ज्ञानात्पूर्वं कर्माणि ज्ञानार्थं कर्तव्यानि तथा ज्ञानोदयानन्तरमपि मुक्त्यर्थं तानि कर्तव्यानि, ज्ञानकर्मसमुच्चयस्यैव मुक्तिसाधनत्वात् ; तथा च स्मृतिः - ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इति ; नेत्याह — प्रागुपन्यासाच्चेति । च-शब्दः शङ्कानिरासार्थः । कर्मणां विद्यारम्भात्प्रागुपन्यासाद्धेतोर्विद्योदयानन्तरं न तान्यनुष्ठेयानीत्यर्थः । केवलेति । ब्रह्मविदाप्नोति परमित्यत्र परप्राप्तिसाधनत्वेन विद्यामात्रारम्भाच्च हेतोर्न विद्योदयानन्तरं तान्यनुष्ठेयानीत्यर्थः । प्रागुपन्यासं विवृणोति — पूर्वमिति । ब्रह्मविदाप्नोति परमिति विद्यारम्भात्पूर्वं संहितोपनिषद्येव ऋतं चेत्यादावुपन्यस्तानीत्यर्थः । विद्योदयानन्तरमेव मुक्तिलाभश्रवणात्तदनन्तरं कर्मणां नैष्फल्यश्रवणाच्च न मुक्तिसाधनत्वं कर्मणामित्याशयेनाह — उदितायां चेति । यदा ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठामात्मभावं विद्यया विन्दते तदैवाभयं गतो भवति । ब्रह्मणः स्वरूपभूतमानन्दं विद्वान्न बिभेति कुतश्चन, भयहेत्वविद्याया विद्योदयकाल एव निवृत्तत्वादित्यर्थः । किमहमिति । विदुषः साधुकर्माकरणप्रयुक्तसन्तापाभावोक्त्या तं प्रति कर्मणामाकिञ्चन्यं फलाभावः प्रतीयत इत्यर्थः । समुच्चयस्य श्रुतिबाह्यत्वमुपसंहरति — अत इति । प्रागुत्पन्यासादिहेतोरित्यर्थः । विद्येति । विद्योत्पत्त्यर्थान्येव न मुक्त्यर्थानीति गम्यत इत्यर्थः । इतश्च दुरितक्षयद्वारा विद्योत्पत्त्यर्थान्येवेत्याह — मन्त्रेति । अविद्यया कर्मणा मृत्युं पाप्मानं तीर्त्वेति कर्मणां दुरितक्षयफलकत्वप्रतिपादनपूर्वकं विद्यामात्रस्य मुक्तिहेतुत्वप्रतिपादकमन्त्रवर्णाच्चेत्यर्थः । एवं च सति तत्प्राप्तिहेतुरिति स्मृतिवचनं क्रमसमुच्चयपरम् , न यौगपद्येन विद्याकर्मणोः समुच्चयपरमिति मन्तव्यम् । पौनरुक्त्यं परिहरति — ऋतादीनामिति । कर्मणां विद्याफले स्वाराज्येऽनुपयोगमाशङ्क्य तत्रोपयोगकथनाभिप्रायेण पूर्वत्रोपदेश इत्यर्थः । अनुशब्दार्थमाह — ग्रन्थेति । वेदमध्याप्यानन्तरमेव तदर्थमप्युपदिशतीति वदन्त्याः श्रुतेस्तात्पर्यमहा — अत इति । धर्मजिज्ञासा कर्मविचारः । इतश्च धर्मजिज्ञासां कृत्वैव गुरुकुलान्निवर्तितव्यमित्याह — बुद्ध्वेति । न च वेदाध्ययनानन्तरमाचार्येणानुज्ञातो दारानाहृत्य मीमांसया कर्मावबोधं सम्पादयतु, तदा तत्सम्पादनेऽपि न ‘बुद्ध्वा - ’ इतिस्मृतिविरोध इति वाच्यम् , दारसङ्ग्रहानन्तरं नित्यनैमित्तिकानुष्ठानावश्यम्भावेन पुनस्तस्य गुरुकुलवासासम्भवात् ; अतः प्रागेव कर्मावबोधः सम्पादनीय इति भावः । यथाप्रमाणावगतमपि परस्याहितं न वाच्यमित्याह — वक्तव्यं चेति । वचनार्हमित्यर्थः । तदाह भगवान् - ‘अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्’ इति । सामान्यवचनमिति । अनुष्ठेयसामान्यवाचकमपि धर्मपदं सत्यादिरूपधर्मविशेषनिर्देशसंनिधानात्तदतिरिक्तानुष्ठेयपरमित्यर्थः । स्वाध्यायादध्ययनादिति । अध्ययनेन गृहीतस्य स्वाध्यायस्य प्रमादो विस्मरणम् , तन्माकुर्वित्यर्थः ; ‘ब्रह्मोज्झे मे किल्बिषम्’ इति मन्त्रवर्णेन ‘ब्रह्महत्यासमं ज्ञेयमधीतस्य विनाशनम्’ इति स्मरणेन च वेदविस्मरणे प्रत्यवायावगमात् । मे मम किल्बिषं ब्रह्मोज्झे वेदविस्मरणवति पुरुषे गच्छत्विति मन्त्रार्थः । ननु न कर्तव्येति कथम् , सन्ततिप्राप्तेर्दैवाधीनत्वादित्याशङ्क्याह — अनुत्पद्यमानेऽपीति । इतश्चैवमेव श्रुतेरभिप्राय इत्याह — प्रजेति । ऋतं चेत्यनुवाके ‘प्रजा च स्वाध्यायप्रवचने च, प्रजनश्च स्वाध्यायप्रवचने च, प्रजातिश्च स्वाध्यायप्रवचने च’ इति सन्ततिविषय एव प्रजादित्रयनिर्देशबलाच्चेत्यर्थः । अन्यथेति । श्रुतेः सन्तत्यर्थयत्ने तात्पर्याभाव इत्यर्थः । ऋतुकालगमनाभावे प्रत्यवायस्मरणात्तावन्मात्रमेव श्रुतिरवक्ष्यदित्यर्थः । न च श्रुत्या तात्पर्येण सन्ततिः सम्पादनीयेति किमर्थमुच्यत इति वाच्यम् , पितृऋणस्य परलोकप्राप्तिप्रतिबन्धकत्वेन तदपाकरणद्वारा परलोकप्राप्तिसाधनत्वात् ; तथा च श्रुतिः — ‘नापुत्रस्य लोकोऽस्ति’ इति । न केवलं पितृऋणं परलोकप्रतिबन्धकम् , किं तु मोक्षस्यापि ; तथा च मनुः — ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य चैतानि मोक्षमिच्छन्व्रजत्यधः’ इति । तथा च मुमुक्षुणापि सन्ततियत्नः कर्तव्य इति । ननु सत्यात्प्रमादनिषेधवचनस्य यदि सत्यमेव वक्तव्यमित्यर्थो विवक्षितः, तदा ‘सत्यं वद’ इत्यनेन पौनरुक्त्यं स्यादित्याशङ्क्याह — सत्याच्चेति । च-शब्दः शङ्कानिरासार्थः । ननु यद्यत्रानृतवदननिषेधो विवक्षितः तर्ह्यनृतं न वक्तव्यमित्यनुक्त्वा प्रमादशब्दप्रयोगे कोऽभिप्रायः श्रुतेरित्याशङ्क्याह — प्रमादशब्दसामर्थ्यादिति । अनृतवदनविषये विस्मृत्यानृतवदनेऽपि दोषाधिक्यमेव, ‘समूलो वा एष परिशुष्यति योऽनृतमभिवदति’ इति श्रुतेः ‘नानृतात्पातकं किञ्चित्’ इति स्मृतेश्च । तस्मादनृतवर्जने सदा जागरूकेणैव भवितव्यमिति भावः । अन्यथेति । विस्मृत्यानृतवदनेऽपि दोषातिशयाभावे सतीत्यर्थः । असत्येति च्छेदः । अननुष्ठानमिति । अनुष्ठेयस्वरूपस्य धर्मस्यालस्यादिकृतमननुष्ठानं प्रमाद इत्यर्थः । अनुष्ठातव्य एवेति । धर्म इति शेषः । आत्मरक्षणार्थादिति । शरीररक्षणार्थाच्चिकित्सादिरूपादित्यर्थः । मङ्गलार्थादिति । ‘वायव्यं श्वेतमालभेत’ इत्यादौ विहिताद्वैदिकात् लौकिकात्प्रतिग्रहादेश्चेत्यर्थः । देवेति । देवकार्यं यागादि, पितृकार्यं श्राद्धादीति विभागः । मात्रादीनां वस्तुतो देवत्वाभावादाह — देवतावदिति । श्रौतस्मार्तकर्मजातमुपदिश्याचारप्रमाणकानि कर्माणि विशेषोक्तिपूर्वकमुपदिशति — यान्यपि चेति । अपि च यानीति योजना । आचार्यकृतानां कर्मणां साकल्येनोपादेयत्वमिति विशेषमाशङ्क्याह — यान्यस्माकमिति । विपरीतानीति । शापप्रदानादीनीत्यर्थः । आचार्यत्वादीति । आदिपदं मातृत्वपितृत्वादिसङ्ग्रहार्थम् , । आचार्यादिभिन्ना इत्यर्थः । प्रशस्यतरा इति । सगुणनिर्गुणब्रह्मनिष्ठादियुक्ता इत्यर्थः । श्रुतस्य ब्राह्मण्यस्याविवक्षायां कारणाभावं मत्वाह — न क्षत्त्रियेति । आसनादिनेति । शुश्रूषान्नपानादिसङ्ग्रहार्थमादिपदम् । गोष्ठीति । शास्त्रार्थनिर्णयाय क्रियमाणो व्यवहारोऽत्र गोष्ठी, सा निमित्तमुद्देश्यतया कारणं यस्य समुदितस्य समुदायस्य तस्मिन्नित्यर्थः । प्रश्वासोऽपि न कर्तव्य इति । किमु वक्तव्यं पण्डितंमन्यतया विस्रम्भेण वार्त्तादिकं न कार्यमितीति भावः । तर्हि तेषां समुदिते गत्वा किं कर्तव्यं मयेत्याशङ्क्याह — केवलमिति । श्रद्धयैवेति । अवर्जनीयतया प्राप्तेष्वपात्रेष्वपीत्यर्थः । तदुक्तं वार्त्तिके ‘श्रद्धयैव च दातव्यमश्रद्धाभाजनेष्वपि’ इति ।‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः । न दातव्यमिति । ‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो ईह’ इति भगवतोक्तत्वादिति भावः । स्वविभूत्यनुसारेण देयमित्याह — श्रियेति । बहु ददतापि मया कियद्दीयत इति लज्जावता दातवव्यमित्याह — लज्जयेति । परलोकभयेन देयमित्याह — भियेति । मित्रेति । मित्रसुहृदादेर्यत्कार्यं तेनापि निमित्तेन देयमित्यर्थः । तत्र कर्मादाविति । देशाद्यर्थकस्य तत्रशब्दस्य युक्ता इत्यनेनान्वय उक्तः ; कस्मिन्विषये युक्ता इत्याकाङ्क्षायां कर्मादावित्युक्तमिति विवेचनीयम् । अभियुक्ता इति । कर्मादावभियोगो विधिवत्तदनुष्ठानम् , अनुष्ठेयार्थनिर्णयस्य संमर्शिन इत्यनेन लब्धत्वादिति मन्तव्यम् । अपरप्रयुक्ता इति । स्वतन्त्रा इत्यर्थः । अकामहता इति । लाभपूजादिकामोपहता न भवन्तीत्यर्थः । तथा त्वमपीति । उदितहोमादिविषये सन्देहे सति स्वस्ववंशस्थितानामेतादृशानामाचाराद्व्यवस्थां निश्चित्य तथा वर्तेथा इत्यर्थः । केनचिदिति । स्वर्णस्तेयादिरूपेणेत्यर्थः । सन्दिह्यमानेनेति विशेषणात्पातकित्वेन निश्चितानामभ्याख्यातपदेन ग्रहणं नास्तीति गम्यते तेषामसंव्यवहार्यत्वनिश्चयेन तद्विषये विचाराप्रसक्तेरिति मत्वा तद्व्यावृत्तिः कृतेति मन्तव्यम् । तेष्विति । पातकित्वसंशयास्पदेषु पुरुषेषु यथोक्तं तस्मिन्देशे काले वेत्यादिकं सर्वमुपनयेद्योजयेदित्यर्थः । एवं ये तत्रेत्यादिवाक्यजातस्य तात्पर्यमुक्त्वा अक्षरार्थकथनप्रसक्तावाह — ये तत्रेत्यादिसमानमिति । ये तत्रेत्यादिवाक्यजातं पूर्वेण ये तत्रेत्यादिवाक्यजातेन समानार्थम् , अतो न पृथग्व्याख्येयमित्यर्थः । उक्तमनुशासनमुपसंहरति — एष इत्यादिना । सत्यं वदेत्यादिग्रन्थसन्दर्भ एतच्छब्दार्थः । पुत्रेति । पुत्रादिभ्यः शुकादिभ्यः पित्रादीनां व्यासादीनां य उपदेश इतिहासादौ प्रसिद्धः सोऽप्येष एवेत्यर्थः । अयमेवार्थ इतिहासादावुक्त इति भावः । कर्मकाण्डस्य कृत्स्नस्याप्यत्रैव तात्पर्यमिति वक्तुमेषा वेदोपनिषदिति वाक्यम् ; तद्व्याचष्टे — वेदरहस्यमिति । एषा वेदोपनिषदित्यत्रैतच्छब्दः प्रकृतकर्मसंहतिपरः । ईश्वरवचनमिति । ‘श्रुतिस्मृती ममैवाज्ञे’ इति स्मरणादिति भावः । नन्वनुशासनं विधिरिति कुतो नोच्यते तत्राह — आदेशवाच्यस्येति । आदेशपदेन विधेरुक्ततया पौनरुक्त्यापत्तेरिति भावः । अनुशासनपदस्यार्थान्तरमाह — सर्वेषां वेति । आदरार्थमिति । यथोक्तकर्मानुष्ठाने यत्नाधिक्यसिद्ध्यर्थमित्यर्थः ॥ आद्यवादे केवलाया विद्याया मुक्तिसाधनत्वं साधितमपि विशिष्य समुच्चयनिराकरणेन पुनः साधयितुं चिन्तामुपक्रमते — अत्रैतदिति । विद्याकर्मणोः फलभेदज्ञानार्थमेतद्वक्ष्यमाणं वस्तु चिन्त्यत इत्यर्थः । एवकारस्य व्याख्यानम् — केवलेभ्य इति । उत विद्येति । विद्या परब्रह्मविद्या, उपसर्जनतया तत्सापेक्षेभ्य इत्यर्थः । विद्याकर्मणोः समप्राधान्यपक्षमाह — आहोस्विदिति । विद्याप्राधान्यकोटिमाह — विद्यया वेति । सिद्धान्तकोटिमाह — उत केवलयैवेति । पूर्वपक्षमाह — तत्रेत्यादिना । ‘वेदमनूच्य’ इत्यादौ श्रुतेः कर्मस्वत्यन्तादरदर्शनात् ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति भगवद्वचनदर्शनाच्च कर्मभ्य एव परं श्रेयः ; नच विद्यावैयर्थ्यं शङ्कनीयम् , तस्याः कर्मशेषत्वाभ्युपगमात् , तत्फलवचनस्यात एवार्थवादत्वान्न तद्विरोधोऽपीति भावः । उपनिषज्जन्याया विद्यायाः कर्मशेषत्वे हेतुमाह — समस्तेति । समस्तवेदार्थज्ञानवतः कर्माधिकारे मानमाह — वेद इति । रहस्यान्युपनिषदः । समस्तवेदार्थज्ञानवतः कर्माधिकारेऽप्युपनिषदर्थज्ञानस्य कर्माङ्गत्वे किमायातम् तत्राह — अधिगमश्चेति । सरहस्य इति विशेषणादुपनिषत्प्रयोजनभूतेनात्मविज्ञानेन सहैव वेदार्थावगमो गुरुकुले सम्पादनीय इति स्मृत्यर्थोऽवगम्यते ; तथा च कर्मकाण्डार्थज्ञानवद्वेदान्तार्थज्ञानस्यापि कर्माङ्गत्वमायातीति भावः । आत्मविद्यायाः कर्माङ्गत्वे हेत्वन्तरमाह — विद्वानिति । सर्वत्र वेदे विद्वान्यजते विद्वान्याजयति इति समस्तवेदार्थज्ञानरूपविद्यावत एव यतोऽधिकारः प्रदर्श्यते, ततोऽप्यात्मज्ञानस्य कर्मशेषत्वमित्यर्थः । समस्तवेदार्थज्ञानवतः कर्माधिकारे स्मृत्यन्तरमाह — ज्ञात्वेति । ‘ज्ञात्वानुष्ठानम्’ इति स्मृत्या च विदुष एव कर्मण्यधिकारः प्रदर्श्यत इति योजना । एवमौपनिषदात्मज्ञानस्य तत्फलवचनस्य च कर्मशेषत्वप्रदर्शनेन कृत्स्नस्य वेदस्य कर्मपरत्वमुक्तम् । तत्र जैमिनिशबरस्वामिसंमतिमाह — कृत्स्नश्चेति । तदुक्तं जैमिनिना - ‘आम्नास्यस्य क्रियार्थत्वात् - ’ इति ; शबरस्वामिना चोक्तम् - ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इति । तस्य वेदस्यार्थः प्रयोजनम् । एवं कर्मणामेव मुक्तिहेतुत्वं प्रसाध्य विपक्षे दण्डमाह — कर्मभ्यश्चेदिति । अनर्थकः स्यादिति । परमपुरुषार्थपर्यवसायी न स्यात् । न चेष्टापत्तिः, अध्ययनविधिविरोधप्रसङ्गात् । अध्ययनविधिना हि समस्तस्य वेदस्याभ्युदयनिःश्रेयसफलवदर्थावबोधपरत्वमापादितम् । तस्मात्कर्ममात्रसाध्यो मोक्ष इति स्वीकर्तव्यमिति स्थितम् । विद्याया मुक्तिहेतुत्वेऽपि न केवलायास्तस्यास्तद्धेतुत्वम् , ‘विद्यां चाविद्यां च’ इति श्रुत्या विद्याकर्मसमुच्चयस्य मुक्तिहेतुत्वावगमात् । समुच्चयेऽपि ‘कर्मणैव हि संसिद्धिम्—’ इत्यादिवचनानुरोधेन कर्मप्राधान्यपक्षः, ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने’ इत्यादिवचनानुरोधेन समप्राधान्यपक्षः, ’ब्रह्मविदाप्नोति परम्’ इत्यादिवचनानुरोधेन विद्याप्राधान्यपक्ष इति विभागः । इदं च समुच्चयपक्षोपपादनं स्पष्टत्वादुपेक्षितं भाष्यकारेणेति मन्तव्यम् । तत्र केवलकर्मजन्यो मोक्ष इति पक्षं निराकरोति — नेत्यादिना । नित्यो हीति । मोक्षस्य नित्यत्वे ‘न स पुनरावर्तते’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः । कर्मकार्यस्यापि तस्य नित्यत्वं किं न स्यादित्याशङ्क्याह — कर्मकार्यस्य चेति । ततः किम् तत्राह — कर्मभ्यश्चेदिति । अनित्यमिति च्छेदः । अनित्यत्वे इष्टापत्तिं वारयति — तच्चेति । मुक्तस्यापि पुनः संसारप्रसङ्गादिति भावः । पूर्ववादी प्रकारान्तरेण मोक्षस्य विद्यानैरपेक्ष्यं शङ्कते — काम्येति । मुमुक्षुणा जन्मप्रायणयोरन्तराले सर्वात्मना काम्यनिषिद्धयोरनारम्भान्न तस्य तन्निमित्ता भाविजन्मप्राप्तिः ; पूर्वजन्मसु सञ्चितस्य कर्माशयस्य सर्वस्यैव वर्तमानदेहारम्भकत्वाभ्युपगमेनारब्धफलस्य तस्य कर्मण उपभोगेन क्षयात् न तन्निमित्ता च भाविजन्मप्राप्तिः ; नित्यनैमित्तिकानां साकल्येनानुष्ठानात्प्रत्यवायानुत्पत्तौ प्रत्यवायनिमित्ता च न जन्मप्राप्तिः ; न चान्यज्जन्मनिमित्तमस्ति ; तस्माद्विद्यानपेक्षो मोक्ष इत्यर्थः । निराकरोति — तच्च नेति । मुमुक्षोर्वर्तमानदेहारम्भसमये कानिचिदेव कर्माणि वर्तमानदेहमारभन्ते न सर्वाणि, स्वर्गनरकमनुष्यादिविरुद्धफलानां कर्मणामेकदेहारम्भकत्वासम्भवात् ; अतः शेषकर्मसम्भवात्तदपि मतं न सम्भवतीत्यर्थः । ननु शेषकर्मसम्भवेऽपि यथावर्णितचरितस्य मुमुक्षोर्ज्ञाननिरपेक्ष एव जन्माभावलक्षणो मोक्षः सिध्यतीति मतं कुतो न सम्भवति तत्राह — तन्निमित्तेति । शेषकर्मनिमित्तेत्यर्थः । प्रत्युक्तमिति । आद्यवाद इति शेषः । नन्वस्तु शेषकर्मसम्भवः, तथापि तस्य नित्यानुष्ठानेन नाशसम्भवान्न तन्निमित्ता शरीरोत्पत्तिरिति, तन्न ; नित्यानुष्ठानेन दुरितस्य क्षयसम्भवेऽपि न सुकृतस्य तेन क्षयः सम्भवति, नित्यानुष्ठानसञ्चितसुकृतयोरुभयोरपि शुद्धिरूपत्वेन विरोधाभावात् ; अतः सञ्चितसुकृतनिमित्ता शरीरोत्पत्तिरपरिहार्येति मत्वाह — कर्मशेषस्य चेति । इति चेति । इति चाद्यवादे नित्यानुष्ठानस्य सुकृतक्षयहेतुत्वं प्रत्युक्तमित्यर्थः । अतो ज्ञानं विना सञ्चितकर्मक्षयासम्भवाज्ज्ञानापेक्ष एव मोक्षो न तन्निरपेक्ष इति भावः । उपनिषदर्थज्ञानस्यापि कर्मशेषत्वात्कर्मसाध्य एव मोक्ष इत्युक्तमनूद्य निराकरोति — यच्चोक्तमित्यादिना । श्रुतज्ञानेन । गुरुकुले वेदान्तजनितं ज्ञानं श्रुतज्ञानम् , तस्य कर्मशेषत्वेऽपि तदतिरिक्तोपासनस्य मोक्षसाधनस्य सत्त्वान्न कर्मसाध्यो मोक्ष इत्यर्थः । ननु ‘वेदः कृत्स्नोऽधिगन्तव्यः’ इति वचनाद्यथा श्रुतज्ञानं कर्माधिकारिविशेषणतया कर्मशेषस्तथा मननाद्यात्मकमुपासनमपि तच्छेषोऽस्त्विति शङ्कां वारयति — श्रुतज्ञानमात्रेण हीति । मात्रपदव्यवच्छेद्यमाह — नोपासनमपेक्षत इति । मानाभावादिति शेषः । ननु श्रुतज्ञानादर्थान्तरभूतमुपासनं वेदान्तेषु मोक्षफलकत्वेन न क्वापि विधीयते, अतो नोपासनसाध्यो मोक्ष इति वदन्तं प्रत्याह — उपासनं चेति । ‘मन्तव्यो निदिध्यासितव्यः’ इत्युपासनविधानानन्तरमुपसंहारे ‘एतावदरे खल्वमृतत्वम्’ इति श्रवणादमृतत्वसाधनतया तत्रोपासनविधिः प्रतीयत इति भावः । ननु मननादिरूपमुपासनमपि श्रुतज्ञानान्नातिरिच्यते ब्रह्मप्रत्ययत्वाविशेषादिति ; नेत्याह — अर्थान्तरप्रसिद्धिश्च स्यादिति । मनननिदिध्यासनयोर्ब्रह्मप्रत्ययत्वेऽपि श्रुतज्ञानादर्थान्तरत्वं प्रसिद्धमेव भवति, तयोर्विजातीयत्वात्पृथग्विधानाच्चेत्यर्थः । एतदेव विवृणोति — श्रोतव्य इत्युक्त्वेति । मनननिदिध्यासनयोश्चेति । चकारोऽवधारणार्थः सन्प्रसिद्धपदेन सम्बध्यते । वस्तुतस्तु श्रुतज्ञानस्यापि नास्ति कर्मशेषत्वे मानम् । न चाध्ययनविधिबलाद्गुरुकुले सम्पादितसमस्तवेदार्थज्ञानमध्यपातिनस्तस्यापि कर्मज्ञानवत्कर्माङ्गत्वं प्रतीयत इत्युक्तमिति वाच्यम् ; अध्ययनविधेरक्षरावाप्तिमात्रफलकत्वेनार्थावबोधपर्यन्तत्वासिद्धेः । न च तथा सति विचारविध्यभावात्पूर्वोत्तरमीमांसयोरप्रवृत्तिप्रसङ्ग इति वाच्यम् ; अर्थज्ञानं विनानुष्ठानासम्भवेन तत्तत्क्रतुविधिभिरेव पूर्वमीमांसाप्रवृत्त्युपपत्तेः, उत्तरमीमांसाप्रवृत्तेः श्रोतव्यविधिप्रयुक्तत्वस्य ब्रह्मजिज्ञासासूत्रे स्फुटत्वात् , ‘विद्वान्यजते’ इति वचनस्य कर्मकाण्डगतस्य प्रकृततत्तत्कर्मविद्वत्तामात्रपरत्वेनात्मविद्वत्तापरत्वाभवात् , आत्मज्ञानस्य कर्मानुष्ठानप्रतिकूलताया वक्ष्यमाणत्वेन तच्छेषत्वानुपपत्तेश्च, ‘आम्नायस्य क्रियार्थत्वात्—’ इत्यादिवृद्धवचनजातस्य कर्मविचारप्रकरणगतत्वेन कर्मकाण्डमात्रविषयतायाः समन्वयसूत्रे स्पष्टत्वाच्च । तस्माच्छ्रुतज्ञानमपि न कर्मशेषः । अत एवात्मज्ञानफलश्रवणमर्थवाद इति शङ्कापि निरालम्बनेति बोध्यम् । इत्थं केवलकर्मभ्यः परं श्रेय इति पक्षं निरस्य कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयपक्षमुत्थापयति — एवं तर्हीति । ननु नित्यस्य मोक्षस्य कर्मारभ्यत्वं न सम्भवति, कार्यस्यानित्यत्वनियमादित्युक्ते कथं तस्य विद्यासहितकर्मकार्यत्वशङ्का तत्राह — विद्यासहितानां चेति । च-शब्दः शङ्कानिरासार्थः । विद्यालक्षणसहकारिमहिम्ना नित्यस्याप्यारम्भः सम्भवतीति भावः । कार्यान्तरेति । नित्यकार्येत्यर्थः । सहकारिसामर्थ्यात्कार्यवैचित्र्यमात्रे दृष्टान्तमाह — यथेति । यथा स्वतो मरणरूपकार्यारम्भसामर्थ्यवतोऽपि विषस्य मन्त्रसंयुक्तस्य पुष्टिरूपकार्यान्तरारम्भसामर्थ्यम् , यथा वा दध्नः समयविशेषे ज्वररूपकार्यारम्भसामर्थ्यवतोऽपि तदा गुडशर्करादिसंयुक्तस्य तस्य तृप्तिमात्रारम्भसामर्थ्यम् , यथा वा वेत्रबीजस्य दावदग्धस्य कदल्यारम्भसामर्थ्यम् , एवं प्रकृतेऽपीत्यर्थः । अस्तु सहकारिवैचित्र्यात्कार्यवैचित्र्यम् , तावता आरभ्यस्यापि मोक्षस्यानित्यत्वप्रसङ्गदोषे किमागतमिति दूषयति — नारभ्यस्येति । ‘यत्कृतकं तदनित्यम्’ इति न्यायविरोधान्नित्यस्यारम्भो न सम्भवतीत्यर्थः । ‘न स पुनरावर्तते’ इति वचनादारभ्यस्यापि मोक्षस्य नित्यत्वमविरुद्धमिति शङ्कते — वचनादिति । वचनस्यानधिगतयोग्यार्थज्ञापकत्वेन पदार्थयोग्यतानाधायकत्वान्न वचनबलादारभ्यस्य नित्यत्वं सिध्यतीति दूषयति — नेति । सङ्ग्रहवाक्यं विवृणोति — वचनं नामेत्यादिना । ननु वचनमेवारभ्यस्य मोक्षस्य नित्यत्वं प्रति योग्यतामविद्यमानामप्याधाय पश्चान्नित्यत्वं तस्य ज्ञापयतीति ; नेत्याह — नाविद्यमानस्य कर्त्रिति । कुत इत्यत आह — न हीति । नित्यमिति । आत्मस्वरूपमिति शेषः । आरब्धं वेति । घटादीति शेषः । हि यस्माद्वचनशतेनापि नित्यस्यारम्भो लोके न दृश्यते तस्मान्नाविद्यमानस्य कर्त्रिति योजना । अन्यथा ‘अन्धो मणिमविन्दत्’ इत्यादावपि वचनबलादेव योग्यताप्रसङ्ग इति भावः । समसमुच्चयपक्षमप्यतिदेशेन निराकरोति — एतेनेति । अनित्यत्वप्रसङ्गेनेत्यर्थः ॥ प्रतीचो ब्रह्मत्वरूपमोक्षस्य नित्यत्वेन समुच्चयाजन्यत्वेऽपि तदावारकाविद्यानिवृत्तिहेतुत्वमेव समुच्चयस्यास्त्विति शङ्कते — विद्याकर्मणी इति । आवरणरूपप्रतिबन्धहेतोरविद्याया निवृत्तौ विद्यामात्रस्यैवापेक्षितत्वेन कर्मणोऽनपेक्षितत्वान्न समुच्चयाधीना मुक्तिरिति मत्वाह — नेति । कर्मणामविद्यानिवृत्त्यपेक्षया फलान्तरस्यैव लोके प्रसिद्धत्वाच्च न प्रतिबन्धहेतुनिवृत्तौ कर्मापेक्षेत्याह — कर्मण इति । तदेव विवृणोति — उत्पत्तीति । उत्पत्तिः पुरोडाशादेः, संस्कारो व्रीह्यादेः, विकारः सोमस्याभिषवलक्षणः, आप्तिः पयसः, इत्येवं कर्मणः फलं प्रसिद्धमित्यर्थः । ननु यद्यविद्यानिवृत्तौ न कर्मापेक्षा, कर्मफलं चोत्पत्त्यादिकमेव, तर्हि ब्रह्मस्वरूपमोक्षस्यैवोत्पत्त्याद्यन्यतमत्वमस्तु ; नेत्याह — उत्पत्त्यादिफलविपरीतश्चेति । ब्रह्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेयातिशयत्वादविकार्यत्वान्नित्याप्तत्वाच्च कर्मफलवैपरीत्यम् ; एतेषां हेतूनां श्रुतिसिद्धत्वाच्च नासिद्धिशङ्का कार्येति भावः । प्रत्यगात्मतया नित्यप्राप्तस्यापि ब्रह्मणो गतिश्रुतिमवलम्ब्य प्राप्यत्वमाशङ्कते — गतीति । शङ्कां विवृण्वन्गतिश्रुतीरुदाहरति — सूर्येति । विरजा निष्कल्मषा ब्रह्मविद इत्यर्थः । तयेति । सुषुम्नाख्यया नाड्येत्यर्थः । आदिपदात् ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादिश्रुतयो गृह्यन्ते । गतिश्रुतीनामन्यविषयत्वमभिप्रेत्य परब्रह्मणो गतिप्राप्यत्वं निराकरोति — न सर्वगतत्वादिति । लोके गन्तुः सकाशादन्यस्य परिच्छिन्नस्य च प्राप्यता प्रसिद्धा ; ब्रह्मणस्तु तदुभयाभावान्न प्राप्यतेत्यर्थः । सर्वगतत्वं साधयति — आकाशादीति । ब्रह्मणो गन्तृभिर्जीवैरभिन्नत्वं विवृणोति — ब्रह्माव्यतिरिक्ताश्चेति । चकारोऽवधारणे । तेनेति । सर्वगतत्वादिनेत्यर्थः । ननु यदि सर्वगतं गन्तुरनन्यच्च न प्राप्यम् , तर्हि कीदृशं गन्तव्यम् अत आह — गन्तुरिति । अनन्यस्य गन्तव्यत्वाभावमनुभवेन साधयति — न हि येनैवेति । गन्तृभिरनन्यत्वं साधयति — तदनन्यत्वप्रसिद्धिश्चेति । तस्य ब्रह्मणो गन्तृभिरनन्यत्वं च श्रुत्यादिभ्यः सिध्यतीत्यर्थः । ब्रह्मण एव जीवभावेन प्रवेशश्रवणात्क्षेत्रज्ञस्य जीवस्य ब्रह्मत्वश्रवणाच्चेत्यर्थः । ‘अहं ब्रह्म’ इत्यादिश्रुतयः ‘आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’ इत्यादिस्मृतयश्च आदिपदग्राह्या विवक्षिताः । गतिश्रुतीनां गतिं पृच्छति — गत्यैश्वर्यादीति । यथा ब्रह्मविदो गतिः श्रूयते तथा तस्यैश्वर्यमपि श्रूयते, ब्रह्मणो नित्यप्राप्तत्वाद्यथा तस्य प्रप्यता न सम्भवति तथा परब्रह्मविदो मुक्तस्य निरुपाधिकत्वादैश्वर्यमपि न सम्भवति ; ततश्च तुल्यन्यायत्वादैश्वर्यश्रुतीनामपि गतिप्रश्न इति मन्तव्यम् । प्रश्नं प्रपञ्चयति — अथापि स्यादिति । गतिश्रुतयः पूर्वमुदाहृता इत्याशयेनैश्वर्यश्रुतीरुदाहरति — स एकधेत्यादिना । ‘स एकधा भवति त्रिधा भवति’ इत्यादिश्रुतिर्मुक्तस्यानेकशरीरयोगं दर्शयति ; ‘स यदि पितृलोककामो भवति’ इत्यादिश्रुतिस्तु मुक्तस्य सङ्कल्पमात्रसमुत्थान्पित्रादिभोगान्दर्शयति ; तथा ‘स्त्रीभिर्वा’ इत्यादिश्रुतिरपि तस्यैश्वर्यमावेदयतीत्यर्थः । ‘कार्यं बादरिः’ इत्यधिकरणन्यायेन तासां श्रुतीनां गतिमाह — न कार्येति । ननु सगुणब्रह्मोपासकस्य सत्यलोकस्थकार्यब्रह्मप्राप्तिविषयास्ताः श्रुतयो न निर्गुणब्रह्मविदः परब्रह्मप्राप्तिविषया इत्यत्र किं विनिगमकमित्याशङ्क्याह — कार्ये हीति । कार्ये हिरण्यगर्भाख्ये ब्रह्मणि प्राप्ते सति तल्लोके स्त्र्यादयो विषयाः सन्ति, न कारणत्वोपलक्षिते निर्गुणविद्याप्राप्ये विशुद्धे ब्रह्मणि विषयाः सन्ति, विद्यया अविद्यातत्कार्यजातस्य सर्वस्य निवृत्तत्वात् निर्गुणमुक्तस्य निरुपाधिकत्वेन भोक्तृत्वायोगाच्चेत्यर्थः । कार्यब्रह्मलोके स्त्र्यादिविषयाः सन्तीत्यत्र ‘स यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति’ इत्यादिश्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः । परममुक्तौ भोगाभावे मानमाह — एकमेवेत्यादिना । सजातीयविजातीयस्वगतभेदरहितं ब्रह्मेत्यर्थः । यत्रेति । अन्योऽन्यत्पश्यतीत्येवमात्मकं प्रसिद्धं द्वैतं यत्र वस्तुतो नास्ति स भूमेत्यर्थः । तत्केनेति । तत्तदा विदेहकैवल्यसमये केन करणेन कं विषयं पश्येदित्यर्थः । एतेन निर्गुणविद्याप्रकरणगतानाम् ‘स एकधा भवति’ ‘स्त्रीभिर्वा यानैर्वा’ इत्याद्यैश्वर्यश्रुतीनां सगुणमुक्तविषयत्वकल्पनमयुक्तमिति शङ्कापि निरस्ता, परममुक्तौ भोगासम्भवस्य ‘तत्केन कम्’ इत्यादिश्रुतिसिद्धत्वात् , ‘मात्रासंसर्गस्त्वस्य भवति’ इत्यादिश्रुत्या मुक्तस्य सर्वोपाध्यभावप्रतिपादनेन विषयभोगासम्भवाच्च । तथा चैश्वर्यश्रुतीनां प्रकरणे निवेशासम्भवात्कार्यब्रह्मप्राप्तानामैश्वर्यसम्भवाच्च सामर्थ्यानुसारेण प्रकरणमुल्लङ्घ्य सगुणविद्याशेषत्वकल्पनद्वारा सगुणमुक्तविषयत्वकल्पनं युक्तमेवेति । एवमविद्यानिवृत्तौ कर्मणामनुपयोगाद्ब्रह्मभावलक्षणमोक्षस्य कर्मसाध्यत्वाभावाच्च मुक्तौ विद्यैव हेतुर्न विद्याकर्मणोः समुच्चय इति प्रतिपादितम् । इदानीं समुच्चयासम्भवे हेत्वन्तरमाह — विरोधाच्चेति । विरोधमेव प्रपञ्चयति — प्रविलीनेति । कर्त्रादिकारकलक्षणा विशेषाः प्रविलीना यस्मिन्ब्रह्मणि तत्तथा, निर्विशेषमिति यावत् । तादृशब्रह्मविषया विद्या यथोक्तब्रह्मविपरीतेन कर्त्रादिकारकजातेन साध्यं यत्कर्म तेन विरुध्यते । हि प्रसिद्धमेतदित्यर्थः । ननु ब्रह्मणो निर्विशेषत्वे सिद्धे सद्विषयविद्यया कर्त्रादिद्वैतबाधावश्यम्भावात्कर्मानुष्ठानं न सम्भवतीति विद्याकर्मणोर्विरोधः स्यात् , न तु तत्सिद्धमित्याशङ्क्य तस्य निर्विशेषत्वं साधयति — न ह्येकमित्यादिना । ब्रह्मणो जगदुपादानत्वश्रुत्यनुरोधेन कर्त्रादिसकलद्वैतास्पदत्वं प्रतीयते ‘नेति नेति’ इत्यादिनिषेधश्रुतिभिस्तस्य सर्वविशेषशून्यत्वं च प्रतीयते ; न चैकं वस्तु परमार्थत उभयवत्तया प्रमाणतो निश्चेतुं शक्यत इत्यर्थः । तत्र विरोधादिति युक्तिसूचनार्थो हि-शब्दः । ततः किम् तत्राह — अवश्यं हीति । लोके पुरोवर्तिनि प्रतीतयोः रजतत्वशुक्तित्वयोर्विरुद्धयोरन्यतरस्य मिथ्यात्वदर्शनादिति हि-शब्दार्थः । नन्वन्यतरस्य मिथ्यात्वावश्यम्भावेऽपि ब्रह्मणो निर्विशेषत्वमेव मिथ्यास्तु ; तत्राह — अन्यतरस्य चेति । स्वाभाविकमनादि यदज्ञानं तद्विषयस्य तद्विषयब्रह्मकार्यस्य द्वैतस्य स्वकारणाज्ञानसहितस्य यन्मिथ्यात्वं तद्युक्तमित्यर्थः । द्वैतस्य मिथ्यात्वे मानमाह — यत्र हीत्यादिना । यत्राविद्याकाले द्वैतशब्दितं जगल्लब्धात्मकं भवति, तदा इतर इतरं पश्यतीति श्रुत्यर्थः । श्रुताविवकारो मिथ्यात्ववाची, न सादृश्यवाची, उपमेयानुपलम्भादिति भावः । य इह ब्रह्मणि नानाभूतं वस्तुतः कल्पितं जगत्परमार्थं पश्यति, स मृत्योर्मरणान्मृत्युं मरणमेव प्राप्नोतीति द्वैतसत्यत्वदर्शिनोऽनर्थपरम्पराप्राप्त्यभिधानादपि तस्य मिथ्यात्वमेव युक्तमित्यर्थः । अथ भूमलक्षणोक्त्यनन्तरं तद्विपरीतस्याल्पस्य लक्षणमुच्यते भूमलक्षणदार्ढ्याय — यत्र जगति अन्यदन्यः पश्यति तदल्पम् ; अतो यत्र दर्शनादिद्वैताभावस्तस्य भूमरूपता युक्तेत्यर्थः ; द्वैतस्याल्पत्वात्स्वप्नद्वैतवन्मिथ्यात्वमिति भावः । यः परमेश्वरमन्योऽसावन्योऽहमस्मीति चिन्तयति स न परमात्मनस्तत्त्वं वेदेति श्रुत्या जीवस्य परमात्माभेदविरोधिसंसारलक्षणद्वैतस्य मिथ्यात्वमवगम्यत इति भावः । यस्तु स्वस्येश्वरादल्पमपि भेदं पश्यति, तस्य तदानीमेव भयं भवतीति श्रुत्या जीवेश्वरभेदोपलक्षितस्य जगतो मिथ्यात्वं भातीति भावः । ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् । एकत्वशब्दितस्य निर्विशेषब्रह्मणः सत्यत्वं च युक्तमित्यत्र हेतुत्वेन श्रुतीरूदाहरति — एकधैवेति । एकरूपेणैव ब्रह्म आचार्योपदेशमनु साक्षात्कर्तव्यमित्यर्थः । अत्रैकरूपत्वं निर्विशेषचैतन्यरूपत्वम् , ‘प्रज्ञानघन एव’ इति वाक्यशेषदर्शनादिति भावः । ‘ब्रह्मैवेदं सर्वम्’ इति सामानाधिकरण्यं ब्रह्मव्यतिरेकेण सर्वं वस्तुतो नास्ति ; ततश्च ब्रह्म निर्विशेषमित्येतदभिप्रायकम् ; एतदभिप्रायकत्वं चास्य सामानाधिकरण्यस्य भाष्यकारैर्द्युभ्वाद्याविकरणे प्रपञ्चितम् ; नेह विस्तरभयात्तल्लिख्यते । सर्वमित्यादीत्यादिपदेन ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्सत्यमित्याचक्षते’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुतयो गृह्यन्ते । ननूक्तरीत्या सर्वस्य दृश्यजातस्य चिदेकरसे ब्रह्मण्यध्यस्ततया सर्वाधिष्ठानभूतब्रह्मतत्त्वविद्यया सर्वस्य द्वैतस्य बाधितत्वाद्वस्तुतो जगद्भेदादर्शनेऽपि विदुषः कर्मानुष्ठानं कुतो न सम्भवति, यतो विद्याकर्मणोर्विरोधो भवेदित्याशङ्क्याह — न चेति । सम्प्रदानं कर्मण्युद्देश्या देवता । कर्तृकरणादिसङ्ग्रहार्थमादिपदम् । स्वप्नवज्जगति मायामात्रत्वनिश्चये सति न प्रवृत्तिरुपपद्यत इति भावः । रज्जुतत्त्वसाक्षात्कारेण रज्जावध्यस्तसर्पस्येव ब्रह्मतत्त्वसाक्षात्कारेण ब्रह्मण्यध्यस्तद्वैतस्योपमर्दे युक्तिसिद्धे श्रुतयोऽपि सन्तीत्याह — अन्यत्वदर्शनापवादश्चेति । अधिष्ठानयाथात्म्यज्ञानस्याध्यासनिवर्तकत्वनियमदर्शनरूपयुक्तिसमुच्चयार्थश्चकारः । विद्याविषये ब्रह्मणि विद्यासामर्थ्याद्द्वैतदर्शनबाधः ‘तत्केन कं पश्येत्’ इत्यादिश्रुतिषूपलभ्यत इत्यर्थः । तदुक्तं सूत्रकारेण ‘उपमर्दं च’ इति । विद्यया कर्मसाधनकारकजातस्योपमर्दं वाजसनेयिन आमनन्तीति सूत्रार्थः । अत इति । कर्मसाधनानां विद्ययोपमर्दितत्वादित्यर्थः । अतश्चेति । विरोधाच्चेत्यर्थः । समुच्चयानुपपत्तौ फलितमाह — अत्र यदुक्तमिति । मोक्ष इत्यनुपपन्नमित्यनन्तरं तदयुक्तमित्यपि क्वचित्पाठो दृश्यते । तदानीमित्थं योजना — संहताभ्यां विद्याकर्मभ्यां मोक्ष इति कृत्वा केवलविद्याया मोक्षहेतुत्वमनुपपन्नमिति यदुक्तं तदयुक्तमिति ॥ द्वैतस्य मिथ्यात्वे कर्मश्रुतीनामप्रामाण्यं स्यादिति शङ्कते — विहितत्वादिति । शङ्कां विवृणोति — यद्युपमृद्येत्यादिना । उपमर्धो मिथ्यात्वबोधनम् । विधीयते उपदिश्यते । सर्पादीति । रज्जौ सर्पोऽयमिति भ्रान्तं प्रति मिथ्यैव सर्पो न वस्तुतः सर्पोऽस्ति रज्जुरेवैषेत्याप्तेन यथा रज्जुतत्त्वविषयकं विज्ञानमुपदिश्यते तथेत्यर्थः । शुक्त्यादिसङ्ग्रहार्थं द्वितीयमादिपदम् । प्रथमं तु रजतादिसङ्ग्रहार्थमिति विभागः । निर्विषयत्वादिति । सत्यविषयरहितत्वादित्यर्थः । कल्पितद्वैतस्य रज्जुसर्पादेरिव कार्याक्षमत्वादिति भावः । विहितत्वादिति हेतुरपि प्रतिपन्न इत्याह — विहितानि चेति । कर्मश्रुतिविरोधापादने इष्टापत्तिं वारयति — स चेति । तथा च द्वैतसापेक्षकर्मश्रुतीनामद्वैतब्रह्मबोधकविद्याश्रुतीनां च परस्परविरोधादप्रामाण्यप्रसङ्ग इति भावः । विद्याकर्मश्रुतीनां परस्परमविरोधेन पुरुषार्थोपदेशमात्रे प्रवृत्तत्वान्नाप्रामाण्यप्रसङ्ग इति समाधत्ते — नेत्यादिना । तत्र प्रथमं विद्याश्रुतीनां कर्मश्रुत्यविरुद्धपुरुषार्थोपदेशे प्रवृत्तिं दर्शयति — विद्योपदेशेति । विद्योपदेशपरा तावच्छ्रुतिर्विद्याप्रकाशकत्वेन प्रवृत्तेति सम्बन्धः । श्रुतौ विद्यानिरूपणस्य प्रयोजनमाह — संसारहेतोरिति । कर्तव्येतीति । अत्रेतिपदानन्तरं कृत्वेति शेषः । संसारहेत्वविद्यानिवर्तिकां विद्यां प्रकाशयन्त्याः श्रुतेराशयं दर्शयति — संसारादिति । तथा च मुमुक्षोर्मोक्षसाधनविद्यालक्षणपुरुषार्थोपदेशाय प्रवृत्ता विद्याश्रुतिः, अतो न विद्याश्रुतेः कर्मश्रुत्या विरोध इत्यर्थः । इदानीं विद्याश्रुत्यविरुद्धपुरुषार्थोपदेशपरत्वं कर्मश्रुतीनामाशङ्कापूर्वकं दर्शयति — एवमपीत्यादिना । एवमपीत्यस्य विद्याश्रुतेः कर्मश्रुत्या विरोधाभावेऽपीत्यर्थः । विरुध्यत एवेति । द्वैतसत्यत्वापहारिण्या विद्याश्रुत्या तत्सत्यत्वपरा कर्मश्रुतिर्विरुध्यत एवेति शङ्कार्थः । श्रेयःसाधनरूपपुरुषार्थोपदेशपरायाः कर्मश्रुतेः कारकादिद्वैतास्तित्वेऽपि तात्पर्याभावान्न विरोध इति परिहरति — न यथाप्राप्तमेवेति । भ्रान्तिप्राप्तमेवेत्यर्थः । फलेति । स्वर्गपश्वादिफलार्थिनां फलसाधनं च विदधच्छास्त्रमित्यर्थः । व्याप्रियत इति । गौरवादिति भावः । न च द्वैतस्य मिथ्यात्वे शुक्तिरूप्यादिवदर्थक्रियासामर्थ्याभावात्कारकादेः फलसाधनतादिकं न स्यादिति वाच्यम् ; वियदादिप्रपञ्चस्य मिथ्यात्वेऽपि शुक्तिरजतादिवैलक्षण्येन यावत्तत्त्वज्ञानमर्थक्रियासामर्थ्याङ्गीकारात् । इदं चारम्भणाधिकरणादौ प्रपञ्चितं तत्रैवानुसन्धेयमिति भावः । ननु मुमुक्षूणां मोक्षसाधनीभूता विद्या शास्त्रेण विधातव्या न तु दुरितक्षयार्थं कर्माणि, विद्यायां मोक्षे वा उपात्तदुरितक्षयस्यानुपयोगादित्याशङ्क्याह — उपचितेति । प्रतिबन्धस्य हीति । प्रतिबन्धवतः पुंसः इत्यर्थः । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्यादिशास्त्रप्रसिद्धिद्योतनार्थो हि-शब्दः । ततश्चेति । विद्योदयादित्यर्थः । च-शब्दो विद्यायाः कर्मासमुच्चितत्वरूपकैवल्यार्थः । तत आत्यन्तिक इति । तथा च कर्मकाण्डस्य निःश्रेयसपर्यवसायिनो दुरितक्षयस्य स्वर्गादिफलस्य च साधनत्वेन कर्मणामुपदेशे तात्पर्यमिति कर्मश्रुतीनां पुरुषार्थोपदेशपरत्वं प्रदर्शितमिति बोध्यम् । एवं द्वैतमिथ्यात्वसाधनप्रसङ्गप्राप्तं विद्याकर्मश्रुतीनां परस्पविरोधं परिहृत्य प्रकृतायां विद्याकर्मणोः समुच्चयानुपपत्तौ प्रकारान्तरेण विरोधं हेतुमाह — अपि चेति । विद्यावतः कर्मासम्भवं वक्तुं कर्मणः काममूलत्वमाह — अनात्मदर्शिनो हीति । अनात्मनि देहादावात्मत्वदर्शिनः स्वव्यतिरिक्तान्कामयितव्यपदार्थान्पश्यतस्तद्विषयः कामो भवति । हि प्रसिद्धमित्यर्थः । ततः किम् तत्राह — कामयमानश्च करोतीति । तदुक्तं भगवता व्यासेन - ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ इति । कर्मणां संसारफलकत्वाच्च विदुषः कर्मानुष्ठानं न सम्भवतीत्याशयेन कर्मफलं दर्शयति — तत्फलेति । संसार इति । कामिन इति शेषः । विद्यावतस्तु कामाभावान्न कर्मानुष्ठानमित्याह — तद्व्यतिरेकेणेत्यादिना । आत्मैकत्वदर्शिनस्तद्व्यतिरेकेण आत्मैकत्वव्यतिरेकेण कामयितव्यविषयाभावादनात्मगोचरकामानुपपत्तिरित्यर्थः । ननु तर्ह्यात्मन्येव कामोऽस्त्वानन्दरूपत्वादात्मनः, तथा च तत्कामनया विदुषोऽपि कर्मानुष्ठानं स्यादिति ; नेत्याह — आत्मनि चेति । कामस्यात्मान्यविषयत्वादात्मानन्दे च विदुषोऽन्यत्वभ्रान्तेर्निवृत्तत्वादात्मनि कामानुपपत्तिः, तदनुपपत्तौ च विदुषो मुक्तिरेव पर्यवस्यति ; तथा च मुक्तस्य न कर्मानुष्ठानप्रत्याशेति भावः । फलितमाह — अतोऽपीति । विदुषः कामाभावेन कर्मानुष्ठानासम्भवादपीत्यर्थः । विरोध इति । एकदैकत्र पुरुषे सहानवस्थानलक्षण इत्यर्थः । तथा च समुच्चयवादिमते कर्मविद्याश्रुतीनामप्येकदैकपुरुषविषयत्वासम्भवलक्षणविरोधोऽपि तदनिष्टः प्राप्नोतीति भावः । विद्या प्रधानं कर्म चोपसर्जनमिति पक्षोऽपि समप्राधान्यपक्षवदत एव निरस्त इत्याह — विरोधादेव चेति । स्वमते कर्मविद्याश्रुतीनां क्रमसमुच्चयपरत्वेनाविरोधं वक्तुं पूर्वोक्तमर्थं स्मारयति — स्वात्मलाभे त्विति । स्वात्मलाभे तु स्वोत्पत्तौ तु विद्या कर्माण्यपेक्षत इति योजना । एतदेव विवृणोति — पूर्वोपचितेति । कर्मणां विद्याहेतुत्वे मानमाह — अत एवेति । विद्योदयहेतुत्वादेवेत्यर्थः । कर्मणां शुद्धिद्वारा विद्याहेतुत्वे फलितमाह — एवं चेति । एतेन ‘विद्यां चाविद्यां च’ इति वचनं क्रमसमुच्चयाभिप्रायम् , उपासनकर्मणोर्यौगपद्येन समुच्चयाभिप्रायं वा भविष्यति ; ‘कर्मणैव हि’ इति वचनमपि कर्मणैव चित्तशुद्ध्यादिक्रमेण मुक्तिं प्राप्ता इत्यभिप्रायकं भविष्यति ; ‘तत्प्राप्तिहेतुर्विज्ञानम्’ इति वचनमपि क्रमसमुच्चयाभिप्रायमेवेति सूचितमिति ध्येयम् । परमप्रकृतमुपसंहरति — अत इति । मोक्षे केवलकर्मसाध्यत्वस्य समुच्चयसाध्यत्वस्य च निरस्तत्वादित्यर्थः ॥ कर्मणां विद्यासाधनत्वनिरूपणमुपश्रुत्य लब्धावकाश आश्रमान्तराण्याक्षिपति — एवं तर्हीति । यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्याश्रमान्तराणां नैष्ठिकवानप्रस्थपारिव्राज्यलक्षणानामनुपपत्तिरननुष्ठेयता स्यादित्यर्थः । विद्योत्पत्तेः कर्मनिमित्तकत्वेऽपि कथमाश्रमान्तरानुपपत्तिः अत आह — गार्हस्थ्ये चेति । गार्हस्थ्य एवाग्निहोत्रादीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्हस्थ्यमेकमेवानुष्ठेयमित्यर्थः । गार्हस्थ्यस्यैवानुष्ठेयत्वे हेत्वन्तरमाह — अतश्चेति । अत एवानुकूलतरा भवन्तीति योजना । आश्रमान्तराणामनुष्ठानपक्षे सर्वेषामधिकारिणां यावज्जीवं कर्मानुष्ठानालाभाद्यावज्जीवादिश्रुतयो नानुकूलतराः स्युरित्यर्थः । आश्रमान्तरानुष्ठानपक्षेऽपि यावज्जीवादिश्रुतयोऽनुकूला भवन्त्येव, कर्मणां विद्याहेतुत्वेऽपि विद्यामकामयमानैर्गृहस्थैः प्रत्यवायपरिहारार्थं यावज्जीवं कर्मणामनुष्ठानात् , इदानीं तु विद्याकामैरपि विद्योत्पत्तये यावज्जीवं गार्हस्थ्य एव स्थित्वा कर्माण्यनुष्ठेयानीति विशेषलाभादनुकूलतराः स्युरित्युक्तमिति मन्तव्यम् । आदिपदेन ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्याद्या आश्रमान्तरनिषेधश्रुतयो गृह्यन्ते । अत्र किमाश्रमान्तराणामविहितत्वादननुष्ठेयत्वम् , किं वा तेषां प्रतिषेधात् , अथ वा तेषु विद्याहेतुकर्माभावात् नाद्यः श्रुतिस्मृत्योराश्रमान्तराणां विधिदर्शनात् । न द्वितीयः, निषेधश्रुतेर्यावज्जीवादिश्रुतेश्चाविरक्तविषयतया सङ्कोचोपपत्तेः, अन्यथा सांसारिकफलाद्विरक्तस्य ‘यदहरेव विरजेत्’ इत्यादिसंन्यासविधिविरोधप्रसङ्गात् । न तृतीय इत्याह — न कर्मानेकत्वादिति । विद्याहेतुभूतानां कर्मणां नानाविधत्वादाश्रमान्तरेष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्रमान्तरानुपपत्तिरित्यर्थः । ननु यानि गार्हस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्मचर्यादीनीत्याशङ्क्याह — न हीति । न ह्यग्निहोत्रादीन्येव कर्माणि, किं तु ब्रह्मचर्यादीन्यपि कर्माणि भवन्त्येव अनुष्ठेयत्वाविशेषादित्यर्थः । तान्येवाश्रमान्तरेषु श्रुत्यादिसिद्धानि कर्माणि प्रपञ्चयन्विद्योत्पत्तिं प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति — ब्रह्मचर्यं तप इत्यादिना । असङ्कीर्णानीति । हिंसानृतवचनादिदोषैरसङ्कीर्णानीत्यर्थः । आश्रमान्तरस्थानां चित्तैकाग्र्यतत्त्वविचारादिकर्मणां विद्यासाधनत्वे मानमाह — वक्ष्यति चेति । ‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इत्यादिश्रुतिसङ्ग्रहार्थश्चकारः । इतश्च कर्मणां विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यिकम् , अतो नैकाश्रम्यनिर्बन्ध इत्याशयेनाह — जन्मान्तरेति । केषाञ्चिज्जन्मान्तरकृतकर्मभ्य एव दारसङ्ग्रहात्प्रागपि विद्योदयसम्भवात्तेषां गार्हस्थ्यप्राप्तिरनर्थिका । ननूत्पन्नविद्यानामपि गार्हस्थ्यप्राप्तिरस्तु ; नेत्याह — कर्मार्थत्वाच्चेति । ‘जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय’ इत्यादिश्रुतिपर्यालोचनया गार्हस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वस्यैवावगमात्कर्मफलभूतायां विद्यायां सिद्धायां तत्प्राप्तिरनर्थिकैवेत्यर्थः । कर्मसाध्यायां चेति । कर्मभिः साधनीयायामित्यर्थः । चकारो विदुषः कर्मासम्भवसूचनार्थः । सर्वेषां गार्हस्थ्यनिर्बन्धाभावे हेत्वन्तरमाह — लोकार्थत्वाच्चेति । ननु पुत्रकर्मापरविद्यानां गार्हस्थ्ये सम्पादनीयानां लोकत्रयार्थत्वेऽपि जन्मान्तरकृतकर्मभिरुत्पन्नविद्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति ; नेत्याह — पुत्रादीति । ‘अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्ययादेवलोकः’ इति श्रुत्या पृथिवीलोकादीनां पुत्रादिसाध्यत्वमवगम्यते । एतेभ्यश्च पुत्रादिसाध्येभ्यो लोकेभ्यो व्यावृत्तकामत्वान्न तस्यात्मदर्शिनः कर्मानुष्ठानोपयोगिनि गार्हस्थ्ये प्रवृत्तिरुपपद्यते । नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्त्या लोकः लोकनं चैतन्यम् । इदं च नित्यसिद्धात्मलोकदर्शित्वं व्यावृत्तकामत्वे हेतुतयोपात्तम् । तदुक्तं भगवता — ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति । रसो रागः । एवं ब्रह्मचर्याश्रम एवोत्पन्नविद्यानां न गार्हस्थ्यमपेक्षितमित्युक्तम् । इदानीं गृहस्थस्य सतो विद्योदयेऽपि गार्हस्थ्यपरित्याग एव न्याय्य इत्याह — प्रतिपन्नेति । विद्यायाः परिपाकः प्रतिबन्धराहित्यम् ; अप्रतिबन्धात्मविद्याबलेन कर्मफलेभ्यो नितरां विरक्तस्येत्यर्थः । निवृत्तिरेवेति । विधिना कर्मपरित्यागरूपसंन्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मात्प्रत्यक्षात्स्थानाद्गार्हस्थ्यात् प्रव्रजिष्यन्नेवास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यन्नस्मीति प्रतिज्ञापूर्वकं यज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृत्तिदर्शनाल्लिङ्गादित्यर्थः । एवमादीत्यादिपदेन ‘आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इत्यादीनि श्रुतिलिङ्गानि गृह्यन्ते । न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेऽपि यथा विद्याकामेन गार्हस्थ्यमनुष्ठातुं शक्यते तथैवाश्रमान्तराण्यपि यथारुच्यनुष्ठातुं शक्यन्ते, तेष्वपि विद्यासाधनकर्मणां सत्त्वात् । तथा च वचनम् ‘तस्याश्रमविकल्पमेके समामनन्ति’ इति । अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मान्तरकृतेत्यादिना विदुषः पारिव्राज्यमेवेत्युक्तम् । इत्थं गार्हस्थ्यस्यानावश्यिकत्वादाश्रमाणां वैकल्पिकमनुष्ठानमुक्तमाक्षिपति — कर्म प्रतीति । श्रुतेरग्निहोत्रादिकर्मसु तात्पर्यातिशयवत्त्वादग्निहोत्रादिधर्मयुक्तं गार्हस्थ्यं प्रबलम् , अतोऽतुल्यत्वाद्गार्हस्थ्यानधिकृतविषयमाश्रमान्तरविधानमित्यर्थः । आक्षेपं विवृणोति — अग्निहोत्रादीति । अधिको यत्नः तात्पर्यातिशयः । ‘एष आदेशः’ इत्यादिवचनपर्यालोचनया श्रुतेर्यत्नाधिक्यावगमादिति भावः । गार्हस्थ्यस्य प्राबल्ये हेत्वन्तरमाह — महांश्चेति । इतश्च तस्य प्राबल्यमित्याह — तपोब्रह्मचर्यादीनां चेति । यानि चाश्रमान्तरस्थानि कर्माणि तान्यपि यथासम्भवं गृहस्थानां सन्त्येव, परं त्वग्निहोत्रादीन्यधिकानि ; तथा च गार्हस्थ्यस्य धर्मबाहुल्यात्प्राबल्यमित्यर्थः । इतराश्रमकर्मणामायासाधिक्याभावे हेतुमाह — अनन्येति । ऋत्विग्वित्तादिसाधनापेक्षत्वाभावादित्यर्थः । तस्येति । गृहस्थस्येत्यर्थः । यत्नाधिक्यायासबाहुल्यधर्मबाहुल्यानामन्यथासिद्धत्वाद्गार्हस्थ्यप्राबल्यप्रयोजकत्वमसिद्धमिति मन्वानः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पुनः कर्मानुष्ठानैकप्रयोजने गार्हस्थ्ये प्रवृत्तिर्विफलेति परिहरति — न जन्मान्तरकृतानुग्रहादिति । सङ्ग्रहवाक्यं विवृणोति — यदुक्तमित्यादिना । ब्रह्मचर्यादिलक्षणं चेति । आश्रमान्तरस्थमिति शेषः । जन्मान्तरकृतशुभाशुभकर्मणामस्मिञ्जन्मनि स्वफलोत्पादकत्वे लिङ्गमाह — येनेति । कर्मसु प्रवृत्तौ हेतुं सूचयति — अविरक्ता इति । अत एवाह — विद्याविद्वेषिण इति । विद्यायाः सांसारिकभोगविरोधित्वात्तत्र रागिणां वैमुख्यं युक्तम् । इदं च वैमुख्यमशुभकर्मफलमनर्थपरम्परावहत्वात् । येन जन्मनैव वैराग्यादिकं केषाञ्चिद्दृश्यते तेन जन्मान्तरकृतमप्यनुग्राहकं भवति ; यतो जन्मान्तरकृतमप्यनुग्राहकं भवति, तस्माज्जन्मान्तरकृतकर्मजनितसंस्कारेभ्यो विरक्तानामुत्पन्नविद्यानामनुत्पन्नविद्यानां च पारिव्राज्यप्राप्तिरेवेष्यते न गार्हस्थ्यप्राप्तिः, कर्मप्रयोजनस्य सिद्धत्वादित्यर्थः । इदानीं यत्नाधिक्यादेरन्यथासिद्धिमाह — कर्मफलबाहुल्याच्चेति । यद्वा जन्मान्तरकृतानुग्रहादित्यनेन जन्मान्तरकृतानामप्यग्निहोत्रादीनां यतो विद्यां प्रत्यनुग्राहकत्वमतोऽग्निहोत्रादिकर्मसु श्रुतेर्यत्नाधिक्यादिकमुपपद्यत इति यत्नाधिक्यादेरन्यथासिद्धावेको हेतुरुक्तः । हेत्वन्तरमाह — कर्मफलबाहुल्याच्चेति । कामबाहुल्यादित्युक्तमनुभवेन साधयति — आशिषामिति । अभ्युदयफलानामसङ्ख्येयत्वादेव तत्साधनकर्मानुष्ठानोपयोगिनि गृहाश्रमे कर्मबाहुल्यं कर्मणामायासबाहुल्यं चेति भावः । अग्निहोत्रादीनां विद्यां प्रत्युपायत्वाच्च तत्र यत्नाधिक्यादिकमित्यन्यथासिद्धौ हेत्वन्तरमाह — उपायत्वाच्चेति । उपेयं फलम् । तथा च गार्हस्थ्यप्राबल्ये मानाभावादाश्रमान्तरस्थकर्मणां विद्यां प्रति साधकतमत्वेनाश्रमान्तराणामेव प्राबल्यसम्भवाच्च विरक्तानां कर्मानुष्ठानसामर्थ्ये सत्यपि पारिव्राज्यमेव युक्तमिति भावः । पूर्वं स्वात्मलाभे त्वित्यादावग्निहोत्रादिकर्मणां प्रतिबन्धकदुरितक्षयद्वारा विद्याहेतुत्वमुक्तम् ; तदुपश्रुत्य शङ्कते — कर्मनिमित्तत्वादिति । किं तद्यत्नान्तरमित्याकाङ्क्षायां सङ्ग्रहं विवृणोति — कर्मभ्य एवेति । श्रवणादिवैयर्थ्यं परिहरति — न, नियमाभावादिति । ईश्वरप्रसादपदेन तद्धेतुभूतोपनिषच्छ्रवणादियत्नो लक्ष्यते, ईश्वरप्रसादस्याननुष्ठेयत्वाच्छ्रवणादियत्नस्य प्रकृतत्वाच्च । तथा च लोके कर्मकृतात्प्रतिबन्धक्षयादेव विद्या जायते न तु श्रवणाद्यनुष्ठानादिति नियमो नास्ति, नास्माभिस्तथाभ्युपगम्यते चेत्यर्थः । कुत इत्यत आह — अहिंसेति । संन्यासाश्रमकर्मणामहिंसादीनामपि विद्यां प्रत्यन्तरङ्गसाधनत्वेन तैर्विना कर्मभिः क्षीणपापस्यापि विद्योदयासम्भवादित्यर्थः । अहिंसाद्यपेक्षयापि श्रवणादौ विशेषमभिप्रेत्याह — साक्षादेवेति । प्रमाणाद्यसम्भावनादिलक्षणदृष्टप्रतिबन्धनिरासेन विद्यासाधनत्वाच्छ्रवणादेरावश्यकतेत्यर्थः । उपसंहरति — अतः सिद्धानीति । विहितत्वाविशेषादियुक्तेरित्यतःशब्दार्थः । विद्यायामिति । विद्यासाधनकर्मसु सर्वेषामाश्रमिणामधिकारः सिद्ध इत्यर्थः । समुच्चयनिराकरणफलमुपसंहृतमपि पुनरुपसंहरति चिन्तासमाप्तिद्योतनार्थम् — परं श्रेय इति । विद्याया इति पञ्चमी ॥ ‘सह नाववतु’ इति शान्तिं प्रतीकग्रहणपूर्वकं व्याचष्टे — सह नाववत्वित्यादिना । गुरोः कृतार्थत्वाच्छिष्य एव गुरोः स्वस्य च क्षेमं प्रार्थयत इत्याह — रक्षत्विति । ब्रह्मेति शेषः । भोजयत्विति । पालयत्वित्यर्थः । यथा गुरुर्निरालस्य उपदिशति यथा चाहमुपदिष्टमर्थमप्रतिपत्तिविप्रतिपत्त्यादिरहितो गृह्णामि तथा पालयत्विति भावः । विद्यानिमित्तमिति । मम विद्योदयं प्रति निमित्ततया यदावयोः सामर्थ्यमपेक्षितमूहापोहादिलक्षणं तत्सहितावेव निर्वर्तयावहै इत्यर्थः । अधीतमिति । आवयोः सम्बन्धि यदधीतमुपनिषद्ग्रन्थजातं तत्तेजस्व्यस्त्विति योजना । अधीतस्य तेजस्वित्वं सौष्ठवमित्याह — स्वधीतमिति । अपेक्षितब्रह्मविद्योपयोगित्वेन तदेव सौष्ठवं निरूपयति — अर्थज्ञानेति । ननु शिष्याचार्ययोर्द्वेषो न प्रसज्यते परस्परमत्यन्तहितैषित्वादित्याशङ्क्याह — विद्येति । विद्याग्रहणं निमित्तीकृत्य कदाचिद्वैमनस्यरूपो द्वेषो प्रसज्यत इत्यर्थः । तस्यापि स्वारसिकत्वं व्यावर्तयति — प्रमादेति । अन्यकृतदुर्बोधनादिना शिष्यस्याचार्यविषयेऽनादररूपोऽपराधो भवति, तथा आचार्यस्यापि शिष्यविषये तादृग्विध एवापराधो भवति, इदं च लोके प्रसिद्धमिति भावः । शिष्येण तावत्स्वविषये आचार्यकर्तृकद्वेषोऽवश्यं परिहर्तव्यः, इतरथा अविद्यानिवृत्तिपर्यन्तविद्योदयासम्भवात् ; तदुक्तं वार्त्तिके - ‘स्याज्ज्ञानं फलवद्यस्माच्छान्तान्तःकरणे गुरौ’ इति ; तथा स्वस्याचार्यविषयकद्वेषोऽपि सम्यक्परिहर्तव्यः, तस्य तद्भक्तिविघटकत्वेन भक्तिहीनस्य तादृशविद्योदयासम्भवात् । तथा च श्रुतिः - ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इतीति भावः । उक्तार्थमिति । त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थमिति ग्रन्थेनेति शेषः । सह नाववत्विति शान्तेर्वक्ष्यमाणविद्याशेषत्वं निर्विवादमित्याशयेनाह — वक्ष्यमाणेति । ‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः’ इत्यादिवचनैरात्मविद्याप्राप्तौ विघ्नबाहुल्यावगमात्तन्निवृत्तिरवश्यं प्रार्थनीयेत्याह — अविघ्नेन हीति । इतरथा तत्प्राप्त्यभावः प्रसिद्ध इति हि-शब्दार्थः । ननु मुमुक्षुणा आत्मविद्याप्राप्तिः किमर्थमाशास्यते तत्राह — तन्मूलं हीति । प्रकृष्टश्रेयसो मोक्षस्यात्मविद्यामूलकत्वे ‘तरति शोकमात्मवित्’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः ॥ ननु ‘शं नो मित्रः’ इत्यादिशान्तेरादावेव पठितत्वादिदानीं पुनः किमर्थं पठ्यते तत्राह — शं नो मित्र इत्याद्यतीतेति । संहितोपनिषद्यतीतानां विद्यानां प्राप्तौ ये उपसर्गाः विघ्नास्तेषामुपशमनाय ‘शं नो मित्रः’ इत्याद्या शान्तिरादौ पठितेत्यर्थः । पुनः पाठ उत्तरार्थ इत्याह — इदानीमिति । यद्यपि पुनःपाठस्यापि पूर्वशेषत्वमेव प्रतीयते ‘आवीन्माम्’ इत्यादिलिङ्गात् , तथाप्यतीतविद्योपसर्गप्रशमनरूपस्य प्रार्थनाप्रयोजनस्य सिद्धत्वादुपक्रमे ‘शं नो भवत्वर्यमा’ इति प्रार्थनालिङ्गाच्च पुनःपाठस्योत्तरविद्याशेषत्वमुक्तमिति मन्तव्यम् ; तथा च ‘तन्मामावीत्’ इत्यादौ तत् वाय्वाख्यमपरं ब्रह्म माम् अपरविद्यार्थिनम् आवीत् अरक्षत् इदानीं परविद्यार्थिनं मामवत्वित्यादिप्रकारेण परब्रह्मविद्याशेषत्वानुगुणमुपपादनं कर्तव्यमिति भावः । ननु निर्विशेषात्मदर्शनादप्यज्ञानस्य निवृत्तिर्न सम्भवति तस्यानादित्वादित्याशङ्क्य विरोधिसन्निपाते सत्यनादेरपि निवृत्तिः सम्भवत्येव, प्रागभावस्यानादेरपि निवृत्तिदर्शनात् , गौरवेण भावत्वविशेषणायोगादित्याशयेनाह – प्रयोजनं चेति । ननु विरोधिविद्यावशादविद्या कामवस्थामापद्यते असत्त्वावस्थामापद्यत इति ब्रूमः । तथा हि - यथा मुद्गरपातादिरूपविरोधिसंनिपातात्पूर्वं मृदादिदेशेन मुहूर्तादिकालेन जलाहरणादिकार्येण च सम्बन्धयोग्यं सद्घटादिस्वरूपं विरोधिसंनिपाताद्देशकालक्रियाभिः सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते, तथा विद्योदयरूपविरोधिसंनिपातात्पूर्वं चैतन्यरूपदेशेन ईश्वराद्यात्मककालेन संसाररूपकार्येण च सम्बन्धयोग्यं सदविद्यास्वरूपं विरोधिविद्योदयसंनिपाताच्चैतन्यादिना सम्बन्धायोग्यत्वलक्षणमसत्त्वमापद्यते । ननु विरोधिसंनिपाते सति घटादेर्ध्वंसो जायत इति चेत् ; किमेतावता न हि घटादिरेव ध्वंसरूपाभावो भवति ; अत एव प्रागुत्पत्तेर्नाशादूर्ध्वं च कार्यमसदिति वैशेषिकादिराद्धान्तः । ध्वंसोऽपि जन्मवत्क्षणिको विकारो न पराभिमताभावरूप इति व्यवस्थापितं शास्त्रसिद्धान्तलेशसङ्ग्रहादौ । ननु सिद्धान्ते विरोधिसंनिपाते सति कार्यस्य स्वपरिणाम्युपादाने सूक्ष्मावस्थारूपनाशाभ्युपगमान्नष्टस्यापि घटादिकार्यस्य सूक्ष्मरूपतामापन्नस्यास्ति देशादिसम्बन्धयोग्यतेति चेत् , न ; सिद्धान्तेऽपि कार्यगतस्थूलावस्थाया विरोधिसंनिपातेन निरुक्तासत्त्वोपगमात् । विद्योदये सत्यविद्यायास्तुच्छत्वापत्तिर्वार्त्तिककारैरुक्ता - ‘प्रत्यग्ब्रह्मणि विज्ञाते नासीदस्ति भविष्यति’ इति । पञ्चदश्यामप्युक्तम् - ‘विद्यादृष्ट्या श्रुतं तुच्छम्’ इति । विद्यारूपया तत्त्वदृष्ट्या मूलाविद्यायास्तुच्छत्वापत्तिः श्रुतिसिद्धेति तदर्थः । तस्माद्विद्योदये सति चैतन्यमात्रमवशिष्यते, नाविद्या नापि तत्कार्यमिति सङ्क्षेपः । नन्वविद्यानिवृत्तिर्न प्रयोजनम् असत्त्वापत्तिरूपायास्तस्याः सुखदुःखाभावेतरत्वादित्यत आह – ततश्चेति । अविद्यानिवृत्तिवशादेव तत्कार्यसंसारस्य दुःखात्मकस्यात्यन्तिकी निवृत्तिर्भवति ; तथा चाविद्यानिवृत्तिद्वारा संसारदुःखनिवृत्तिरूपा मुक्तिर्विद्यायाः प्रयोजनमित्यर्थः । तत्र मानमाह – वक्ष्यति चेति । भयोपलक्षितं संसारदुःखं न प्राप्नोति विद्वानित्यर्थः । अत्रैव पुनर्वचनद्वयमाह – संसारेति । विद्ययात्यन्तिकसंसारनिवृत्तौ सत्यामेवाभयप्रतिष्ठावचनं पुण्यपापयोरकरणकरणानुसन्धानप्रयुक्तसन्तापाभाववचनं चोपपन्नमित्यर्थः । साधितं ब्रह्मविद्याप्रयोजनं सप्रमाणमुपसंहरति – अतोऽवगम्यत इति । उपाहृतवचनजातादित्यतःशब्दार्थः । अस्माद्विज्ञानादिति । विधूतसर्वोपाधीत्यत्र प्रकृतादित्यर्थः । एवमानन्दवल्ल्यास्तात्पर्यमुपवर्ण्याद्यवाक्यस्य तात्पर्यमाह – स्वयमेवेति । स्वयमेव श्रुतिः ‘ब्रह्मविदाप्नोति परम्’ इति वाक्येन ब्रह्मविद्यायाः प्रयोजनं सम्बन्धं च किमर्थमाहेत्याशङ्क्याह – आदावेवेति । तत्र ‘आप्नोति परम्’ इत्यनेन प्रयोजननिर्देशः, ‘ब्रह्मवित्’ इत्यनेन ब्रह्मविद्याया निर्देशः, ताभ्यामेव समभिव्याहृताभ्यां विद्याप्रयोजनयोः प्रयोजनप्रयोजनिभावलक्षणसम्बन्धनिर्देश इति विभागः । नन्वादावेव तयोर्ज्ञापनं किमर्थम् ; तत्राह – निर्ज्ञातयोर्हीति । मुमुक्षोरुपनिषत्सु स्वप्रयोजनमुक्तिसाधनविद्यासाधनत्वज्ञानं विना उपनिषच्छ्रवणादौ प्रवृत्त्ययोगात्तदर्थमादावेव प्रयोजनादिकं वक्तव्यमित्यर्थः । तत्र वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं वृद्धैः - ‘सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः’ इति । विद्यामुद्दिश्य गुरुमुखात्प्रथमं श्रवणम् , श्रुतस्यार्थस्याप्रतिपत्त्यादिनिरासेन ग्रहणम् , गृहीतस्यार्थस्य धारणम् , धृतस्यार्थस्य युक्तिभिरनुचिन्तनरूपोऽभ्यासः, तदर्थमित्यर्थः । नन्वधीतसाङ्गस्वाध्यायस्य वेदान्तेभ्य एव विद्यारूपफलोदयसम्भवाच्छ्रवणादिकं व्यर्थमिति, नेत्याह – श्रवणादिपूर्वकं हीति । तत्र हि-शब्दसूचितं मानमाह – श्रोतव्य इति । प्रमाणप्रमेयासम्भावनयोर्निरासाय श्रवणमनने आवश्यके इति भावः । ‘पाण्डित्यं निर्विद्य’ इत्यादिश्रुतिसङ्ग्रहार्थमादिपदम् । इदानीं प्रतीकग्रहणपूर्वकमक्षराणि व्याचष्टे – ब्रह्मविदित्यादिना । वक्ष्यमाणलक्षणं ब्रह्मात्र ब्रह्मेति पदेनाभिधीयते न जात्यादिकमित्यत्र हेतुमाह – वृद्धतमत्वादिति । ब्रह्मपदेन ‘बृहि वृद्धौ’ इति व्युत्पत्तिबलाद्वृद्धिमद्वस्तु कथ्यते ; सा च वृद्धिः सङ्कोचकाभावान्निरतिशयमहत्त्वे पर्यवस्यति ; तच्च निरतिशयमहत्त्वं वक्ष्यमाणलक्षण एव ब्रह्मणि सम्भवति नान्यत्रेति भावः । परं निरतिशयमिति । न चोत्कृष्टवाचिना परशब्देन स्वर्गादेरपि ग्रहणसम्भवात्कथं निरतिशयोत्कृष्टं ब्रह्मैवात्र परशब्दार्थः स्यादिति वाच्यम् ; ब्रह्मशब्दस्येव परशब्दस्यापि सङ्कोचकाभावेन परमानन्दरूपतया निरतिशयोत्कृष्टे ब्रह्मण्येव पर्यवसानसम्भवादिति भावः । ब्रह्मवेदनमात्रादब्रह्मप्राप्त्यसम्भवादपि तदेव परशब्दार्थ इत्याह – न ह्यन्यस्येति । लोके कौन्तेयस्य सतो राधेयत्वभ्रमवत आप्तोपदेशजनितात् ‘कौन्तेयोऽहम्’ इति ज्ञानात्कौन्तेय एव प्राप्यो नान्य इति प्रसिद्धिसूचनार्थो हि-शब्दः । श्रुत्यन्तरानुसारादप्येवमेवेत्याह – स्पष्टं चेति । तत्प्रकृतं परं ब्रह्म यो वेद स ब्रह्मैव भवति ह वै प्रसिद्धमेतद्विदुषामिति श्रुत्यन्तरार्थः । आप्नोतीत्यस्य विवक्षितमर्थं दर्शयितुमाक्षिपति – नन्विति । वक्ष्यतीति । आनन्त्यादिवचनेनेति शेषः । ततः किम् अत आह – अत इति । सर्वगत्वात्सर्वात्मकत्वाच्चेत्यर्थः । एवंभूतस्याप्याप्यत्वं किं न स्यादित्याशङ्क्य तत्र लौकिकव्याप्तिविरोधं मत्वा तामाह – आप्तिश्चेति । लोके प्राप्यत्वेन प्रसिद्धग्रामादिवैलक्षण्यं ब्रह्मणो दर्शयति – अपरिच्छिन्नमिति । फलितमाह – अत इति । उक्तानुपपत्तेरदोषत्वं कथमिति पृच्छति – कथमिति । मुख्याप्तेरत्राविवक्षितत्वादनुपपत्तिर्न दोष इत्याशयेनाह – दर्शनेति । अदर्शननिमित्तामप्राप्तिं साधयति – परमार्थत इत्यादिना । भूतमात्राभिः पञ्चीकृतापञ्चीकृतभूतांशैः कृता ये आत्मस्वरूपापेक्षया बाह्याः परिच्छिन्नाश्चान्नमयादयः कोशाः तेष्वात्मदर्शिनो जीवस्य या अविद्या तया स जीवो नान्योऽहमस्मीत्यभिमन्यत इति योजना । तदासक्तचेतसः तेष्वेवासक्तं चेतो यस्य तथाभूतस्य । आसक्तिरत्र कोशाभिमानप्रयुक्तदुःखादिमत्ता विवक्षिता । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शनं लक्षणं लिङ्गं यस्याः सा तथा, तयेत्यर्थः । ‘अन्नमयादीन्’ इत्यादिद्वितीया षष्ठ्यर्थे । अन्नमयाद्यात्मभ्योऽन्योऽहमस्मीति नाभिमन्यते कोशव्यतिरिक्तं परमार्थस्वरूपं न जानातीत्यर्थः । अत्र नाभिमन्यत इत्यनेन स्वरूपभूतेऽपि ब्रह्मणि ग्रहणाभाव उक्तः । अन्नमयाद्यात्मदर्शिन इत्यनेन तस्मिन्देहाद्यात्मत्वगोचरो विपर्यय उक्तः । अविद्ययेत्यनेनावरणसमर्था मूलाविद्या दर्शिता । स्वरूपेऽप्यग्रहणादयो भवन्तीत्यत्र दृष्टान्तमाह – प्रकृतेति । प्रकृताया दशसङ्ख्यायाः पूरणे समर्थस्यात्मनः स्वस्य देवदत्तस्य संनिकृष्टस्यापि स्वापेक्षया बाह्या ये नव सङ्ख्येयाः तद्विषयासक्तचित्ततया स्वात्मानं विहाय तेष्वेव पुनः पुनः परिगणनव्यासक्तचित्ततया स्वात्मभूतोऽपि दशमो नास्तीत्यभावदर्शनम् , तद्धेतुभूतं दशमं न जानामीत्यनुभूयमानमावरणम् , नवैव वर्तामह इति विपर्ययश्च यथा दशमस्य स्वरूपेऽपि दृश्यन्ते तथेत्यर्थः । अदर्शननिमित्तां ब्रह्मणोऽनाप्तिमुपसंहरति – एवमिति । इदानीं दर्शननिमित्तां तदाप्तिं दृष्टान्तेन विवृणोति – तस्यैवमिति । केनचिदिति । 'दशमस्त्वमसि’ इत्याप्तेन स्मारितस्वरूपस्येत्यर्थः । तस्यैवेति । यद्दशमस्वरूपमविद्ययानाप्तमासीत्तस्यैवेत्यर्थः । श्रुतीति । श्रुत्युपदिष्टस्य सर्वात्मकस्य ब्रह्मणो यदात्मत्वेन दर्शनं तदेव विद्या, तया आप्तिरनाप्तत्वभ्रमनिवृत्तिरूपा उपपद्यत इत्यर्थः । इत्थमाद्यं ब्राह्मणवाक्यं व्याख्याय अनेन वाक्येनोत्तरसन्दर्भस्य सङ्गतिमाह – ब्रह्मविदाप्नोतीति । सूत्रभूतमिति । सङ्ग्राहकमित्यर्थः । अनेनाद्यवाक्यस्यैव विवरणरूपत्वादुत्तरग्रन्थस्य व्याख्यानव्याख्येयभावेनानयोः सङ्गतिरित्यर्थः । इत्थमाद्यवाक्यविवरणरूपमुत्तरं मन्त्रब्राह्मणवाक्यजातमिति तात्पर्यमुक्त्त्वा ‘सत्यं ज्ञानम्’ इति मन्त्रं सङ्क्षेपतोऽर्थकथनपूर्वकमवतारयति – ब्रह्मविदाप्नोति परमित्यनेनेत्यादिना । अनिर्धारितेति । बृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्विति प्रतीयते, न तु तद्बलेन ब्रह्मणः स्वरूपविशेषोऽपि प्रतीयत इति भावः । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायैषा ऋगुदाह्रियत इति सम्बन्धः । ब्रह्मविदित्यनेन अविशेषेण ‘अस्ति ब्रह्म’ ‘अहं ब्रह्म’ इति वेदनद्वयसाधारण्येनोक्तं वेदनं यस्य ब्रह्मणः तस्येत्यर्थः । वक्ष्यमाणं लक्षणं सच्चिदानन्त्यरूपं यस्य तस्येत्यर्थः । विशेषेणेत्यस्य विवरणमनन्यरूपेणेति । तस्य पर्यवसितमर्थमाह – प्रत्यगात्मतयेति । 'अहं ब्रह्म’ इत्येवमाकारेण ब्रह्मणो विज्ञेयत्वाय चैषा ऋगुदाह्रियत इति सम्बन्धः । तत्सर्वात्मभाव इति । सर्वसंसारास्पृष्टब्रह्मस्वरूपभूतसर्वात्मभाव एव नान्यत्स्वर्गादिकमित्यर्थः । इत्थं मन्त्रमवतार्य तदाद्यपादतात्पर्यमाह – ब्रह्मण इति । ब्रह्मणः स्वरूपलक्षणार्थकमिदं वाक्यमित्यर्थः । लक्षणवाक्यस्थपदानि विभजते – सत्यादीनि हीति । सत्यादिपदत्रयं विशेषणसमर्पकमित्यर्थः । ब्रह्मपदसमभिव्याहृतानां सत्यादिपदानां बुभुत्सितं ब्रह्म प्रति विशेषणसमर्पकत्वाभावे ब्रह्मस्वरूपविशेषनिर्णयायोगादिति युक्तिसूचनार्थो हि-शब्दः । वेद्यतयेति । आद्यवाक्ये वेद्यतयोक्तं ब्रह्म विशेष्यम् ; तस्यैव प्राधान्येनात्र वक्तुमिष्टत्वादित्यर्थः । न च लक्षणं सजातीयविजातीयव्यावर्तकम् , विशेषणं तु विशेष्यस्य तत्सजातीयमात्रव्यावर्कमिति वक्ष्यति, तथा च लक्षणविशेषणयोर्भेदात्कथं लक्षणार्थं वाक्यमित्युपक्रम्य विशेषणाद्यर्थकतया वाक्यं व्याख्यायत इति वाच्यम् ; सजातीयविजातीयव्यावर्तकस्य सतो लक्षणस्य विशेषणस्येव सजातीयव्यावर्तकत्वांशोऽपि विद्यत इत्येतावतात्र विशेषणत्वव्यवहारस्वीकारेण समानजातीयमात्रनिवर्तकत्वरूपमुख्यविशेषणत्वस्यात्राविवक्षितत्वात् । न चैवमपि ब्रह्मणः स्वरूपभूतं सत्यादिकं कथं लक्षणम् , व्यावर्तकधर्मस्यैव वादिभिर्लक्षणत्वाभ्युपगमादिति वाच्यम् ; गौरवेण धर्मत्वांशस्य तत्र प्रवेशायोगात् , व्यावर्तकमात्रस्य स्वरूपेऽपि सम्भवात् । न च सत्यादेर्लक्ष्यब्रह्मस्वरूपत्वात्कथमेकस्यैव लक्षणत्वं लक्ष्यत्वं च सम्भवतीति वाच्यम् ; लक्ष्यस्वरूपस्यापि सतः सत्यादेर्ज्ञातस्य इतरव्यावृत्तिबोधोपयुक्ततया लक्षणत्वम् , सत्यादिस्वरूपस्यैव सतो ब्रह्मण इतरव्यावृत्ततया ज्ञाप्यमानत्वरूपं लक्ष्यत्वमित्येकत्रापि रूपभेदेनोपपत्तेरित्यन्यत्र विस्तरः । सत्यादिपदार्थानां विशेषणविशेष्यभावे लिङ्गमाह – विशेषणविशेष्यत्वादेवेति । 'नीलं महत्सुगन्ध्युत्पलम्’ इत्यादौ सत्येव विशेषणविशेष्यभावे समानाधिकरणतयैकविभक्त्यन्तानि नीलादिपदानि प्रसिद्धानि ; प्रकृते च सत्यादिपदानि तथाभूतानि ; ततोऽर्थगतविशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः । सत्यादिपदार्थानां विशेषणत्वप्रसाधनफलमाह – सत्यादिभिश्चेति । विशेष्यमाणमिति । सम्बध्यमानमित्यर्थः । निर्धार्यते व्यावर्त्यते । इतरव्यावृत्तिबोधफलमाह – एवं हीति । यदि ब्रह्मान्येभ्यो निर्धारितं स्यादेवं सति तद्ब्रह्म ज्ञातं विशेष्य निर्णीतं भवतीत्यर्थः । बुभुत्सितस्य वस्तुनो विशेषणैर्विशेषतो निर्धारणे हि-शब्दसूचितं दृष्टान्तमाह – यथेति । उक्तं विशेषणविशेष्यभावमाक्षिपति – नन्विति । यत्र विशेष्यजातीयं वस्तु विशेषणान्तरं व्यभिचरद्वर्तते तत्र विशेष्यजातीयं विशेष्यते विशेषणैरित्यत्रोदाहरणम् – यथेति । उप्पलजातीयं नीलं रक्तं चास्तीति कृत्वा नैल्येन विशेष्यते ‘नीलमुत्पलम्’ इति यथेत्यर्थः । एतदेव प्रपञ्चयति – यदा हीति । अर्थवत्त्वमिति । स्यादिति शेषः । तत्र व्यतिरेकमाह – न हीति । एकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्धेतोर्विशेषणस्यार्थवत्त्वं न हि सम्भवतीत्यर्थः । अत्रोदाहरणमाह – यथासाविति । विशेषणान्तरयोगिन आदित्यजातीयस्यान्यस्याभावादादित्यस्य विशेषणमर्थवन्न भवति यथेत्यर्थः । ततः किम् तत्राह – तथैकमेवेति । ब्रह्मणोऽद्वितीयत्वश्रवणादिति भावः । किमत्र सत्याद्यर्थानां समानजातीयमात्रव्यावर्तकत्वरूपं मुख्यविशेषणत्वमाक्षिप्यते किं वा समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकमपि नान्त्यः, तस्येहापि सम्भवात् ; न च ब्रह्मणः समानजातीयानां ब्रह्मान्तराणामभावात्कथं तत्सम्भवतीति वाच्यम् ; वस्तुतो ब्रह्मान्तराणामभावेऽपि कल्पितानामव्याकृतभूताकाशकालादिलक्षणब्रह्मान्तराणां सत्त्वात्तेषामपि व्यापकत्वरूपवृद्धिमत्त्वेन ब्रह्मशब्दवाच्यत्वोपपत्तेः ; तथा च ब्रह्मसमानजातीयानामव्याकृतादीनां व्यावर्त्यानां सत्त्वात्सत्याद्यर्थानां समानजातीयव्यावर्तकत्वमात्ररूपमौपचारिकविशेषणत्वं निष्प्रत्यूहम् , यथा बिम्बप्रतिबिम्बभावेनादित्यस्य कल्पितं नानात्वमादाय ‘अम्बरस्थः सविता सत्यः’ इति सत्यविशेषणस्य जलादौ कल्पितादित्यव्यावर्तनेनार्थवत्त्वम् ; नाद्यः, इष्टापत्तेरित्याशयेनाह – नेति । स्वरूपलक्षणसमर्पकत्वाद्विशेषणपदानामित्यर्थः । सङ्ग्रहवाक्यं विवृणोति – नायं दोष इत्यादिना । विशेषणानीति । सत्यादीनि विशेषणपदानि यतो लक्षणरूपार्थपराण्येव, न मुख्यविशेषणपराणि, तथा सति ब्रह्मणः सत्यादिविशेषणैः समानजातीयाद्व्यावृत्तिलाभेऽपि प्रकृते विवक्षितायाः सर्वतो व्यावृत्तेरलाभप्रसङ्गात् , ततश्च स्वरूपविशेषनिर्धारणाभावप्रसङ्ग इत्यर्थः । ननु प्रसिद्धविशेषणानां सजातीयमात्रव्यावर्तकत्वं लक्षणस्य तु सर्वतो व्यावर्तकत्वमित्ययं विशेष एव कुतः यतोऽत्र सत्यादीनां लक्षणत्वमुपेत्य विशेषणत्वं प्रतिषिध्यते न विशेषणप्रधानानीत्याक्षिपति – कः पुनरिति । अनुभवमाश्रित्याह – उच्यत इति । सर्वत इति । सजातीयाद्विजातीयाच्चेत्यर्थः । यथेति । यथा भूतत्वेन सदृशात्पृथिव्यादेर्विसदृशदात्मादेश्च सकाशादाकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः । ननु सत्यादिवाक्यं विशेषणविशेष्यसंसर्गपरं समानाधिकरणवाक्यत्वान्नीलोत्पलवाक्यवदिति, नेत्याह – लक्षणार्थं चेति । देवदत्तस्वरूपैक्यपरे ‘सोऽयं देवदत्तः’ इति वाक्ये व्यभिचारात्सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थत्वे विशिष्टस्य तस्य परिच्छिन्नत्वेनानन्त्यायोगाद्वाक्यशेषे तस्य वागाद्यगोचरत्वप्रतिपादनविरोधाच्च विशिष्टस्य वागादिगोचरत्वनियमात्तस्मान्न नीलोत्पलवाक्यवत् न संसर्गपरं सत्यादिवाक्यं किं त्वखण्डैकरसवस्तुपरमिति मत्वा प्रागेव ब्रह्मणो लक्षणार्थं वाक्यमित्यवोचामेत्यर्थः ॥ ननु प्राक्सत्याद्यर्थानां त्रयाणामपि ब्रह्मविषेणत्वमित्युक्तम् ; तदयुक्तम् , संनिधानात्तेषां परस्परविशेषणविशेष्यभावसम्भवादिति, नेत्याह – सत्यादिशब्दा इति । हेतुं साधयति – विशेष्यार्था हि त इति । आद्यवाक्ये वेद्यतयोपात्तं ब्रह्म कीदृशमित्याकाङ्क्षायां तत्स्वरूपविशेषसमपर्कत्वेन प्रवृत्तं सत्यादिपदत्रयं ब्रह्मण एव विशेषणम् , संनिधानादाकाङ्क्षायाः प्रबलत्वाद्विशेष्यस्य प्रधानत्वेन विशेषणानां तदर्थत्वाच्च, प्रधानसम्बन्धस्याभ्यर्हितत्वाद्विशेषणानां समत्वेन परस्परं गुणप्रधानभावलक्षणविशेषणविशेष्यभावे विनिगमकाभावाच्च । अस्मिन्नर्थे वृद्धसंमतिसूचनार्थो हि-शब्दः । तदुक्तं जैमिनिना - ‘आनन्तर्यमचोदना’ ‘गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्’ इति । आकाङ्क्षा विरुद्धमानन्तर्यं संनिधानमचोदना अन्वये कारणं न भवतीत्याद्यसूत्रार्थः । अत इति । परस्परसम्बन्धायोगादित्यर्थः । तत्र सत्यपदार्थमाह – यद्रूपेणेति । रज्जुत्वेन रूपेण निश्चितं रज्ज्वात्मकं वस्तु न कदाचिद्रज्जुत्वरूपं परित्यजतीति तत्तेन रूपेण सत्यमित्युच्यते, तथा तदेव रज्ज्वात्मकं वस्तु सर्पत्वेन रूपेण निश्चितं कालान्तरे तद्रूपं परित्यजतीति तेन रूपेण तदनृतमुच्यते । एतदुक्तं भवति - यद्यस्य कादाचित्कं रूपं तत्तस्यानृतं यथा रज्ज्वादेः सर्पादिरूपं यथा वा मृदादेर्घटादिरूपमिति । फलितमनृतशब्दार्थमाह – अत इति । रज्ज्वादौ सर्पादेरिव प्रकृतिषु विकाराणामपि कादाचित्कत्वाविशेषादित्यर्थः । उक्तयुक्तिसिद्धविकारानृतत्वानुवादिनीं श्रुतिमाह – वाचारम्भणमिति । घटशरावादिविकारो नामधेयं नाममात्रम् , अनृतमिति यावत् ; तत्र हेतुर्वाचेति ; विकारसत्यत्वस्य वागालम्बनमात्रत्वात् , कारणसत्त्वव्यतिरेकेण दुर्निरूपत्वादित्यर्थः । न चैवमर्थकल्पनायां मानाभाव इति वाच्यम् ; कारणमात्रसत्यत्वावधारणस्यैव मानत्वात् । 'एवं सोम्य स आदेशो भवति’ इति दार्ष्टान्तिकश्रुतिमर्थतः पठति – एवं सदेवेति । आदिश्यत उपदिश्यत इत्यादेशः परमात्मा सच्छब्दवाच्यः एवं मृदादिवत्सत्यं परमार्थो भवति ब्रह्म, विकारस्तु प्रपञ्चो मृद्विकारवदनृत एवेत्यर्थः । एवं विकारस्यानृतत्वं कारणस्य सत्यत्वं च प्रसाध्य सत्यविशेषणफलमाह – अत इति । विकारस्य सत्यत्वाभावादित्यर्थः । ननु सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धावतः परिशेषात्कारणत्वं प्राप्तं चेत् ; अस्तु को दोषः तत्राह – कारणस्य चेति । कारकत्वमिति । कर्त्रादिकारकरूपत्वमित्यर्थः । कारणेषु कुलालादिषु कर्त्रादिकारकभावदर्शनादिति भावः । ब्रह्माचेतनं वस्तुत्वान्मृदादिवदित्याह – वस्तुत्वादिति । ननु ज्ञानविशेषणेन ब्रह्मणः कारकत्वनिवृत्तिर्न लभ्यते कर्तृसाधनज्ञानपदेन तस्य ज्ञानक्रियां प्रति कर्तृकारकत्वावगमादिति, नेत्याह – ज्ञानं ज्ञप्तिरिति । ज्ञानपदस्य ज्ञप्तिपरत्वे हेतुमाह – ब्रह्मेति । ननु ज्ञानस्य सत्यानन्त्याभ्यां सह ब्रह्म प्रति विशेषणत्वेऽपि ब्रह्म ज्ञानकर्तृ किं न स्यादित्याशङ्क्याह – न हीति । ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वाद्यनुपपत्तिं प्रपञ्चयति – ज्ञानकर्तृत्वेन हीति । ज्ञानकर्तृत्वं हि ज्ञानं तदनुकूलक्रिया च । न च ज्ञानादिरूपेण विक्रियमाणस्य ब्रह्मणः सत्यत्वं सम्भवति । विकारजातस्येव विकारिणोऽपि जडत्वनियमात् जडस्य च चित्यध्यस्तत्वनियमेनानृतत्वावश्यम्भावादिति युक्तिसूचनार्थो हि-शब्दः । अनन्तं चेति । कथं भवेदित्यनुषङ्गः । तत्र हेतुः – यद्धीति । प्रविभज्यते भिद्यते । ननु ज्ञानकर्तृत्वेऽपि ब्रह्मणो नास्ति कुतश्चित्प्रविभागः, तत्राह – ज्ञानकर्तृत्वे चेति । च-शब्दः शङ्कानिरासार्थः । कर्तृत्वस्य कर्मक्रियानिरूपितत्वात्ताभ्यां कर्तुर्भेदाभावे कर्त्रादिव्यवस्थायोगात् , तस्माद्ब्रह्मणोऽनन्ततायै ज्ञात्रादिद्वैतराहित्यं वक्तव्यमित्यर्थः । तस्य सर्वद्वैतराहित्ये श्रुत्यन्तरमाह – यत्रेति । ज्ञानक्रियाकर्तृभूतस्य वस्तुतोऽनन्तत्वाभावेऽपि श्रुतिमाह – यत्रान्यदिति । यत्रेत्यस्य यदित्यर्थः । शङ्कते – विशेषप्रतिषेधादिति । न विजानातीति ज्ञानकर्तृत्वसामान्यनिषेधमकृत्वा अन्यत्र विजानातीत्यन्यविज्ञातृत्वरूपविशेषप्रतिषेधसामर्थ्यात्स्वकर्मकज्ञानकर्तृत्वं भूम्नः श्रुत्यनुमतमिति गम्यते ; तथा च यः स्वात्मानं विजानाति स भूमेति वाक्यार्थपर्यवसानाद्ब्रह्मणो द्वैतराहित्येनेयं श्रुतिर्मानमित्यर्थः । 'भूमानं भगवो विजिज्ञासे’ इति भूमस्वरूपलक्षणजिज्ञासायां सत्यामिदं वाक्यं प्रवृत्तम् , अतो न स्वज्ञातृत्वपरमिदं वाक्यमिति दूषयति – नेति । सङ्ग्रहवाक्यं विवृणोति – यत्र नान्यदित्यादिना । भूम्नो लक्षणविधिपरमेव वाक्यं न स्वात्मनि क्रियास्तित्वपरमिति सम्बन्धः । बुभुत्सितभूमस्वरूपज्ञापनपरमेव तत् न स्वकर्मकज्ञानक्रियाकर्तृत्वसद्भावपरम् , तस्याबुभुत्सितत्वादित्यर्थः । वाक्यस्य स्वज्ञातृत्वपरत्वाभावे फलितं वाक्यार्थमाह – यथाप्रसिद्धमेवेति । भ्रान्तिसिद्धमेव ज्ञात्रादिद्वैतमनूद्य तद्यत्र वस्तुतो नास्ति स भूमेति भूमस्वरूपं लक्षणवाक्येन बोध्यते एवमन्यग्रहणस्य प्रतिषेधशेषत्वान् स्वज्ञातृत्वे वाक्यतात्पर्यग्राहकतेत्यर्थः । विरोधादपि न स्वज्ञातृत्वे भूमलक्षणवाक्यतात्पर्यमित्याह – स्वात्मनि चेति । एकक्रियानिरूपितं कर्तृत्वं कर्मत्वं चैकदैकत्र विरुद्धत्वेन प्रसिद्धम् ; तथा च स्वात्मनि ब्रह्मणि भेदाभावात्स्वकर्मकज्ञानकर्तृत्वानुपपत्तिरित्यर्थः । ननु तर्हि प्रत्यगात्मरूपस्य ब्रह्मणो ज्ञानकर्मत्वमेवास्तु ; तत्राह – आत्मनश्चेति । च-शब्दः शङ्कानिरासार्थः ॥ नन्वात्मनश्चिज्जडरूपांशद्वयोपेतत्वाच्चिदंशेन ज्ञाता जडांशेन ज्ञेयश्च भविष्यति, अतो न ज्ञात्रभावप्रसङ्ग इति भट्टमतमाशङ्क्य निषेधति – एक एवेति । नेति । निष्फलश्रुत्या आत्मनो निरवयवत्वावगमात्सावयवस्यानित्यत्वनियमाच्च तन्मतं न युक्तमित्यर्थः । ननु निरवयवस्यापि युगपदेकज्ञानक्रियानिरूपितं कर्तृत्वं कर्मत्वं च किं न स्यादित्याशङ्क्य स्वात्मनि चेत्यत्रोक्तामेवानुपपत्तिं स्मारयति – न हीति । स्वात्मनो लौकिकज्ञानकर्मत्वोपगमे तदुपदेशानर्थक्यप्रसङ्गाच्च न स्वज्ञातृत्वे भूमवाक्यस्य ‘सत्यं ज्ञानम् ‘ इत्यत्र ज्ञानपदस्य च तात्पर्यमित्याह – आत्मनश्चेति । तस्मादिति । ज्ञातुर्ज्ञेयज्ञानाभ्यां प्रविभक्तत्वादित्यर्थः । ब्रह्मणो ज्ञातृत्वे सत्यत्वानुपपत्तिमप्युक्तां समारयति – सन्मात्रत्वं चेति । ज्ञानकर्तृत्वादिविशेषवत्त्वं ज्ञानतदनुकूलक्रियादिरूपपरिणामवत्त्वं परिणामिनश्च मिथ्यात्वावश्यम्भावाद्बाधायोग्यत्वरूपं सन्मात्रत्वमनुपपन्नमित्यर्थः । ननु सन्मात्रत्वानुपत्तावपि मन्त्रोक्तसत्यत्वानुपपत्तौ किमागतममित्यत आह – सन्मात्रं च सत्यमिति । सद्वस्तु प्रकृत्य ‘तत्सत्यम्’ इति वदता श्रुत्यन्तरेण सन्मात्रसत्ययोरभेदप्रतिपादनात्सन्मात्रत्वानुपपत्तिः सत्यत्वानुपत्तिरेवेत्यर्थः । ब्रह्मणो ज्ञानकर्तृत्वे सत्यत्वानन्तत्वयोरयोगाज्ज्ञानशब्दस्य भावसाधनत्वमेवेत्युपसंहरति – तस्मादिति । ज्ञानपदस्य ज्ञप्तिपरत्वे सिद्धे फलितमाह – ज्ञानमिति । यदुक्तं सत्यविशेषणेन ब्रह्मणो विकाराद्व्यावृत्तिसिद्धौ विकारभिन्नत्वात्कारणत्वं प्राप्तम् , कारणस्य च कारकत्वं मृदादिवदचिद्रूपता च प्राप्ता, अत इदमुच्यते ज्ञानं ब्रह्मेतीति, ज्ञानविशेषणफलं तदत्र सिद्धमिति बोध्यम् । ज्ञानशब्दस्य ज्ञानकर्तृपरत्वनिराकरणपरेण ग्रन्थेनार्थाज्ज्ञायते यत्तज्ज्ञानमिति कर्मव्युत्पत्तिप्राप्तं कर्मकारकत्वमपि स्वात्मनि च भेदाभावादित्यादिना निरस्तम् ; एवं ज्ञायतेऽनेनेति व्युत्पत्तिप्राप्तं करणकारकत्वमपि ब्रह्मरूपस्यात्मनो न सम्भवति, तस्य करणत्वे ज्ञात्रभावप्रसङ्गात् , इदमपि प्रागात्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्ग इत्यत्रोक्तप्रायमेव ; तथा ज्ञानकर्तृत्वनिराकरणेनाधिकरणकारकत्वमपि निरस्तम् ; एवं ज्ञानपदस्य कारकान्तरपरत्वनिराकरणमपि सिद्धवत्कृत्य कर्त्रादीत्यादिग्रहणमिति मन्तव्यम् । निवृत्त्यर्थं चेति । यद्यपि भावसाधनो ज्ञानशब्दो ज्ञप्तिक्रियावाची सा च क्रिया जडरूपा वृत्तिरिति वक्ष्यते, तथापि ज्ञानपदस्य चैतन्यलक्षकत्वं वक्ष्यमाणमभिप्रेत्याचिद्रूपतानिवृत्त्यर्थं चेत्युक्तमिति मन्तव्यम् । ज्ञानपदस्य वाच्यार्थमादाय शङ्कते – ज्ञानं ब्रह्मेति वचनादिति । अनन्तमितीति । ब्रह्मणो ज्ञप्तिक्रियारूपत्वे सत्यानन्त्यायोगादानन्त्यसिद्धये ज्ञानपदेन चैतन्यमात्रं लक्षणीयमिति भावः । सत्यादिविशेषणैरनृतादिव्यावृत्तेरुक्तत्वादनृतादिव्यावृत्तिरेव सत्यादिपदवाच्यत्वेनोक्तेति मत्वा शङ्कते – सत्यादीनामिति । ब्रह्मपदमप्यसदर्थकमेव, ब्रह्मणो मानान्तरासिद्धत्वेन तत्सत्त्वे मानाभावादित्याह – विशेष्यस्य चेति । पदचतुष्टयस्याप्यसदर्थकत्वे फलितं सदृष्टान्तमाह – मृगतृष्णेति । न चानृतादिव्यावृत्तेरन्योन्याभावरूपत्वेन शशशृङ्गादिवदसत्त्वाभावात्कथं शून्यार्थकतेति वाच्यम् ; सिद्धान्त्यभिमतवाक्यार्थनिषेधमात्रस्यात्र विवक्षितत्वात् । परिहरति – नेति । ननु व्यावृत्त्यर्थत्वस्योक्तत्वात्कथं लक्षणार्थत्वमित्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति – विशेषणत्वेऽपि चेति । च-शब्दः शङ्कानिरासार्थः । सत्यादिपदत्रयस्य विशेषणत्वेऽपि व्यावृत्त्यर्थत्वेऽपि न व्यावृत्तेः शाब्दत्वमुपेयते, व्यावृत्तेरार्थिकत्वोपपत्तेः, अतो लक्षणरूपार्थपरत्वमेवेत्युक्तमित्यर्थः । अत एव ब्रह्मपदमपि नासदर्थकमित्याह – शून्ये हीति । विशेषणत्वेऽपि च सत्यादीनां नासदर्थतेत्युक्तमेव प्रपञ्चयति – विशेषणार्थत्वेऽपि चेत्यादिना । सत्यादिपदानां व्यावृत्तिप्रयोजनकत्वेऽपि स्वार्थस्य सन्मात्रादेः परित्यागो नास्त्येव । कुत इत्यत आह – शून्यार्थत्वे हीति । सत्यादिपदानां शून्यार्थत्वे स्वार्थपरित्यागे सति विशेष्यं प्रति नियन्तृत्वानुपपत्तिः इतरव्यावृत्तिप्रयोजनकत्वस्य पूर्ववाद्यभिमतस्यानुपपत्तिः सत्यादिपदैर्ब्रह्मणि व्यावर्तकस्वरूपविशेषासमर्पणात् लोके नीलादिपदैरुत्पले नैल्यादिरूपविशेषे समर्पिते सत्येव रक्तादिव्यावृत्तिबोधदर्शनादिति हि-शब्दार्थः । एवं व्यतिरेकमुक्त्वान्वयमाह – सत्याद्यर्थैरिति । सत्यादिपदानामिति शेषः । तद्विपरीतेति । सत्यत्वादिधर्मविपरीता अनृतत्वादिधर्माः, तद्वन्तोऽनृतजडपरिच्छिन्नाः पदार्थाः, तेभ्य इत्यर्थः । ब्रह्मणः विशेष्यस्य इति षष्ठ्यौ द्वितीयार्थे । यदुक्तं विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसिद्धत्वादसत्त्वमिति, तत्राह – ब्रह्मशब्दोऽपीति । स्वार्थेनेति । वृद्धिमत्त्वेनेत्यर्थः । न च पदमात्रस्याप्रमाणत्वादुत्पलादिवन्मानान्तराप्रसिद्धत्वाच्च न तस्य सत्त्वसिद्धिरिति वाच्यम् , मिथ्यार्थस्य रज्जुसर्पादेः सदधिष्ठानत्वदर्शनात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानत्वमनुमीयते, एवं सर्वाधिष्ठानतयानुमानोपस्थिते वृद्धिमति ब्रह्मशब्दस्य शक्तिग्रहाभ्युपगमान्न तस्यासत्त्वशङ्का, न चैतमनुमानादेव ब्रह्मसिद्धेः श्रुत्यादिवैयर्थ्यमिति वाच्यम् , तस्य स्वरूपविशेषावगतेः श्रुत्यधीनत्वाभ्युपगमादिति भावः । ब्रह्मस्वरूपलक्षणसमर्पकेषु सत्यादिपदेषु त्रिष्वावन्तरभेदमाह – तत्रेति । अनन्तशब्दः परिच्छेदाभावबोधनद्वारा ब्रह्मणो विशेषणं परिच्छिन्नाद्व्यावर्तकमित्यर्थः । सत्यज्ञानशब्दौ त्विति । अनन्तशब्दस्येव सत्यज्ञानशब्दयोरभावबोधद्वारकत्वं नास्तीति विशेषार्थकस्तु-शब्दः । तमेव विशेषं विवृणोति – स्वार्थेति । सच्चिद्रूपत्वलक्षणस्वार्थबोधनद्वारेणैव विशेषणे भवतः अनृतादिव्यावर्तकौ भवतः नाभावसमर्पणद्वारेणेत्यर्थः । अत्र ब्रह्मण्यनन्तपदसमर्पितः परिच्छेदाभावो ब्रह्मस्वरूपमेव, परिच्छेदस्य कल्पितत्वेन कल्पितप्रतियोगिकाभावस्याधिष्ठानानतिरेकादिति मन्तव्यम् ॥ ननु जीवस्याकल्पिततया तत्प्रतियोगिकभेदरूपस्य परिच्छेदस्याकल्पितत्वादनन्तपदेन कथं तन्निषेध इति चेत् , न ; जीवब्रह्मणोर्भेदस्यैवासिद्धेरित्याशयेनाह – तस्माद्वा इति । आत्मशब्दस्य जीववाचित्वादिति भावः । आनन्दमयपदलक्षिते ब्रह्मण्यात्मशब्दप्रयोगाच्चैवमित्याह – एतमिति । आत्मतामिति । ब्रह्मण इति शेषः । ब्रह्मण एव जीवभावे हेत्वन्तरमाह – तत्प्रवेशाच्चेति । ननु प्रवेशश्रवणं जीवभावेनेत्यत्र किं विनिगमकमित्याशङ्क्य श्रुत्यन्तरानुसारादित्याशयेन विवृणोति – तत्सृष्ट्वेति । श्रुतौ तच्छब्दौ ब्रह्मपरौ । अत इति । ब्रह्मणो जीवभावेन प्रवेशश्रवणादित्यर्थः । शङ्कते – एवं तर्हीति । यद्युक्तिरीत्या जीवात्मैव ब्रह्म तर्हि ब्रह्मण आत्माभिन्नत्वाज्ज्ञानकर्तृत्वं प्राप्तमित्यर्थः । नन्वसङ्गत्वादात्मन एव ज्ञानकर्तृत्वं नास्ति, कुतस्तदभेदाद्ब्रह्मणस्तत्प्रसक्तिरित्याशङ्क्याह – आत्मा ज्ञातेति हीति । जानामीति ज्ञानकर्तृत्वस्यात्मन्यनुभवसिद्धत्वादसङ्गत्वश्रुतिरन्यपरेति भावः । यथा जीवाभिन्नत्ववचनानि ब्रह्मणो ज्ञानकर्तृत्वं प्रापयन्ति तथा ‘सोऽकामयत’ इति वचनमपि तत्प्रापयतीत्यत्र हेतुमाह – कामिन इति । ब्रह्मणो ज्ञानकर्तृत्वप्राप्तौ फलितं दोषमाह – अत इति । 'ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वमित्यत्रोक्तमनित्यत्वप्रसङ्गं प्रपञ्चयन्नितश्च ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्याह – अनित्यत्वेति । ननु ब्रह्मणो ज्ञप्तिरूपत्वेऽपि कथमनित्यत्वं ज्ञप्तेर्नित्यचैतन्यरूपत्वादित्याशङ्क्य हेत्वसिद्धिमाह – यदि नामेति । यदि नामाभ्युपगम्यत इत्यर्थः । लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात्तदतिरिक्तनित्यज्ञानाभावाच्चेति भावः । पारतन्त्र्यं जन्यत्वम् । अनित्यत्वादिप्रसङ्गाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तमित्युपसंहरति – अतोऽस्येति । ज्ञानस्येत्यर्थः । आत्मनो नित्यचैतन्यरूपतायाः श्रुतियुक्तिसिद्धत्वाज्ज्ञप्तिर्ब्रह्मेत्यत्रात्मचैतन्यमेव ज्ञप्तिर्विवक्षिता, अतो नानित्यत्वादिप्रसङ्गः ; आत्मनश्च ‘साक्षी चेता केवलो निर्गुणश्च’ इति वचनाज्ज्ञानकर्तृत्वमसिद्धम् ; जानामीत्यनुभवस्तु बुद्धितादात्म्यकृतः, ‘ध्यायतीव लेलायतीव’ इति श्रुतेः ; तथा च नात्माभिन्नत्वाद्ब्रह्मणो ज्ञानकर्तृत्वप्रसङ्गः, कामयितृत्ववचनमपि ब्रह्मणो मायोपाधिप्रयुक्तमेव, न स्वत इत्याशयेन समाधत्ते – नेति । ज्ञप्तेरात्मस्वरूपाव्यतिरेकत्वे सति तस्यां ज्ञप्तौ कार्यत्वस्योपचारमात्रत्वाज्ज्ञप्तिरूपस्य ब्रह्मणो नानित्यत्वादिप्रसङ्ग इत्यर्थः । उक्तं विवृणोति – आत्मन इति । चैतन्यरूपा ज्ञप्तिरात्मनो न भिद्यते मानाभावात् , अतो नित्यात्मस्वरूपत्वादिह विवक्षिता ज्ञप्तिर्नित्यैवेत्यर्थः । ननु तर्हि विषयावभासिकायां ज्ञप्तौ कथं कार्यत्वप्रसिद्धिरित्याशङ्क्य कार्यत्वोपचारादित्याह – तथापीति । कार्यवृत्तिसंसर्गात्कार्यत्वेनोपचर्यत इति शेषः । वृत्तेः कार्यत्वं साधयति – बुद्धेरुपाधिलक्षणाया इति । प्रत्यगात्मोपाधिभूताया इत्यर्थः । शब्दाद्याकारेति । शब्दादिविषयगोचराः शब्दाद्यवभासकत्वेन प्रसिद्धाः परिणामास्ते आत्मस्वरूपस्य विज्ञानस्य विषयावभासकचैतन्यस्य विषयभूता उपाधिभूता इत्यर्थः । तथा चोपाधिभूतवृत्तितादात्म्यादात्मस्वरूपभूतायां ज्ञप्तौ कार्यत्वोपचार इति भावः । आत्मविज्ञानस्य विषयभूता ये शब्दाद्याकारावभासाः ते उत्पद्यमानाः सन्त आत्मविज्ञानव्याप्ता एवोत्पद्यन्त इति योजना । अत्र वृत्तीनामात्मविज्ञानेन व्याप्तिर्वृत्तिचैतन्ययोरवभास्यावभासकभावप्रयोजकतादात्म्यसम्बन्धरूपा विवक्षिता । अत एवाह – तस्मादात्मविज्ञानभास्याश्चेति । उक्तव्याप्तिस्तच्छब्दार्थः । भावसाधनज्ञानशब्दवाच्यत्वमपि वृत्तीनामेवेत्याह – विज्ञानेति । जानातीत्यत्र धात्वर्थत्वमपि तासामेव कारकपारतन्त्र्यादित्याह – ते धात्वर्थभूता इति । ननु चक्षुरादिकरणजन्यानां ज्ञानानां वैशेषिकादिभिरात्मधर्मत्वाङ्गीकाराद्बुद्धिधर्मत्वमयुक्तम् , अत आह – आत्मन एवेति । आत्मनो विकाररूपाः सन्तस्तस्यैव धर्मा गुणा इति श्रुतितात्पर्यानभिज्ञैः कल्प्यन्ते न तु परमार्थत आत्मधर्मत्वं तेषाम् ‘कामः सङ्कल्पः’ इत्यादिश्रुत्या जन्यज्ञानादीनां मनोधर्मत्वप्रतिपादनादात्मनो निर्गुणत्वप्रतिपादनाच्चेत्यर्थः । एवं लौकिकज्ञानस्य कारकपारतन्त्र्यादिकं निरूप्य स्वरूपज्ञानस्य तद्वैपरीत्यमुपपादयति – यत्त्विति । तु-शब्दः स्वरूपज्ञानस्य वृत्तिवैलक्षण्यार्थः । ‘सत्यं ज्ञानम्’ इत्यत्र ज्ञानपदलब्धं यज्ज्ञानं तत्सवित्रादेः प्रकाशादिकमिव ब्रह्मस्वरूपादात्मनोऽव्यतिरिक्तमात्मस्वरूपमिति यावत् । अतो ब्रह्मणः स्वरूपमेवेत्यर्थः । नन्वात्मस्वरूपत्वेऽपि ज्ञानस्य कथं ब्रह्मस्वरूपत्वं कारकापेक्षस्य तस्य ब्रह्मत्वायोगादित्याशङ्क्याह – तन्न कारणान्तरेति । नित्यात्मस्वरूपादिति हेत्वर्थः । ननु ज्ञानस्य ब्रह्मरूपत्वे सर्वज्ञत्वश्रुतिविरोधः, तस्याकार्यतया ब्रह्मणस्तत्र कर्तृत्वासम्भवात् ; न च बुद्धिवृत्त्युपहितत्वेन स्वरूपज्ञानेऽपि कार्यत्वोपचार उक्त इति वाच्यम् , तावता बुद्ध्युपाधिकस्य जीवस्य ज्ञानकर्तृत्वलाभेऽपि ब्रह्मणस्तदलाभात् ; जीवब्रह्मणोरभेदेऽपि कल्पितभेदाभ्युपगमेन धर्मसाङ्कर्यायोगादित्याशङ्क्य ब्रह्मणः सर्वज्ञत्वं सर्वसाक्षित्वरूपमेवास्तु, कर्तृत्वश्रुतेरौपचारिकत्वोपपत्तेरित्याशयेन सर्वसाक्षित्वमुपपादयति – सर्वभावानां चेत्यादिना । तेनेति । तेन ब्रह्मणा अविभक्तौ विभागरहितौ देशकालौ येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मान्न तस्य विप्रकृष्टादिकमस्तीत्यर्थः । सर्वपदार्थानां ब्रह्माविभक्तत्वे हेतुः – कालाकाशादीति । सर्वकल्पनाधिष्ठानत्वादित्यर्थः । स्वप्रकाशचिद्रूपतया ब्रह्मणोऽतिस्वच्छत्वान्न तस्याप्रकाश्यं किञ्चित्सूक्ष्ममस्तीत्याह – निरतिशयेति । तस्मात्त्विति । सर्वपदार्थसंसर्गित्वादित्यर्थः । वस्तुतस्तु जीवस्य बुद्ध्युपाधिवशान्मुख्यज्ञातृत्वादिवद्ब्रह्मणोऽपि मायोपाधिवशान्मुख्यमेव सर्वज्ञत्वं कामयितृत्वादिकं च सम्भवतीति विशेषसङ्ग्रहार्थस्तु-शब्दः । तदुक्तं वाक्यवृत्तावाचार्यैरेव - ‘मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः’ इति । कारकनिरपेक्षं स्वरूपज्ञानमस्तीत्यत्र मन्त्रब्राह्मणवाक्यानि प्रमाणयति – मन्त्रेत्यादिना । अपाणिर्ग्रहीता अपादो जवनः । परस्य नान्योऽवभासकोऽस्ति, तस्य स्वप्रकाशत्वादित्याह – न चेति । अग्रे सृष्टेः पूर्वकाले भवमग्र्यम् । विज्ञातुरात्मनो या विज्ञातिः स्वरूपभूता संवित् तस्या विपरिलोपो विनाशो नास्ति, अविनाशित्वात् नाशसामग्रीशून्यत्वादित्यर्थः । ज्ञप्तेरात्मस्वरूपत्वेन कारकानपेक्षत्वप्रधानफलमाह – विज्ञातृस्वरूपेति । तत् आत्मस्वरूपं ज्ञानम् । न धात्वर्थ इत्यत्र अतःशब्दोक्तं हेतुमाह – अविक्रियेति । नित्यत्वादित्यर्थः । कारकसापेक्षक्रियाया एव धत्वर्थत्वादिति भावः । अत एवेति । ज्ञातस्य नित्यत्वादेव तत्र ज्ञाने ब्रह्मणः कर्तृत्वमप्यापादयितुमशक्यमित्यर्थः । तस्मादेव चेति । तत् ज्ञानस्वरूपं ब्रह्म ज्ञानपदवाच्यलौकिकज्ञानविलक्षणत्वादेव ज्ञानपदवाच्यमपि नेत्यर्थः । कथं तर्हि ‘ज्ञानं ब्रह्म’ इति सामानाधिकरण्यम् तत्राह – तथापीति । वाच्यत्वाभावेऽपीत्यर्थः । तदाभासेति । ज्ञानाभासवाचकेनेत्यर्थः । कोऽसौ ज्ञानाभास इत्याकाङ्क्षायां तदेव विवृणोति – बुद्धीति । बुद्धिपरिणामरूपवृत्तिज्ञानवाचकेनेत्यर्थः । वृत्तेर्जडायाश्चैतन्यतादात्म्यमन्तरेण विषयावभासकत्वायोगाज्ज्ञानाभासत्वमिति भावः । पूर्वोक्तं वाच्यत्वाभावमनूद्य तत्र हेत्वन्तरमाह – न तूच्यत इत्यादिना । अर्थेषु शब्दानां प्रवृत्तिहेतुत्वेन प्रसिद्धा ये जात्यादयो धर्मास्तद्रहितत्वाद्ब्रह्मण इत्यर्थः । तद्रहितत्वे हेतुमाह – सत्यानन्तेति । सामानाधिकरण्यादित्यनन्तरं ब्रह्मशब्दस्येति शेषः । सत्यानन्तपदाभ्यां बाधायोग्यत्वत्रिविधपरिच्छेदराहित्यसमर्पकाभ्यां ब्रह्मणो निर्विशेषत्वावगमादित्यर्थः । अत एव सत्यशब्दस्यापि न वाच्यं ब्रह्मेत्याह – तथा सत्यशब्देनापीति । सर्वेति । सर्वविशेषरहितस्वरूपत्वादेवेत्यर्थः । कथं तर्हि ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यम् तत्राह – बाह्येति । बाह्यं लोकसिद्धं यत्सत्तासामान्यं सत्ताजातिस्वरूपं तद्वाचकेन सत्यशब्देन बाधायोग्यं वस्तु लक्ष्यत इत्यर्थः । यद्वा पूर्वं विकारेष्वव्यभिचारितया वर्तमाने वस्तुनि रज्ज्वादौ सत्यशब्दप्रसिद्धेरुक्तत्वाल्लौकिकसत्यवस्तुवाचिना सत्यशब्देन परमार्थभूतं वस्तु लक्ष्यते, अतः ‘सत्यं ब्रह्म’ इति सामानाधिकरण्यमुपपद्यत इति बोध्यम् । न त्विति । केवलस्य परमार्थवस्तुनः प्रागनुपस्थितत्वेन शक्तिग्रहाभावादिति भावः । सत्यादिपदत्रयव्याख्यानमुपसंहरति – एवमिति । नियम्यनियामकभावफलमाह – सत्यादीति । स्वस्वाच्यार्थान्निवर्तकाश्च भूत्वा ब्रह्मणो लक्षणस्य सच्चिदद्वितीयस्वरूपस्य समर्पका भवन्तीत्यर्थः । लक्षणवाक्यार्थविचारमुपसंहरति – अतः सिद्धमिति । निरुक्तं वाच्यम् , तद्भिन्नमनिरुक्तम् । नीलोत्पलवदिति । सत्यत्वादिविशेषणविशिष्टस्य ब्रह्मणः सत्यादिवाक्यार्थतायाः ‘न विशेषणप्रधानान्येव’ इत्यत्र ‘लक्षणार्थं च वाक्यमित्यवोचाम’ इत्यत्र च तात्पर्यतो निरस्तत्वाद्ब्रह्मणो नीलोत्पलवाक्यार्थवैलक्षण्यं च सिद्धमित्यर्थः । सच्चिदेकरसं ब्रह्म प्रकृतं भेदवर्जितम् । मन्त्रस्य प्रथमे पादे तात्पर्येण निरूपितम् ॥ गूहतेरिति । गूहतेः संवरणार्थस्य गुहेति रूपमिति भावः । गुहाशब्दस्यावारकार्थकत्वेऽपि प्रकृते का गुहा विवक्षिता तत्राह – निगूढा इत्यादिना । ज्ञात्रादिपदार्थानां बुद्धिपरिणामत्वपक्षमाश्रित्य तत्र तेषां निगूढत्वमुक्तम् । बुद्धिनिरोधावसरे ज्ञात्रादिपदार्थानां भेदेनानुपलम्भात्तेषां तत्र निगूढत्वमवगन्तव्यम् । तेषां मायापरिणामत्वपक्षमाश्रित्याह – निगूढाविति । भोगो दुःखादिः, अपवर्गो ज्ञानम् , तदुभयं बुद्धिपरिणामत्वात्तत्र निगूढमित्यर्थः । भूताकाशं व्यावर्तयति – अव्याकृताख्य इति । अव्याकृतमज्ञानम् । तस्य परमत्वे कारणं हि-शब्देनाह – तद्धीति । जगत्कारणत्वादिति हि-शब्दार्थः । इतश्चाव्याकृतं परममित्याह – एतस्मिन्निति । अक्षरे ब्रह्मणि हे गार्गि कालत्रयापरिच्छिन्नं जगदुपादानमाकाशशब्दितमव्याकृतं साक्षादध्यस्तमिति श्रुत्यर्थः । संनिकर्षः साक्षात्सम्बन्धः । अज्ञानव्यतिरिक्तपदार्थानामज्ञाते ब्रह्मण्यध्यस्ततया अज्ञानद्वारक एव ब्रह्मणा संनिकर्ष इति भावः । एवमव्याकृताख्ये परमे व्योम्नि कारणभूते या कार्यभूता बुद्धिगुहा तस्यां निहितं ब्रह्मेति रीत्या ‘गुहायाम्’ ‘व्योमन्’ इति सप्तम्योर्वैयधिकरण्यमुक्तम् । इदानीं तयोः सामानाधिकरण्यमाह – गुहायामिति । न बुद्धिरित्येवकारार्थः । अव्याकृतेऽपि गुहाशब्दप्रवृत्तिनिमित्तमाह – तत्रापीति । सृष्टिस्थितिसंहारकालेष्वित्यर्थः । ननु बुद्धेः स्वच्छत्वात्तत्र ब्रह्मणो निधानं सम्भवति, कथमव्याकृते तत्सम्भवतीत्याशङ्क्याह – सूक्ष्मतरत्वाच्चेति । अतिस्वच्छत्वादित्यर्थः । च-शब्दः शङ्कानिरासार्थः । वस्तुतस्तु परमे व्योम्नि या गुहा बुद्धिः तस्यां निहितमिति सप्तम्योर्वैयधिकरण्येन व्याख्यानमेव युक्तम् , बुद्धुयपहितजीवाभेदेन ब्रह्मण आपरोक्ष्यलाभात् ‘अहं ब्रह्मास्मि’ इत्यादिश्रुत्यन्तरैकार्थ्यलाभात् प्रवेशवाक्येन वृत्तिस्थानीयेनास्य गुहानिहितवाक्यस्यैकर्थ्यलाभाच्च । सामानाधिकरण्यपक्षे त्वव्याकृतस्य विक्षेपशक्तिमदज्ञानांशरूपस्य परोक्षत्वात्तत्र निहितस्य ब्रह्मण आपरोक्ष्यादिकं न लभ्यते । अनेनैवाभिप्रायेण बुद्धेरेव गुहात्वं स्वीकृत्य तत्र निधानमौपचारिकमिति वक्ष्यतीति मन्तव्यम् । 'परमे व्योमन्’ इत्यत्र व्योमपदं पराभिप्रायेण व्याख्याय स्वाभिप्रायेण व्याचष्टे – हार्दमेव त्विति । भूताकाशमेव व्योमेत्यत्र हेतुः – न्याय्यमिति । रूढ्यनुसारस्य न्याय्त्वादित्यर्थः । परं तूक्तरीत्या बुद्धेरेवात्र गुहात्वात्तदधिकरणत्वलाभाय हार्दमित्युक्तम् । हृदयमध्यस्थमित्यर्थः । परमत्वविशेषणमपि तस्य सम्भवतीति सूचनार्थस्तु-शब्दः । अव्याकृतवारणायावधारणम् । ननु भूताकाशस्य कार्यत्वात्कथं परमत्वं सम्भवति तत्राह – विज्ञानाङ्गत्वेनेति । सगुणब्रह्मोपासनस्थानतया हार्दस्य व्योम्नो गायत्रीविद्यादौ विवक्षितत्वात्कार्यस्यापि तस्योत्कर्षरूपं परमत्वं सम्भवतीत्यर्थः । न हि कारणत्वप्रयुक्त एवोत्कर्ष इति नियमोऽस्ति, भूतकार्यस्यापि सूर्यमण्डलादेः स्वकारणापेक्षयोत्कर्षस्य मूर्तामूर्तब्राह्मणादौ प्रसिद्धत्वादिति भावः । हार्दव्योम्नो विज्ञानाङ्गत्वेन परमत्वमेव साधयति – यो वै स इति । पुरुषाच्छरीरात् यो बहिर्धा बहिराकाशः यो वा अन्तः पुरुषे शरीरे आकाशः स इत्युपक्रम्य ‘योऽयमन्तर्हृदय आकाशः’ इति श्रुत्यन्तराद्गायत्त्रीविद्याप्रकरणस्थाद्गायत्त्रीपदलक्षितब्रह्मोपासनस्थानतया हार्दाकाशस्य ब्रह्मविज्ञानाङ्गत्वबोधकात् हार्दस्य व्योम्नः परमत्वं प्रसिद्धं निश्चितमित्यर्थः । तद्वृत्त्येति । बुद्धिवृत्त्या ‘तत्त्वमसि’ इति श्रुतिजनितया बुद्ध्यादिभ्यः सकाशाद्विविक्ततया गृह्यत इत्यर्थः । यद्वा बुद्धिवृत्त्या बुद्धिसंसर्गेण विविक्ततया स्फुटतया द्रष्टृत्वश्रोतृत्वमन्तृत्वादिरूपेण ब्रह्मोपलभ्यत इत्यर्थः । तथा च गुहानिहितवाक्यं प्रति वृत्तिस्थानीयस्य प्रवेशवाक्यस्यार्थवर्णनावसरे वक्ष्यति - ‘गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते’ इति । ननु निहितशब्दः स्थितिं ब्रूते, ततश्च कथमन्यथा निधानं व्याख्यायते तत्राह – न ह्यन्यथेति । अत्र सम्बन्धपदमाधेयत्वपरम् ; तथा च अन्यथा उपलम्भव्यतिरेकेण देशविशेषाद्याधेयत्वरूपं निधानं ब्रह्मणो न ह्यस्तीत्यर्थः । सर्वगतत्वादिति । न चाकाशस्य सर्वगतत्वेऽपि स्वकारणमादायादौ स्थितिरस्तीति वाच्यम् , कार्यस्याकाशस्य लोकप्रसिद्ध्या सर्वगतत्वेऽपि वस्तुतः सर्वगतत्वाभावादिति भावः । किं च ‘यत्राधेयत्वं तत्र सविशेषत्वम् ‘ इति व्याप्तिर्दृश्यते, ब्रह्मणि च व्यापकसविशेषत्वनिवृत्त्या व्याप्याधेयत्वनिवृत्तिरित्याशयेनाह – निर्विशेषत्वाच्चेति । यद्वा विशेषपदमाधारपरम् , ततश्च आधारराहित्यश्रवणाच्च न तस्याधेयत्वमित्यर्थः । एवं गुहानिहितवाक्यं व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वं व्याचष्टे – स एवमित्यादिना । यो ब्रह्म गुहायां प्रत्यक्तया स्थितम् ‘अहं ब्रह्म’ इति वेद विजानाति स एवं विजानन्किं लभत इत्याकाङ्क्षायामाहेत्यर्थः । भुङ्क्ते अनुभवति । सर्वशब्दस्यासङ्कुचितं साकल्यमर्थतया दर्शयति – निरवशिष्टानिति । कामशब्दस्येच्छापरत्वं व्यावर्तयति – काम्यानिति । तानेव विशिष्य दर्शयति – भोगानित्यर्थ इति । भुज्यत इति व्युत्पत्त्या भोगपदमानन्दपरमिति भावः । सह शब्दमवतारयति – किमिति । यथास्मादादिः पुत्रस्वर्गादीन्पर्यायेण क्रमेण भुङ्क्ते तथैव विद्वानपि किं कामान्भुङ्क्त इति योजना । एकक्षणेति । एकक्षणावच्छिन्नानित्यर्थः । ननु सुखव्यञ्जकानां सत्त्ववृत्तिविशेषाणां क्रमिकत्वात्कथमेकदैवानन्दानामनुभवो विदुषः सिध्यति तत्राह – एकयेति । वृत्तिकृतानन्दानुभवो नात्र विवक्षित इति भावः । यामिति । 'सत्यं ज्ञानम्’ इत्यत्र ज्ञानमिति पदेन लक्षणीयतया यामुपलब्धिमवोचाम तया ब्रह्मस्वरूपाव्यतिरिक्तया कामानश्नुत इति योजना । तदुच्यत इति । यत्सर्वकामानामनुभवे यौगपद्यमुक्तं तदेव ब्रह्मणा सहेत्यत्र सहशब्देनोच्यते न साहित्यमित्यर्थः । नन्वत्र तृतीयया साहित्यमेव सहशब्दार्थतया भातीत्याशङ्क्याह – ब्रह्मभूत इति । इत्थम्भावे तृतीयेयं न साहित्यप्रतियोगित्ववाचिनीति भावः । पूर्वोक्तव्यतरेकदृष्टान्तविवरणपूर्वकमुक्तमर्थं प्रपञ्चयति – न तथेत्यादिना । अत्रोपाधिकृतेनेत्याद्या अपि तृतीया इत्थम्भावे द्रष्टव्याः ; तथा च परमात्मनो जलसूर्यवत्प्रतिबिम्बभूतं घटाकाशवदवच्छिन्नं वा उपाधिकृतं सांसारिकं संसारधर्मकं यत्स्वरूपं तदात्मा लोको यथा धर्मादिसाधनापेक्षान्कामान्पर्यायेणाश्नुत इत्यर्थः । विदुषः कामाशनप्रकारं पृच्छति – कथं तर्हीति । पूर्वोक्तेनैव प्रकारेणेत्याह – यथोक्तेनेति । सर्वज्ञेनेति । सर्वसाक्षिणेत्यर्थः । सर्वगतेन हीति । सर्वप्राणिसुखानुगतेन विदुष आत्मभूतेनेत्यर्थः । सर्वगतत्वादिकं श्रुतिषु प्रसिद्धमिति हि-शब्दार्थः । सर्वज्ञादिरूपस्य विद्वदात्मनः सेश्वरसाङ्ख्यमत इव ताटस्थ्यं वारयति – नित्यब्रह्मस्वरूपेणेति । धर्मादीति । स्वकीयधर्माद्यनपेक्षानित्यर्थः ; यथाश्रुते प्रतिप्राणिवर्तिनां कामानां तत्तद्धर्माद्यपेक्षत्वादसाङ्गत्यापत्तेः । एवमग्रेऽपि । तद्धीति । ब्रह्मणः प्रसिद्धं सर्वसाक्षित्वमेव विपश्चित्त्वम् , नान्यदित्यर्थः । इदं च विशेषणं विदुषो ब्रह्मानन्दानुभवकाले समुद्राम्भसि विप्रुषामिव ब्रह्मानन्देऽन्तर्भूतानां सर्वप्राणिगतानामानन्दानां सर्वसाक्षिचैतन्यरूपेणैवाशनमत्र विवक्षितं न प्रकारान्तरेणेत्येतस्यार्थस्य गमकमित्याशयेनाह – तेन सर्वज्ञस्वरूपेणेति । ननु यः सत्यज्ञानानन्तलक्षणं ब्रह्म प्रत्यक्त्वेन वेद सोऽर्चिरादिवर्त्मना ब्रह्मलोकं गत्वा तत्रस्थेन सर्वज्ञेन ब्रह्मणा सह दिव्यान्कामानश्नुत इति ऋज्वर्थ एवात्र किमिति न विवक्षित इति चेत् , न ; ब्रह्मणा सहेत्यन्वयस्य ‘सोऽस्नुते सर्वान्कामान्सह’ इत्यत्राध्ययनसम्प्रदायप्राप्तवाक्यविच्छेदाननुगुणत्वात् परब्रह्मविदो गत्युत्क्रान्त्याद्यभावस्य चतुर्थाध्याये साधितत्वाद् ‘अशरीरं वाव सन्तम् ‘ इत्यादिश्रुत्या मुक्तस्य शरीरसम्बन्धप्रतिषेधात् ‘तत्केन कं पश्येत्’ इत्यादिश्रुत्या तस्य विशेषविज्ञानप्रतिषेधाच्च ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुत्या सावधारणया ब्रह्मस्वरूपव्यतिरिक्तस्य प्राप्यत्वप्रतिषेधाच्च ; तस्मादत्र ऋज्वर्थाविवक्षेत्यन्यत्र विस्तरः ॥ वृत्तानुवादपूर्वकमुत्तरसन्दर्भमवतारतयति – सर्व एवेत्यादिना । तद्वृत्तीति । तस्य सूत्रस्य वृत्तिर्विस्तरतो व्याख्या तत्स्थानीय इत्यर्थः । तत्र सृष्टिवाक्येनानन्त्यं प्राधान्येन प्रपञ्च्यत इति तात्पर्यं दर्शयितुं पूर्वोक्तेष्वर्थविशेषमनुवदति – तत्र चेति । आहेत्यनन्तरम् ‘तस्माद्वै’ इत्यादिश्रुतिरिति शेषः । नन्वन्तशब्दस्य नाशे प्रसिद्धत्वादनन्तत्वं नित्यत्वम् ; तच्चाकाशादिकारणत्ववचनाद्ब्रह्मणो न सिध्यति, तस्यान्तवत्त्वेऽप्याकाशादेर्वाय्वादिकारणत्ववदाकाशादिकारणत्वोपपत्तेरित्याशङ्क्य आनन्त्यं विभजते – तत्र त्रिविधं हीति । तथा च त्रिविधे आनन्त्ये यद्वस्तुत आनन्त्यं तदेव सृष्टिवाक्येन तात्पर्यतो निरूप्यत इति भावः । तत्र देशत आनन्त्यस्य हि-शब्दसूचितां प्रसिद्धिमाकाशे दर्शयति – तद्यथेति । न हीति । अवकाशात्मना सर्वत्रावस्थानादित्यर्थः । अभावः परिच्छेदः । ननु किं कालतो वस्तुतश्चानन्त्यमप्याकाशे प्रसिद्धम् नेत्याह – न त्विति । कालत आनन्त्याभावे हेतुं पृच्छति – कस्मादिति । यद्वा आकाशस्य नित्यत्वमभिप्रेत्य नैयायिकः शङ्कते – कस्मादिति । 'आत्मन आकाशः सम्भूतः’ इति श्रुतिमाश्रित्य परिहरति – कार्यत्वादिति । तथा च कार्याकाशस्यानित्यत्वात्कालत आनन्त्यं नास्ति । वाय्वादेराकाशसमसत्ताकस्य वस्तुनः सत्त्वाद्वस्तुत आनन्त्यमपि तस्य नास्तीति भावः । ननु नित्यत्वेन प्रसिद्धस्य चेदाकाशस्य कालत आनन्त्यं नास्ति, तर्हि ब्रह्मणोऽपि तन्नास्त्येव, नेत्याह – नैवमिति । नन्वकार्यत्वमसिद्धं ब्रह्मणः कारणत्वादाकाशादिवदिति, नेत्याह – अकार्यं चेति । च-शब्दः शङ्कानिरासार्थः । आकाशादेरिव ब्रह्मणः सृष्टिप्रलययोरश्रवणान्मूलकारणस्यापि ब्रह्मणः कार्यत्वे कारणानवस्थाप्रसङ्गेनोक्तकारणत्वानुमानस्याप्रयोजकत्वात् ‘सर्वगतश्च नित्यः’ इत्यादौ नित्यत्वश्रवणात् ब्रह्मण उत्पत्तौ सामग्र्यनिरूपणादेश्च हेतोरकार्यं ब्रह्मेत्यर्थः । तथेति । तथा वस्तुतश्चानन्तं ब्रह्मेत्यर्थः । ननु वस्तुतो ब्रह्मातिरिक्तस्य जगतः सत्त्वात्तस्य वस्तुत आनन्त्यमसिद्धमित्याक्षिपति – कथं पुनरिति । जगतो ब्रह्मापेक्षया वस्त्वन्तरत्वमसिद्धं कल्पितत्वादित्याशयेनाह – सर्वानन्यत्वादिति । ननु सर्वस्य जगतो ब्रह्मानन्यत्वेऽपि ब्रह्मणस्तत्कृतः परिच्छेदः किं न स्यादित्याशङ्क्याह – भिन्नं हीति । भिन्नस्यान्तत्वं प्रसिद्धमित्युक्तम् , तदेव प्रपञ्चयति – वस्त्वन्तरबुद्धिर्हीति । गोत्वसंनिकर्षदशायां गोत्वरूपस्याश्वत्वाद्यपेक्षया वस्त्वन्तरस्य बुद्धिर्जायते ; सा च गोसंनिहितायामश्वादिव्यक्तावपि गौरयमपीत्येवमाकारेण प्रसक्ता सती तत्राश्वत्वं दृष्ट्वा निवर्तते नायं गौरिति हि प्रसिद्धमेतदित्यर्थः । ततः किम् तत्राह – यत इति । उक्तं सामान्यन्यायं स्वयमेवोदाहरणनिष्ठतया योजयति – तद्यथेति । अश्वत्वान्तमिति । गोत्वमश्वत्वान्तमश्वत्वावधिकमनुभूयत इति कृत्वा गोत्वमन्तवद्भवतीत्यर्थः । उक्तस्य वस्तुपरिच्छेदस्य घटत्वादिसाधारण्येन प्रसिद्धिमाह – स चेति । एवं वस्त्वन्तरस्यान्तवत्त्वं प्रसाध्य प्रकृतमाह – नैवमिति । भेदपदं भिन्नवस्तुपरम् । अत इति । परमार्थतो ब्रह्मभिन्नवस्त्वभावादित्यर्थः । सर्वस्यैव जगतो ब्रह्मानन्यत्वस्य पूर्वमभिहितत्वादिति भावः । सर्वानन्त्यत्वे हेतुं पृच्छति – कथमिति । 'आत्मन आकाशः सम्भूतः’ इति सृष्टिवाक्येनोत्तरमाह – उच्यत इति । ननु कालपरमाण्वादीनां नित्यत्वात्सर्ववस्तुकारणत्वमसिद्धमित्याशङ्क्याह – सर्वेषां हीति । कालादेरपि कार्यत्वं वियदधिकरणन्यायसिद्धमिति सूचनार्थो हि-शब्दः । ‘चिदविद्यासम्बन्धः कालः’ विष्णुपुराणोक्तरीत्या ‘ब्रह्मण एव रूपभेदः कालः’ इति पक्षयोः कालस्यानादित्वेन कार्यत्वाभावेऽपि न क्षतिः, आद्यपक्षे कालस्याविद्यावत्कल्पितत्वेन वस्त्वन्तरत्वाभावात् , द्वितीये कालस्य ब्रह्मस्वरूपत्वादेव वस्त्वन्तरत्वाभावादिति मन्तव्यम् । ब्रह्मवद्ब्रह्मकार्यस्यापि परमार्थत्वं मन्वानः शङ्कते – कार्यापेक्षयेति । आरम्भणाधिकरणन्यायेन परिहरति – नानृतत्वादिति । यत इति । यतः पृथक्सत्त्वाद्धेतोः कारणबुद्धिः कार्यान्निवर्तेत तत्पृथक्सत्त्वं कार्यस्य नास्तीत्यर्थः । अत एव ‘मृद्घटः’ ‘मृच्छरावम्’ इति विकारेषु कारणबुद्धिरनुवर्तते, तथा जगत्यपि ‘सन्घटः’ ‘सन्पटः’ इत्यादिरूपेण सद्रूपब्रह्मबुद्धिरनुवर्तते, न हि पृथक्सत्त्वयुक्तयोर्घटपटयोर्मध्ये घटबुद्धिः पटे पटबुद्धिर्वा घटेऽनुवर्तत इति भावः । कार्यस्य कारणात्पृथक्सत्त्वाभावे श्रुतिमाह – वाचारम्भणमिति । वस्तुत आनन्त्यनिरूपणमुपसंहरति – तस्मादिति । देशत इति पाठेऽपि देशपदं वस्तुपरम् । ब्रह्मणो देशत आनन्त्यं कैमुतिकन्यायेन साधयति – आकाशो हीत्यादिना । आकाशस्य देशत आनन्त्यं प्रसिद्धमित्ययमर्थः प्रागेवोक्त इति सूचनार्थो हि-शब्दः । ननु सर्वगतमाकाशं प्रति ब्रह्मण उपादानकारणत्वेऽपि कथं तस्याकाशापेक्षयापि महत्त्वं सिध्यति स्वन्यूनपरिमाणद्रव्यस्याप्युपादानत्वसम्भवादित्याशङ्कां निराकरोति – न हीति । कार्यद्रव्ये स्वन्यूनपरिमाणद्रव्यारभ्यत्वनियमस्य दीर्घविस्तृतदुकूलाद्यारब्धरज्ज्वादौ व्यभिचारात्सर्वगतस्याकाशादेरसर्वगतादुत्पद्यमानतायाः प्रत्यक्षादिसिद्धत्वाभावाच्चौचित्येनाकाशस्य ततोऽप्यधिकपरिमाणादेवोत्पत्तिः सिध्यतीत्यर्थः । 'ज्यायानाकाशात्’ इत्यादिश्रुत्या च ब्रह्मणो निरतिशयमहत्त्वं सिद्धमित्याशयेन फलितमाह – अत इति । अत एवेति । त्रिविधपरिच्छेदशून्यत्वादेवेत्यर्थः । निरतिशयमिति । त्रैकालिकबाधशून्यत्वलक्षणमित्यर्थः ॥ इत्थं सृष्टिवाक्यतात्पर्यार्थमानन्त्यं निरूप्याक्षराणि व्याचष्टे – तस्मादित्यादिना । यथालक्षितमिति । परामृश्यत इत्यनुषङ्गः । उक्तं सर्वनामद्वयार्थमनुवदन्नेव वाक्यार्थमाह – यदित्यादिना । ननु प्रतीच एवात्मशब्दवाच्यत्वात्कथं ब्रह्मण आत्मशब्दवाच्यत्वमित्याशङ्क्याह – आत्मा हीति । तत् ब्रह्म सर्वस्य भोक्तृवर्गस्य आत्मा वास्तवं स्वरूपमित्यर्थः । तत्र हि-शब्दसूचितं मानमाह – तत्सत्यमिति । आत्मेति । आत्मशब्दवाच्यमित्यर्थः । आकाशस्य लक्षणं स्वरूपं चाह – आकाशो नामेत्यादिना । तस्माच्चेति । चकार आत्मसमुच्चयार्थः । तथा च आकाशतादात्म्यापन्नादात्मनः सकाशादेव वायुः सम्भूत इत्यर्थः । एवमुत्तरत्रापि पूर्वपूर्वभूततादात्म्यापन्नादुत्तरोत्तरभूतस्योत्पत्तिरवगन्तव्या ‘तदभिध्यानादेव तु’ इत्यादौ तथा व्यस्थापितत्वादिति मन्तव्यम् । अग्निशब्दस्तेजःसामान्यपरः । पृथिव्या इति । अत्र पञ्चम्याः प्रकृत्यर्थत्वात्पूर्वत्रापि पञ्चम्यः प्रकृत्यर्था एवेति मन्तव्यम् । ओषधयः सम्भूताः, अन्नं सम्भूतम् , पुरुषः सम्भूत इति सर्वत्र क्रियापदं द्रष्टव्यम् । ‘अन्नात्पुरुषः’ इति वाक्योक्तं पुरुषस्यान्नविकारत्वं व्याख्यातुम् ‘स वा एषः’ इत्युत्तरवाक्यं प्रवृत्तम् अतो न पौनरुक्त्यमिति मन्तव्यम् । रसशब्दितस्य रेतसः पुरुषाकृतिनियामकत्वमाह – पुरुषाकृतीति । पितुः पुरुषाकृत्या भावितं संस्कृतं सत् पितुरङ्गेभ्यः सकाशात्सम्भूतमित्यर्थः । तेज इति । सर्वेषामङ्गानां सारभूतमित्यर्थः । तथा च श्रुतिः – 'यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ इति । तस्मादिति । पुरुषाकृतिभाविताद्रेतोरूपाद्बीजादित्यर्थः । पुरुषग्रहणस्य तात्पर्यं वक्तुमाक्षेपमवतारयति – सर्वेषामपीति । पश्वादीनामपरीत्यर्थः । क्रमेण ब्रह्मविकारत्वं ब्रह्मवंश्यत्वम् । समाधत्ते – प्राधान्यादिति । यदि प्राधान्यं भक्षणादिविषये तदा पश्वादीनामेव प्राधान्यं स्यादित्याशयेन शङ्कते – किं पुनरिति । कर्मज्ञानाधिकारित्वमत्र प्राधान्यम् , तच्च मनुष्यस्यैव न पश्वादीनामित्याह – कर्मेति । तदुक्तं सूत्रकारेण - ‘मनुष्याधिकारत्वाद् ‘ इति । अधिकारमेव साधयति – पुरुष एव हीति । हि-शब्दसूचितान्हेतूनाह – शक्तत्वादर्थित्वाच्चेति । विधिनिषेधविवेकसामर्थ्योपेतत्वाच्छास्त्रोक्तस्वर्गादिफलार्थित्वसम्भवादित्यर्थः । अपर्युदस्तत्वादिहेत्वन्तरसङ्ग्रहार्थश्चकारः । पुरुषस्य यथोक्तसामर्थ्याद्युपेतत्वे श्रुतिमाह – पुरुषे त्वेवेति । ब्राह्मण्यादिजातिमति मनुष्यदेह एवाविस्तरामतिशयेन प्रकट आत्मा ज्ञानाद्यतिशयवानित्यर्थः । एतदेवानुभवेन साधयति – स हीत्यादिना । श्वस्तनं परेद्युर्भाविनम् । लोको भोग्यः, तत्साधनमलोकः । मर्त्येन विनाशार्हेण ज्ञानकर्मादिसाधनेनाक्षयं फलमाप्तुमिच्छतीत्यर्थः । साधितं ज्ञानातिशयमुपसंहरति – एवं सम्पन्न इति । येन ज्ञानाद्यतिशयेन पुरुषस्य प्राधान्यं विवक्षितं तत्पश्वादीनां नास्तीत्याह – अथेतरेषामिति । तेषां बुभुक्षादिविषयकज्ञानमेवास्ति न पूर्वोक्तमित्यर्थः । प्रकृतायामपि ब्रह्मविद्यायां पुरुषस्यैवाधिकारित्वाच्चात्र पुरुषग्रहणमित्याशयेनाह – स हीति । ननु यद्यत्र सर्वान्तरं ब्रह्म प्रापयितुमिष्ठः पुरुषस्तर्हि तं प्रति तादृशब्रह्मोपन्यास एवोत्तरसन्दर्भे कार्यो न कोशोपन्यास इत्याशङ्क्य तदुपन्यासस्य तात्पर्यमाह – तस्य चेति । विद्याधिकारिणः पुरुषस्येत्यर्थः । चकारोऽवधारणार्थः सन्सप्तम्या सम्बध्यते । चिदात्मापेक्षया बाह्या येऽचिदात्मानः कल्पिताकारविशेषाः कोशास्तेष्वेवानात्मस्वनादिकालमारभ्याहमित्यात्मत्वभावनोपेता बुद्धिः कञ्चिदुपायविशेषमनालम्ब्य सहसा सर्वान्तरप्रत्यगात्मविषया पूर्वमात्मत्वेन गृहीतकोशरूपालम्बनशून्या च कर्तुमशक्येति कृत्वा प्राणमयादिषु शिरआदिमत्त्वेन दृष्टस्थूलशरीरसाम्योपन्यासेन अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्यादिनान्तः प्रवेशयन्नाहेत्यर्थः । यथा लोके चन्द्रं बुबोधयिषुः शाखाग्रमालम्ब्य बोधयति ‘शाखाग्रं चन्द्रः’ इति स च बोद्धा दिगन्तराणि त्यक्त्वा शाखाग्रं पश्यन् तद्द्वारा चन्द्रं पश्यति, तद्वदन्नमयादिषु कोशेषु क्रमेणात्मत्वेनोपदिष्टेषु सत्सु बाह्ये पुत्रादौ पूर्वपूर्वकोशे चात्मत्वबुद्धिं क्रमेण परित्यज्य सर्वकोशाधिष्ठानभूतं सर्वान्तरं ब्रह्माहमस्मीति प्रतिपद्यते मुमुक्षुरित्यर्थः । ब्रह्मविद्योपायविशेषत्वेन कोशपरम्परा शाखाग्रस्थानीयोपदिश्यत इति दृष्टान्तदार्ष्टान्तिकयोः सङ्गतिः । एवं कोशेषु पक्षपुच्छादिमत्त्वोपन्यासात्सुपर्णाकारतयोपास्तयो विधीयन्ते । ता अप्युपास्तयश्चित्तैकाग्र्यद्वारा ब्रह्मविद्याशेषभूता एव न स्वतन्त्राः । तासु फलश्रवणं प्रयाजाद्यङ्गवाक्येषु फलश्रवणवदर्थवादमात्रमित्यादिकं वार्त्तिकादौ द्रष्टव्यमिति सङ्क्षेपः । अन्नमयस्य प्रसिद्धं शिर एव शिर इत्यत्रावधारणस्य तात्पर्यमाह – प्राणमयादिष्विति । एवमिति । अयमेव दक्षिणः पक्ष इत्यादिप्रकारेणान्नमयपर्याये सर्वत्रावधारणं योजनीयमित्यर्थः । ननु बाह्वोर्दक्षिणत्वादेरनित्यतत्वात्कथं दक्षिणो बाहुरित्युच्यते तत्राह – पूर्वाभिमुखस्येति । श्रौतस्मार्तेषु कर्मसु पूर्वाभिमुखत्वस्यौत्सर्गिकत्वादिति भावः । आत्मेति । अयं मध्यमो देहभागोऽङ्गानामात्मेत्यवगन्तव्यमित्यत्र श्रुत्यन्तरमाह – मध्यं हीति । मध्यमभागस्य सर्वाङ्गस्पर्शितया सर्वाङ्गव्यापकत्वरूपमात्मत्वं तस्य युक्तमिति हि-शब्दार्थः । प्रतिष्ठापदं स्थितिसाधनत्वं वददाधारपरमित्याह – प्रतितिष्ठतीति । नाभेरधोभागे पुच्छदृष्टिकरणे इवशब्दसङ्गृहीतं सामान्यमाह – अधोलम्बनेति । एतत्प्रकृत्येति । अन्नमयस्य पुरुषविधत्वं शिरआदिमत्त्वलक्षणं प्रकृत्य ‘तस्य पुरुषविधताम् , अन्वयं पुरुषविधः’ इति वक्ष्यमाणं पुरुषविधत्वं प्राणमयादीनां सिध्यतीत्यर्थः । मूषेति । अन्तः प्रतिमाकारच्छिद्रवती मृन्मयी प्रतिकृतिर्मूषा, तस्यां निषिक्तं द्रुतं ताम्रादिकं यथा प्रतिमाकारं भवति, तथा शिरआदिमत्यन्नमयकोशेऽन्तर्व्याप्य विद्यमानं प्राणमयादिकमपि तदाकारं भवतीत्यर्थः । अत्रान्नमयकोशस्य विराडात्मनोपास्यत्वं विवक्षितमिति मत्वा विराडात्मन्यन्नमयकोशे मन्त्रमवतारयति – तदप्येष इति ॥ वृत्तानुवादपूर्वकमानन्दवल्ल्यास्तात्पर्यमाह – संहितादीत्यादिना । वक्ष्यमाणविद्यावैलक्षण्यार्थमाह – कर्मभिरविरुद्धानीति । कर्मभिरविरुद्धमेवान्यदप्युपासनमुक्तमित्याह – अनन्तरं चेति । ननु कर्मसमुच्चितेन व्याहृतिशरीरब्रह्मोपासनेन स्वाराज्यप्रापकेणैव सबीजस्य संसारस्य निवृत्तिसम्भवात्किं निरुपाधिकब्रह्मविद्यारम्भेणेत्याशङ्क्याह – न चैतावतेति । कर्मसमुच्चितेनापि सोपाधिकात्मदर्शनेनेत्यर्थः । अत इति । सोपाधिकात्मदर्शनस्याधिष्ठानयाथात्म्यदर्शनरूपत्वाभावेनाशेषसंसारबीजोपमर्दने सामर्थ्यरहितत्वादित्यर्थः । अन्नादिति । विराडात्मकादित्यर्थः । स्थावरेति । व्यष्ट्यन्नमयकोशा इत्यर्थः । कदा लीयन्त इत्याकाङ्क्षायामाह – अन्त इति । विराजोऽस्मदादिकारणत्वे हेतुपरमन्नं हीति वाक्यं हि-शब्दयोगादिति मत्वा तदाकाङ्क्षापूर्वकमवतार्य व्याचष्टे – कस्मादित्यादिना । अन्नशब्दितस्य विराजः प्रथमजत्वे फलितमाह – अन्नमयादीनां हीति । प्राणमयादीनामन्नविकारत्वाभावेऽप्यन्नोपचितत्वमस्तीति मत्वात्रादिपदं प्रयुक्तम् । अन्नं विराडात्मकं यतः प्रथममेव जातं सत्स्वव्यतिरिक्तानां भूतानां कारणं कारणत्वयोग्यम् अतोऽन्नप्रभवा इत्यर्थः । प्रथममुत्पन्नस्य पश्चादुत्पद्यमानकार्यं प्रति कारणत्वयोग्यतासम्भवसूचनार्थो हि-शब्दः । यस्माच्चैवमिति । चोऽवधारणे । यस्मादन्नजीवना एव प्रजाशब्दवाच्याः प्राणिन इत्यर्थः । दाहेति । जाठरकृता क्षुद्दाहः, तत्प्रशामकमित्यर्थः ॥ उत्तरवाक्यतात्पर्यमाह – अन्नब्रह्मविद इति । ननु कथमन्नस्य ब्रह्मत्वं कथं वा तदुपासनमिति पृच्छति – कथमिति । उत्तरम् – अन्नज इत्यादि । यस्मादन्नं प्रथमकोशजातस्य जन्मस्थितिप्रलयकारणं तस्मादन्नं ब्रह्म, तच्चान्नात्मकं ब्रह्माहमस्मीति चिन्तयेत् , उपास्यविराड्देवभावापत्तिं विना सर्वान्नप्राप्त्यसम्भवात् देवभावस्य चाहङ्ग्रहं विना प्राप्तुमशक्यत्वादित्यर्थः । अन्नं हीति पुनर्वचनमन्नब्रह्मविदः सर्वान्नप्राप्तौ हेतुपरमिति मत्वा तदवतारयति – कुतः पुनरिति । अन्नस्य ज्येष्ठत्वे हेतुमाह – भूतेभ्य इति । भूतेभ्यः पूर्वं निष्पन्नत्वादन्नं ज्येष्ठम् , तच्च ज्येष्ठमन्नं हि यस्माद्भूतानां जन्मजीवनादिकारणं तस्मादन्नं सर्वौषधमुच्यते लोकैरिति योजना । अनेन हि पुनर्वचनेन अन्नदेवतात्मनो विराजः स्वकार्येषु सर्वप्राणिषु व्याप्तिस्तात्पर्येण प्रतिपाद्यते लोके कारणस्य मृदादेः कार्येषु व्याप्तेः प्रसिद्धत्वात् । सा च व्याप्तिर्विराडात्मभावमापन्नस्यान्नब्रह्मविदः सर्वप्राण्यात्मना सर्वान्नात्तृत्वे हेतुर्भवतीति मत्वाह – तस्मादिति । अन्नब्रह्मविदो विराडात्मना सर्वप्राणिव्यापित्वादित्यर्थः । अस्य पुनर्वचनस्यायमभिप्रायो वार्त्तिके स्पष्टमभिहितः - ‘कार्यं सर्वं यतो व्याप्तं कारणेनात्तृरूपिणा । इति हेतूपदेशाय त्वन्नं हीत्युच्यते पुनः’ इति । ननु ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्युक्तत्वात्पुनः ‘अन्नाद्भूतानि जायन्ते’ इत्यादिवचनं व्यर्थमित्याशङ्क्याह – उपसंहारार्थमिति । अद्यत इत्यादेस्तात्पर्यमाह – इदानीमिति । तच्च निर्वचनमुपास्यस्यान्नरूपप्रजापतेरद्यत्वात्तृत्वरूपगुणद्वयविधानार्थमिति मन्तव्यम् । यस्मात्प्रकृतं व्रीहियवादिलक्षणं वस्तु भूतैरद्यते तस्मादन्नशब्दवाच्यं भवति, यस्माच्च तद्भूतान्यत्ति संहरति तस्मादपि तदन्नमुच्यते ; अन्नस्य चापथ्यादिरूपस्य प्राणिसंहारसाधनत्वं लोके प्रसिद्धमिति मन्तव्यम् । इत्थमन्नमयकोशं निरूप्य तस्यानात्मत्वसिद्धये प्राणमयकोशवाक्यप्रवृत्तिः ; एवमुत्तरत्रापीति तात्पर्यमाह – अन्नमयादिभ्य इति । आत्मभ्य इति । कल्पितात्मभ्य इत्यर्थः । अत एवाह – अविद्याकृतेति । यथा लोकोऽनेकतुषकोद्रववितुषीकरणेन कोद्रवतण्डुलान्दर्शयितुं प्रवर्तते तथा प्रत्यगात्मावरणभूताविद्याकृतपञ्चकोशापनयनेनान्नमयादिभ्य आनन्दमयान्तेभ्य अन्तरतमं ब्रह्म कोशापनयनशब्दितविवेकजनितया विद्यया प्रत्यक्तया दर्शयितुमिच्छु शास्त्रं प्रस्तौति प्रवर्तत इत्यर्थः । तस्माद्वा एतस्माद्यथोक्तादिति । अत्र ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इत्यादौ दूरदेशे भूतकारणत्वेन प्रकृतं विराजं वै-शब्देन स्मारितं तस्मादित्यनेनानूद्य एतस्मादित्यनेनान्नमयकोशस्य विराडात्मत्वं प्रबोध्यते । एवमुत्तरत्रापि । तदुक्तं वार्तिके – 'वै-शब्देनैव संस्मार्य दवीयोदेशवर्तिनम् । तस्माच्छब्देन वैराजमादायाध्यात्मरूपिणः । एतस्मादिति शब्देन वैराजत्वं प्रबोध्यते । कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि’ इति । कार्याण्याध्यात्मिकाः कोशाः, तेषां विराडाद्यात्मत्वबोधनं च प्रागानन्दमयपर्यायाद्विराडाद्यभेदेनोपासनसूचनार्थम् ; आनन्दमयपर्याये तु तदेतच्छब्दयोरुक्तार्थपरत्वेऽपि न चिन्तनविवक्षास्ति, किं त्वध्यात्माधिदैवतलक्षणाद्द्विविधादप्यानन्दमयतत्कारणकोशाच्चिदेकरसस्य पुच्छह्मणो विवेकमात्रं विवक्षितम् ; तत्पर्याये पक्षपुच्छादिकल्पनस्यान्यदेव प्रयोजनमिति वक्ष्यते । यथोक्तादित्यस्य सुपर्णाकारेणोक्तादित्यर्थः । आत्मत्वेन परिकल्पित इति योजना । वायुरिति । अत्र हिरण्यगर्भोपाधिभूते समष्टिकारणात्मनि क्रियाशक्तिमदंशः प्राणो विवक्षित इति मत्वा वायुरित्युक्तम् । तत्रैव ज्ञानशक्तिमदंशभूतं समष्ट्यन्तःकरणं मनोमय इत्यत्र मनःशब्दार्थ इत्यपि बोध्यम् । तत्प्राय इति । तद्विकार इत्यर्थः । अत एवानुवादावसरे वक्ष्यति – वायुविकारस्येति । प्राणमयस्यान्नमयं प्रत्यात्मत्वं तद्व्यापित्वादित्युपपादनार्थम् ‘तेनैष पूर्णः’ इत्युक्तम् । तत्र प्राणेन देहो व्याप्त इत्यत्रानुरूपं दृष्टान्तमाह – वायुनेवेति । शिरःपक्षादिभिरिति । शिरःपक्षपुच्छादिकल्पनालम्बनभूतैरवयवैः पुरुषाकारः प्राण इत्यर्थः । ननु पञ्चवृत्तेः प्राणस्यामूर्तत्वात्स्वयमेव तस्य पुरुषविधत्वं न सम्भवतीति शङ्कते – किं स्वयमेवेति । 'तस्य पुरुषविधताम् ‘ इति श्रुत्या परिहरति – नेत्याहेति । श्रुतिरिति शेषः । नन्वन्नमयस्य वा कथं पुरुषविधत्वम् तत्राह – प्रसिद्धमिति । प्राणमये उक्तं न्यायं मनोमयादिष्वतिदिशति – एवमिति । कथं पुरुषविधतास्येति । अस्य प्राणमयस्य यद्यपि पुरुषविधता सिद्धा तथापि कथं पक्षपुच्छादिकल्पनाप्रकार इत्यर्थः । वृत्तिविशेष इति । वृत्तिमतः प्राणस्यावयवित्वेन विवक्षितत्वादिति भावः । ननु प्राणवृत्तौ शिरस्त्वकल्पनायां किं नियामकम् तत्राह – वचनादिति । उत्तरत्रापि वचनमेव नियामकमित्याह – सर्वत्रेति । यद्वा सर्वपर्यायेष्वपि वस्तुगत्या वचनमेव तत्कल्पने नियामकमित्याह – सर्वत्रेति । आकाशपदेन शरीरमध्याकाशस्थसमानलक्षणायां कारणमाह – प्राणवृत्त्यधिकारादिति । समानस्य मध्यभागत्वरूपात्मत्वकल्पनायां युक्तिमाह – मध्यस्थत्वादिति । इतराः पर्यन्ता वृत्तीरपेक्ष्य मध्यस्थत्वात्समान आत्मेति योजना । ननु मध्यस्थस्यापि कथमात्मत्वम् तत्राह – मध्यं हीति । पृथिवीदेवतेति । न च प्राणवृत्त्यधिकाराविशेषात्पृथिवीशब्देनोदानग्रहणं न्याय्यमिति वाच्यम् ; प्रतिष्ठात्वलिङ्गविरोधेन प्रकरणस्यानादरणीयत्वात् । न ह्युदानवृत्तेर्वृत्तिमन्तं प्राणमयं प्रति प्रतिष्ठात्वं सम्भवति । स्थितिहेतुत्वादिति । पृथिवीदेवताया आध्यात्मिकप्राणस्थितिहेतुत्वस्य श्रुत्यन्तरादवगतत्वादित्यर्थः । श्रुतावपानपदं प्राणमयकोशपरम् । अन्यथेति । देवताकृतावष्टम्भनाभाव इत्यर्थः । उदानवृत्तेरूर्ध्वगमनहेतुत्वम् ‘अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इत्यादिश्रुत्यन्तरादेव सिद्धमिति मन्तव्यम् , उदानवृत्तेः कालविशेषापेक्षत्वेन सदोर्ध्वगमनप्रसक्त्यभावेऽपि च्छिन्नकदलीस्तम्भादेरिव भूमौ पतनं वा प्रसज्यत इत्यर्थः ॥ तदात्मभूता इति । सूत्रात्मभूता इत्यर्थः । अग्न्यादिदेवानां सूत्रात्मविभूतितया तदात्मकतायाः शाकल्यब्राह्मणसिद्धत्वादिति मन्तव्यम् । यद्वा सूत्रात्मोपास्त्या तदात्मकतां प्राप्ता इत्यर्थः । अथवा अस्मदादय इवाग्न्यादयोऽपि तदात्मभूताः क्रियाशक्तिमत्प्राणोपाधिकाः सन्त इत्यर्थः । देवशब्दस्य प्रसिद्धिमाश्रित्याग्न्यादिपरत्वमुक्तम् ; इदानीमिन्द्रियपरो देवशब्द इति सयुक्तिकमाह – अध्यात्माधिकारात्त्विति । तु-शब्दोऽवधारणार्थः सन्निन्द्रियाणीत्यत्र सम्बध्यते । प्राणमयकोशाधिकारादित्यर्थः । मुख्यप्राणमन्विति । तस्मिन्निरुद्धे इन्द्रियाणां प्रवृत्त्यदर्शनादिति भावः । न केवलमिन्द्रियाणामेव प्राणाधीना चेष्टा, अपि तु शरीरादीनामपीत्याह – तथा मनुष्या इति । 'प्राणं देवा अनु प्राणन्ति’ इत्यादिनां केवलदेहात्मवादो निरस्त इति तात्पर्यमाह – अतश्चेति । प्राणाधीनचेष्टाकत्वाच्छरीराणामित्यर्थः । तस्य वस्तुतोऽनात्मत्वं सूचयति – परिच्छिन्नेनेति । आत्मशब्दः स्वरूपपरः । नन्वन्नमयातिरिक्तं स्वरूपं नोपलभ्यत इति शङ्कते – किं तर्हीति । 'प्राणं देवा अनु प्राणन्ति’ इत्यादिश्रुतिमाश्रित्याह – तदन्तर्गतेति । तस्य पिण्डवत्परिच्छेदं व्यावर्तयन्साधारणपदं व्याचष्टे – सर्वपिण्डेति । सर्वपदमेकैकस्यैव पिण्डस्यावयवसाकल्याभिप्रायम् । अथ वा सूत्रात्मरूपेण प्राणमयस्य सर्वपिण्डव्यापित्वमुक्तमिति मन्तव्यम् । एवमान्तरत्वेन निरूपणीय आत्मा प्राणमय एवेति शङ्कानिरासार्थमुत्तरकोशानामप्यात्मतामाह – एवं मनोमयादिभिरिति । अत्रापि प्राणमयाद्यन्तर्गतैरिति मनोमयादेर्विशेषणं द्रष्टव्यम् , तदन्तर्गतेति प्राणमयस्योक्तत्वात् प्रतिपर्यायं श्रुतावन्तरशब्दप्रयोगाच्च । तथा चोत्तरोत्तरकोशेषु पूर्वपूर्वापेक्षयान्तरत्वसूक्ष्मत्वव्यापित्वविशेषणानि तानि यत्र काष्ठां गच्छन्ति, स एव मुख्य आत्मेति ज्ञापनार्थानीति मन्तव्यम् । अविद्योपाधिकस्यानन्दमयशब्दितजीवस्यापि प्रियादिविशिष्टत्वाकारेण कार्यत्वं मत्वाह – आकाशादीति । कोशानां स्वकारणैराकाशादिभूतैः सह मिथ्यात्वं सूचयति – अविद्याकृतैरिति । स्वतश्चैतन्यस्वरूपाणां प्राणिनामन्तर्बहिर्भावेनावारकतया पञ्चकोशसद्भावे दृष्टान्तमाह – यथेति । ननु अन्योऽन्तर आत्मा अन्योऽन्तर आत्मेति प्रकृत्य आन्तरत्वोक्तेरानन्दमये परिसमापनादानन्दमय एव परमात्मा, तथा च तस्याविद्याकृतत्वोक्तिरयुक्ता ; नेत्याह – तथा स्वाभाविकेनापीति । स्वाभाविकत्वमकल्पितत्वम् । तत्र हेतुं सूचयति – आकाशादीति । सर्वकल्पनाधिष्ठानभूतेनेत्यर्थः । तस्य विनाशित्वपरिच्छिन्नत्वपरिणामित्वानि वारयति – नित्येनेत्यादिना विशेषणत्रयेण । तस्य प्रकरणित्वं सूचयति – सत्येति । आनन्त्यविवरणरूपाणि नित्येन सर्वगतेन सर्वात्मनेत्येतानि त्रीणि विशेषणानि । आत्मवन्तः मुख्यस्वरूपवन्तः । सर्वे प्राणिन इत्यत्र हेतुमाह – स हीति । 'अयमात्मा ब्रह्म’ इत्यादिश्रुतिभिर्यथोक्तात्मैव परपमार्थत आत्मा प्रतीयते यत इत्यर्थः । अर्थादिति । ब्रह्मण्यानन्दमयादान्तरत्वोक्त्यभावेऽपि तं प्रति ब्रह्मणः प्रतिष्ठात्वोक्तिसामर्थ्यादानन्दमयादप्यान्तरत्वं प्रतीयते ; तत एतदपि पुच्छवाक्यनिर्दिष्टस्य ब्रह्मणो मुख्यात्मत्वमप्यत्र कथितप्रायमेव भवति, तस्मान्नानन्दमयस्य मुख्यात्मत्वमिति भावः । तत्कस्मादित्याहेति । तत् प्राणस्य सर्वप्राणिचेष्टाहेतुत्वं कस्मादित्याकाङ्क्षायामाहेत्यर्थः । प्राणस्य सर्वभूतजीवनहेतुत्वे कौषीतकिश्रुतिसंवादमाह – यावद्ध्यस्मिन्निति । 'तस्मात्सर्वायुषमुच्यते’ इति वाक्येन प्राणस्य सर्वायुष्ट्वे लोकप्रसिद्धिरुच्यत इत्यभिरप्रेत्य तां विवृणोति – प्राणापगम इति । 'सर्वमेव त आयुर्यन्ति’ ‘ये प्राणं ब्रह्मोपासते’ इति वाक्यद्वयमर्थक्रमेणावतार्य व्याचष्टे – अत इत्यादिना । प्राणमयस्यान्नमयं प्रत्यात्मत्वात्सर्वभूतायुष्ट्वाच्चेत्यतःशब्दार्थः । अस्मादित्यस्य चाक्षुषप्रत्यक्षसिद्धादित्यर्थः । असाधारणादिति । परिच्छिन्नादित्यर्थः । अपक्रम्येति । अपक्रमणमात्मत्वबुद्धिपरित्यागः । तत्र हेतुत्वेन चाक्षुषत्वबाह्यत्वपरिच्छिन्नत्वविशेषणान्युपात्तानीति मन्तव्यम् । सर्वभूतात्मत्वं सूत्रात्मरूपेण बोध्यम् , तेन रूपेण प्राणमयकोशस्येहोपास्यत्वात् । आयुष्ट्वमुपास्यो गुण इति मत्वाह – आयुरिति । तस्य तद्गुणकत्वे हेतुः – जीवनहेतुत्वादिति । तद्धेतुत्वस्य श्रुत्यनुभवसिद्धत्वादित्यर्थः । प्रागिति । वर्तमानदेहारम्भसमये यावदायुः सप्तत्यशीत्यादिलक्षणं विधिना कल्पितं तावदायुः प्राप्तायुःशब्दार्थः । सर्वमायुरितीति । 'सर्वमेव च आयुर्यन्ति’ इत्यत्र सर्वशब्दसामर्थ्याच्छतं वर्षाणि यन्तीत्येव युक्तमित्यर्थः । परार्धसङ्ख्यां विहाय शतमित्यत्र हेतुमाह – श्रुतिप्रसिद्धेरिति । 'शतायुः पुरुषः’ इति श्रुतिप्रसिद्धेरित्यर्थः । आयुष्ट्वगुणकोपासनया आयुरेव प्राप्तव्यमित्यत्र किं विनिगमकमिति पृच्छति – किं कारणमिति । श्रुतिरुत्तरमित्याशयेनाह – प्राणो हीति । नन्वत्र किं नियामकं सूचितं भवतीत्यत आह – यो यद्गुणकमिति । 'तं यथा यथोपासते तदेव भवति’ इति न्यायेनायुष्ट्वगुणकोपासनादायुःप्राप्तिलक्षणं फलं युक्तमित्येवं विद्याफलप्राप्तौ हेतुसूचनार्थमिदम् ‘प्राणो हि’ इत्यादिपुनर्वचनमित्यर्थः । 'तस्यैष एव’ इति वाक्यमानन्दमयो ब्रह्मेति वदतां वृत्तिकाराणां मतेन व्याचष्टे – तस्य पूर्वस्येति । अत एवानन्दमयाधिकरणे वृत्तिकारमते स्थित्वा आनन्दमयपर्यायस्थमिदं वाक्यं तस्य पूर्वस्येति पदयोरित्यर्थमेव व्यवहितान्वयप्रदर्शनेन व्याख्यातमाचार्यैः । विवक्षितार्थस्तु - पूर्वस्यान्नमयस्य कल्पितस्य यः परमार्थरूप आत्मा आकाशादिद्वारा तत्कारणत्वेन प्रकृतः, एष एव तस्य ‘अन्योन्तर आत्मा प्राणमयः’ इति ब्राह्मणोक्तस्य प्राणमयस्य मुख्य आत्मा ; अस्य च शारीरत्वं शरीरे साक्षितयोपलभ्यमानत्वादुपपद्यते ; एवं च सति प्रकृतप्रधानपरामर्शकैतच्छब्द आत्मशब्दश्च मुख्यार्थौ भवतः ; वस्तुतः स्वरूपान्तरव्यवच्छेदकमवधारणं च सङ्गच्छते ; शरीरस्वामित्वरूपं मुख्यशारीरत्वं प्राणमयेऽपि न सम्भवतीति मन्तव्यम् । अत एव वार्त्तिके यथाभाष्यमिदं वाक्यं योजयित्वा पश्चादियं योजना मुख्यत्वेन प्रदर्शिता - ‘सत्यादिलक्षणो वात्मा गौणो ह्यात्मा ततोऽपरः । सर्वान्तरत्वान्न्याय्येयं यः पूर्वस्येति हि श्रुतिः’ इति । एवमुत्तरपर्यायेष्वपि द्रष्टव्यमिति सङ्क्षेपः । अन्यदिति । मनोमयपदव्यतिरिक्तमित्यर्थः । मयटो विकारार्थत्वे दृष्टान्तः – यथेति । यजुःशब्दस्य प्रसिद्धमर्थमाह – यजुरितीत्यादिना । मन्त्रपदात्पूर्वं य इति शेषः । प्राधान्यादिति । शरीराङ्गाणां मध्ये शिरस इव वेदानां मध्ये यजुषः प्राधान्यादित्यर्थः । संनिपत्येति । यागादौ स्वरूपोपकार्यङ्गत्वादित्यर्थः । तदेव विवृणोति – यजुषा हीति । शास्त्रात्मिका ऋक् स्तोत्रात्मकं साम च स्तुतिद्वारा आरादुपकारकत्वादप्रधानमिति भावः । ननु देवतोद्देशेन द्रव्यत्यागात्मकस्य यागस्य स्वरूपोत्पत्तिर्मन्त्रं विनापि सम्भवत्येव, परं त्वपूर्वीयस्य तस्य तेन विनोत्पत्तिर्न सम्भवति ; तथा च विचक्षितविवेकेन यजुषोऽपि ऋक्सामयोरिवादृष्टार्थत्वपर्यवसानाद्यजुषः प्राधान्यमसिद्धम् , प्रत्युत ‘वेदानां सामवेदोऽस्मि’ इति भगवतोक्तत्वात्तस्यैव प्राधान्यं युक्तमित्यस्वरसात्पूर्वोक्तां वस्तुगतिं स्मारयति – वाचनिकी वेति । ननु यजुःशब्दस्य शब्दराशिविशेषे प्रसिद्धत्वात्तस्य च शब्दराशिविशेषस्य मनोमयकोशं प्रत्यवयवत्वाभावात्कथं प्रसिद्धयजुषि शिरस्त्वकल्पनम् , पूर्वोत्तरपर्यायेषु प्रायेण कोशावयवेष्वेव शिरस्त्वादिकल्पनादर्शनादित्याशङ्क्य, तर्हि यजुरादौ मनोमयं प्रति शिरआदिदृष्टिविधिबलादेव वेदानां मनोवृत्तिविशेषरूपत्वेन तदवयवत्वं कल्प्यते प्रमाणभूतायाः श्रुतेरनतिशङ्कनीयत्वादित्याशयेनाह – मनसो हीत्यादिना । हि-शब्दः प्रसिद्धिद्योतनार्थः अवधारणार्थो वा । तथा च मनसोऽवयवत्वेन प्रसिद्धा वृत्तिरेव यजुरित्युच्यत इति सम्बन्धः । तामेव वृत्तिं विशिनष्टि – स्थानेत्यादिना । ताल्वादिस्थानेषु वाय्वभिघातानुकूलेन प्रयत्नेन जनितो यो नादो ध्वनिः तद्व्यङ्ग्या ये उदात्तादिस्वरयुक्ता वर्णाः ते च पदानि च वाक्यानि च विषया यस्यां वृत्तौ सा तथोक्ता । तत्सङ्कल्पनात्मिकेति । तेषु वर्णपदवाक्येषु पूर्वोक्तानियताक्षरपादावसानत्वसङ्कल्परूपेत्यर्थः । तद्भावितेति । यजुर्वेदोऽयमित्याकारोपेतेत्यर्थः । श्रोत्राख्यं करणं द्वारं यस्याः सा तथोक्ता । प्रथमं शब्दराशिविशेषे गृहीतोऽपि सङ्केतः पश्चात्तद्विषयकवृत्तिविशेषविषयतया कल्प्यते, यथा प्रथमं चक्षुरादिशब्दानां गोलकेषु गृहीतोऽपि सङ्केतस्तदतिरिक्तचक्षुरादीन्द्रियविषयतया पश्चात्कल्प्यते तद्वदित्याशयेनाह – यजुःसङ्केतविशिष्टेति । यजुष इव ऋगादेरपि तुल्यन्यायतया मनोवृत्तिविशेषरूपत्वमाह – एवमिति । ऋक्सामग्रहणमथर्ववेदस्याप्युपलक्षणम् । श्रुत्यनुग्राहिकां युक्तिमाह – एवं चेति । एवंशब्दार्थमेवाह – मनोवृत्तित्वे मन्त्राणामिति । अन्यथेति । तेषां मानसक्रियारूपत्वानुपगम इत्यर्थः । मन्त्रो नावर्तयितुं शक्य इत्यत्र हेतुः – अविषयत्वादिति । आवृत्तिविषयत्वादर्शनादित्यर्थः । मास्तु मन्त्रावृत्तिरिति वदन्तं प्रत्याह – मन्त्रावृत्तिश्चोद्यत इति । मन्त्राणां घटादिवद्बाह्यद्रव्यत्वे तेषामावृत्तिर्नोपपद्यते लोके क्रियाया एवावर्त्यत्वदर्शनात् अत आवृत्तिविध्यनुपपत्त्या मन्त्राणां क्रियात्वं वाच्यमित्युक्तम् । तत्रान्यथाप्युपपत्तिं शङ्कते – अक्षरविषयेति । अन्यथोपपत्तिं दूषयति – न, मुख्यार्थेति । ननु कोऽसौ मुख्यार्थः कथं वा तदसम्भवप्रसङ्ग इत्याकाङ्क्षायामाह – त्रिः प्रथमामित्यादिना । तत्रेति । आवृत्तावित्यर्थः । अविषयत्व इति च्छेदः । नन्वेवं ‘स्वाध्यायोऽध्येतव्यः’ इत्यादौ वाचनिके जपे च मन्त्राणामुच्चारणं तदावृत्तिश्चावगम्यते ; तेषां मनोवृत्तित्वपक्षे कथमुच्चारणकर्मत्वं सम्भवति तथा चाध्ययनविध्यादेर्मुख्यार्थपरित्यागप्रसङ्ग इति चेत् , न ; मानसजपविध्यनुसारेण मनोवृत्तिरूपवेदानामध्ययनादेर्बाह्यशब्दद्वारकतया गौणत्वोपपत्तेः । न चात्र विनिगमनाविरह इति वाच्यम् ; मानसजपस्य फलाधिक्यश्रवणेन तस्यैव मुख्यताया न्याय्यत्वात् । अनेनैवाशयेन मानसो जपो नोपपद्यत इति प्रागुक्तम् । वार्त्तिकेऽप्येतद्दर्शितम् - ‘भूयोल्पीयःफलत्वं च बाह्यमानसयोर्जपे । अतो मानसमुख्यत्वमितरस्यास्तु गौणता’ इति । नन्वस्मिन्पक्षे कथं वेदानां नित्यत्वनिर्वाहः वृत्तेः क्षणिकत्वादित्याशङ्कां परिहरन्नुपसंहरति – तस्मादिति । वृत्तिविशेषानुगतं चैतन्यमेव वेदा इत्यर्थः । यया वृत्त्या बह्यो वेदो विषयीक्रियते तद्वृत्त्यनुगतचैतन्येनापि स विषयीक्रियत इति प्रसिद्धवेदविषयकं चैतन्यमेव मुख्यवेदश्चैतन्यस्य तदुपाधिभूतवृत्तेश्च कल्पिततादात्म्यसत्त्वाद्वेदानां सृष्टिप्रलयादिश्रवणं पूर्वोक्तावृत्त्यादिकं सर्वं चैतन्यस्यैव भवतीति न पूर्वग्रन्थविरोधोऽपीति भावः । येनाभिप्रायेण वेदानां चैतन्यरूपत्वमुपसंहारावसरे दर्शितं तमेवाभिप्रायं प्रपञ्चयति – एवं चेति । चैतन्यरूपत्वे सतीत्यर्थः । वेदानां चैतन्यरूपत्वाविशेषेऽप्युपाधिभूतवृत्तिभेदाद्यजुरादिभेद इत्यादिकमूह्यम् । अन्यथेति । अन्यथा मनोवृत्तिमात्रत्वे शब्दमात्रत्वे वा वेदानां विषयत्वशब्दितं जडत्वं प्रसज्येत, सति च विषयत्वे रूपादिवदनित्यत्वं भवेदित्यर्थः । ‘अतोऽन्यदार्तम्’ इत्यादिश्रुत्या चैतन्यातिरिक्तस्य सर्वस्य विनाशित्वावगमादिति युक्तिसूचनार्थश्चकारः । तत्रेष्टापत्तिं वारयति – नैतद्युक्तमिति । एतद्वेदानित्यत्वं न युक्तम् ‘वाचा विरूप नित्यया’ ‘अनादिनिधना नित्या’ इत्यादिश्रुतिस्मृतिविरोधप्रसङ्गादित्यर्थः । वेदानां चैतन्यरूपत्वे श्रुत्यन्तरमनुकूलयति – सर्वे वेदा इति । यत्र चिदेकरसे आत्मनि एकम् एकतां गच्छन्ति स मानसीनः मनसि साक्षितया वर्तमानः सर्वेषां जनानाम् आत्मा वास्तवस्वरूपमित्यर्थः । ऋगादीनां कार्यत्वेनानित्यत्वेऽपि कार्यकारणयोस्तादात्म्यादेकं भवन्तीति वचनं कथञ्चिदुपपद्यते ; तेषां नित्यत्वेन स्वरूपैक्ये तु जीवब्रह्मणोरिवैकत्ववचनं मुख्यार्थमेव भवतीत्याशयेनाह – समञ्जसेति । सर्वकारणत्वात्परमे विभुत्वादिभिर्व्योमसदृशे अक्षरे नाशरहिते यस्मिन्ब्रह्मणि देवा ब्रह्मादयः सर्वे अधिनिषेदुः उपरिभावेन स्थिताः, सर्वसंसारास्पृष्टे ब्रह्मणि स्वरूपत्वेन स्थिता इति यावत् ; तथैव ऋचो वेदास्तस्मिन्स्थिता इति मन्त्रार्थः । अतिदेष्टव्यविशेषान्कर्तव्यविशेषान् इदमेवं कर्तव्यमिति अतिदिशति उपदिशतीत्यर्थः । ननु ब्राह्मणं चेति ब्राह्मणस्यापि प्रतिष्ठात्वेन ग्रहणं न युक्तम् आदेशपदेन ब्राह्मणस्यात्मत्वेन समर्पितत्वादित्याशङ्क्य अत्र ब्राह्मणपदं तद्विशेषपरम् अतो नोक्तदोष इत्याशयेन ब्राह्मणमपि विशिनष्टि – शान्तीत्यादिना । प्रधाना इति पुंलिङ्गनिर्देशो मन्त्रपदाभिप्रायः, तदिति निर्देशः पुच्छपदाभिप्राय इति विभागः । मनोमयात्मप्रकाशक इति । मनोमयावयवयजुरादिप्रकाशक इत्यर्थः ॥ तथा च यतश्चिदेकरसादानन्दान्मनसा सह वाचस्तमप्राप्य निवर्तन्ते तं ब्रह्मणः स्वरूपभूतमानन्दं मनोमयस्य शिरःपक्षादिरूपं विद्वानुपासीनः कदापि न बिभेतीति योजना । यद्वा मनोमयात्मप्रकाशक इति भाष्यं यथाश्रुतमेव । न चैवमब्रह्मस्वरूपस्य मनोमयात्मनः श्लोकप्रतिपाद्यब्रह्मात्मत्वासम्भवादसङ्गतिरिति वाच्यम् ; अब्रह्मण्यपि तस्मिन्ब्रह्मत्वमध्यारोप्य श्लोकप्रवृत्त्युपपत्तेः । न चारोपे निमित्तप्रयोजनयोरभाव इति वाच्यम् ; ब्रह्मविज्ञानसाधनत्वेन निमित्तेन तस्मिन्ब्रह्मत्वारोपाभ्युपगमादारोपस्य चात्रोपास्यस्य मनोमयकोशस्य स्तुतिरूपप्रयोजनसम्भवाच्च ; तथा च वक्ष्यति - ‘मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात्तत्र ब्रह्मत्वमध्यारोप्येति’ ; तथा च अवाङ्मनसगोचरब्रह्मत्वेन स्तुतस्य मनोमयस्य स्वरूपं यजुराद्यवयवोपेतं विद्वानुपासीनः सौत्रं पदं प्राप्य आनन्दमनुभवन्न बिभेति कादचनेत्यध्याहारेण योजना । अथवा मन्त्रे ब्रह्मण इति मनस एव निर्देशः । मनोमयकोशस्यात्रापरब्रह्मदृष्टिभाक्त्वेन विवक्षितत्वात् वागाद्यगोचरत्वं च तस्यैव विशेषणम् , मनसः साक्षिप्रत्यक्षसिद्धस्याज्ञातत्वाभावेन शब्दगम्यत्वाभावात् स्वस्य स्वविषयत्वाभावेन मनोगोचरत्वाभावाच्च । तथा च अवाङ्मनसगोचरस्य मनोमयाख्यस्य ब्रह्मणः स्वरूपं विद्वान् क्रमेणानन्दं प्राप्य न बिभेतीति योजना पूर्ववदेव द्रष्टव्या । वेदात्मनि मनोमय उक्ते सति वेदार्थस्य बुद्धिस्थत्वाद्विज्ञानमय इत्यत्र वेदार्थज्ञानमेव प्रकृत्यर्थ इत्याशयेनाह – वेदात्मोक्त इति । ननु मनोमयावयवत्वेन निर्दिष्टं यजुरादि तदवयवभूतवृत्तिविशेषानुगतं चैतन्यमेव नान्यदित्युक्तम् , तथा च वेदार्थविषयकं निश्चयरूपं विज्ञानमपि चैतन्यमेवेति विज्ञानमयोऽपि वेदात्मा स्यादिति मन्दशङ्कां वारयति – तच्चेति । यद्वा वेदार्थगोचरविज्ञानस्यात्मधर्मत्वाद्वक्ष्यमाणरीत्या तन्मयत्वमन्तःकरणस्य कथमित्याशङ्क्य हेत्वसिद्धिमाह – तच्चेति । धर्म इति । अत्र प्रकृत्यर्थत्वेन विवक्षितं विज्ञानमन्तःकरणधर्म एव न चैतन्यमित्यर्थः । यद्वा अन्तःकरणस्यैव धर्मो नात्मनः तस्य कूटस्थनित्यत्वादित्यर्थः । तन्मय इति । ननु विज्ञानमयत्वं विज्ञानविकारत्वम् , तच्च कथमन्तःकरणस्य तद्धर्मिणश्चतुर्थकोशत्वेनात्र विवक्षितस्य सम्भवतीत्याशङ्क्याह – निश्चयेति । यद्यपि मनोमयकोशोऽप्यन्तःकरणमेव तथापि संशयवृत्त्यवस्थमन्तःकरणं मनोमयः निश्चयवृत्त्यवस्थमन्तःकरणमेव विज्ञानमय इत्यवस्थाभेदेन भेद इति भावः । यद्वा केवलमन्तःकरणं मनोमयः तप्तायःपिण्डवच्चैतन्यतादात्म्यापन्नं तदेव विज्ञानमय इति भेदः । प्रमाणस्वरूपैरिति । प्रमारूपैर्विज्ञानैर्विशेषणभूतैस्तद्विशिष्टतया निर्वर्तितो निष्पादितोऽन्तःकरणात्मा धर्मी विज्ञानमयशब्दवाच्यतामापन्नः सन्मनोमयस्याभ्यन्तर आत्मा भवतीत्यर्थः । विशिष्टरूपस्य विशेषणायत्तत्वानुभवाद्विशिष्टस्य विशेषणविकारत्वं सम्भवतीति भावः । निश्चयरूपं वेदार्थविज्ञानमेव प्रकृत्यर्थ इत्यत्र हेत्वन्तरमाह – प्रमाणविज्ञानेति । तायते, तनोतेरिदं रूपम् ; विस्तार्यत इत्यर्थः । ततः किम् अत आह – यज्ञादीति । 'विज्ञानं यज्ञं तनुते’ इति मन्त्रेण विज्ञानस्य यज्ञादिहेतुताया वक्ष्यमाणत्वादत्र ब्राह्मणेऽपि विज्ञानं यज्ञानुष्ठानहेतुवेदार्थज्ञानमेवेत्यर्थः । एतेन अन्नमयप्राणमयमनोमयशब्देषु प्रकृत्यर्थतया आधिदैविकानामन्नप्राणमनसां गृहीतत्वात् भृगुवल्ल्यां कोशवाक्यगतान्नप्राणमनोविज्ञानपदोपात्तानामाधिदैविकान्नादीनामिह प्रकृतिभिः प्रत्यभिज्ञायमानत्वाच्च विज्ञानमय इत्यत्र प्रकृत्यर्थतया निश्चयावस्थं समष्ट्यन्तःकरणमेव ग्राह्यम् , एवं सति मयडर्थभूतविकारत्वमप्यस्मदाद्यन्तःकरणस्य मुख्यमेव सम्भवतीति शङ्का निरस्ता ; अत्रैकार्थविषयतया प्रवृत्तयोर्मन्त्रब्राह्मणयोः श्रुतस्य विज्ञानपदस्यावश्यमेकार्थताया वक्तव्यत्वान्मन्त्रे च विज्ञानपदस्य वेदार्थज्ञानपरत्वस्य निश्चितत्वाद् मन्त्रेणैव प्रकृत्यर्थस्यान्यथा व्याख्याने क्रियमाणे सति पूर्वोक्ताधिदैविकप्रायपाठादेरकिञ्चित्करत्वादिति भावः । यद्वा विज्ञानपदस्याधिदैविकविज्ञानपरत्वमुक्तप्रमाणसिद्धं कृत्वा वेदार्थविज्ञानपरतयापि व्याख्यानं सम्भवतीत्याशयेनास्य भाष्यस्य प्रवृत्तिरुपपादनीया, मन्त्रब्राह्मणयोरेककोशोपास्तिविषयत्वमात्रेण सङ्गत्युपपत्तेः ; अत एव कोशवाक्यविवरणरूपयोर्भाष्यवार्त्तिकयोस्तात्पर्यनिरूपणावसरे श्रीमदानन्दगिर्याचार्यैरुक्तम् - ‘अत्र प्राणो मनो विज्ञानं चेति प्रकृत्यर्थभूतं कोशत्रयं सूत्रात्मरूपमन्नं विराट् कोश आनन्दः कारणकोशः’ इति । एतेन तुल्यन्यायतया आनन्दमय इत्यत्रापि प्रकृत्यर्थतया प्रियमोदादिग्रहणं व्याख्यानान्तराभिप्रायमेवेति सूचितं भवति । वस्तुतस्तु - भृगुवल्ल्यां पञ्चमपर्याये सर्वभूतकारणत्वेन वक्ष्यमाणमानन्दरूपं ब्रह्मैव कारणत्वविशिष्टवेषेणानन्दमय इत्यत्र प्रकृत्यर्थः ; ‘आनन्द आत्मा’ इत्यत्र च कारणत्वप्रयोजकमायोपहितत्ववेषेण तदेवानन्दपदार्थ इति सर्वमनवद्यम् । तस्येति । वेदार्थनिश्चयवतो या पूर्वं श्रद्धोत्पद्यते सा तस्य प्रकृतस्य विज्ञानमयस्य शिर इव शिर इति योजना । श्रद्धां विना वेदार्थानुष्ठानं विफलमिति शास्त्रीयप्रसिद्धिसूचनार्थो विज्ञावतो हीति हि-शब्दः । यथाव्याख्याते इति । 'ऋतं वदिष्यामि, सत्यं वदिष्यामि’ इत्यत्र यथाव्याख्याते एव ऋतसत्ये विज्ञानमयस्य दक्षिणोत्तरपक्षावित्यर्थः । समाधानमिति । समाधानं समाधिः, स च तस्य आत्मा मध्यकायः । तत्र दृष्टान्तः – आत्मेवेति । प्रसिद्धदेहमध्यकाय इवेत्यर्थः । समाधानस्य प्रसिद्धदेहमध्यकायस्य च किं साम्यम् अत आह – आत्मवतो हीति । यथा आत्मवत आत्मशब्दितमध्यकायवतः प्रसिद्धदेहस्याङ्गानि शिरआदीनि स्वकार्यक्षमाणि भवन्ति हि प्रसिद्धमेतत् , तथा मुमुक्षोर्युक्तस्य श्रद्धा ऋतसत्यानि यथार्थशब्दितब्रह्मप्रतिपत्तिरूपस्वकार्यक्षमाणि भवन्तीत्यर्थः । एतदुक्तं भवति - देहावयवानां मध्ये मध्यकायस्य प्राधान्यं ब्रह्मप्रतिपत्तिसाधनश्रद्धादीनां मध्ये समाधेः प्राधान्यमित्यनेन साम्येन समाधौ मध्यकायत्वदृष्टिरत्र विवक्षितेति । एतच्च यत्र किञ्चिन्नियामकं सम्भाव्यते तत्र न त्वक्तव्यमित्याशयेनोक्तम् । वस्तुगतिस्तु प्रागेवासकृद्दर्शिता वाचनिकी वा शिरआदिकल्पना सर्वत्रेति । महत्तत्त्वमिति । समष्ट्यन्तःकरणाभिमानी हिरण्यगर्भ इत्यर्थः । हिरण्यगर्भस्य विराडपेक्षयापि प्रथममुत्पन्नत्वात्प्रथमजत्वम् । तत्र मानमाह – महद्यक्षमिति । यक्षं पूज्यम् । ननु कारणत्वेऽपि कथं प्रतिष्ठात्वम् तत्राह – कारणं हीति । हि-शब्दसूचितां प्रसिद्धिमुदाहरणेन दर्शयति – यथेति । नन्वस्मदादिबुद्धिरूपाणां विज्ञानमयकोशानां हिरण्यगर्भः कारणं चेदस्तु तस्य प्रतिष्ठात्वम् , तदेवासिद्धमित्याशङ्क्याह – सर्वबुद्धीति । 'आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इत्यादिशास्त्रेण हिरण्यगर्भस्य सर्वभूतकारणत्वमवगम्यते ; न च भूतानां स्वतः कार्यत्वमस्ति ; अतो भूतशब्दितजीवोपाधिभूतानां लिङ्गशरीराणां ब्रह्मा कारणं सिद्धमिति भावः । फलितमाह – तेनेति । कारणत्वेनेत्यर्थः । पूर्ववदित्युक्तं विवृणोति – यथेति । विज्ञानमयस्यापीति । प्रकाशकः श्लोको भवतीति शेषः ॥ ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह – विज्ञानवान्हीति । 'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञादिकर्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः । कर्माणि चेति । लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकिकवैदिककर्मकर्तृत्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्माण्युपासनानि च कुर्वन्नपरब्रह्मवज्जगतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षादेवेश्वरवत्कारणमिति । तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्वकर्मकर्तृत्वं विज्ञानमयकोशे जगत्कारणत्वसाम्यसम्पादनद्वारा अपरब्रह्मारोपे निमित्तमित्याशयेनाह – यस्मादिति । विज्ञानपदं कोशपरम् । इतश्च विज्ञानमयोऽपरब्रह्माभेदेनोपास्य इत्याह – किं च विज्ञानमिति । विज्ञानमयमित्यर्थः । ज्येष्ठपदं कारणपरं वेत्याह – सर्वप्रवृत्तीनामिति । सर्वप्राणिचेष्टानां सूत्ररूपब्रह्मकारणकत्वाद्वा ब्रह्म ज्येष्ठमित्यर्थः । ध्यायन्तीति । पूर्वजन्मनि यजमानावस्थायामिति शेषः । अभिमानमिति । अहम्बुद्धिमित्यर्थः । पूर्वं ब्रह्मोपासनं देवैरनुष्ठितमित्यत्र देवत्वावस्थायां ज्ञानाद्यैश्वर्यदर्शनं लिङ्गमित्याशयेनाह – तस्मादिति । इदानीमुपासनविधिं दर्शयति – तच्च विज्ञानमिति । विज्ञानमयमित्यर्थः । अत्र चेच्छब्दः प्रकृतोपासनदौर्लभ्यसूचनार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमादसम्भवस्यावश्यकत्वात् । अप्रमाददौर्लभ्यसूचनार्थो द्वितीयश्चेच्छब्दः । प्रमादप्रसक्तिमाह – बाह्येष्विति । विज्ञानमयापेक्षया बाह्यानां मनोमयप्राणमयान्नमयानामपि पूर्वमात्मत्वेन भावितत्वादित्यर्थः । प्रमदनमिति । विज्ञानमये ब्रह्मण्यात्मभावनायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुनरात्मभावनमित्यर्थः । फलितमाह – अन्नमयादिष्विति । सूक्ष्मशारीराभिन्ने ब्रह्मणि विषये क्रियमाणादुपासनात्पाप्महानं भवतीत्यत्र युक्तिमाह – शरीराभिमाननिमित्ता हीति । मनुष्यत्वब्राह्मणत्वगृहस्थत्वादिधर्मवति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्मणोऽहम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोकवेदप्रसिद्धिद्योतको हि-शब्दः । ततः किम् तत्राह – तेषां चेति । चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञानमयब्रह्मण्येवाहमभिमानात्पाप्मनिमित्तस्य शरीरात्माभिमानस्यापाये सतीत्यर्थः । निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह – छत्रापाय इति । एवं पाप्महानफलवचनस्योपपत्तिमुक्त्वा तस्यार्थमाह – तस्मादिति । शरीरात्माभिमानस्य निमित्तस्य निवृत्तत्वादित्यर्थः । शरीर एवेति । जीवद्दशायामेवेति यावत् । विज्ञानमयेनैवात्मनेति । इहैव साक्षात्कारेण विज्ञानमयब्रह्मस्वरूपापन्नो विद्वान्सर्वान्पाप्मनो हित्वा देहपातानन्तरं विज्ञानमयब्रह्मात्मभावेनैव स्थित्वा तल्लोकस्थान्सर्वान्भोग्याननुभवतीत्यर्थः ॥ अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह – आनन्दमय इतीति । आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीवस्यानन्दमयत्वाभ्युपगमेनानादित्वात् , तथापि मयडर्थवर्णनावसरे तस्य प्रियमोदादिविशिष्टतया प्रकृत्यर्थभूतानन्दविकारत्वस्य वक्ष्यमाणत्वात्कार्यात्मेत्युक्तम् । अधिकारं विवृणोति – अन्नादिमया हीति । तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः । नन्वानन्दमय इत्यत्र मयटः प्राचुर्यार्थकत्वाभ्युपगमान्न तस्य मयट्च्छ्रुत्या कार्यात्मत्वमित्याशङ्क्य द्वितीयहेतुमपि विवृणोति – मयट् चेति । प्राचुर्यार्थत्वपक्षे प्राचुर्यस्य प्रतियोग्यल्पतापेक्षत्वादानन्दप्रचुरस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्माद्विकारार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः । किं च विकारे प्राचुर्ये च मयटो विधानाविशेषात्संशये विकारार्थकमयट्प्रवाहपतितत्वाद्विकारार्थकत्वमेवात्र निश्चीयत इत्याशयेनाह – यथेति । एवमनात्मप्रायपाठाद्विकारार्थकमयट्च्छ्रुतिबलाच्चानन्दमयः कार्यात्मेत्युपसंहरति – तस्मादिति । सङ्क्रमणाच्चेति । आनन्दमयस्य सङ्क्रमणं प्रति कर्मत्वश्रवणाच्च कार्यात्मत्वमित्यर्थः । हेत्वसिद्धिं परिहरति – आनन्दमयमिति । व्याप्तिमाह – कार्यात्मनां चेति । चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्रमणकर्मत्वं तत्र तत्र कार्यात्मत्वमेवेति व्याप्तिर्दृष्टेत्यर्थः । अनात्मनामिति । मुख्यात्मभिन्नानामन्नमयादीनामिति यावत् । हेतोः पक्षधर्मत्वमाह – सङ्क्रमणकर्मत्वेन चेति । तदेव दृष्टान्तेन साधयति – यथेति । आनन्दमयस्य सङ्क्रमणकर्मत्वलिङ्गेनाब्रह्मत्वमुक्तम् । विपक्षे बाधकं वदन्नप्रयोजकत्वशङ्कां निराकरोति – न चात्मन एवेति । सङ्क्रमितुरेवंविदः परब्रह्मस्वरूपत्वादानन्दमयस्यापि ब्रह्मत्वे स्वस्यैव स्वेनोपसङ्क्रमणिति प्रसज्जेत, तच्च न युक्तमित्यर्थः । अधिकारेति । सङ्क्रमणकर्तुरेवंविदः सकाशादन्यस्यैवान्नमयादेः सङ्क्रमणकर्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनोपसङ्क्रमणाभ्युपगमे कर्तृकर्मणोर्भेदाधिकारविरोध इत्यर्थः । असम्भवं विवृणोति – न हीति । एवंविद्ब्रह्मणोर्भेदमाशङ्क्याह – आत्मभूतं चेति । अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभयथाप्यानन्दमयस्य ब्रह्मत्वे सङ्क्रमणकर्मत्वायोगात्कार्यात्मत्वमेवेति भावः । आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह – शिरआदीति । ननु ब्रह्मण्यप्युपासनार्थं शिरआदिकल्पनमुपपद्यत इत्याशङ्क्यानुपपत्तिमेव साधयति – न हि यथोक्तलक्षण इति । सत्यज्ञानानन्ताख्यस्वरूपलक्षणवतीत्यर्थः । तटस्थलक्षणमप्याह – आकाशादीति । कार्यकोटिप्रविष्ट एवान्नमयादौ शिरआदिकल्पनदर्शनाच्च तद्विलक्षणे ब्रह्मणि न तत्कल्पनमुपपद्यत इत्याशयेनाह – अकार्यपतित इति । इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्मण्यनुपास्ये शिरआदिकल्पनमनुपपन्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्यादिनोपक्रमस्वारस्यं प्रमाणत्वेन सूचितम् । तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति – अदृश्य इत्यादिना । आनन्दमयः कार्यात्मा शिरआदिकल्पनावत्त्वादन्नमयादिवत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः । आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यैवासत्त्वाशङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह – मन्त्रोदाहरणेति । न हि मन्त्रोदाहरणमुपपद्यत इति सम्बन्धः । इतश्च नानन्दमयो ब्रह्मेत्याह – ब्रह्म पुच्छमिति । आनन्दमयस्य ब्रह्मत्वे ब्रह्मणोऽवयवित्वेन गृहीतत्वात्पृथक्तस्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एकत्रावयवावयविभावादिकल्पनस्यानुचित्तत्वादिति भावः । तस्मादिति । उक्तहेतुसमुदायादित्यर्थः । न पर एवेति । न साक्षात्परमात्मैवानन्दमय इत्यर्थः । आनन्दमय इत्यत्र प्रकृत्यर्थमाह – आनन्द इतीति । आनन्द इति प्रकृत्यंशेनोपासनाकर्मफलभूतं प्रियमोदादिलक्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसिद्धत्वादित्यर्थः । मयडर्थमाह – तद्विकार इति । विशिष्टस्य विशेषणविकारत्वात्प्रकृत्यर्थभूतानन्दविशिष्ट आत्मा तद्विकार इत्यर्थः । आनन्दमयस्य विज्ञानमयादान्तरत्वं श्रुत्युक्तमुपपादयति – ज्ञानकर्मणोर्हि फलमिति । तयोः फलशब्दितसुखसाधनत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्रर्थत्वादित्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तुर्विज्ञानमयस्य भोक्तृशब्दितफलसाधनत्वाज्ज्ञानकर्मफलभूतं सुखं साधनभूतविज्ञानमयाद्यपेक्षया अन्तरतममित्यर्थः । तथाप्यानन्दमयस्यान्तरत्वे किमायातम् तत्राह – अन्तरतमश्चेति । चोऽवधारणार्थः । अन्तरतमफलविशिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञानमयान्तेभ्यः कोशेभ्योऽन्तरतमो भवत्येवेत्यर्थः । नन्वानन्दमयो न विद्याकर्मफलविशिष्टः किं तु प्रियादिविशिष्टः ‘तस्य प्रियमेव शिरः’ इत्यादिश्रवणादित्याशङ्क्याह – विद्याकर्मणोः प्रियाद्यर्थत्वाच्चेति । च-शब्दः शङ्कानिवृत्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्याकर्मफलात्प्रियादेर्भेद इति भावः । तयोः प्रियाद्यर्थत्वं प्रसिद्धमित्याह – प्रियादिप्रयुक्ते हीति । प्रियाद्युद्देश्यके इत्यर्थः । आनन्दमयस्यान्तरत्वप्रतिपादनमुपसंहरति – तस्मादिति । आत्मसंनिकर्षादिति । आत्मविशेषणत्वादिति यावत् । अस्येति । आन्तरैः प्रियादिभिर्विशिष्टस्यात्मन इत्यर्थः । इत्थमानन्दमयस्य विज्ञानमयादभ्यन्तरत्वं प्रसाध्य तस्मादन्यत्वं साधयति – प्रियादिवासनेति । जाग्रति प्रियाद्यनुभवजनिताभिर्वासनाभिर्निर्वर्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञानमयाश्रिते स्वप्ने प्रियादिविशिष्टतयोपलभ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञादिकर्मकर्तृत्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्मक्रतृत्वाभावात् स्वप्ने कर्मकरणादिव्यापारस्य वासनामात्रत्वात् । किं च स्वप्नप्रपञ्चस्य विज्ञानमयशब्दितसाभासान्तःकर्णपरिणामत्वाद्विज्ञानमयो विषयत्वेनैवोपक्षीणः ; ततो विषयभूताद्विज्ञानमयादानन्दमयस्य स्वप्नद्रष्टुरन्यत्वमावश्यकमित्याशयेन विज्ञानमयाश्रिते स्वप्न इत्युक्तमिति मन्तव्यम् । स एव चेति । लाभनिमित्त एव हर्षो लब्धस्योपभोगादिना प्रकर्षं प्राप्तः सन्प्रमोदशब्दवाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुखसामान्यमुच्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रियादीनामात्मा मध्यकाय इत्यर्थः । आनन्दस्य सामान्यरूपत्वे युक्तिमाह – तेष्विति । प्रियादिषु सुखविशेषेष्वित्यर्थः । ननु सुखसामान्यं नाम किं जातिरूपम् नेत्याह – आनन्द इतीति । सुखसामान्यवाचिना आनन्द इति पदेन परं सुखरूपतयोत्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्राण्याकाशविशेषाः तेषु स्वरूपेणानुस्यूतमाकाशमाकाशसामान्यमिति प्रसिद्धम् , तथा वृत्तिविशेषोपहितानि ब्रह्मस्वरूपसुखान्येव सुखविशेषाः तेषु स्वरूपेणानुस्यूतं ब्रह्मसुखमेव सुखसामान्यमुच्यते, न जातिरूपमिति भावः । वृत्तिविशेषैरभिव्यक्तं तदुपहितस्वरूपसुखमेव विषयसुखं सदत्र प्रियमोदादिशब्दैरभिधीयत इतीममेवाभिप्रायं प्रकटयति – तद्धीत्यादिना । प्रत्युपस्थाप्यमान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्युपस्थाप्यमानाः प्राप्यमाणाः पुत्रमित्रादिविषयविशेषा उपाधयः कारणानि यस्य वृत्तिविशेषस्येति विग्रहः । क्रोधादिवृत्तिवैलक्षण्यरूपं वृत्तेर्विशषमेवाह – तमसेति । अप्रच्छादनफलमाह – प्रसन्न इति । अभिव्यज्यत इति । निवृत्तावरणं भवतीत्यर्थः । ततः किमित्यत आह – तद्विषयेति । तद्वृत्तिविशेषोपहितं तेनैवाभिव्यक्तं ब्रह्मस्वरूपसुखमेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विषयजनितमन्यत्सुखमस्तीत्यर्थः । ननु विषयसुखस्य ब्रह्मानन्दस्वरूपत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्यत्वादित्याशङ्क्याह – तद्वृत्तीति । स्वरूपसुखव्यञ्जकवृत्तिविशेषोत्पादककर्मणः क्षणिकत्वादित्यर्थः । नन्वेवमपि स्वरूपसुखस्य वृत्तिविशेषेष्वभिव्यक्तस्याप्येकरूपत्वात्कथं विषयसुखेषूत्कर्षतारतम्यमित्याशङ्क्याह – तद्यदेति । तमोघ्नत्वविशेषणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या । विविक्त इति । तमसेति शेषः । अन्तःकरणशुद्धितारतम्यात्तारतम्योपेतास्तद्वृत्तयो भवन्ति, वृत्तितारतम्याच्च तदभिव्यङ्ग्यमात्मसुखमपि तरतमभावेनाभिव्यज्यत इत्यर्थः । आनन्दविशेष इति । वृत्तिविशेषोपहितानन्द इत्यर्थः । विषयसुखानां ब्रह्मसुखावयवत्वे मानमाह – वक्ष्यति चेति । सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः । अयमिति । ब्रह्मादिस्तम्बपर्यन्तो लोक इत्यर्थः । एष ह्येवेति । आनन्दरूपः पर एव निजेनानन्देनानन्दयतीत्यर्थः । वाजसनेयश्रुतिमाह – एतस्यैवेति । आत्मानन्दस्यैवेत्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेशमेवानुभवन्तीत्यर्थः । सुखतारतम्यस्य चित्तशुद्धितारतम्यानुरोधित्वे सत्येव वाक्यशेषोऽप्युपपद्यत इत्याशयेनाह – एवं चेति । कामोपशमः शुद्धिः । वक्ष्यत इति । 'श्रोत्रियस्य चाकामहतस्य’ इत्यत्रेत्यर्थः । 'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे – एवं चेति । उक्तरीत्यैवोत्कृष्यमाणस्य उत्कर्षतारतम्योपेतप्रियादिविशिष्टस्यानन्दमयात्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः । नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किमर्थमुपदिश्यते तत्राह – परमार्थेति । परमार्थस्य ब्रह्मणः सर्वान्तरत्वज्ञानार्थमित्यर्थः । पुच्छशब्दप्रयोगेऽपि ब्रह्मणोऽत्र प्राधान्यसूचनार्थं प्रकरणित्वमाह – यत्प्रकृतमिति । ब्रह्मप्रकरणस्य कोशवाक्यैर्विच्छेदमाशङ्क्य तेषां प्रकरणिब्रह्मसम्बन्धित्वमाह – यस्य चेति । यस्य ब्रह्मणः सर्वान्तरत्वप्रतिपत्त्यर्थमन्तर्बहिर्भावेन पञ्च कोशाः श्रुत्योपन्यस्ता इत्यर्थः । ननु सर्वान्तरत्वमानन्दमयकोशस्यैव न पुच्छब्रह्मणः तस्यान्तरत्वाश्रवणादित्याशङ्क्याह – यच्चेति । अन्नमयादिवदानन्दमयस्यापि कार्यात्मकतायाः प्राक्साधितत्वान्न तस्य सर्वान्तरत्वम् ; पुच्छब्रह्मण्यान्तरत्ववाचिपदाभावेऽपि प्रतिष्ठात्वलिङ्गेनानन्दमयान्तकोशजातं प्रत्यान्तरत्वरूपं सर्वान्तरत्वं सिध्यतीति भावः । 'आत्मन आकाशः’ इत्यादौ ब्रह्मण्येवात्मशब्दप्रयोगात्तदेव कोशानां वास्तवं स्वरूपमित्याह – येन चेति । ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्याधारत्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्षणीयत्वादित्याशङ्क्य प्रतिष्ठापदस्यानन्दमयोपलक्षितसर्वद्वैताधारपरत्वमाह – तदेव चेति । आनन्दमयस्येति । यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अवसानभूतमधिष्ठानभूतमिह विवक्षितमित्यर्थः । द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति – अविद्यापरिकल्पितस्येति । शुक्तिरूप्यादिवन्मिथ्याभूतस्येत्यर्थः । पुच्छवाक्यनिर्दिष्टब्रह्मास्तित्वसाधनपरत्वेन श्लोकमवतारयितुं तदस्तित्वमुपक्षिपति – एकत्वावसानत्वादस्तीत्यादिना । एकत्वमद्वैतमविद्यापरिकल्पितस्य द्वैतस्याद्वैतावसानत्वाद्धेतोर्यत्तस्यावसानभूतमद्वैतं ब्रह्म पुच्छप्रतिष्ठाशब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्यवयवत्वावगमात्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोकानामवयविकोशविषयत्वदर्शनादिति चेत् , न ; पूर्वत्रापि मनोमयपर्यायस्थस्य ‘यतो वाचः’ इति श्लोकस्य मनोमयावयवभूतयजुरादिविषयत्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रियादिविशिष्टानन्दमयाधारमात्रलक्षकस्यावयवपरत्वाभावेन तेन ब्रह्मणोऽवयवत्वप्रतीत्यभावाच्च । न च ब्रह्मणि पुच्छदृष्टिलक्षकस्य पुच्छपदस्य कथमाधारलक्षकत्वमिति वाच्यम् ; अत्र पर्याये पूर्वपर्यायेष्विवोपासनाविधिफलश्रवणयोरभावेनानन्दमयकोशस्यानुपास्यत्वात् प्रियादिषु शिरःपक्षादिकल्पनस्यानन्दमये कार्यात्मत्वप्रतिपत्तिमात्रप्रयोजनकत्वोपपत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिरआदिकल्पनानुपपत्तेश्चेत्यादिना प्रपञ्चितम् । अतोऽत्र पुच्छवाक्यनिर्दिष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्यानन्दमयविषयत्व एवानुपपत्तिरुक्ता वक्ष्यते चेति सङ्क्षेपः ॥ असत्सम एव भवतीति । वन्ध्यापुत्रसम एव भवतीत्यर्थः । तदेव साम्यं प्रपञ्चयति – यथेति । ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च असत्त्वमापन्नस्य ब्रह्मासत्त्ववेदिनो युक्तमेव वन्ध्यापुत्रस्येव भोगाद्यसम्बन्धित्वापादनमिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः । तदस्तित्वे लिङ्गं सूचयति – सर्वविकल्पास्पदमिति । सर्वस्य विकल्पस्य द्वैतस्याधिष्ठानमित्यर्थः । विमतं जगत्सदधिष्ठानं कल्पितत्वाद्रज्जुसर्पादिवदिति लिङ्गेन तदस्तित्वसिद्धिरिति भावः । तत्रैव लिङ्गान्तरं सूचयति – सर्वप्रवृत्तिबीजमिति । सर्वसृष्टिकर्त्रित्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्यत्वाद्घटवदिति रीत्या सर्वजगत्कर्तृत्वेन च तदस्तित्वसिद्धिरिति भावः । सर्वलयाधारत्वेनापि तदस्तित्वं सूचयति – सर्वविशेषेति । सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः । ननु यद्युक्तप्रमाणबलादस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्वभावादित्याक्षिप्य समाधत्ते – का पुनरित्यादिना । तदेव प्रपञ्चयति – व्यवहारविषये हीत्यादिना । विकारमात्रे अस्तित्वभावनोपेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चिनुयादित्यर्थः । अस्मिन्नर्थे हि-शब्दसूचितां प्रसिद्धिमुदाहृत्य दर्शयति – यथा घटादिरिति । एवमिति । तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यवहारातीतत्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः । तस्मादुच्यत इति । यस्माद्ब्रह्मण्यसत्त्वाशङ्का जायते तस्मात्तन्निराकरणार्थमस्तित्वमुच्यत इत्यर्थः । स इति । सर्वप्रत्यग्भूतं ब्रह्मास्तीति श्रुत्युपपत्तिभ्यां यो विजानाति स ब्रह्मवित्त्वेनान्येषां वेदनीयो भवतीत्यर्थः । ननु वस्तुतः सद्रूपे ब्रह्मण्यसत्त्ववेदनमात्राद्वेदितुरसत्त्वं नोपपद्यत इत्यस्वरसादाह – अथ वेति । सन्मार्गस्य नास्तित्वमेव निश्चिनुयादित्यत्र हेतुमाह – ब्रह्मेति । सन्मार्गेण निष्कामनयानुष्ठितेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः । तस्मादिति । ब्रह्मनास्तित्ववेदिनो नास्तिकत्वाद्यापत्तेरित्यर्थः । अस्य मन्त्रस्यानन्दमयविषयत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति – तं प्रतीति । आनन्दमयं प्रति या आशङ्का आनन्दमयनास्तित्वगोचरा वृत्तिकारैर्वक्तव्या सा कास्ति नास्त्येव, प्रियादिविशिष्टस्य तस्य प्रत्यक्षसिद्धत्वादित्यर्थः । तस्य स्वाभिमतं पुच्छवाक्यनिर्दिष्टब्रह्मविषयकत्वं निषप्रत्यूहं ब्रह्मण्यानन्दमयविलक्षणे नास्तित्वशङ्काया उपपादितत्वादित्याशयेनाह – अपोढेति । ननु ब्रह्मणि सर्वव्यवहारापोहोऽसिद्धः विद्वद्व्यवहारविषयत्वादित्याशङ्क्याह – सर्वसमत्वाच्चेति । च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्वजीवसाधारणत्वात्सर्वान्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यवहारविषयत्वाभावात्तत्रासत्त्वशङ्का युक्तेत्यर्थः । यस्मादेवमिति । सर्वसमं ब्रह्मेत्येवंशब्दार्थः । अतस्तस्मादिति । अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् । आचार्योक्तिमिति । ब्रह्मविद्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वात्मकमित्येवमाद्याचार्योपदेशमित्यर्थः । श्रुतावविदुषो ब्रह्मप्राप्तिप्रश्नो दृश्यते, तस्यालम्बनमतःशब्दोपात्तं विवृणोति – सामान्यं हीति । समानमित्यर्थः । विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह – आकाशादीति । प्रकृतस्याकाशादिकारणभूतब्रह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रतिष्ठापदेनोक्तत्वादित्यर्थः । यद्वा आकाशादिक्रमेण सर्वभूतकारणत्वात्कार्यभूतानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्यत्वाभावेऽपि स्थूलसूक्ष्मोपाधिविशिष्टतया कार्यत्वाभ्युपगमादिति भावः । अमुमिति । बुद्ध्यादिसाक्षितया प्रत्यक्षसिद्धस्यापि परमात्मन इन्द्रियागोचरत्वविवक्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् । लोकमिति । लोकनं लोक इति व्युत्पत्त्या चैतन्यैकरसमित्यर्थः । इतः प्रेत्येति । मृत्वेत्यर्थः । नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्वकल्पनमित्याशङ्क्य बहुवचनानुरोधादित्याह – अनुप्रश्ना इतीति । अन्यौ द्वाविति । न्यायसाम्यादिति भावः । ननु विदुषो ब्रह्मप्राप्त्यभावशङ्का निरालम्बनेत्याशङ्क्याह – यद्यविद्वानिति । विष्णुमित्रविषयकप्रश्नन्यायमनुसरति – द्वाविति । बहुवचनस्य गतिमाह – बह्विति । पूर्वत्रास्तित्वनास्तित्वरूपकोटिद्वयश्रवणसामर्थ्यप्राप्तं प्रश्नान्तरमपेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्यभिमतत्वरूपविशेषद्योतनार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्वदविद्वद्विषयप्रश्ननिर्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्यादेरसङ्गतत्वपरिहारायायमेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम् । सामर्थ्यप्राप्तेत्येतदेव विवृणोति – असदित्यादिना । यद्यपि पूर्वत्रासत्त्ववेदने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्मजिज्ञासोरल्पोपत्तिमात्रेणापरितुष्यतः श्रुत्युपदर्शितास्तित्वनास्तित्वरूपकोटिद्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः । अपक्षपातित्वादिति । विद्वदविद्वत्साधारण्यत्वादित्यर्थः ॥ उत्तरग्रन्थेऽप्यव्यवहितस्य ‘सोऽकामयत’ इत्यादेरवान्तरतात्पर्यमाह – तत्रास्तित्वमेवेति । तावच्छब्दः प्राथम्यार्थः । ननु ‘ब्रह्मविदाप्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम् - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्यानरूपस्यास्य ग्रन्थस्य समानार्थताया वक्तव्यत्वात्केनांशेन मन्त्रस्य ‘सोऽकामयत’ इत्यादिब्राह्मणस्य च विवरणविवरणिभावेन समानार्थत्वमिति जिज्ञासायां तद्दर्शयितुमनुवदति – यच्चोक्तमिति । तत्रेति । तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथमित्याकाङ्क्षायामेतद्विस्तरेण वक्तव्यमित्यर्थः । ननु ब्रह्मण्यसत्त्वशङ्कानिवृत्तिपरे ग्रन्थे सत्त्वमेवोच्यते न सत्यत्वमित्याशङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति – उक्तं हीति । हि-शब्दस्तयोः पर्यायत्वप्रसिद्धिद्योतकः ; तथा च सत्त्वसत्यत्वयोरेकत्वान्नोक्तशङ्कावकाश इत्याशयेनाह – तस्मादिति । एवमर्थतेति । सत्त्वसाधनपरतेत्यर्थः । शब्दानुगमादिति परिहारं विवृणोति – अनेनैवेति । सत्त्वलक्षणेनैवार्थेन, न तु विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिलक्षणेनेत्यर्थः । इत्थं तात्पर्यमुपवर्ण्याक्षराणि व्याचिख्यासुरुत्तरग्रन्थव्यावर्त्यं पूर्वपक्षमुद्भावयति । तत्रासदेवेति । पूर्वोक्तसंशये सतीत्यर्थः । विशेषत इति । व्यवहारगोचरत्वेनेत्यर्थः । 'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जगत्कारणत्वमवलम्ब्य शङ्कां निराकरोति – तन्नेति । तन्नेति प्रतिज्ञां विवृणोति – न नास्ति ब्रह्मेति । आकाङ्क्षापूर्वकं हेतुं विवृणोति – कस्मादित्यादिना । कस्मादित्यनन्तरमाकाशादिकारणत्वादिति शेषः । हेतुं साधयति – आकाशादि हीति । कार्यत्वेनाभिमतमाकाशादिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाकाशादिकारणत्वहेतोरसिद्धिरित्यर्थः । आकाशादेर्ब्रह्मकार्यत्वे श्रुत्यन्तरप्रसिद्धिसूचनार्थो हि-शब्दः । इदानीं व्याप्तिमाह – यस्माच्चेति । च-शब्दोऽवधारणार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चिद्यस्माज्जायते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्सदुपादानकमिति व्याप्तिनिष्कर्षः । निगमयति – तस्मादिति । उक्तव्याप्तिबलादित्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्यत्वात्संमतवदिति सृष्टिश्रुत्यभिमतानुमाननिष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्मण्यसत्त्वशङ्केति भावः । नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्वमित्यप्रयोजकत्वशङ्कां निराचष्टे – न चासत इति । ननु लोके कार्यस्यासज्जन्यत्वाग्रहेऽपि सर्गाद्यकार्यमसदुपादानकमेवास्तु ; नेत्याह – असतश्चेदिति । कार्यमित्यनन्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नामरूपकर्मात्मकस्य जगतो निरात्मकत्वात्सत्ताहीनत्वात्सत्त्वेन रूपेण जगन्नोपलभ्येतेत्यर्थः । तर्कस्य विपर्यये पर्यवसानमाह – उपलभ्यते त्विति । 'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः । फलितमाह – तस्मादिति । हेतोरप्रयोजकत्वासम्भवादित्यर्थः । यद्वा कारणत्वादित्यर्थः । विपक्षे बाधकान्तरप्रदर्शनपूर्वकं पुनस्तदस्तित्वमुपसंहरति – असतश्चेत्कार्यमित्यादिना । असत उपादानभूतात्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्यमाणमप्यसदन्वितत्वेनैव गृह्येतासज्जगदिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदुपादानकत्वानुमानस्याप्रयोजकत्वाभावात्कारणं ब्रह्मास्तीत्यर्थः । न्यायत इति । असदन्वयादर्शनादियुक्तित इत्यर्थः । तस्मादिति । श्रुत्यन्तरबलादपीत्यर्थः । मान्त्रवर्णिकसत्यत्वविवरणवन्मान्त्रवर्णिकचेतनत्वविवकरणमप्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति – तद्यदीत्यादिना । तद्ब्रह्म । ननु कामस्याचेतनधर्मतायाः श्रुतिस्मृतिसिद्धत्वात्कथं कामेन ब्रह्मणोऽचेतनत्वव्यावृत्तिर्लभ्यत इत्याशङ्क्य लौकिकव्याप्तिबलेनेत्याशयेनाह – न हीति । यद्वा प्रसङ्गात्साङ्ख्यशङ्कामुद्भाव्य कामश्रुत्या निराकरोति – तद्यदीत्यादिना । तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रूपत्वश्रवणात्कामयितृत्वश्रवणाच्चेति तदर्थः । मन्त्रेऽपि सङ्ग्रहेण ब्रह्मणश्चेतनत्वमुक्तमित्याह – सर्वज्ञमिति । अवोचामेति । मन्त्रगतज्ञानपदविवेचनावसर इत्यर्थः । यद्वा कामयितृत्ववचनादिना ब्रह्मणश्चेतनत्वसिद्धावपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञानासम्भवात्सृष्ट्यनुकूलकामानुपपत्तिरित्याशङ्क्याह – सर्वज्ञमिति । 'पश्यत्यचक्षुः’ इत्यादिश्रुत्या परमेश्वरज्ञानस्य चैतन्यरूपस्य मायावृत्तिरूपस्य वा करणाद्यनपेक्षत्वश्रवणान्नोक्तशङ्कावकाश इति भावः । अत इति । चेतनत्वात्सर्वज्ञत्वाद्वेत्यर्थः । ब्रह्मणः कामयितृत्वे तस्याप्तकामत्वश्रुतिविरोधमाशङ्कते – कामयितृत्वादिति । अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्यासम्प्रदायप्रवर्तनादौ कामयितृत्वदर्शनात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्तकामत्वश्रुत्या सह कामयितृत्वश्रुतेर्विरोध इति परिहरति – न ; स्वातन्त्र्यादिति । ब्रह्मणः कामेषु स्वातन्त्र्यमस्मदादिकामवैलक्षण्योक्तिपूर्वकं प्रपञ्चयति – यथान्यानित्यादिना । ननु ब्रह्मकामा दोषरूपा ब्रह्मप्रवर्तकाश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति – कथं तर्हीति । विशुद्धा इत्युत्तरम् । ब्रह्मकामानां विशुद्धत्वे ब्रह्मैवोपमानमित्याशयेनाह – सत्यज्ञानलक्षणा इति । 'सत्यं ज्ञानम्’ इति मन्त्रोक्तब्रह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः । तेषां विशुद्धत्वे हेतुमाह – स्वात्मभूतत्वादिति । स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्परिणामत्वादिति यावत् । आत्मभूतत्वं च मायायास्तादात्म्यापन्नत्वमुपाधित्वं वा । एतदुक्तं भवति – ब्रह्मोपाधिभूतमायाया विशुद्धत्वात्तत्परिणामरूपाणां कामानां विशुद्धत्वं मायाया ब्रह्मवश्यत्वात्कामानामपि तद्वश्यत्वं चेति । ननु तर्हि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्क्याह – तेषां त्विति । तु-शब्दोऽवधारणार्थः । तद्ब्रह्म प्राणिकर्मापेक्षयैव प्राणिकर्मफलप्रदानां स्वकामानां प्रवर्तकं न प्राणिकर्मानपेक्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रवर्तकस्तथेत्यर्थः । एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वातन्त्र्यमिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वातन्त्र्यप्रसिद्धिदर्शनेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्यादिश्रुतिसिद्धस्वातन्त्र्योपपत्तेरित्याशयेनाह – तस्मादिति । कामानां विशुद्धत्वादित्यर्थः । अत इति । स्वातन्त्र्यादित्यर्थः । साधनान्तरेति । ब्रह्मणः स्वकामेषु स्वकीयसाधनान्तरानपेक्षत्वाच्च नानाप्तकामं ब्रह्मेति प्रतिपत्तव्यमित्यर्थः । साधनान्तरानपेक्षत्वमेव व्यतिरेकोदाहरणेन प्रपञ्चयति – किं चेत्यादिना । अनात्मभूता इति । अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्मव्यतिरिक्तसाधनोद्भूता इत्यर्थः । अस्मिन्पक्षेऽस्यैव विवरणम् – धर्मादीत्यादि । कामानां साधनापेक्षत्वे हि साधनविलम्बात्कामितार्थालाभप्रसक्त्या ब्रह्मणोऽनाप्तकामत्वं स्यात् , साधनान्तरानपेक्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्मव्यतिरिक्तानि कार्यकारणान्येव स्वात्मापेक्षया साधनान्तराणीत्यर्थः । न तथा ब्रह्मण इति । कामानामिति शेषः । किं तर्हीति । यदि ब्रह्मणः कामाः स्वात्मव्यतिरिक्तसाधनापेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः । उत्तरमाह – स्वात्मनोऽनन्या इति । स्वात्ममात्रसाध्या ब्रह्मणः कामा इत्यर्थः । तदेतदिति । तद्विशुद्धत्वेन निरूपितमेतत्स्वात्ममात्रसाध्यत्वेन च निरूपितं कामानां स्वरूपमभिप्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः । प्रकृते ब्रह्मणि स इति पुंलिङ्गनिर्धेशो न संनिहितब्रह्मपदापेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यवहितात्मपदापेक्ष इत्याशयेनाह – स आत्मेति । कामनाप्रकारं प्रश्नपूर्वकं दर्शयति – कथमित्यादिना । एकस्य बहुभवनं विरुद्धमिति शङ्कते – कथमेकस्येति । नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्टमित्याशङ्क्याह – अर्थान्तराननुप्रवेश इति । यद्यप्यर्थान्तरानुप्रवेशाभावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहुभवनस्यानुपपत्तिः अर्थान्तरानुप्रवेशेनैव बहुत्वस्य विवक्षितत्वादिति परिहरति – उच्यत इति । उत्पद्येयेति । पूर्वसिद्धस्य ब्रह्मणः स्वत उत्पत्त्ययोगादाकाशाद्यर्थान्तरानुप्रवेशेनैवोत्पत्तिर्विवक्षिता वाच्या, अतः प्रजायेयेत्येतदर्थान्तरानुप्रवेशेन बहुभवनस्योपपादकमिति भावः । ननु पितुरर्थान्तरभूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्मणोऽर्थान्तरभूतैराकाशादिविकारैर्बहुभवनं विवक्षितम् नेत्याह – न हीति । अर्थान्तरपदं भिन्नसत्ताकवस्तुपरम् , तत्प्रयुक्तस्य बहुभवनस्यामुख्यत्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः । नन्वसङ्गस्वभावस्य ब्रह्मण आकाशादिविकारतादात्म्यमादायापि बहुभवनं न सम्भवतीत्यभिप्रायेण शङ्कते – कथं तर्हीति । वस्तुतस्तदसम्भवेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति – आत्मस्थेति । आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गादावभिव्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूलीभावापत्त्या नामरूपाधिष्ठानभूतस्यात्मनो बहुभवनमित्यर्थः । उक्तं विवृणोति – यदेति । आत्मस्वरूपापरित्यागेनैवेति । कारणभूतात्मतादात्म्येनैव, न ततो भेदेनेत्यर्थः । तमेवापरित्यागं विवृणोति – ब्रह्मणोऽप्रविभक्तेति । ब्रह्मणः सकाशादप्रविभक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तदन्तर्वर्तिविकारावस्था चेत्येताः कार्यगता अवस्थाः सर्वावस्थाशब्देनोच्यन्ते । नान्यथेति । अन्यथा विविधपरिणामिविकारतया बहुत्वापत्तिर्नोपपद्यत इत्यत्र हेतुं सूचयति – निरवयवस्येति । लोके सावयवस्यैव मृदादेः परिणामित्वदर्शनादिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् । एवं परिणामितया बहुत्वादिकं निरस्य नामरूपोपाधिकृतमेव ब्रह्मणस्तदित्यत्र दृष्टान्तमाह – यथेति । वस्त्वन्तरकृतमिति । घटाद्युपाधिकृतमित्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्वदण्डधारादिभावेन बहुभवनमुदाहर्तव्यम् । अतस्तद्द्वारेणैवेति । परिणामितया बहुत्वासम्भवात्स्वाध्यस्तनामरूपद्वारेणैवात्मा बहुत्वमापद्यत इत्यर्थः । नामरूपयोरप्रविभक्तदेशकालत्वं साधयति – न हीति । अन्यदित्यस्य विवरणमनात्मभूतमिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूतवर्तमानभविष्यदादिरूपं वात्मनोऽन्यज्जगद्वस्तु तत्तस्माद्ब्रह्मणः सकाशात्प्रविभक्तदेशकालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जगतोऽधिष्ठानब्रह्मतादात्म्यशून्यतयावस्थानायोगादिति भावः । नामरूपयोर्ब्रह्मणि कल्पितत्वे स्थिते फलितमाह – अत इति । ब्रह्मणैवात्मवती इति । ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः । वैपरीत्यं निषेधति – न ब्रह्मेति । स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जगत्यध्यस्तत्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रकाशात्मकत्वाभावादध्यस्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्रकाशत्वासम्भवाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः । ब्रह्मणैवात्मवती इत्युक्तं सहेतुकं विवृणोति – ते तदिति । तत्प्रत्याख्याने ब्रह्मप्रत्याख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः । ब्रह्मणो नामरूपोपाधिकबहुभवनं कीदृशमित्याकाङ्क्षायामाह – ताभ्यां चेति । ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृव्यवहारभाक् बुद्धिवृत्त्युपाधिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेयव्यवहारभाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मार्थव्यवहारभागिति । आदिपदं कर्मादिसङ्ग्रहार्थम् । एवं सर्वव्यवहारभाग्ब्रह्मेत्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः । इतरस्य कायक्लेशादिरूपस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह – आप्तकामत्वाच्चेति । इदमुपलक्षणम् ; प्राक्सृष्टेर्ब्रह्मणः कायाभावाच्चेत्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैयाकरणप्रसिद्धिरपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति । सृज्यमानजगद्वैचित्र्ये निमित्तं सूचयति – प्राणिकर्मादीति । उपासनादिलक्षणं श्रुतमादिपदार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः । आनुरूप्यमेव विवृणोति – देशत इत्यादिना । सर्वावस्थैरिति । देवत्वमनष्यत्वतिर्यक्त्वाद्यवस्थैरित्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥ प्रवेशपदार्थनिर्णयप्रयोजनकं विचारमारभते – तत्रैतच्चिन्त्यमित्यादिना । कथंशब्दसूचितं विमर्शमेव विवृणोति – किमिति । किं परमात्मा स्वेनैवात्मनानुप्राविशत् , किं वा स्वविकाराद्यात्मनानुप्राविशदित्यर्थः । तत्र प्रथमं सिद्धान्तमाह – किं तावद्युक्तमित्यादिना । अन्येनात्मना प्रवेश इति स्वमतमुत्थापयितुं प्रथमं पूर्ववादिसिद्धान्तं निराकरोति – ननु न युक्तमित्यादिना । कार्यस्य बुद्ध्यादेरुत्पत्तिप्रभृतिकारणात्मकत्वात्कारणेन व्याप्तत्वात्कार्यभूतदेहाद्युत्पत्तिव्यतिरेकेण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः । उक्तमेव विवृणोति – कारणमेव हीति । कारणमेव कार्यात्मना परिणतमिति प्रसिद्धमित्यर्थः । ततः किम् अत आह – तत इति । कारणेन कार्यस्य जन्मप्रभृति व्याप्तत्वादित्यर्थः । अप्रविष्टस्येवेति । देवदत्तादेरिति शेषः । उपादानकारणस्य कार्याकारपरिणतिव्यतिरेकेण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह – न हीति । एवं ब्रह्मणस्तेनैवात्मनानुप्रवेश इति सिद्धान्तं निराकृत्यान्येनात्मनानुप्रवेश इति स्वमतं दृष्टान्तेनाह – यथा घट इत्यादिना । पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जातीयचूर्णात्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवेनात्मनानुप्रवेश इह विवक्षित इत्यर्थः । अत्रार्थे छन्दोगश्रुतिसंवादमाह – श्रुत्यन्तराच्चेति । सिद्धान्ती निराकरोति – नैवं युक्तमेकत्वाद्ब्रह्मण इति । परमात्मनो जीवेनैक्याच्चूर्णस्य मृदन्यत्ववज्जीवस्य ब्रह्मान्यत्वं नास्ति, तथा च मृदश्चूर्णात्मनेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्तमेवेत्यर्थः । श्रुत्यन्तरेऽपि जीवस्यान्यत्वाश्रवणात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः । सङ्ग्रहवाक्यं दृष्टान्तवैशम्योक्तिपूर्वकं विवृणोति – मृदात्मनस्त्वित्यादिना । मृज्जातीयस्य त्वित्यर्थः । सावयवत्वाच्चेति । सावयवस्य मूर्ततया प्रवेशयोग्यत्वाच्चेत्यर्थः । चूर्णस्येति । तस्य स्वेनाप्रविष्टदेशवत्त्वाच्चेत्यर्थः । एकत्वे सतीति । एकत्वादित्यर्थः । ननु यदि जीवस्य ब्रह्मानन्यत्वाद्ब्रह्मणश्च स्वतो व्यापकत्वादित्यादियुक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनैवात्मनानुप्रवेशासम्भवस्याप्युक्तत्वादिति मत्वा पूर्ववादी पृच्छति – कथं तर्हीति । मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह – युक्तश्चेति । तस्मादन्येनात्मनानुप्रवेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः । कथमित्याशङ्क्याह पूर्ववादी – सावयवमेवास्तु तर्हीति । यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपादानत्वान्मृदादिवत् । ततश्च प्रवेशोपपत्तिरित्याह – सावयवत्वादिति । यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नामरूपशब्दितकार्यप्रपञ्चाकारेण परिणममानस्य ब्रह्मणोऽप्यवयवविशेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवेशवत्स्वायवभूतजीवात्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः । उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति – नाशून्यत्वादिति । प्रवेष्टव्यप्रदेशशून्यत्वाद्ब्रह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः । उक्तमेव विवृणोति – न हीति । कार्यात्मना परिणतस्य ब्रह्मणस्तावन्नामरूपात्मककार्यदेशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चित्प्रवेशोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रविशेदित्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः सावयवत्वसाधकानुमानानुत्थानाच्चेत्यपि दृष्टव्यम् । इत्थमन्येनात्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते – कारणमेव चेत्प्रविशेदिति । नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परिच्छिन्नत्वात्प्रवेष्टृत्वोपपत्तिरिति चेदित्यर्थः । सिद्धान्ती तमपि निराकरोति – जीवात्मत्वं जह्यादिति । यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्यात्परित्यजेदित्यर्थः । जीवस्वरूपस्यैव विलयनप्रसङ्गादिति यावत् । विकारस्य प्रकृतौ प्रवेशे लय एव स्यादित्यत्रोदाहरणमाह – यथेति । इतश्च न कारणे कार्यस्यानुप्रवेशो युक्त इत्याह – तदेवेति । तच्छब्दोपात्तस्य कार्यस्यैव प्रवेशकर्मत्वश्रवणादित्यर्थः । एवं पूर्ववाद्येकदेशिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवेशनिर्वाहकमाशङ्कते – कार्यान्तरमेव स्यादिति । तदेव विवृणोति – तदेवेति । 'तदेवानुप्राविशत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्यान्तरमेवापद्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्यादिरूपेणाहंशब्दार्थस्य जीवस्य शरीराद्यभेदानुभवादनुभवानुसारेण श्रुत्यर्थवर्णनस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः । सिद्धान्ती निराकरोति – न, विरोधादिति । कार्यान्तरस्य कार्यान्तरस्य कार्यान्तरतापत्तेर्विरुद्धत्वादित्यर्थः । अत्रोदाहरणमाह – नहीति । जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह – व्यतिरेकेति । जीवस्यावस्थात्रये बाल्यादिषु चानुवृत्तिरवस्थात्रयस्य बाल्यादीनां च व्यावृत्तिश्चानुभवसिद्धा ; तथा चानुवृत्तिव्यावृत्तिलक्षणाभ्यामन्वयव्यतिरेकाभ्यामेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यतिरेकमनुवदन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरुध्येरन्नित्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्यादिप्रतीतेरप्रमात्वान्न तदनुसारेण प्रवेशवाक्यार्थकल्पनं युज्यत इति भावः । जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह – तदापत्ताविति । जीवस्य देहादिलक्षणकार्यान्तरतापत्तावित्यर्थः । असम्भवमेव विवृणोति – न हीति । यत इति । देहादिलक्षणाद्बन्धादित्यर्थः । दृष्टान्तमाह – न हीति । यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्खलापत्तिर्विद्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः । ननु यदि जीवस्य देहादिभावापत्तौ व्यतिरेकश्रुतिविरोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवेशोऽस्त्विति पूर्ववादी प्रत्यवतिष्ठते – बाह्यान्तर्भेदेनेति । एतदेव प्रपञ्चयति – तदेवेति । प्रकृतमाकाशादिकारणं ब्रह्मैव प्रथमं जीवं प्रत्याधारभूतदेहाद्याकारेण परिणमते पश्चाद्देहादावाधारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टिप्रवेशक्रिययोर्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभिमतार्थोऽपि सिध्यतीत्यर्थः । येयं शरीराद्यन्तर्जीवात्मना परिणतिः सा किं ब्रह्मणो मुख्यप्रवेशत्वेन त्वदभिमता किं वौपचारिकप्रवेशत्वेन नाद्य इत्याह – न ; बहिष्ठेत्यादिना । न द्वितीयः, ब्रह्मणः परिणामित्वस्यासम्भवात् । एतच्च ब्रह्मणः परिणामित्वनिराकरणं स्मृतिपादे विस्तरेण कृतमित्याशयेनात्राचार्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते’ इत्यत्र । तस्मादन्येनात्मना ब्रह्मणः प्रवेश इति पूर्ववादिमतमनुपपन्नमेवेति स्थितम् । इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैकदेशिनमप्युत्थाप्य निराकरोति – जलसूर्येत्यादिना । यथा सूर्यादेर्जलादौ प्रतिबिम्बभावलक्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रतिबिम्बभावस्य प्रसिद्धत्वेन तस्यैव प्रवेशपदार्थत्वकल्पने बाधकाभावादित्याशयः । अपरिच्छिन्नत्वादिति । व्यापकत्वादित्यर्थः । अमूर्तत्वाच्चेति । मूर्तिरवयवसंस्थानविशेषः, तद्रहितत्वात् , निरवयवद्रव्यत्वादिति यावत् । व्यापकत्वे हेतुं पूर्ववाक्येनाह – आकाशादीति । ननु निरवयवत्वव्यापकत्वादिना प्रसिद्धस्य गगनस्य मेघालोकाद्यवच्छेदेन जलादौ प्रतिबिम्बोदयदर्शनादात्मनोऽपि तथा किं न स्यादित्याशङ्क्याह – तद्विप्रकृष्टेति । लोके बिम्बसूर्याद्यपेक्षया विप्रकृष्टदेशवद्रूपवच्च प्रतिबिम्बबोदययोग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रतिबिम्बाधारवस्त्वस्ति, बुद्ध्यादेर्व्यापकात्मापेक्षया विप्रकृष्टदेशत्वाभावात् उद्भूतरूपरहितत्वाच्चेत्यर्थः । अत एव पूर्वोदाहृतश्रुतिसूत्राणामनयैव रीत्या प्रतिबिम्बभावपरत्वं निरस्यार्थान्तरे तात्पर्यम् ‘वृद्धिह्रासभाक्त्वम्’ इति सूत्रतद्भाष्ययोर्महता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः । प्रतिबिम्बभावलक्षणस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धान्त्येकदेश्याह – एवं तर्हीति । प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निरस्तत्वादित्याशयेनाह – न चेति । प्रवेशवाक्यस्य निर्विषयत्वमयुक्तं श्रुतिवाक्यत्वादित्याह – तदेवेति । प्रवेशादेरतीन्द्रियत्वेन तत्राज्ञाते श्रुतिप्रामाण्यस्यावाभ्यां स्वीकृतत्वाच्चेत्याह – श्रुतिश्चेति । तर्ह्यस्तु प्रवेशवाक्यादतीन्द्रियार्थबोध इत्याशङ्क्याह – न चास्मादिति । प्रतिबिम्बभावानुपगमे सत्येतद्वाक्यार्थबोधे यत्नवतामप्यस्माकमस्माद्वाक्यादर्थज्ञानं न चोत्पद्यते, तस्मात्प्रतिबिम्बभावनिराकरणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः । एवमेकदेशिना प्रवेशवाक्यस्य निर्विषयत्वापादने कृते तच्छ्रुत्वा तटस्थ आह – हन्त तर्हीति । इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्विषयत्वादिकमपाकरोति – न, अन्यार्थत्वादिति । प्राङ् निराकृतेभ्योऽर्थेभ्यः सकाशादन्यस्य प्रकरणाविरुद्धस्य प्रकरणापेक्षितस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्विषयत्वप्रसङ्गो न वापोह्यतेत्यर्थः । सङ्ग्रहवाक्यं विवृणोति – किमर्थमिति । वाक्यस्य निर्विषयत्वाद्यापादनमस्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः । निर्विषयत्वाद्यापादनस्यायुक्तत्वे हेतुमाह – प्रकृतो हीति । हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्यस्यार्थान्तरस्य सत्त्वादित्यर्थः । कोऽसौ प्रकृतोऽर्थ इत्याकाङ्क्षायां तं दर्शयति – ब्रह्मविदिति । 'ब्रह्मविदाप्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव परप्राप्तिसाधनत्वादित्यर्थः । एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवेशवाक्यपर्यन्तमनुवृत्तिमाह – ब्रह्मस्वरूपेत्यादिना । ब्रह्मावगमश्चेति । 'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्मस्वरूपावगमायैव शरीरान्तं कार्यं प्रदर्शितम् अतस्तद्वाक्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः । एवं सृष्टिवाक्येऽनुवृत्तस्य च तस्य विज्ञानमयवाक्येऽनुवृत्तिमाह – तत्रान्नमयादिति । कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूलसूक्ष्मक्रमेण कोशानामान्तरत्वोपदेशस्य सर्वान्तरब्रह्मप्रतिपत्तिशेषत्वाद्विज्ञानशब्दलक्षितायां बुद्धिगुहायां ब्रह्मावगमस्यानुवृत्तिर्युक्ता । अत्र प्रवेशवाक्यपर्यन्तमनुवृत्तिकथनावसरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञानमयपर्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्याकाङ्क्षायां तमभिप्रायं गुहाशब्दप्रयोगेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्याकाङ्क्षायां सा गुहा विज्ञानमयपर्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहानिहितवाक्यतात्पर्यसूचनार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति । नन्वेवमानन्दमयस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धिगुहास्थत्वाभिधानादित्याशङ्क्याह – तत्रेति । प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशिष्टश्चामुख्य आत्मेत्युक्तमित्यर्थः । कथं तर्हि बुद्धिगुहानिहितत्वेन शुद्धब्रह्मावगमसिद्धिरित्याशङ्क्याह – ततः परमिति । आनन्दमयाधिगमानन्तरमित्यर्थः । नन्वानन्दयमाधिगमस्यानन्तर्योक्तिसिद्धविशुद्धब्रह्माधिगमोपायत्वं कथमित्यत आह – आनन्दमयलिङ्गेति । आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्धचिद्धातोर्लिङ्गम् , विशिष्टस्य विशेष्याव्यभिचारित्वदर्शनात् । आनन्देति । आनन्दवृद्धेर्वक्ष्यमाणाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः । प्रतिष्ठाशब्दार्थमाह – सर्वविकल्पेति । सर्वकल्पनाधिष्ठानत्वादेव वस्तुतो निर्विशेषत्वमाह – – निर्विकल्प इति । तथा च आनन्दमयरूपलिङ्गाधिगमद्वारेणानन्दवृद्ध्यवसानभूत आत्मा यथोक्तोऽस्यामेवानन्दमयगुहायामेवाधिगन्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृत्वादिरूपेणोपलब्धिरेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति । बुद्धावेव प्रवेशकल्पने हेतुमाह – न ह्यन्यत्रेति । बुद्धेः सकाशादन्यत्र ब्रह्मचैतन्यस्यानुपलम्भादित्यर्थः । तत्र हेतुमाह – निर्विशेषत्वादिति । व्यञ्जकपदार्थरूपो यो विशेषस्तत्सम्बन्धरहितत्वादित्यर्थः । बुद्धिसम्बन्धस्य ब्रह्मोपलब्धिहेतुत्वं सदृष्टान्तमाह – विशेषसम्बन्धो हीति । व्यञ्जकपदार्थो विशेषपदस्यार्थः । ननु बुद्धावेव ब्रह्मचैतन्यस्योपलब्धिरिति न नियमः, घटः स्फुरति पटः स्फुरतीत्यादिप्रकारेण बुद्धेरन्यत्रापि तस्योपलब्धिदर्शनादित्याशङ्क्याह – संनिकर्षादिति । वृत्तिद्वारा बुद्धिसम्बन्धादेव तत्राप्युपलब्धिरित्यर्थः । बुद्धेश्चैतन्यव्यञ्जकत्वे युक्तिमाह – अवभासात्मकत्वाच्चेति । प्रकाशात्मकत्वादित्यर्थः । अन्तःकरणस्य प्रकाशात्मकत्वमालोकादेरिव स्वाभाविकमेव, न तु तप्तायःपिण्डादेरिवान्यकृतमिति सूचनार्थश्चकारः । बुद्धिवृत्तेर्घटादिषु चैतन्यव्यञ्जकत्वं सदृष्टान्तमाह – यथा चेति । आदिपदं नीलपीतादिसङ्ग्रहार्थम् । यथा नीलपीताद्युपलब्धिरालोकसम्बन्धकृता तथा विषयेष्वात्मनः स्फुरणरूपेणोपलब्धिरन्तःकरणवृत्तिलक्षणालोकसम्बन्धप्रयुक्तेत्यर्थः । एवमन्वयव्यतिरेकाभ्यां बुद्धेरेव ब्रह्मोपलब्धिसाधनत्वमिति प्रसाध्य प्रकृतमुपसंहरति – तस्मादिति । मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः । तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति – वृत्तिस्थानीय इति । वृत्तिर्व्याख्या । तथा च व्याख्यानव्याख्येयभावापन्नयोर्गुहानिहितप्रवेशवाक्ययोर्न पौनरुक्त्यदोष इति भावः ॥ इदानीं प्रवेशशब्दार्थं कथयति – तदेवेदमित्यादिना । यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्यक्षादिसंनिधापितं कार्यं सृष्ट्वेत्यर्थः । अनुप्रविष्टमिवेति । गुहादावनुप्रविष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धेरन्तरुपलभ्यते, तथा चान्तरुपलभ्यमानत्वसाम्यात्प्रवेशशब्दो गौण इत्यर्थः । द्रष्टृत्वादिरूपेणोपलब्धिलक्षणे विवक्षिते प्रवेशे बुद्ध्युपहितचैतन्यरूपस्य जीवस्यैव कर्तृत्वेऽपि जीवब्रह्मणोर्वास्तवैक्यमादाय सृष्टिप्रवेशक्रिययोः समानकर्तृत्वसत्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्रत्ययश्रवणादिति सिद्धान्तो निष्प्रत्यूह इति भावः । एवमक्षराणि व्याख्याय प्रवेशवाक्यस्यापि ब्रह्मसत्त्वसाधने उपयोगं कथयति – तस्मादस्तीति । तत्प्रकृतमाकाशादिकारणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवेशादर्शनादित्यर्थः । ब्रह्मणो नास्तित्वाभावे फलितमाह – अत इति । पृथिव्यादिभूतत्रयं मूर्तमवशिष्टं भूतद्वयममूर्तमिति विभागो बोध्यः । ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयोर्ब्रह्मतादात्म्यमुच्यते, तत्रोपपत्तिमाह – मूर्तामूर्ते हीति । प्रागुत्पत्तेरव्याकृतनामरूपतयात्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयोरव्याकृतनामरूपतया प्रागवस्थाने ‘तद्धेदं तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रसिद्धिद्योतनार्थो हि-शब्दः । ततः किम् अत आह – व्याकृते चेति । आत्मना त्विति । परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागुत्पत्तेरात्मनोऽद्वितीयत्वश्रवणादिति भावः । एतदुक्तं भवति - मूर्तामूर्तयोरव्याकृतयोरात्मतादात्म्यात्तयोरेव व्याकृतयोरपि तत्तादात्म्यमुपपद्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति । इदं तदित्युक्तमिति । यत्त्वया पृष्टं तदिदमिति निर्दिष्टमित्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः । विशेषणे इति । निरुक्तं मूर्तस्यैवाभेदेन विशेषणम् अनिरुक्तममूर्तस्यैवाभेदेन विशेषणमिति विभागः । यथेति । यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूतद्वयममूर्तस्याभेदेन विशेषणं तथा निरुक्तानिरुक्ते अपीत्यर्थः । तथेति । निलयनं च तथा निरुक्तवन्मूर्तस्यैव धर्म इति सम्बन्धः । धर्म इति । तथा च सन्निरुक्तनिलयनानि मूर्तधर्माः, त्यदनिरुक्तानिलयनान्यमूर्तधर्मा इति विभागः कृत इति बोध्यम् । ननु त्यदादीनाममूर्तधर्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्मणोऽप्यमूर्तत्वादिति, नेत्याह – त्यदनिरुक्तेति । व्याकृतेति । व्याकृतं कार्यम् , तद्विशेषणान्येव न कारणब्रह्मविशेषणानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदुत्तरकालभावित्वश्रवणविरोधादित्यर्थः । व्याकृतविषयत्वमेव विवृणोति – त्यदितीत्यादिना । प्राणो वायुः, आकाशसङ्ग्रहार्थमादिपदम् । अत इति । त्यदनिरुक्तानिलयनशब्दैरभिहितस्य प्राणादेः कार्यत्वादेतान्यमूर्तस्य विशेषणानि व्याकृतविषयाण्येवेति योजना । सत्यं चेति । 'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्यावहारिकसत्यमेवोच्यते । न तु परमार्थसत्यमित्यत्र हेतुः – अधिकारादिति । सच्च त्यच्चेत्यादीनां व्यवहारविषयाणामेव विकाराणां प्रकरणादित्यर्थः । किं च ‘सत्यं च’ इत्यत्र परमार्थसत्यग्रहणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् । भवत्विति चेत् , तत्राह – एकमेव हीति । परमार्थसत्यस्याद्वितीयत्वं श्रुतिस्मृतिन्यायसहस्रप्रसिद्धमिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः । ननु व्यवहारविषयाकाशादिप्रपञ्चस्य कल्पितत्वात्कथं तत्र सत्यशब्दप्रवृत्तिरिति शङ्कां निराकुर्वन्सत्यं च व्यवहारविषयमित्युक्तं विवृणोति – इह पुनरिति । 'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः । किमपेक्षयोदकादिलक्षणस्य सत्यस्यापेक्षिकत्वमित्याकाङ्क्षायामाह – मृगतृष्णिकादीति । 'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्वनृतशब्दार्थ इति निष्कर्षः । किं पुनरिति । एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् । तत्र सत्यं विशिनष्टि – परमार्थेति । इदं च विशेषणं सत्यं चेत्यत्र गृहीतसत्यव्यावृत्त्यर्थमिति प्रागेव व्यक्तम् । परमार्थसत्यस्वरूपं प्रश्नपूर्वकं विशिष्य दर्शयति – किं पुनस्तदित्यादिना । यत्सत्यादिशब्दैरुपात्तं यच्चेदं किं चाविशेषितं विशिष्यानुपात्तं तत्सर्वं परमार्थसत्यमभवदिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वेणैकवाक्यता बोध्या । इमामेवैकवाक्यतां प्रदर्शयन् ‘तत्सत्यमित्याचक्षते’ इत्यस्योपपत्तिमाह – यस्मादित्यादिना । पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति – अस्तीत्यादिना । इदानीं तत्र विवक्षितं कथयति – तस्मादिति । श्रुत्या ब्रह्मण्यसत्त्वाशङ्कानिराकरणपूर्वकं सत्त्वप्रतिपादनायैव तस्य भोक्तृभोग्यात्मनावस्थानप्रतिपादनादित्यर्थः । अस्य हेतोरस्तीति विजानीयादित्यनेन सम्बन्धः । तदेवेति । ब्रह्मैवेत्यर्थः । इदंशब्दार्थमेवाह – कार्यस्थमिति । कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः । बुद्धौ विशिष्य तस्योपलब्धिमभिप्रेत्याह – परम इत्यादिना । व्योम्नि या गुहा तस्यामिति सप्तम्योर्वैयधिकरण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् । मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहितमित्यस्यार्थमाह – तत्प्रत्ययेति । तस्मिन्हृदयगुहाशब्दिते प्रत्यये साक्षिणा प्रतीयमानेऽन्तःकरणे योऽयमात्मचैतन्यस्यावभासमानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृत्वादिरूपभेदस्तेन रूपभेदेनोपलभ्यमानं प्रकाशमानं ब्रह्मेत्यर्थः । ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वान्तरात्मास्तित्वप्रतिपादकः तदस्तित्ववाचिपदाभावात् , प्रत्युत आकाशादिकारणे वस्तुन्यसच्छब्दश्रवणेन तदसत्त्वस्यैव प्रतीतेश्चेत्याशङ्क्य विशिनष्टि – कार्यद्वारेणेति । असतः कार्यकारणत्वासम्भवादसच्छब्दनिर्दिष्टस्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥ असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रासच्छब्दप्रयोगे हेतुमाह – व्याकृतेति । व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जगतस्तस्मिन्सच्छब्दस्य प्रसिद्धत्वात्तद्विपरीते कारणे ब्रह्मण्यसच्छब्दप्रयोग इत्यर्थः । नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् तत्राह – न पुनरिति । तत्र हेतुः – न हीति । हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्जन्महेतुत्वेन श्रूयमाणमसदत्यन्तासन्न भवतीत्यर्थः । इदमिति पदस्यार्थमाह – नामरूपेति । तत इति । कारणादित्यर्थः । स्वयमिति । स्वयमन्यानधिष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः । यस्मादेवमिति । यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयंशब्दनिर्दिष्टमपरतन्त्रत्वलक्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृत्ववाचित्वस्वीकारात्कृतमित्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः । ननु ब्रह्मण एव स्वयं कर्तृत्वात्सुकृतशब्दवाच्यत्वमित्ययुक्तं ब्रह्मान्यस्यापि कस्यचित्स्वयं कर्तृत्वसम्भवादित्याशङ्क्याह – स्वयमिति । लोकशब्दिते शास्त्रे समस्तजगत्कारणत्वाद्ब्रह्मैव स्वयमन्यानधिष्ठिततया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः । 'तदात्मानं स्वयमकुरुत’ ‘तस्मात्तत्सुकृतमुच्यते’ इति वाक्यद्वयं पुनरपि योजयन्प्रकारान्तरेण ब्रह्मणः सुकृतशब्दवाच्यत्वमाह – यस्माद्वेति । यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्वजगदात्मनाकरोत्तस्मात्तदेव कारणं ब्रह्म पुण्यरूपेणाप्यवस्थितं सत्सुकृतमुच्यत इति योजना । 'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मात्तत्सुकृतमुच्यते’ इति भागस्य ब्रह्मणः सुकृतशब्दवाच्यत्वसाधने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मास्तित्वसाधन एव तात्पर्यं तत्परतयैवास्य श्लोकस्यावतारितत्वादित्याशयेन सुकृतशब्दवाच्येऽनास्थां प्रदर्शयन्ब्रह्मास्तित्वसाधने उपयोगं सुकृतवाक्यस्य दर्शयति – सर्वथापि त्वित्यादिना । यदि प्रसिद्धिबलात्पुण्यं सुकृतशब्दवाच्यं यदि वास्मदुक्तरीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गादिफलसम्बन्धादिकारणं लोकशब्दिते शास्त्रे प्रसिद्धमित्यर्थः । तत्र पुण्यस्य फलसम्बन्धतत्साधनदिव्यदेहादिसम्बन्धकारणत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृतशब्दवाच्यस्य ब्रह्मणोऽपि फलसम्बन्धादिकारणत्वम् ‘श्रुतत्वाच्च’ इति सूत्रोदाहृतश्रुतिप्रसिद्धमिति विभागः । फलदातृत्वस्य श्रुतिसिद्धत्वादुपपत्तेश्च ब्रह्मैव फलदातृ, न कर्म आशुतरविनाशित्वादिति सूत्रार्थः । ततः किम् अत आह – सा प्रसिद्धिरिति । सुकृतशब्दवाच्यपुण्यस्य सा फलसम्बन्धादिकारणत्वप्रसिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फलदातृत्वायोगान्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृतशब्दवाच्यत्वपक्षे तु सा ब्रह्मणि फलसम्बन्धादिकारणत्वप्रसिद्धिस्तस्यासत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् । उपसंहरति – तस्मादिति । सुकृतस्य फलसम्बन्धादिकारणत्वप्रसिद्धेरित्यर्थः । रसत्वादिति । आनन्दत्वादिति यावत् । यत्सुकृतशब्दवाच्यत्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलिङ्गनिर्देशः । रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह – रसो नामेति । तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्वप्रधानेऽन्तःकरणेऽभिव्यक्तः सन्प्राणिनामानन्दकर इति प्रागभिहितम् । तथा चानन्दकरत्वसाम्याद्रसशब्दो ब्रह्मानन्दे गौण इति भावः । रसमिवायमिति । अयं लोकः प्रसिद्धरससदृशमात्मानन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः । सुखी भवतीति । तथा चानन्दकरत्वादानन्दरूपं ब्रह्मास्तीति भावः । ननु ब्रह्मणः सत्त्वाभावेऽप्यानन्दहेतुत्वमस्तु ; नेत्याह – नासत इति । ननु विषयाणामेवानन्दहेतुत्वं न ब्रह्मानन्दस्येत्याशङ्क्य विषयशून्यानामप्यानन्ददर्शनान्मैवमित्याह – बाह्येति । बाह्यत्वं साधनविशेषणम् । निरीहाः समस्तकरणचेष्टावर्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षात्कृतब्रह्मतत्त्वा इति यावत् । तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह – नूनमिति । एवं विषयाभावेऽप्यानन्ददर्शनाद्विषयानुसन्धानस्थलेऽपि विषयाणां वृत्तिविशेषद्वारा स्वरूपानन्दव्यञ्जकत्वमेव, नाविद्यमानानन्दस्वरूपोत्पादकत्वमिति प्रागावेदितम् ; अतः सर्वप्राण्यानन्दहेतुत्वादस्ति तदानन्दकारणं ब्रह्मेत्युपसंहरति – तस्मादिति । तेषामित्युपलक्षणम् , सर्वप्राणिनामित्यर्थः । इतश्चेति । वक्ष्यमाणहेतोरपि ब्रह्मास्ति । तमेव हेतुमाकाङ्क्षापूर्वकमाह – कुत इत्यादिना । हेतुं साधयति – अयमपि हीति । अपिशब्दोऽनुक्तसमुच्चयार्थः सन्नाधिदैविकादिपिण्डसङ्ग्रहार्थः । अध्यात्माधिभूताधिदैविकेषु पिण्डेषु प्राणनादिक्रिया प्रत्यक्षानुमानादिप्रसिद्धेति सूचनार्थो हि-शब्दः । मृतदेहं व्यावर्तयति – जीवत इति । 'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणापानग्रहणमुपलक्षणमित्याशयेनाह – इत्येवमिति । संहतैरिति । यथा मृद्दारुतृणादीनि गृहप्रासादादिभावेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः । ततः किमित्यत आह – तच्चैकार्थेति । कार्यकरणानामेकस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः । असंहतमिति । संहतकार्यकरणव्यतिरिक्तमित्यर्थः । अन्यत्रेति । गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसङ्घातेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽनन्यथासिद्धप्रमाणाभावात्सर्वात्मकं ब्रह्मैवेति तदस्तित्वसिद्धिरित्यर्थः । इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति – तदाहेति । तत्कार्यकरणचेष्टाशेषित्वेन ब्रह्मणोऽस्तित्वमाह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्यत्राकाशानन्दपदयोः सामानाधिकरण्यमुचितम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आकाशस्तल्लिङ्गात्’ इत्यधिकरणे अत्रत्याकाशपदस्यानन्दत्वरूपब्रह्मासाधारणगुणश्रवणाद्ब्रह्मपरत्वमाचार्यैरेवे दर्शितम् ; तथापि गुहानिहितवाक्यानुसारात् रूढ्यनुसाराच्च वैयधिकरण्यमुक्तमिति मन्तव्यम् । न भवेदिति । सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् । यदर्था इति । कार्यकरणानां प्राणनाद्युपलक्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्यकरणचेष्टानां वैयर्थ्यप्रसङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्रह्मेत्युक्तम् । तत्कृत एव चेति । आत्मानन्दकृत एव लोकस्यानन्दश्चेत्यर्थः । ननु परस्यैवानन्दरूपत्वादानन्दहेतुत्वमयुक्तम् आनन्दभेदाभावादित्याशङ्क्याह – स एवेति । अविद्ययेति । भ्रान्त्या नानात्वेनानुभूयत इत्यर्थः । 'यदा ह्येवैषः’ इत्यादेस्तात्पर्यमाह – भयाभयेति । नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह – सद्वस्त्वाश्रयण इति । लोके श्रीरामादेः सत एव भयनिवृत्तिहेतुत्वप्रसिद्धेरसतः शशशृङ्गादेस्तदप्रसिद्धेश्च असद्ब्रह्माश्रयणाद्भयनिवृत्तिर्नोपपद्यत इत्यर्थः । ब्रह्मणो विद्वदभयहेतुत्वे मानं प्रश्नपूर्वकं दर्शयति – कथमित्यादिना । विकार इति । अध्यस्तमिति यावत् । अविषयीभूत इति । सर्वदृश्यवर्जित इति यावत् । आत्म्यपदेनात्मीयं शरीरमुच्यत इत्याशयेनाह – अशरीर इति । यस्माच्चेति । च-शब्दोऽवधारणार्थः । यस्माद्धेतोरनात्म्यं ब्रह्म तस्मादेव हेतोरनिरुक्तमपीत्यर्थः । अत्रात्म्यनिरुक्तनिलयनानां दृश्यविशेषत्वाद्दृश्यसामान्यनिषेधस्य ‘व्यापकनिवृत्त्या व्याप्यनिवृत्तिः’ इति न्यायेनात्म्यनिरुक्तनिलयननिषेधहेतुत्वमत्र विवक्षितमिति मन्तव्यम् । विशेषो हीति । स विशेषः पदार्थ इत्यर्थः । निरुच्यते समानासमानजातीयेभ्यो निष्कृष्योच्यत इत्यर्थः । घटादिरत्रोदाहरणम् । यत एवमिति । यतः अदृश्यत्वाद्धेतोरनिरुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधाररहितमित्यर्थः । यद्वा यथाश्रुतानुरोधेन पूर्वपूर्वनिषेधस्यैवोत्तरोत्तरनिषेधहेतुत्वं बोध्यम् । एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह – तस्मिन्नेतस्मिन्नित्यादिना । सर्वकार्यपदं दृश्यमात्रोपलक्षणार्थम् , अन्यथा मूलाविद्यादिवैलक्षण्यसिद्ध्यभावप्रसङ्गादिति बोध्यम् । क्रियाविशेषणमिति । अभयं यथा भवति तथा विन्दत इति लाभक्रियाविशेषणमित्यर्थः । प्रतिष्ठाविशेषणं वेत्याह – अभयामिति वेति । आत्मभावमिति । सर्वविशेषरहितं ब्रह्माहमिति साक्षात्काराभिव्यङ्ग्यमिति शेषः । अदर्शनादिति । वस्तुत इति शेषः । विदुषोऽपि बाधितद्वैतदर्शनाभ्युपगमादिति मन्तव्यम् । अभयप्राप्तिमेव विवृणोति – स्वरूपप्रतिष्ठो हीति । यत्र यस्मिन्स्वरूपे स्थितो विद्वान्वस्तुतोऽन्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृशस्वरूपप्रितष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्तव्यमित्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिप्रसिद्धिसूचनार्थो हि-शब्दः । ननु विदुषोऽन्यदर्शनाभावेऽपि कथं भयनिवृत्तिरित्यत आह – अन्यस्य हीति । ननु स्वस्मादपि स्वस्य भयं किं न स्यादित्याशङ्क्याह – नात्मन इति । तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुतिविरोधप्रसङ्गादनुभवविरोधप्रसङ्गाच्चेति भावः । अनात्मैवेति । स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः । यदुक्तं विद्वदभयहेतुत्वादस्ति ब्रह्मेति तदनुभवेन साधयति – सर्वत इति । ब्राह्मणा ब्रह्मविदः । भयहेतुष्विति । शरीरप्रतिकूलेषु सर्पव्याघ्रादिष्वित्यर्थः । उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह – कदासावित्यादिना । तैमिरिकेति । यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एकस्मिन्नेवात्मस्वरूपे ब्रह्मण्यविद्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः । अविद्याप्रत्युपस्थापितभेदवस्तुदर्शनमेवाक्षरव्याख्यानपूर्वकं विवृणोति – उदित्यादिना । नन्वत्रान्तरशब्दितस्यात्मब्रह्मभेदस्यानादित्वादन्तरं कुरुत इत्यनुपपन्नमित्याशङ्क्याह – भेददर्शनमिति । इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह – भेददर्शनमेव हीति । अल्पमपीति । उपास्योपासकभावोपेतमपीत्यर्थः । आत्मन इति । भेदेन दृष्टादीश्वरादित्यर्थः । उक्तमर्थं सङ्क्षिप्याह – तस्मादिति । स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भयकारणमित्युक्तं भवतीत्यर्थः । अस्मिन्नर्थे उत्तरवाक्यमवतार्य व्याचष्टे – तदेतदाहेति । विद्वानपीति । य एकरूपमद्वितीयमात्मनस्तत्त्वं न पश्यति, सोऽयं विद्वानपि सकलवेदशास्त्रविदपि अविद्वानेव भयमध्यस्थत्वादित्यर्थः । नन्वविदुषः स्वस्येश्वराद्भेदं पश्यतोऽपि कथं भयसम्भावना तत्राह – उच्छेदेति । उच्छेदो नाशपीडादिः, तत्कारणवस्तुज्ञानादुच्छेद्यत्वेनाभिमतस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वोच्छेदहेतुभूतं वस्तु ब्रह्मैवेत्याशयः । कुत इत्यत आह – अनुच्छेद्यं हीति । उच्छेदहेतोरप्युच्छेद्यत्वे तस्य तस्यान्य उच्छेदहेतुर्वक्तव्य इत्यनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽन्यदार्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाशप्रतिपादनादिति भावः । एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मास्तित्वसाधने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति – तन्नासतीति । तस्मादुच्छेदहेतुदर्शनकार्यं भयं जगतो दृश्यमानं स्वयमनुच्छेद्यस्वभावे परेषामुच्छेदहेतावसति न युक्तमिति योजना । ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह – सर्वं चेति । अनुच्छेदात्मकमिति । नित्यमिति यावत् । यत इति । यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥ अस्मादिति । प्रकृताद्ब्रह्मण इत्यर्थः । अग्निश्चेन्द्रश्च स्वस्वकार्यमनुतिष्ठत इत्यर्थः । धावतीति । समाप्तायुषः प्रतीति शेषः । पञ्चमः पञ्चत्वसङ्ख्यापूरक इत्यर्थः । श्लोकस्य भयकारणब्रह्मास्तित्वे तात्पर्यं दर्शयति – वातादयो हीति । महार्हा इति । पूज्यतमा इत्यर्थः । यदा वाय्वादीनामपि भयकारणं ब्रह्म तदान्येषां किमु वक्तव्यमित्याशयेन श्रुतौ वातादय उदाहृताः, तमाशयं प्रकटयितुं महार्हत्वादिविशेषणमिति मन्तव्यम् । ननु स्वयं दिगीश्वराणामपि तेषां नियता प्रवृत्तिः स्वत एवास्तु यथेश्वरस्य सृष्ट्यादौ नियता प्रवृत्तिरनन्यायत्ता तद्वदिति ; नेत्याह – तद्युक्तमिति । बहूनां दिक्पालानां प्रायेण तुल्यैश्वर्याणां विरुद्धेषु कार्येषु प्रवर्तमानानां विनिगमनाविरहादिना लोकवदेव कलहप्रवृत्तेरावश्यकत्वान्नियतं तेषां प्रवर्तनमसत्यन्यस्मिन्नियन्तरि न युक्तमित्यर्थः । यत इति । यतस्ते वातादयो राज्ञो भृत्या इव बिभ्यति तत्तेषां नियन्तृ ब्रह्मास्तीति योजना । ननु सैषा ब्रह्मणो मीमांसा भवतीति वक्तव्यं तस्यैव भयादिहेतुत्वेन प्रकृतत्वात् नानन्दस्येत्याशङ्कां वारयन्मीमांसावाक्यमवतारयति – यस्मादित्यादिना । आनन्दं ब्रह्मेति । 'यदेष आकाश आनन्दो न स्यात्’ इति ब्रह्मण एवानन्दरूपत्वस्योक्तत्वान्नासङ्गतिरिति भावः । नन्वानन्दस्वरूपस्य दुःखादिस्वरूपवत्प्रसिद्धत्वादानन्दस्वरूपं न विचारणीयमिति मत्वा शङ्कते – किमानन्दस्येति । ब्रह्मस्वरूपतया श्रुत आनन्दो विषयानन्दवज्जन्यो नित्यो वेति संशयनिवृत्त्यर्था मीमांसेत्याह – उच्यत इति । स्रक्चन्दनादिर्विषयः, तदनुभविता पुरुषो विषयी, तयोः सम्बन्धेनेत्यर्थः ॥ ननु ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि मानुषाद्यानन्दोपन्यासः तत्राह – तत्र लौकिक इति । बाह्यसाधनानि विषयाः, आध्यात्मिकानि साधनानि देहमधिकृत्य वर्तमानानि यौवनादीनि, तेषां द्विविधानां साधनानां सम्पत्तिर्मेलनं निमित्तं यस्यानन्दस्य स तथा । अत एवानन्दस्योत्कर्षो निर्दिश्यते ‘स एको मानुषः’ इत्यादिनेति शेषः । ब्रह्मानन्दानुगमार्थमिति । लौकिक आनन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्परिमाणवदित्यानन्दतारतम्यावधित्वेन निरतिशयस्वाभाविकानन्दरूपब्रह्मानन्दानुमानार्थं लौकिक आनन्दो निर्दिश्यत इत्यर्थः । अनुगममेव विशदयति – अनेन हीति । ब्रह्मानन्दस्य विषयानुसन्धानविमुखविद्वद्बुद्धिविषयत्वाच्च न विषयविषयिसम्बन्धजनितत्वमित्याशयेनाह – व्यावृत्तेति । व्यावृत्ता निवृत्ता विषया यस्या बुद्धेः सकाशात्सा तथा । प्रकारान्तरेण लौकिकानन्दानां ब्रह्मानन्दावगमोपायत्वमभिप्रेत्याह – लौकिकोऽपीति । मात्रा अवयवः । लोकिकानन्दानां हिरण्यगर्भानन्दादर्वाक्तारतम्येन निकर्षः, मानुषानन्दादूर्ध्वं तारतम्येनोत्कर्ष इति व्यवस्था । तत्र लौकिकानन्दस्य ब्रह्मानन्दमात्रारूपत्वं प्रपञ्चयन्नादौ तत्र निकर्षप्रयोजकमाह – अविद्ययेति । तिरस्क्रियमाणे विज्ञान इति । विवेके तारतम्येनाभिभूयमान इत्यर्थः ; तथा च विवेकाभिभव एको निकर्षप्रयोजक इति भावः । तत्र प्रयोजकान्तरं सूचयति – उत्कृष्यमाणायां चेति । कामक्रोधादिलक्षणैः स्वकार्यविशेषैर्निबिडायामित्यर्थः । कर्मापकर्षतारतम्यमप्यपकर्षप्रयोजकमित्याशयेनाह – कर्मवशादिति । यथाविज्ञानं विभाव्यमान इति सम्बन्धः । विषयापकर्षादिकमपि तत्र प्रयोजकमित्याशयेनाह – विषयादीति । चलः क्षणिकः, अनवस्थितः अनेकरूपः, अपकर्षतारतम्योपेत इति यावत् । सम्पद्यते, ब्रह्मानन्दो लौकिकः सम्पद्यत इत्यर्थः । योऽयं ब्रह्मानन्दस्य विषयविशेषादिकृतवृत्त्युपहितो भागः एष एव मात्राशब्दितो लौकिकान्द इति भावः । स एवेति । व्यावृत्तविषयबुद्धिगम्य इत्यत्र अकामहतविद्वच्छ्रोत्रियप्रत्यक्षगम्यत्वेन प्रकृतो ब्रह्मानन्द एव मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु ब्रह्मण आनन्द इत्यन्तासु शतगुणोत्तरोत्कर्षेण विभाव्यत इति सम्बन्धः । उत्तरोत्तरमानन्दोत्कर्षे पूर्वोक्तानामविद्यादीनामपकर्षतारतम्यं प्रयोजकमाह – अविद्याकामकर्मापकर्षेणेति । अकामहतेति । अकामहतविद्वच्छ्रोत्रियपदानां कर्मधारयः । ‘श्रोत्रियस्य चाकामहतस्य’ इत्यत्राकामहतत्वं सातिशयमिति वक्ष्यति, तद्वदत्रापीति शङ्कानिरासार्थं विद्वत्पदम् , तच्च ब्रह्मसाक्षात्कारवत्परमिति मन्तव्यम् । ब्रह्मण इत्यस्य विवरणम् – हिरण्यगर्भस्येति ॥ मात्राभूतेन लौकिकानन्दजातेनावगन्तव्यं ब्रह्मानन्दं दर्शयति – निरस्ते त्विति । साधनसम्पत्तिकृतवृत्तिविशेषोपहितस्वरूपानन्दो विषयः, तदनुभविता जीवो विषयी, तयोर्विभागो मूलाविद्याप्रयुक्तः ; तस्मिन्नविद्याकृते ब्रह्मात्मैक्यविद्यया निरस्ते सति य आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः पिरपूर्ण एकरूपो ब्रह्मानन्द इत्यवगतो भवतीत्यर्थः । एतदुक्तं भवति - यथोक्ताः सर्वे लौकिकानन्दा यस्य मात्राः समुद्राम्भस इव विप्रुषः, स स्वाभाविक आनन्दो विद्वत्प्रत्यक्षसिद्धोऽस्ति, स एव ब्रह्मानन्द इत्येवं मात्रारूपलौकिकानन्दैर्नित्यो ब्रह्मानन्दो विदितो भवतीति । एतमर्थमिति । अद्वैतानन्दावगमोपायभूतं लौकिकानन्दं विभावयिष्यन्प्रदर्शयिष्यन्नाह श्रुतिरित्यर्थः । प्रथमवया इति । पूर्ववया इत्यर्थः । साधुर्यथोक्तकारी । आशुतम इति । भोग्येषु वस्तुषु यथाकालमविलम्बेन प्रवृत्तिमानिति यावत् । दृढतम इति । युद्धादिषु प्रवृत्तौ मनोधैर्यवानित्यर्थः । बलवत्तम इति । कायिकबलातिशयविशेषवानित्यर्थः । 'युवा स्यात्’ इत्यादेः पिण्डितार्थमाह – एवमाध्यात्मिकेति । आत्मानं देहमधिकृत्य यानि साधनानि सम्भाव्यन्ते तैः सर्वैः सम्पन्न इत्यर्थः । वित्तस्य दृष्टार्थत्वमेव विवृणोति – उपभोगेति । अदृष्टार्थत्वविवरणम् – कर्मेति । मनुष्याः सन्त इति । अस्मिन्कल्पे मनुष्याः सन्त इत्यर्थः । तेषामानन्दोत्कर्षे हेतुमाह – ते हीति । आकाशगमनादिशक्तिसङ्ग्रहार्थमादिग्रहणम् । उक्तशक्त्यादिसम्पत्तिः शास्त्रप्रसिद्धेति सूचनार्थो हि-शब्दः । कार्यकरणानां सूक्ष्मत्वं प्रायेण शीतोष्णादिद्वन्द्वाभिघातायोग्यत्वम् । तस्मादिति । सूक्ष्मकार्यकरणवत्त्वादित्यर्थः । द्वन्द्वेति । अल्पानां द्वन्द्वानां प्राप्तावपि तेषां प्रतिघाते निवारणे या शक्तिः या च स्रक्चन्दनादीनामानन्दसाधनानां सम्पत्तिः सा चास्तीत्यर्थः । फलितमाह – अत इति । प्रसादो विक्षेपराहित्यम् , शुद्धिविशेष इति यावत् । मनुष्यगन्धर्वाणां स्वरूपं वार्तिके दर्शितम् - ‘सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः । नृत्तगीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः’ इति । देवगन्धर्वादीनामपि यथोक्तसामग्र्युत्कर्षतारतम्यकृतचित्तप्रसादविशेष आनन्दोत्कर्षतारतम्यप्रयोजक इत्यतिदिशति – एवमिति । भूमिः पदम् , देवगन्धर्वत्वाद्यवस्थेति यावत् । 'स एको मानुष आनन्दः’ इत्यत्र प्रथमपर्याये ‘श्रोत्रियस्य चाकामहतस्य’ इति कुतो न पठ्यते तत्राह – प्रथममिति । मनुष्येति । मनुष्यस्य सार्वभौमस्य यो विषयभोगः विषयानन्दः तद्गोचरकामरहितस्य मनुष्यगन्धर्वानन्दप्राप्तिसाधनंसपत्तिं विनैव तमानन्दमत्रैव लोके कामयमानस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणितेन मनुष्यगन्धर्वानन्देन तुल्यः सन्नानन्दो भवतीति वक्तव्यमित्येतदर्थमित्यर्थः । मानुषानन्दे कामाभावप्रयोजकविवेकोपयोगित्वेन मनुष्यगन्धर्वानन्दे कामोपयोगिगुणदर्शनोपयोगित्वेन च साङ्गाध्ययनवत्त्वरूपं श्रोत्रियत्वमुपात्तमिति मन्तव्यम् । ननु मनुष्यगन्धर्वस्य नृत्तगीतादिसामग्रीविशेषमहिम्ना यो हर्षविशेषो भवति स कथमत्रैवाकामहतश्रोत्रियस्य भवेदिति चेत् , अत्राहुः - मा भूदयं हर्षविशेषः तस्य क्षणिकस्य मुख्यानन्दत्वाभावात् , कस्तर्हि तस्य मुख्यानन्दः उच्यते - मनुष्यगन्धर्वस्य स्वोचितविषयप्राप्त्या तदिच्छायां शान्तायां नृत्तगीतादिजनितहर्षविशेषेषु च शान्तेषु या तृप्तिरनुगच्छति सैव मुख्य आनन्दः, तथा च स्मर्यते - ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’ इति । स च तृप्तिरूपो मुख्यानन्दो मनुष्यगन्धर्वेण समानः श्रोत्रियस्य सम्भवति । न चास्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दे कामनावत्त्वान्न तृष्णाक्षय इति वाच्यम् , तथापि मनुष्यगन्धर्वाणां तत्पर्यायपठितश्रोत्रियस्य च मानुषानन्दगोचरतृष्णाक्षयसाम्येन तृप्तिलक्षणानन्दसाम्ये बाधकाभावादिति । मनुष्यगन्धर्वपर्याये पठितस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दगोचरकामनावत्त्वम् ‘मनुष्यविषयभोग - - ‘ इति भाष्ये मनुष्यग्रहणसूचितम् , वार्तिकेऽपि स्पष्टमेव दर्शितम् - ‘मार्त्याद्भोगाद्विरक्तस्य ह्युत्तराह्लादकामिनः’ इति । एवमुत्तरत्रापि तत्तत्पर्यायपठितस्य श्रोत्रियस्य तत्पूर्वपूर्वभूम्यन्तानन्देषु कामानभिभूतत्वं तत्तद्भूमिगतानन्दकामनावत्त्वं चोहनीयम् । ननु सार्वभौमस्याश्रोत्रियत्वात्पूर्वे वयस्यतिक्रान्तमर्यादत्वाच्च न तस्य मानुषानन्दः सम्पूर्ण इत्याशङ्कावारणायोक्तं स्मारयति – साध्विति । साधुपदाद्यथोक्तकारित्वरूपमवृजिनत्वं गृह्यते, ततो न तस्यातिक्रान्तमर्यादत्वाशङ्का, तथा अध्यायकपदाच्छ्रोत्रियत्वं गृह्यत इत्यर्थः । एवम् ‘श्रोत्रियस्य चाकामहतस्य’ इति प्रतिपर्यायं श्रुतस्य श्रोत्रियस्यापि यथोक्तकारित्वरूपमवृजिनत्वमपेक्षितम् , अन्यथा अधीतसाङ्गस्वाध्यायत्वेन श्रोत्रियस्यापि तस्य यथोक्तकारिभिः श्रोत्रियैर्निन्द्यमानस्य मनुष्यगन्धर्वादितुल्यानन्दप्राप्त्यसम्भवप्रसङ्गाद् , अत एव श्रुत्यन्तरे तदपि पठ्यते - ‘यश्च श्रोत्रियोऽवृजिनोऽकामहतः’ इति । ननु द्वितीयपर्यायमारभ्य श्रुतानां श्रोत्रियाणां मध्ये कस्यचिन्मनुष्यगन्धर्वानन्देन तुल्य आनन्दः कस्यचित्तु देवगन्धर्वानन्देनेत्यादिलक्षणो विशेषः किङ्कृतः श्रोत्रियत्वावृजिनत्वाकामहतत्वानामानन्दसाधनानामेकरूपत्वादिति ; नेत्याह – ते हीति । हि-शब्दोऽवधारणार्थः । सर्वत्र सर्वेषु श्रोत्रियेषु श्रोत्रियत्वावृजिनत्वे एवाविशिष्टे तुल्ये, न त्वकामहतत्वमपि, तत्तु तत्तत्पर्यायगतस्य श्रोत्रियस्य विशिष्यते भिद्यते । तद्भेदे हेतुः – विषयेति । मनुष्यगन्धर्वपर्यायस्थश्रोत्रियस्य मानुषानन्दमात्रे कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् , तथा देवगन्धर्वपर्यायस्थस्य श्रोत्रियस्य मानुषानन्दे मनुष्यगन्धर्वानन्दे च विषये कामाभावः तस्य तदतिरिक्तानन्देषु सर्वत्र साभिलाषत्वात् । एवमुत्तरत्रापि । एतदुक्तं भवति – कामस्य विषयबाहुल्यरूपोत्कर्षे सति तन्निवृत्तिरूपस्याकामहतत्वस्यापकर्षरूपो विशेषो भवति, कामस्य विषयाल्पत्वरूपापकर्षेसति तन्निवृत्तिरूपस्याकामहतत्वस्योत्कर्षरूपो विशेषो भवतीति । तथा चाकामहतत्वोत्कर्षादुत्तरोत्तरमानन्दोत्कर्षः श्रोत्रियाणामिति स्थितम् । एवं यावद्यावदकामहतत्वोत्कर्षस्तावत्तावच्छ्रोत्रियानन्दोत्कर्ष इति श्रुत्यर्थे स्थिते फलितं श्रुतितात्पर्यमाह – अत इति | तद्विशेषत इति । अकामहतत्वविशेषतः श्रोत्रियेष्वान्दोत्कर्षोपलब्ध्या सर्वात्मना कामोपशमे सति सर्वोत्कृष्टः परमानन्दः प्राप्तो भवेदिति यतः प्रतिभाति अतः अकामहतग्रहणं निरतिशयस्याकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थमिति गम्यत इत्यर्थः । 'ते ये शतं मनुष्यगन्धर्वाणामानन्दाः’ इत्यादिपदजातं न व्याख्येयं प्रथमपर्यायव्याख्यानेन गतार्थत्वादित्याशयेनाह – व्याख्यातमन्यदिति । जातित इति । जन्मत इत्यर्थः । एतदुक्तं भवति – कल्पादावेव देवलोके जाता गायका देवगन्धर्वा इति । कर्मदेवत्वं विवृणोति – ये वैदिकेनेति । केवलेनेति । उपासनासमुच्चयरहितेनेत्यर्थः । देवानपियन्ति देवैश्चन्द्रादिभिरधिष्ठिताल्लोँकान्यान्तीत्यर्थः । 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्दः’ इत्यत्रानन्दस्य परिमाणकथनलिङ्गेन ब्रह्मशब्दस्य हिरण्यगर्भपरत्वमाह – समष्टीत्यादिना । समष्टिव्यष्टिरूपः व्याप्यव्यापकरूपः । तत्र कार्यात्मना व्याप्यः कारणात्मना व्यापक इत्यर्थः । तदीयव्याप्तेरवधिमाह – संसारेति । ब्रह्माण्डव्यापीत्यर्थः । यत्रैत इति । यत्र हिरण्यगर्भे प्रकृता आनन्दविशेषाः पारिमाणत एकत्वमिव गच्छन्ति सांसारिकानन्दोत्कर्षसर्वस्वं यत्रेत्यर्थः । तन्निमित्त इति । तस्यानन्दोत्कर्षसर्वस्वभूतस्य फलस्य निमित्तभूतो धर्मश्च यत्र निरवधिक इत्यर्थः । तद्विषयमिति । यथोक्तफलतन्निमित्तधर्मादिविषयकं ज्ञानं च यत्र निरतिशयमित्यर्थः । अकामहतत्वं चेति । हिरण्यगर्भस्य तावत्पूर्वभूमिषु नास्ति कामना, स्वभूम्यपेक्षया तासामत्यन्तनिकृष्टत्वात् ; स्वभूमावपि नास्ति कामना, तस्याः प्राप्तत्वात् , अप्राप्तवस्तुगोचरत्वात्कामनायाः ; अतस्तस्याकामहतत्वमपि निरतिशयमित्यर्थः । तथा च स्मृतिः ‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्’ इति । ननु मानुषानन्दोऽस्माकं प्रसिद्ध एव, मनुष्यस्य प्रत्यक्षत्वेन मुखप्रसादादिलिङ्गैस्तदीयानन्दस्योत्प्रेक्षितुं शक्यत्वाद् , अन्ये त्वस्माकमप्रसिद्धा इति कथं तद्द्वारा ब्रह्मानन्दानुगमसिद्धिरप्रिसिद्धेनाप्रसिद्धबोधनायोगात् , अतोऽन्यैरप्यानन्दैः प्रसिद्धैरेव भवितव्यम् , तेषां प्रसिद्धिमाश्रित्य ब्रह्मानन्दानुगम इत्ययमर्थः प्रागाचार्यैरेव दर्शितः ‘अनेन हि प्रसद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते’ इत्यादिना । नैष दोषः, मनुष्यगन्धर्वाद्यानन्दानां प्रसिद्धिसम्पादनायैव प्रतिपर्यायं मनुष्यलोकस्थश्रोत्रियप्रत्यक्षत्वकथनात् । इममेवाभिप्रायं प्रकटयितुं हिरण्यगर्भानन्दस्य तत्पर्यायस्थश्रोत्रियप्रत्यक्षत्वमाह – तस्यैष आनन्द इति । हिरण्यगर्भाद्यानन्दस्य ब्रह्मानन्दावगमोपायत्वसिद्ध्युपयोगितया प्रसिद्धत्वकथनपरेण ‘श्रोत्रियस्य चाकामहतस्य’ इति वाक्यजातेनान्यदपि सिध्यतीत्याह – तस्मादिति । मनुष्यस्य सतः श्रोत्रियस्य श्रोत्रियत्वादित्रितयमहिम्ना हिरण्यगर्भादितुल्यानन्दकथनात्त्रीण्यप्येतान्यानन्दप्राप्तौ साधनानीति गम्यत इत्यर्थः । त्रिषु मध्ये विशेषमाह – तत्रेति । सर्वेषां श्रोत्रियाणां श्रोत्रियत्वावृजिनत्वे नियते साधारणे, अकामहतत्वमेवोत्कृष्यमाणं सदानन्दोत्कर्षे कारणमित्यतः प्रकृष्टसाधनता अकामहतत्वस्यावगम्यत इत्यर्थः । यदुक्तं प्रकारान्तरेण ब्रह्मानन्दानुगमप्रदर्शनाय लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्रेति, तमेव प्रकारान्तरेण ब्रह्मानन्दानुगममिदानीं लौकिकानन्दानां ब्रह्मानन्दमात्रात्वप्रदर्शनपूर्वकं दर्शयति – तस्येत्यादिना । तस्य ब्रह्मण इति सम्बन्धः । आनन्द इत्यनन्तरमपिशब्दोऽध्याहर्तव्यः । स च पूर्वोक्तानन्दानामनुक्तानां च सङ्ग्रहार्थ इति मन्तव्यम् । सर्वेषामेव लौकिकानन्दानां ब्रह्मानन्दैकदेशत्वे मानमाह – एतस्यैवेति । अन्यानीति । ब्रह्मणः सकाशादात्मानमन्यत्वेन मन्यमानानि भूतानि प्राणिन इत्यर्थः । लौकिकानन्दस्य परमानन्दमात्रात्वे मानसिद्धे फलितमाह – स एष इति । पूर्वोक्तो लौकिकानन्दो यस्य मात्रा यस्मादुपाधितो भिन्नो यत्रैवोपाधिविलये पुनरेकतां गच्छति स आनन्दः स्वाभाविको नित्योऽस्तीत्यत्र हेतुमाह – अद्वैतत्वादिति । 'अथ यदल्पं तन्मर्त्यम्’ इति श्रुत्या परिच्छिन्नस्यानित्यत्वप्रतिपादनादद्वैतत्वं नित्यत्वसाधने समर्थमिति मन्तव्यम् । ननु ब्रह्मानन्दस्याद्वैतत्वमसिद्धम् ‘रसं ह्येवायं लब्ध्वानन्दी भवति’ इत्यानन्दानन्दिभावेन ब्रह्मानन्दजीवयोर्भेदावगमादित्यत आह – आनन्दानन्दिनोश्चेति । च-शब्दः शङ्कानिरासार्थः । अत्रेत्यस्य विद्याकाल इत्यर्थः । ततश्चाविद्याकाल एवाविद्यिको भेदो न विद्याकाले विद्यया भेदकोपाधेरविद्याया निरस्तत्वादित्यर्थः । एतदुक्तं भवति - ब्रह्मानन्दजीवयोरविद्याकल्पितो विभागो न वास्तवः, अतो ब्रह्मानन्दस्य नाद्वैतत्वहानिरिति ॥ एवम् ‘सैषानन्दस्य मीमांसा भवति’ इत्युपक्रम्य श्रुत्या मात्राभूतसातिशयानन्दोपन्यासद्वारा सूचितया ‘लौकिकानन्दः क्वचित्काष्ठां प्राप्तः सातिशयत्वात्’ ‘लौकिकानन्दो यस्य मात्रा समुद्राम्भस इव विप्रुट्’ इत्यादिलक्षणया मीमांसया ‘अस्त्यद्वितीयः परमानन्दः’ इति निर्णयः कृत इति प्रदर्श्य इदानीमुत्तरवाक्यतात्पर्यमाह – तदेतदिति । तदेतत् ब्रह्मानन्दस्याद्वितीयत्वस्वाभाविकत्वादिलक्षणं मीमांसाफलं मीमांसया निर्णीतमित्यर्थः । 'स यश्चायम्’ इत्यत्र स इति शब्देन गुहानिहितवाक्ये तद्वृत्तिस्थानीये प्रवेशवाक्ये च निर्दिष्टः प्रत्यगात्मा निर्दिश्यत इत्याह – यो गुहायामिति । आकाशे या गुहा तस्यामित्यन्वयः । योऽन्नमयान्तमाकाशादिकार्यं सृष्ट्वा तदेव कार्यमनुप्रविष्ट इत्यर्थः । अयमित्यनेन तस्यापरोक्षत्वमुच्यत इत्याशयेनाह – कोऽसावित्यादिना । पुरुष इति । शरीर इत्यर्थः । श्रोत्रियप्रत्यक्ष इति । यद्यपि लौकिकानन्दानामेव पूर्वत्र श्रोत्रियप्रत्यक्षत्वं निर्दिष्टं न परमानन्दस्य, तथापि तत्र परमानन्दस्याकामहतविद्वच्छ्रोत्रियप्रत्यक्षत्वमर्थान्निर्दिष्टमिति तदभिप्रायोऽयं ग्रन्थः, अकामहतत्वस्य निरतिशयोत्कर्षे सति विदुषः परमानन्दप्राप्तेः प्रागुपपादितत्वादिति मन्तव्यम् । यो विद्वत्प्रत्यक्षत्वेन ब्रह्मादिसर्वभूतोपजीव्यानन्दानुगम्यत्वेन च प्रकृतः परमानन्दः, सोऽसावादित्यदेवताधेयत्वेन निर्दिश्यत इत्यर्थः । स एक इति । ‘स यश्चायं पुरुषे’ इति वाक्यनिर्दिष्टस्य बुद्ध्यवच्छिन्नजीवरूपानन्दस्य ‘यश्चासावादित्ये’ इति वाक्ये आदित्यान्तःस्थत्वेन निर्दिष्टस्य मायावच्छिन्नपरमानन्दस्य च ‘स एकः’ इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्यते, अस्मिन्नर्थे इत्थमक्षरयोजना - सः द्विविधोऽप्यानन्दो वस्तुत एक एवेति । भिन्नप्रदेशस्थयोर्घटाकाशाकाशयोराकाशस्वरूपेण यथैकत्वमिति दृष्टान्तार्थः । ननु ‘स यश्चायं पुरुषे’ इति सामान्यतः शरीरस्थत्वेनात्मनो निर्देशो न युक्तः प्रसिद्धिविरोधादिति शङ्कते – नन्विति । तन्निर्देश इति । तस्यात्मनोऽध्यात्मनिर्देशे विवक्षिते सतीत्यर्थः । कथं तर्हि निर्देशः कर्तव्य इत्याकाङ्क्षायामाह – यश्चायं दक्षिण इति । 'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ इति श्रुत्यन्तरे दक्षिणाक्षिग्रहणस्य प्रसिद्धत्वात्तदैकरूप्यायात्रापि तथा निर्देश एव युक्त इत्यर्थः । तत्र सोपाधिकस्य ब्रह्मण उपासनार्थं स्थानविशेषनिर्देशेऽपि नात्र तदपेक्षेति परिहरति – न, पराधिकारादिति । निरुपाधिकात्मप्रकरणादित्यर्थः । हेतुं साधयति – परो हीत्यादिना । ननु परस्य प्रकृतत्वेऽपि ‘यश्चासावादित्ये’ इत्यादौ सोपाधिकमुपास्यमेव निर्दिश्यतामिति ; नेत्याह – न ह्यकस्मादिति । परमात्मनि प्रकृते सति ‘स यश्चायम्’ इत्यादौ प्रकृतपरमात्माकर्षकसर्वनामश्रुतिषु च सतीषु कथमकस्माद्धेतुं विनात्र सोपाधिको निर्देष्टुं युक्तः तस्याप्रकृतत्वादित्यर्थः । ननु तर्हि परस्यैव ध्यानार्थमादित्यादिस्थाननिर्देशोऽत्रास्तु ; नेत्याह – परमात्मविज्ञानं चेति । च-शब्दः शङ्कानिरासार्थः । निरुपाधिकस्य ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यादौ ध्याननिषेधादत्र तद्ध्यानविवक्षायां मानाभावाच्चेत्यर्थः । उपसंहरति – तस्मादिति । पराधिकारात्पर एव निर्दिश्यते नापरः, अतो नाक्षिस्थाननिर्देशापेक्षेत्यर्थः । इतश्चात्र पर एव निर्दिश्यत इत्याह सिद्धान्ती – नन्वानन्दस्येति । फलस्वरूपमेव कथयति – अभिन्नस्वभावक इत्यादिना । न च मीमांसाफलस्यानुपसंहारे कानुपपत्तिरिति वाच्यम् , मीमांस्यत्वेनोपक्रान्तस्यानन्दस्य ‘स यश्चायम्’ इत्यादावद्वितीयत्वेनोपसंहाराभावे चरमपर्यायनिर्दिष्टे विषयविषयिसम्बन्धजनिते सातिशये हिरण्यगर्भानन्द एव मीमांसापर्यवसानापत्त्या तदद्वितीयत्वनिर्णयालाभलक्षणाया अनुपपत्तेः सत्त्वात् । सिद्धान्त्येव स्वपक्षे पुरुष इत्याद्यविशेषतो निर्देशस्यानुकूल्यमाह – ननु तदनुरूप एवेति । 'स यश्चायम्’ इति वाक्यं जीवानुवादकम् , आदित्यवाक्यमीश्वरानुवादकम् , ‘स एकः’ इति तु तयोर्भिन्नाधिकरणस्थयोरुपाधिविशेषनिरसनद्वारा एकत्वबोधकमिति रीत्या निर्देशस्यानुरूप्यम् । ते च भिन्ने अधिकरणे आदित्यः शरीरं चेति मन्तव्यम् । अत्रोपसनविवक्षाभावे सत्यादिग्रहणं विफलम् , ‘तत्त्वमसि’ इत्यादाविवेश्वरस्य शब्दान्तरेणैव निर्देशसम्भवादिति मत्वा शङ्कते – नन्वेवमपीति । उक्तरीत्या परमात्मनिर्देशादेरावश्यकत्वेऽपीत्यर्थः । आदित्यदेवताया उत्कृष्टोपाधिकत्वात्तदन्तःस्थत्वेन परमात्मनो निर्देशे तस्याप्युत्कृष्टोपाधिकत्वेनार्थादुत्कर्षो निर्दिष्टो भवति ; तथा च ‘स यश्चायम्’ इत्यनेन निकृष्टमात्मानमनूद्य ‘यश्चासावादित्ये’ इत्यनेनोत्कृष्टमीश्वरं चानूद्य ‘स एकः’ इत्यनेन तयोर्निरुपाधिकपरमानन्दस्वरूपेणैकत्वे बोधिते सत्युपाधितत्कृतोत्कर्षापकर्षाणामपोहो भवति । एवमुत्कर्षप्रत्यायनद्वारा तदपोहप्रयोजनकत्वादादित्यग्रहणं नानर्थकमिति परिहरति – नानर्थकमिति । उत्कर्षस्यापकर्षनिरूपकत्वादुत्कर्षापोहे निकर्षापोहोऽपि भवतीति मत्वा निकर्षापोहोऽप्यादित्यग्रहणप्रयोजनत्वेनोक्त इति मन्तव्यम् । आदित्यदेवतोपाधेरुत्कृष्टत्वे मानमाह – द्वैतस्य हीति । अत्र सवितृशब्दो मण्डलपरः तदन्तर्गतश्च समष्टिलिङ्गदेहोऽपि विवक्षितः । तत्र मण्डलात्मकः सविता मूर्तस्य पर उत्कर्षः सार इति यावत् , तथा तदन्तर्गतो लिङ्गात्मा अमूर्तस्य पर उत्कर्षः, तदुभयमादित्यदेवतोपाधिभूतं मूर्तामूर्तलक्षणस्य द्वैतस्य सारभूतमित्येतद्वाजसनेयके प्रसिद्धमिति द्योतनार्थो हि-शब्दः । ननु ब्रह्मात्मैकत्वविज्ञानेनोत्कर्षाद्यपोहे सति किं फलतीत्याशङ्क्याह – स चेदिति । सवित्रादिद्वारा बुद्धिस्थः सर्वोत्कृष्टः परमेश्वर इत्यर्थः । तथा च सोपाधिक ईश्वरः स्वोपाधिभूतं विशेषं परित्यजन् शरीरगतलिङ्गात्मकजीवोपाध्युपमर्दनेन परमानन्दमपेक्ष्य परमानन्दस्वरूपेण सम एकत्वमापन्नो भवति चेदित्यर्थः । ततः किमित्यत आह – न कश्चिदिति । निर्विशेषपरमानन्दब्रह्मणा सहैकत्वलक्षणम् ‘स एकः’ इति वाक्ये प्रकृतां गतिं गतस्य विदुषः सगुणमुक्तस्येवोत्कर्षो वा संसारिण इवापकर्षो वा न कश्चिदस्तीति सिध्यतीत्यर्थः । ननु निकर्षस्य हेयत्वेऽपि परममुक्तस्योत्कर्षः किमिति हेयः, सूर्यादेरिवोत्कर्षं प्राप्तस्यापि तस्य कृतार्थत्वसम्भवात् , तथा चोत्कर्षापोहप्रयोजनकमादित्यग्रहणमसङ्गतमिति ; नेत्याह – अभयमिति । मुक्तस्योत्कर्षप्राप्त्युपगमे तत्प्रयोजकेनोपाधिनापि भवितव्यम् , तथा च सोपाधिकस्य मुक्तस्य परमानन्दरूपादीश्वराद्भेदावश्यम्भावात्सूर्यवाय्वादेरिव भयमावश्यकमित्येकत्वज्ञानेन मुक्तिं प्राप्तस्य ‘अभयं प्रतिष्ठां विन्दते’ इति वचनमनुपपन्नमेव स्यात् , ततो न विदुष उत्कर्षप्राप्तिरिष्टेति तदपोहप्रयोजनकमादित्यग्रहणमं सङ्गतमेवेति भावः ॥ वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति – अस्ति नास्तीत्यादिना । व्याख्यातो निराकृत इत्यर्थः । कथं निराकृत इत्याकाङ्क्षायामाह – कार्येति । कार्यं च रसलाभश्च प्राणनं चाभयप्रतिष्ठा च भयदर्शनं च, एतान्येवोपपत्तय इत्यर्थः । विषयाविति । अविशिष्टाविति शेषः । उच्यत इति । 'स य एवंवित्’ इत्यादिना ब्रह्मप्राप्तिर्विदुष उच्यत इत्यर्थः । ननु तर्हि मध्यमोऽनुप्रश्नो विशिष्येत ; नेत्याह – मध्यम इति । विदुषो ब्रह्मप्राप्तिप्रतिपादनेनान्त्यप्रश्नापाकरणे कृते सति अर्थादविदुषस्तत्प्राप्तिर्नास्तीति निर्णयलाभान्मध्यमप्रश्नो निराकर्तव्यत्वेन नावशिष्यते, अतो न तदपाकरणाय श्रुत्या प्रयत्नः कृत इत्यर्थः । इदमुपलक्षणम् ; अविदुषो ब्रह्मप्राप्तिप्रश्नस्यातिफल्गुत्वाच्च तदपाकरणाय श्रुत्या न यत्यत इत्यपि द्रष्टव्यम् । वेदनस्योत्कर्षादिरहिताद्वितीयस्वप्रकाशब्रह्मविषयकत्वलाभे हेतुमाह – एवंशब्दस्येति । लोकशब्दस्य प्रत्यक्षसिद्धभोग्यमात्रपरत्वं व्यावर्तयति – दृष्टादृष्टेति । 'अस्माल्लोकात्प्रेत्य’ इत्यनेन सर्वस्मात्कर्मफलाद्वैराग्यं विवक्षितमित्याह – निरपेक्षो भूत्वेति । अत्र येन क्रमेणैव वेदनं प्राप्तं तत्क्रमानुवादपूर्वकमेवं वेदनफलमुच्यत इति प्रतीयते, तां प्रतीतिमाश्रित्य व्याख्यानमिदम् ; विवक्षितं तु व्याख्यानं करिष्यमाणचिन्तावसाने भविष्यतीति मन्तव्यम् । एवं विरक्तो भूत्वा प्रथमं पुमान्किं करोति तत्राह – एतमिति । यथोक्तमिति । 'स वा एष पुरुषोऽन्नरसमयः’ इत्यत्रान्नरसविकारत्वेनोक्तमित्यर्थः । विषयजातमित्यनेन व्यष्टिपिण्डव्यतिरिक्तः समष्टिपिण्डात्मा विराडुच्यते । विराजं व्यष्टिपिण्डव्यतिरिक्तं न पश्यति चेत्कथं तर्हि पश्यतीत्याकाङ्क्षायां तद्दर्शयन्नुपसङ्क्रामतीत्यस्यार्थमाह – सर्वमिति । समष्टिस्थूलात्मानं विराजमन्नमयात्मानं पश्यति समष्टिव्यष्ट्यात्मकमन्नलक्षणं ब्रह्माहमिति पस्यतीति यावत् । तत इति । विराडात्मकादन्नमयकोशादान्तरमित्यर्थः । एतमिति । 'अन्योऽन्तर आत्मा प्राणमयः’ इत्यत्र प्रकृतमित्यर्थः । अविभक्तमिति । सूत्रात्मना एकीभूतमित्यर्थः । अत एव सर्वपिण्डव्यापित्वरूपं सर्वान्नमयात्मस्थत्वविशेषणं प्राणमयस्योपपद्यते । तथा चान्नमयात्मदर्शनानन्तरं तद्धित्वा यथोक्तं प्राणमयात्मानं पश्यतीत्यर्थः । एवमुत्तरत्रापि योजनीयम् । उपसङ्क्रामतीति । एवं क्रमेणानन्दमयमात्मानमुपसङ्क्रम्यानन्तरमानन्दमयं प्रति पुच्छप्रतिष्ठाभूतमुत्कर्षादिरहितं सत्यज्ञानानन्तलक्षणं ब्रह्माहमस्मीति पश्यंस्तदेव प्राप्नोतीति भावः । अथेति । एवंविदेवं वेदनानन्तरमित्यर्थः ॥ तत्रैतच्चिन्त्यमिति । 'स य एवंवित्’ इत्यत्र ‘उपसङ्क्रामति’ इत्यत्र च एवंवित्स्वरूपं सङ्क्रमणस्वरूपं च विचारणीयमित्यर्थः । कोऽयमेवंविदित्युक्तं विवृणोति – किमिति । अन्य इत्यस्य विवरणं प्रविभक्त इति पक्षद्वयेऽप्यनुपपत्त्यभावात्संशयो न घटत इति मत्वा पृच्छति – किं तत इति । पक्षद्वयेऽप्यनुपपत्तिं संशयकारणभूतामाह – यद्यन्यः स्यादित्यादिना । 'अन्योऽसौ ‘ इत्यनया श्रुत्या जीवपरभेदचिन्तनस्याज्ञानप्रयुक्तत्वप्रतिपादनात्तयोः स्वाभाविकमन्यत्वमेतच्छ्रुतिविरुद्धं चेत्यर्थः । आनन्दमयमिति । उपसङ्क्रमणस्य प्राप्तिरूपत्वमाश्रित्येदमुदाहरणम् ; तथा च एवंवित्परयोरभेदे तयोः प्राप्तिं प्रति कर्तृकर्मभावो नोपपद्यत इत्यर्थः । किं च, तयोरभेदपक्षे किं जीवस्य परस्मिन्नन्तर्भावः किं वा परस्य जीवे नाद्यः, तथा सति परव्यतिरेकेण जीवाभावादचेतनानां संसारित्वासम्भवाच्चानुभूयमानं संसारित्वं परमात्मन एव प्रसज्येतेत्याह – परस्यैवेति । द्वितीये दोषमाह – पराभावो वेति । जीवनियन्तृत्वेन श्रुतिसिद्धस्य परस्याभावः प्रसज्येतेत्यर्थः । पक्षद्वयेऽप्यपरिहार्यं दोषं श्रुत्वा मध्यस्थश्चिन्तामाक्षिपति – यद्युभयथेति । जीवस्य परस्मादन्यत्वेऽनन्यत्वे चेत्यर्थः । नन्वभेदपक्षे प्राप्तो दोषो वक्ष्यमाणरीत्या परिहर्तुं शक्यत इति वदन्तं चिन्तारम्भवादिनं प्रति मध्यस्थ एवाह – अथान्यतरस्मिन्निति । परापरयोर्वास्तवौ भेदाभेदाविति पक्षान्तरं निर्दुष्टं मन्यमानस्य भास्करादेरभिप्रायमनूद्य तस्मिन्नपि पक्षे चिन्तावैयर्थ्यमाह – तृतीये वेति । अदुष्ट इति च्छेदः । सिद्धान्ती चिन्तावैयर्थ्यं निराकरोति – न, तन्निर्धारणेनेति । तेषां पक्षाणामन्यतमस्यादुष्टत्वनिर्धारणेनेत्यर्थः । चिन्तां विना निर्धारणासम्भवादिति भावः । सङ्ग्रहवाक्यं तटस्थोक्तानुवादपूर्वकं विवृणोति – सत्यमित्यादिना । न शक्य इत्यत्र यदिशब्दोऽध्याहर्तव्यः । पुनरपि मध्यस्थश्चिन्तावैयर्थ्यमाह – सत्यमर्थवतीति । न तु निर्णेष्यसीति । त्वया निर्णेतुमशक्यमित्यभिसन्धिः । अभिसन्धिमानेव तटस्थं निराकरोति – किमिति । निर्णयस्याशक्यत्वमसिद्धमित्यारम्भवादिनोऽपि गूढोऽभिसन्धिः । यथाश्रुतमुपालम्भं तटस्थः परिहरति – नेति । वेदवचनं न भवतीत्यर्थः । आरम्भवादी न तु निर्णेष्यसीत्यत्र हेतुं पृच्छति – कथं तर्हीति । यदि न वेदवचनं तर्हि कथं न निर्णेष्यसीति वदसीत्यर्थः । निर्णयस्याशक्यत्वे स्वाभिसंहिते हेतुमाह – बह्विति । अद्वैतस्यैव वेदार्थत्वात्तत्साधनपरस्त्वमेक एव, भेदवादिनः पुनरसङ्ख्याताः, ततश्च कथं तेषु जीवत्सु तव निर्णयसिद्धिरित्यर्थः । 'शतमप्यन्धानां न पश्यति’ इति न्यायमाश्रित्यारम्भवादी परिहरति – एतदेवेति । एकयोगिनमिति । एकत्ववादिनमित्यर्थः । अनेकयोगिनो नानात्ववादिनो बहवः प्रतिपक्षा यस्य स तथा, तमित्यर्थः । त्वदीयं यदेकत्ववादीत्यादिवचनमेतदेव मम स्वस्त्ययनं निर्णयसामर्थ्यसूचकमित्यर्थः । नानात्ववादिनां बहुत्वेऽपि न तेषां प्राबल्यशङ्का, नानात्वस्य मानशून्यतायास्तत्र तत्रोक्तत्वाद्वक्ष्यमाणत्वाच्चेति भावः । तेषां दौर्बल्याभिप्राये स्थिते फलितमाह – अत इति । एवमात्मैकत्वस्य वादिविप्रतिपत्त्या सन्दिग्धत्वात्तन्निर्णयस्य मुक्तिफलकत्वाच्च विषयप्रयोजनवतीमात्मतत्त्वगोचरां चिन्तामारभते – आरभे च चिन्तामिति ॥ भेदपक्षं भेदाभेदपक्षं चावधारणतुशब्दाभ्यां क्रमेण निराकुर्वन्नेव सिद्धान्तमाह – स एव तु स्यादिति । न तावज्जीवब्रह्मणोर्भेदोऽस्ति मानाभावात् । न चाभेदे परस्यैव संसारित्वं पराभावो वा स्यादिति वाच्यम् , चिदात्मनः परमार्थत एकत्वेऽपि बुद्ध्युपहितश्चिदात्मा जीवः बुद्धिकारणीभूताविद्योपहितश्चिदात्मा परमेश्वर इत्येवं भेदकल्पनया संसारित्वासंसारित्वव्यवस्थोपपादनसम्भवात् ; तथा च श्रुतिः - ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति । एतेन नाहमीश्वर इति भेदप्रत्यक्षस्य सुखदुःखादिवैचित्र्यादेश्च जीवेश्वरभेदसाधकत्वं निरस्तम् औपाधिकभेदेनैवोक्तप्रत्यक्षाद्युपपत्त्या वास्तवभेदसाधने तत्प्रत्यक्षादेः सामर्थ्याभावात् । अत एव तयोर्वास्तवौ भेदाभेदाविति पक्षोऽपि निरस्तः, एकत्र वस्तुतो भेदाभेदयोर्विरुद्धत्वाच्च । तस्माद्वस्तुतो जीवः पराभिन्नः, ‘अन्योऽसौ’ इत्यत्र भेददृष्टेर्निन्दितत्वात् ‘एकमेवाद्वितीयम्’ ‘तत्त्वमसि’ इत्याद्यभेदश्रुतेश्चेति भावः । एवंवित्पर एव स्यादित्यत्र हेत्वन्तरमाह – तद्भावस्य त्विति । तु-शब्दश्चार्थः सन्पञ्चम्या सम्बध्यते । विवृणोति – तद्विज्ञानेनेति । परब्रह्मविज्ञानेनेत्यर्थः । ननु परस्यैवंविद्भिन्नत्वेऽपि ‘ब्रह्मविदाप्नोति परम् ‘ इत्यत्र विवक्षिता परभावापत्तिरेवंविदः किं न स्यादिति ; नेत्याह – न हीति । अन्यस्य स्वरूपे स्थिते नष्टे वा अन्यात्मकत्वं न ह्युपपद्यत इत्यर्थः । अभेदपक्षेऽप्यनुपपत्तितौल्यमाशङ्कते – नन्विति । यद्यपि ब्रह्मस्वरूपस्य सतो ब्रह्मविदस्तद्भावापत्तिर्मुख्या न सम्भवति, तथाप्यौपचारिकी सा सम्भवतीत्याह – न, अविद्याकृतेति । अविद्याकृतो योऽयमतदात्मभावस्तदपोह एवार्थः पुरुषार्थः तत्स्वरूपत्वात्तद्भावापत्तेः न तद्भावानुपपत्तिरित्यर्थः । हेतुं विवृणोति – या हीत्यादिना । उपदिश्यते ‘ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुत्येति शेषः । अध्यारोपितस्येति । एतेन सङ्ग्रहवाक्यगतातदात्मभावशब्देन प्रत्यगात्मन्यभेदेनाध्यस्तोऽन्नमयादिरनात्मा विवक्षित इति सूचितम् । अन्नमयादेरविद्याकृतत्वविशेषणेन विद्यया अविद्यापोहद्वारा तत्कृतान्नमयादेरपोह इति सूचितम् , प्रत्यगात्मन्यध्यस्तस्य कार्यवर्गस्य साक्षाद्विद्यापोह्यत्वाभावात् ; तदुक्तं पञ्चपादिकायाम् - ‘यतो ज्ञानमज्ञानस्यैव निवर्तकम्’ इति । देवदत्तस्य ग्रामादिप्राप्तिवदत्र मुख्यां प्राप्तिं विहायामुख्यप्राप्त्यर्थकता फलवाक्यस्य केन हेतुनावगम्यत इति पृच्छति – कथमिति । परप्राप्तिसाधनत्वेन ‘ब्रह्मविद्’ इति विद्यामात्रोपदेशात्सकार्याविद्यानिवृत्तिरेव परप्राप्तिरिति गम्यत इत्याह – विद्यामात्रेति । नन्वप्राप्तप्राप्तिरपि विद्यामात्रफलं किं न स्यादिति ; नेत्याह – विद्यायाश्चेति । च-शब्दः शङ्कानिरासार्थः अवधारणार्थो वा । लोके शुक्तितत्त्वादिगोचरविद्यायाः सकार्याविद्यानिवृत्तिरेव कार्यत्वेन दृष्टा, नाप्राप्तप्राप्तिरपीत्यर्थः । ननु सर्वमस्येदं दृष्टं भवति ‘य एवं वेद’ इत्यादाविव ‘ब्रह्मविद्’ इत्यत्रापि विदेर्विद्यावृत्तिरूपोपास्तिवाचित्वाद्विद्यामात्रोपदेशोऽसिद्ध इति ; नेत्याह – तच्चेहेति । विदेरुक्तोपास्तिपरत्वे लक्षणाप्रसङ्गाद्विद्यामात्रमेव तदर्थ इति नासिद्धिशङ्का, उदाहृतश्रुतौ च ‘यां देवतामुपास्से’ इत्युपक्रमानुसारादिलिङ्गबलाल्लक्षणा न दुष्यतीति विशेष इति भावः । ननु ‘ब्रह्मविदाप्नोति परम्’ इत्युपदेशस्य ‘मार्गविदाप्नोति ग्रामम्’ इत्युपदेशतुल्यत्वाद्यथा तत्र मार्गविदः क्रियाद्वारा ग्रामप्राप्तिः अवाप्यो ग्रामश्च मार्गविदो गन्तुः सकाशादन्यः, तथात्रापि ब्रह्मविद्यावतो विद्यावृत्तिलक्षणोपास्तिद्वारा परप्राप्तिः प्राप्तव्यं परं च ब्रह्मविदः सकाशादन्यत्स्यात् ; तथा चाविद्यानिवृत्तिरूपापरप्राप्तिरनुपपन्ना, उपास्तेरविद्यानिवर्तकत्वाभावादिति शङ्कते – मार्गेति । शङ्कामेव विवृणोति – तदात्मत्व इति । अविद्यानिवृत्तिमात्ररूपे परात्मभाव इत्यर्थः । 'ब्रह्मविदाप्नोति’ इत्यत्र ब्रह्मविद्या ‘अहं ब्रह्म’ इत्याकारा विवक्षिता, गुहानिहितत्ववचनेन प्रवेशवाक्येन च तथा निर्णीतत्वात् ; अत एव प्राप्यं परं ब्रह्मापि ब्रह्मविदो न भिन्नम् ; तथा चोपदेशवैषम्यान्नायं दृष्टान्तो युक्त इत्याह – नेति । तत्र हीति । यः प्राप्तव्यो ग्रामः तद्विषयं ज्ञानं न ह्युपदिश्यते ‘त्वं ग्रामोऽसि’ इत्यनुक्तेरित्यर्थः । न तथेहेति । प्राप्तव्यं यत्परं ब्रह्म तद्विषयमेव ज्ञानम् ‘ब्रह्मवित् - - ‘ इत्युपदिश्यते, न तद्व्यतिरेकेण तदावृत्तिलक्षणस्य साधनान्तरस्य तद्विज्ञानस्य वात्रोपदेशोऽस्ति, ‘वेद’ इत्यस्य साधनान्तरादिपरत्वे लक्षणाप्रसङ्गादिति भावः । ननु ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र विद्यामात्रश्रवणेऽपि न तन्मात्रं परप्राप्तिसाधनत्वेनोपदिश्यते, किं तु संहितोपनिषद्युक्तैः कर्मज्ञानैः समुच्चितमेव ब्रह्मविज्ञानम् , अतो विद्यामात्रोपदेशोऽसिद्ध इति पुनः शङ्कते – उक्तकर्मादीति । अविद्यानिवृत्तिमात्रे मोक्षे ब्रह्मविज्ञानव्यतिरिक्तसाधनापेक्षाभावात्समुच्चयवादिना ब्रह्मभावलक्षणोऽन्यो वा मोक्षो ज्ञानकर्मसमुच्चयजन्यो वाच्यः, तत्र चानित्यत्वप्रसङ्गदोषः प्रागेवोक्त इत्याह – न नित्यत्वादिति । 'ब्रह्मविदाप्नोति’ इत्यत्र समुच्चयोपदेशो न विवक्षित इति प्रतिज्ञार्थः । प्रत्युक्तत्वादिति । समुच्चयपक्षस्येति शेषः । एवम् ‘तद्भावस्य तु विवक्षितत्वात्’ इत्यादिना एवंवित्पर एव स्यादित्यत्र परप्राप्तिवचनं प्रमाणमित्युपपादितम् । तत्रैव हेत्वन्तरमाह – श्रुतिश्चेति । कार्यस्थस्येति । देहादिसङ्घातलक्षणे कार्ये साक्षित्वेन स्थितस्य प्रत्यगात्मनो ब्रह्मस्वरूपत्वं दर्शयतीत्यर्थः । एवंवित्पर एवेत्यत्र हेत्वन्तरमाह – अभयेति । अभयप्रतिष्ठावचनोपपत्तिमेव प्रपञ्चयति – यदि हीति । यदा एवंवित्स्वस्माद्भिन्नमीश्वरं न पश्यति ततस्तदा सकलजगद्भयहेतोः परमेश्वरस्य स्वस्मादन्यस्याभावाद्विदुषोऽभयं प्रतिष्ठां विदन्त इति फलवचनमुपपन्नं स्यादिति योजना । विदुषः सकाशात्परमेश्वरस्यान्यत्वे तस्मादस्य भयावश्यम्भावादभयप्रतिष्ठावचनोपपत्तये तयोरनन्यत्वं निश्चीयत इति निष्कर्षः । नन्वीश्वरस्यानन्यत्वेऽपि राजादेरन्यस्य सत्त्वात्कथमभयसिद्धिरित्याशङ्क्य जीवपरान्यत्ववद्राजादिजगदप्यसदेवेत्याह – अन्यस्य चेति । राजादिप्रपञ्चस्याप्यन्यत्वेन प्रतीयमानस्योक्तवक्ष्यमाणश्रुतिन्यायैरविद्याकृतत्वे सिद्धे सति विदुषो विद्यया सर्वं जगदवस्त्वेवेति दर्शनमुपपद्यते, तथा च न जगतोऽपि विदुषो भयप्रसक्तिरित्यर्थः । एतदुक्तं भवति – श्रुत्यादिप्रमाणजनितया तत्वदृष्ट्या द्वैतस्याग्रहणादसत्त्वमिति । अस्मिन्नर्थे दृष्टान्तमाह – तद्धीति । दृष्टान्तवैषम्यमाशङ्कते – नैवमिति । यथा तिमिराख्यदोषरहितचक्षुष्मता द्वितीयश्चन्द्रो न गृह्यते एवं द्वैतं विदुषा न गृह्यत इति न, किं तु गृह्यत एव, अन्यथा विदुषः शास्त्रार्थोपदेशादौ प्रवृत्त्यभावप्रसङ्गादित्यर्थः । व्यवहारकाले विदुषा तद्ग्रहणेऽपि समाध्यवस्थायामग्रहणादविद्वत्साधारण्येन सुषुप्तावग्रहणाच्च न वैषम्यमित्याशयेन परिहरति – न, सुषुप्तेति । सुषुप्तादौ द्वैताग्रहणं द्वैतासत्त्वप्रयुक्तं न भवतीति शङ्कते – सुषुप्त इति । यथा इषुकार इष्वासक्तमनस्तया इषुव्यतिरिक्तं विद्यमानमपि न पश्यति, एवं विद्यमानमेव द्वैतं सुषुप्तौ समाधौ च न पश्यतीत्यर्थः । दृष्टान्तवैषम्येण निराकरोति – न, सर्वाग्रहणादिति । इषुकारस्य हि सर्वाग्रहणं नास्ति इषुग्रहणस्यैव सत्त्वात् , सुषुप्त्यादौ तु न कस्यापि विशेषस्य ग्रहणमस्ति, अतो द्वितीयचन्द्रस्येव द्वैतस्य कदाचिदग्रहणादसत्त्वमेव वक्तव्यमित्यर्थः । ननु द्वैतस्य सुषुप्तादौ चेदनुपलम्भादसत्त्वं तर्हि जाग्रदादावुपलम्भात्सत्त्वमेव किं न स्यादिति शङ्कते – जाग्रदिति । उपलभ्यमानत्वमात्रं न सत्त्वप्रयोजकम् , तथा सति शुक्तिरूप्यद्वितीयचन्द्रादेरपि सत्त्वप्रसङ्गात् , किं तु बाधायोग्यत्वादिकमन्यदेव सत्त्वप्रयोजकम् , तच्च द्वैतस्य नास्ति ‘नेह नानास्ति किञ्चन’ इत्यादौ सहस्रशो बाधदर्शनादित्यभिप्रेत्य द्वैतस्य शुक्तिरूप्यादेरिवान्वयव्यतिरेकाभ्यामविद्याकार्यत्वं दर्शयति – न, अविद्याकृतत्वादिति । सङ्ग्रहं विवृणोति – यदन्यग्रहणमिति । यदन्यत्वेन गृह्यमाणं जगदित्यर्थः । अन्वयमाह – अविद्याभाव इति । मुक्तावविद्याया अभावे जगतोऽभावादिति व्यतिरेको बहिरेव द्रष्टव्यः । न चात्र मानाभावः शङ्कनीयः, ‘सत्किञ्चिदवशिष्यते’ इत्यादेर्मुक्तिप्रतिपादकशास्त्रस्य मानत्वात् । नन्वविद्यायां सत्यां गृह्यमाणं द्वैतं यद्यसत्तर्हि सुषुप्ते स्वयमेव प्रकाशमानमद्वैतमपि परमार्थं न स्यात् , तदाप्यविद्यायाः सत्त्वादिति मत्वा शङ्कते – सुषुप्तेऽग्रहणमपीति । न विद्यते ग्रहणं स्वेनान्येन वा यस्य तदग्रहणम् , स्वयञ्ज्योतिःस्वभावमद्वैतमिति यावत् । अविद्याकालीनस्याप्यद्वैतस्य न कल्पितत्वम् अन्यानपेक्षस्वभावत्वादिति परिहरति – नेति । सङ्गृहीतमर्थं दृष्टान्तपूर्वकं विवृणोति – द्रव्यस्य हीत्यादिना । लोके प्रसिद्धस्य मृदादिद्रव्यस्य अविक्रिया यत्कुलालादिकारकैरविकृतं मृत्स्वरूपमस्ति तत्तस्य तत्त्वम् अनृतविलक्षणं स्वरूपम् उक्तकारकानपेक्षत्वात् , तस्यैव मृदादिद्रव्यस्य या विक्रिया घटादिविकारावस्था सा तस्य अतत्त्वम् अनृतं रूपमित्यर्थः । ननु मृद्वस्तुनः कारकापेक्षमपि विकाररूपं वास्तवं किं न स्यादिति चेत् ; नेत्याह – न हीति । कारकापेक्षं विकारजातं वस्तुनो मृदादेस्तत्त्वं वास्तवं रूपं न भवति कादाचित्कत्वाच्छुक्तिरूप्यादिवदित्यर्थः । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ‘ इति श्रुतिप्रसिद्धिसङ्ग्रहार्थो हि-शब्दः । एवं जगत्कारणस्य ब्रह्मणः परानपेक्षस्वभावत्वान्मृदादिद्रव्यस्येव सत्यत्वमभिप्रेत्य मृदादिविकारस्येव ब्रह्मविकारस्य जगतोऽनृतत्वमाह – सत इति । ननु सतः सत्सामान्यरूपस्य ब्रह्मणो विशेषो नाम कः यस्य कारकापेक्षत्वेन मिथ्यात्वमुच्यते तत्राह – विशेषश्च विक्रियेति । विक्रिया विकारात्मकं जगदित्यर्थः । अयमेव मिथ्याभूतो विशेषः प्रत्यक्षादिना गृह्यते, न केवलं परमार्थसत्यमद्वैतमित्याशयेनाह – जाग्रदिति । ग्रहणपदं गृह्यमाणार्थकम् । एवं द्रव्यस्य हीत्यादिना प्रपञ्चितमर्थं सङ्क्षिप्याह – यद्धि यस्येति । अन्याभाव इति । यद्यपि मृदादेः कारकापेक्षं घटादिरूपं कारकाभावेऽपि तिष्ठति तथापि शुक्त्यादेरज्ञानादिसापेक्षं रजतादिरूपं तदभावे न तिष्ठति, तथा सद्रूपस्य ब्रह्मणोऽपि मूलाविद्यादिसापेक्षं जगद्रूपं तदभावे न तिष्ठतीति प्रायिकाभिप्रायेण तदुक्तिः । विवक्षितार्थस्तु – यद्धि यस्य कादाचित्कं रूपं न तत्तस्य तत्त्वं यथा शुक्त्यादे रूप्यादि, यथा वा मृदादेर्घटादि ; यद्धि यस्याव्यभिचारिरूपं तत्तस्य वास्तवं रूपम् , परं तु मृदादिस्वरूपमापेक्षिकसत्यम् , ब्रह्म तु पारमार्थिकसत्यं कदापि व्यभिचाराभावादिति । इममेव विभागमभिप्रेत्य परमार्थसत्यस्य ब्रह्मणो लौकिकसत्यं मृदादिश्रुतौ दृष्टान्तत्वेनोपादीयते । एतेनानाद्यज्ञानादेरपि मिथ्यात्वं व्याख्यातम् , अज्ञानादेरपि चैतन्ये कादाचित्कत्वात् । न च हेत्वसिद्धिः, अज्ञानतत्सम्बन्धजीवत्वादीनां विद्यया निवृत्तिश्रवणादित्यन्यत्र विस्तरः । उपसंहरति – तस्मादिति । यथा जाग्रत्स्वप्नयोरनुभूयमानो विशेषः कादाचित्कत्वादविद्याकृतः तथा सुषुप्ते सुषुप्त्यादिसाधकत्वेन प्रकाशमानं सदद्वयं वस्तु नाविद्याकृतम् अन्यानपेक्षस्वभावत्वादित्यर्थः । एवं स्वमते भयहेतोरन्यस्य परस्याभावादभयं प्रतिष्ठां विन्दत इत्युपपाद्य एवंवित्परस्मादन्य इति पक्षे तदसम्भवमिदानीमाह – येषामित्यादिना । येषां मते परमार्थत एव जीवादन्यः परो जगच्चान्यत् , तेषां मते विदुषो भयनिवृत्तिर्न स्याद्भयहेतोरन्यस्येश्वरस्य सत्त्वादित्यर्थः । ननु परमार्थतोऽन्यस्यापि सत ईश्वरस्य विद्यया नाशसम्भवात्स्यादेव भयनिवृत्तिरिति ; नेत्याह – सतश्चेति । च-शब्दः शङ्कानिरासार्थः । आत्महानं स्वरूपनाशः । तत्र दृष्टान्तमाह – न चासत आत्मलाभ इति । यथा शशशृङ्गादेरसत आत्मलाभशब्दितोत्पत्तिर्न सम्भवति तथैवेश्वरस्य परमार्थसतो नाशो नोपपद्यत इत्यर्थः । न च परमार्थस्यापि पटादेर्नाशो दृष्ट इति वाच्यम् , पटादौ परमार्थत्वासम्प्रतिपत्तेः भिन्नेश्वरवादिभिरीश्वरनाशेन विदुषो भयनिवृत्त्यनभ्युपगमाच्चेति भावः । नन्वीश्वरस्य प्राणिकर्मसापेक्षस्यैवास्माभिर्भयहेतुत्वमुपेयते न सत्तामात्रेण, विदुषस्तु कर्माभावादभयं भविष्यतीति शङ्कते – सापेक्षस्येति । निराकरोति – न तस्यापीति । ईश्वरं प्रति सहायभूतस्य धर्मादेरपि त्वया परमार्थसत्यत्वाभ्युपगमादीश्वरस्येवात्महानं न सम्भवति ; तथा चास्मिन्नपि पक्षे विदुषो भयानिवृत्तिदोषस्य तुल्यत्वान्नायं परिहारो युक्त इत्यर्थः । सङ्ग्रहं विवृणोति – यद्धर्मादीति । नित्यमनित्यं वा यदन्यद्धर्मादिलक्षणं निमित्तमपेक्ष्यान्यद्ब्रह्म भयकारणं स्यात्तस्यापि तथाभूतस्येश्वरवत्परमार्थभूतस्य धर्मादेरात्मनाशाभावादित्यर्थः । निमित्तपदव्याख्यानम् – सहायभूतमिति । नित्यमिति साङ्ख्यमताभिप्रायम् , तन्मते धर्मादेः प्रकृतिपरिणामस्य प्रकृत्यात्मना नित्यत्वाभ्युपगमात् । परमार्थसतोऽपि धर्मादेरात्महानोपगमे बाधकमाह – आत्महाने वेति । यथा शशशृङ्गादेरसतः सत्त्वापत्तावसत्स्वभाववैपरीत्यं तथा सतः परमार्थस्यापि नाशेनासत्त्वापत्तौ सत्स्वभाववैपरीत्यमापद्येत ; एवं सदसतोरितरेतरतापत्तावुपगम्यमानायामात्माकाशादावपि त्वत्पक्षे आश्वासो न स्यात् , आत्माकाशादेरप्यसत्त्वप्रसङ्ग इत्यर्थः ; तस्मादीश्वरस्य तत्सहायभूतधर्मादेश्च नाशासम्भवादभयवचनं भिन्नेश्वरवादे न सम्भवतीति स्थितम् । स्वमते तु नोक्तदोष इत्याह – एकत्वपक्ष इति । निमित्तमविद्या, तया सहैव जीवेश्वरविभागादिलक्षणस्य संसारस्य भ्रान्तिसिद्धत्वाद्विद्यया तन्निवृत्तौ सत्यामभयं विदुषः सम्भवतीति स्वमते भयनिवृत्त्यनुपपत्तिदोषो नास्तीत्यर्थः । ननु जीवपरयोरेकत्वपक्षेऽपि पूर्वमसतः संसारस्याविद्यादिकारणवशात्सत्त्वापत्तिर्विद्यया चासत्त्वापत्तिरिति स्वभाववैपरीत्यप्रसङ्गदोषस्तुल्य इत्याशङ्क्याह – तैमिरिकदृष्टस्य हीति । दोषवता पुरुषेण दृष्टस्य द्वितीयचन्द्रादेरनिर्वचनीयत्वाद्वस्तुत उत्पत्तिर्विनाशो वा नास्ति, हि प्रसिद्धमित्यर्थः । अयं भावः – चन्द्रद्वित्वादिवदनिर्वचनीयस्य स्थूलसूक्ष्मात्मनानादिकालमारभ्यानुवर्तमानस्य संसारस्याविद्यादिकारणबलेन सर्गादावात्मलाभोपगमेऽपि नासतः सत्त्वापत्तिः असत उत्पत्त्यनुपगमादुत्पन्नस्यापि संसारस्यात्मवत्सत्त्वानुपगमाच्च ; अत एव विद्याबलात्संसारस्यासत्त्वापत्तावपि न सतोऽसत्त्वापत्तिरूपस्वभाववैपरीत्यं संसारस्य सत्त्वानभ्युपगमादेवेति । ननु संसारकारणभूताया अविद्याया आत्मधर्मत्वमेवाभ्युपगन्तव्यं धर्म्यन्तरानुपलम्भात् , तथा तन्निवर्तिकाया विद्याया अपि तत्सामानाधिकरण्यलाभायात्मधर्मत्वमेवोपेयमित्यविद्यादिधर्मवता पुरुषेण निर्धर्मकस्य परस्याभिन्नत्वमिति पक्षः कथं सम्भाव्यत इति मन्वानः शङ्कते – विद्याविद्ययोरिति । किं तयोरात्मधर्मत्वं काल्पनिकं विवक्षितं वास्तवं वा आद्ये न परापरयोरेकत्वानुपपत्तिरिति मत्वा द्वितीयं निराकरोति – न, प्रत्यक्षत्वादिति । प्रत्यक्षत्वं साक्षिप्रत्यक्षविषयत्वम् , दृश्यत्वमिति यावत् । तथा च विद्याविद्ययोर्दृश्यत्वाद्दृग्रूपात्मधर्मत्वं तयोर्वस्तुतो न सम्भवतीत्यर्थः । तयोः स्वरूपकथनपूर्वकं हेतुं साधयति – विवेकेति । सर्वदृश्यविविक्तात्मतत्त्वगोचरा तत्त्वमस्यादिश्रुतिजनिता वृत्तिर्विवेकः तन्निवर्त्या मूलाविद्या अविवेकः । ननु दृश्ययोरपि तयोर्द्रष्टृधर्मत्वं किं न स्यादित्याशङ्क्य अन्यत्रादर्शनादित्याह – न हीति । विद्याविद्ययोः प्रत्यक्षत उपलभ्यमानत्वं प्रपञ्चयति – अविद्या चेत्यादिना । चकारोऽवधारणार्थः । किमात्मतत्त्वं जानासीति गुरुणा पृष्टेन शिष्येण आत्मतत्त्वविषये मूढ एवाहं मम स्वरूपभूतं विज्ञानमविविक्तं विविच्य न ज्ञातमित्येवं स्वानुभवेन सिद्धा मूलाविद्या निरूप्यते, तथा विद्योपदेशे प्रवृत्तेन गुरुणा प्रथमं स्वकीया विद्यानुभूयते, पश्चादनुभवसिद्धां तां शिष्येभ्य उपदिशति, शिष्याश्च तां गृहीत्वा उपपत्तिरभिरवधारयन्तीत्यर्थः । विद्याविद्ययोर्दृश्यत्वे नास्ति विवादावसर इत्याशयः । तयोरात्मधर्मत्वनिराकरणमुपसंहरति – तस्मादिति । आत्मधर्मत्वासम्भवान्मूढोऽहं विद्वानहमित्यनुभवानुसारेण नामरूपान्तर्भूतान्तःकरणस्यैव विद्याविद्ये धर्मत्वेनावशिष्येते । तदुक्तं प्रागेवान्तःकरणस्थाविति । ननु वृत्तिरूपाया विद्याया अन्तःकरणधर्मत्वेऽपि नाविद्यायास्तद्धर्मत्वम् अविद्याकार्यस्यान्तःकरणस्याविद्याश्रयत्वायोगादिति चेत् ; नायं दोषः, अविद्यायाश्चैतन्याश्रितत्वेऽपि प्रतीतितः कामादिपरिणाम्यन्तःकरणधर्मत्ववर्णनस्यात्र विवक्षितत्वाद् , जीवचैतन्यस्याविद्यावत्त्वेऽपि वस्तुतस्तद्राहित्यान्न ब्रह्मैक्यानुपपत्तिरित्यावेदितमधस्तादिति सङ्क्षेपः । ननु विद्याविद्ययोर्नामरूपान्तर्गतान्तःकरणधर्मत्वेऽपि नामरूपयोरेवात्मधर्मत्वमस्तु ; नेत्याह – नामरूपे चेति । नामरूपे चिदात्मनः कल्पितधर्मावेव न वास्तवधर्मौ, चिदात्मनि तयोः शतशो निषेधोपलम्भात् तयोरर्थान्तरत्वाच्चेति भावः । नामरूपे आत्मधर्मौ न भवत इत्यक्षरार्थः । तयोश्चिदात्मनः सकाशादर्थान्तरत्वे श्रुतिमाह – नामरूपयोरिति । ते नामरूपे यदन्तरा यस्माद्भिन्ने तन्नामरूपनिर्वहित्राकाशं ब्रह्मेत्यर्थः । नामरूपशब्दितस्य प्रपञ्चस्यात्मनि कल्पितधर्मत्वं सदृष्टान्तमाह – ते च पुनरिति । उदयास्तमयवर्जिते सवितरि यथा तौ कल्प्येते तथेत्यर्थः । एवं बहुप्रपञ्चेनैवंवित्पर एवेति साधितम् । तत्र पूर्वोक्तामनुपपत्तिमुद्भाव्य निराकरोति – अभेद इत्यादिना । नेति । न तावदानन्दमयः परमात्मा तस्य कार्यात्मतायाः प्रागेवोक्तत्वात् ; नापि तत्प्राप्तिः सङ्क्रमणं प्राप्तेः सङ्क्रमणार्थताया निरसिष्यमाणत्वात् , किं तु ब्रह्मात्मैकत्वविज्ञानमात्रकृता भ्रमनिवृत्तिरत्र सङ्क्रमणम् , अतो नोक्तानुपपत्तिरित्यर्थः । सङ्ग्रहं विवृणोति – न, जलूकावदित्यादिना । सङ्क्रमणस्य प्राप्तिरूपत्वनिराकरणार्थमाशङ्कामुद्भावयति – नन्विति । 'आनन्दमयमात्मानमुपसङ्क्रमति’ इत्युपसङ्क्रमणं श्रूयते ; तच्चान्नमय इवानन्दमयेऽपि मुख्यमेव किं न स्यादिति शङ्कार्थः । दृष्टान्तासिद्ध्या निराकरोति – नेति । सङ्ग्रहं विवृणोति – न मुख्यमेवेत्यादिना । आनन्दमयपर्याये सङ्क्रमणं मुख्यं न भवत्येवेति प्रतिज्ञार्थः । न हीति । बाह्यात्पुत्रभार्यादिलक्षणादस्मादपरोक्षाल्लोकाद्भोगोपायभूतात्प्रेत्य अन्नमयमुपसङ्क्रामतस्तत्त्वविदो जलूकावदन्नमये सङ्क्रमणं न हि दृश्यत इत्यर्थः । यथा एकतृणस्थाया जलूकायास्तृणान्तरप्राप्तिरूपं सङ्क्रमणं दृश्यते, नैवमेवंविदः शरीरस्थस्यान्नमयसङ्क्रमणं दृश्यत इति यावत् । अतो नानन्दमयेऽपि सङ्क्रमणं प्राप्तिरिति भावः । ब्रह्मविदः शरीरस्थत्वादेव प्रकारान्तरेण सङ्क्रमणमपि निरस्तमित्याशयेनाह – अन्यथा वेति । नीडे पक्षिप्रवेशवद्वान्नमये सङ्क्रमणं न दृश्यत इत्यर्थः । नन्वेवंवित्परयोरभेदेऽपि तस्य प्रवेशादिरूपं परं प्रति सङ्क्रमणं सम्भवति, मनोमयविज्ञानमययोरात्मसङ्क्रमणस्य तथाविधस्य दृष्टत्वादिति मन्वानः शङ्कते – मनोमयस्येति । संशयात्मकवृत्तिमदन्तःकरणं मनोमयः निश्चयात्मकवृत्तिमदन्तःकरणं विज्ञानमय इति विभागः । दृष्टान्तासिद्ध्या निराकरोति – नेति । तत्र संशयनिश्चयरूपयोर्वृत्त्योरेव बहिर्विषयदेशे चक्षुरादिद्वारा निर्गमनं पुनः स्वाश्रयं प्रत्यागमनरूपं सङ्क्रमणं च दृश्यते, न तु साक्षान्मनोमयविज्ञानमययोर्बहिर्निर्गमनं स्वात्मनां प्रत्यागमनरूपं च सङ्क्रमणं दृश्यते, न च सम्भवति, स्वात्मनि स्वस्यैव प्रवेशादिक्रियाया विरुद्धत्वादित्यर्थः । मनोमयो मनोमयमेवोपसङ्क्रामति विज्ञानमयो विज्ञानमयमेवोपसङ्क्रामतीत्यर्थकल्पनं प्रक्रमविरुद्धं चेत्याह – अन्य इति । एवंविदित्यर्थः । एवं दृष्टान्तं निरस्य दार्ष्टान्तिकं निराकरोति – तथेति । आनन्दमय एव सन्नेवंविदानन्दमयं स्वात्मानमुपसङ्क्रामति प्राप्नोति प्रविशतीति वा नोपपद्यते, स्वात्मनि क्रियाविरोधात्प्रक्रमविरोधाच्चेत्यर्थः । सङ्क्रमणस्य प्राप्त्यादिरूपत्वनिराकरणमुपसंहरति – तस्मादिति । ननु स्वात्मनि क्रियाविरोधादानन्दमयसङ्क्रमणमानन्दमयकर्तृकं न भवति चेत् , तर्हि अन्नमयाद्यन्यतमकर्तृकमस्तु ; नेत्याह – नापीति । 'आनन्दमयमात्मानमुपसङ्क्रामति’ इत्यत्रान्नमयाद्यन्यतमस्य कर्तृत्वेनाश्रवणादिति भावः । फलितमाह – पारिशेष्यादिति । प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेषः, परिशेष एव पारिशेष्यम् , तस्मादित्यर्थः । एतदुक्तं भवति - आनन्दमयसङ्क्रमणे तावदहमनुभवगोचरः कर्तेति निर्विवादम् ; तच्च कर्तृत्वमन्नमयादिष्वपि प्रसक्तम् अन्नमयादीनामप्यहमनुभवगोचरत्वात् ; तत्प्रतिषेधे सत्यहमनुभवगोचरादन्यत्र स्तम्भादिषु तत्कर्तृत्वाप्रसक्तेः शिष्यमाणे चिदात्मन्येवंवित्त्वेन प्रकृते बुद्ध्युपाधिसम्बन्धादानन्दमयसङ्क्रमणकर्तृत्वमस्तीति प्रमारूपः संप्रत्ययो भवति ; तादृशसंप्रत्ययरूपात्परिशेषात्कोशपञ्चकव्यतिरिक्तकर्तृकमानन्दमयसङ्क्रमणमित्युपपद्यते ; एवमन्नमयादिसङ्क्रमणेऽप्येवंविदेव कर्ता, तस्यैव सर्वत्र सङ्क्रमणे कर्तृत्वेन प्रकृतत्वादिति । ज्ञानमात्रं चेति । तत्त्वज्ञानमात्रकृतं भ्रान्तिनाशरूपमेव सङ्क्रमणमिति चोपपद्यत इत्यर्थः । ननु सङ्क्रमशब्दस्य भ्रमनाशे प्रसिद्ध्यभावात्कथमुपपत्तिरित्याशङ्क्याह – ज्ञानमात्रे चेति । ज्ञानमात्रकृते विभ्रमनाशे सङ्क्रमशब्द उपचर्यते न मुख्यस्तत्र, अतो न प्रसिद्ध्यपेक्षेति भावः । एतदेव विशदयति – आनन्दमयेत्यादिना । वस्तुतः सर्वान्तरस्य ब्रह्मणो जगत्सृष्ट्वानुप्रविष्टत्वेन श्रुतस्य बुद्धितादात्म्याद्योऽयमन्नमयादिष्वात्मत्वभ्रमो मूलाविद्याकृतः, स मुमुक्षोः कोशविवेकक्रमेणात्मतत्त्वसाक्षात्कारोत्पत्त्या समूलो विनश्यति । ततः किम् अत आह – तदेतस्मिन्निति । एतदुक्तं भवति - तत्तत्कोशगोचरविभ्रमनाशस्तत्र तत्र सङ्क्रमो विवक्षित इति । एवमुपचारे नियामिकां मुख्यार्थानुपपत्तिमुक्तां स्मारयति – न ह्यञ्जसेति । सर्वगतस्येति । पूर्णत्वेनात्मानं मन्यमानस्य विदुष इत्यर्थः । वस्त्वन्तरेति । अत्रोपसङ्क्रमणकर्मत्वेन श्रुतानामन्नमयादीनामप्राप्तग्रामादीनामिवात्यन्तभिन्नत्व - विप्रकृष्टत्वाद्यभावाच्चेत्यर्थः । नन्वत्यन्तभेदविप्रकर्षाद्यभावेऽपि मुख्यप्राप्यता किं न स्यादित्याशङ्क्याह – न च स्वात्मन एवेति । न हि रज्जोः स्वाध्यस्तसर्पसङ्क्रमणं मुख्यं दृष्टमित्यर्थः । यद्वा विदुषः स्वव्यतिरिक्तवस्त्वभावाच्च न विद्वत्कर्तृकं सङ्क्रमणं मुख्यं सम्भवतीत्याह – वस्त्वन्तरेति । स्वात्मकर्मकमेव तर्हि मुख्यसङ्क्रमणमस्तु ; नेत्याह – न च स्वात्मन एवेति । तत्रोदाहरणमाह – न हीति । इत्थमेवंवित्परयोरभेदसाधनेन सङ्क्रमणमौपचारिकमिति व्याख्याय प्रकरणस्य महातात्पर्यमुपसंहारव्याजेनाह – तस्मादिति । आनन्दमीमांसासङ्ग्रहार्थमादिग्रहणम् । संव्यवहारविषयत्वयोग्यं यदज्ञातं ब्रह्म, तस्मिन्ब्रह्मणि सर्गादिकं लोकभ्रान्तिसिद्धमुपदिश्यते शुद्धब्रह्मप्रतिपत्त्यर्थमेव, न तु श्रुत्या तात्पर्येण प्रतिपाद्यते, सर्गादेर्मायामात्रत्वादित्यर्थः । 'यतो वाचः ...’ इति मन्त्रो विद्याफलविषय इत्याह – तमेतमिति । एवं विदित्वा क्रमेण कोशानुपसङ्क्रम्येति योजना । यद्यपि कोशानामुपसङ्क्रमणं नाम भ्रमनिवृत्तिरूपो बाध इत्युक्तम् , स च बाधस्तत्त्वज्ञानबलेन युगपदेव सम्भवति रज्जुतत्त्वज्ञानबलेनेव तत्राध्यस्तसर्पधारादीनाम् ; तथापि तत्त्वप्रतिपत्त्युपायभूते कोशविवेचने क्रमस्य प्रागुक्तत्वात्तत्फलप्राप्तावपि स एव क्रमोऽनूदितः श्रुत्येति मन्तव्यम् । न केवलं विद्याफलविषय एवायं मन्त्रः, किं तु कृत्स्नवल्ल्यर्थोपसंहारपरश्चेति तात्पर्यान्तरमाह – सर्वस्यैवेति ॥ 'अदृश्येऽनात्म्ये’ इत्यादिनिषेधश्रुतिमभिप्रेत्याह – निर्विकल्पादिति । सर्वविशेषरहितादित्यर्थः । 'सत्यं ज्ञानमनन्तम्’ इति लक्षणवाक्यमभिप्रेत्याह – यथोक्तलक्षणादिति । आनन्त्यविवरणपराम् ‘आत्मन आकाशः सम्भूतः’ इति सृष्टिश्रुतिमभिप्रेत्याह – अद्वयादिति । यद्वा विशेष्यमाह – अद्वयादिति । ब्रह्मण इत्यर्थः । मन्त्रे ‘आनन्दं ब्रह्मणः’ इति भेदनिर्देशः ‘राहोः शिरः’ इतिवदौपचारिक इति मत्वाह – आनन्दात्मन इति । आनन्दस्वरूपादित्यर्थः । ‘आनन्दादात्मनः’ इति व्यस्तपाठेऽप्ययमेवार्थः । अभिधानानि वाचकपदानि । तेषां मुख्यविषयत्वमाह – द्रव्यादीति । गुणादिसङ्ग्रहार्थमादिग्रहणम् । सविशोषवस्तुविषयाणीति निष्कर्षः । ननु तेषां निर्विशेषे ब्रह्मणि प्राप्तेरप्रसक्तत्वात्कथं प्रतिषेध इत्याशङ्क्याह – वस्तुसामान्यादिति । वस्तुत्वसामान्यादित्यर्थः । नन्वप्रकाश्येत्यनुपपन्नम् उपनिषच्छब्दैरवश्यं निर्विकल्पस्य ब्रह्मणः प्रकाशनीयत्वात् अन्यथा ‘तं त्वौपनिषदम्’ इत्युपनिषत्प्रकाश्यत्वश्रुतिविरोधप्रसङ्गादित्याशङ्क्य प्राप्तिनिषेधश्रुतेस्तात्पर्यमाह – स्वसामर्थ्याद्धीयन्त इति । सामर्थ्यं शक्तिः, तद्विषयत्वमेवात्र निषिध्यते, न लक्षणाविषयत्वमपि ; अतो न श्रुत्यन्तरविरोध इति भावः । मनसा सहाप्राप्येति सम्बन्धाद्ब्रह्मणि मनःप्रकाश्यत्वमपि निषिध्यते, स्वप्रकाशस्य तस्य मनःप्रकाश्यत्वायोगात् । तत्र सहशब्देन वाचां मनसश्च सहभाव उच्यते । तमुपपादयति – मन इतीत्यादिना । मन इति पदेन प्रत्ययोऽभिधीयते, स च प्रत्ययो ज्ञानसामान्यरूपो न भवति । किं तु वाच इत्यनेन समभिव्याहाराच्छब्दशक्तिजनितं विज्ञानं पर्यवस्यति । ततः किमत आह – तच्चेति । यत्र शब्दशक्तिविषयत्वं प्रथममेव प्रवृत्तमस्ति तत्र तदनु शब्दशक्तिजनितविज्ञानप्रकाश्यत्वमपि भवति ; यत्र च तादृशज्ञानप्रकाश्यत्वं तत्र शब्दशक्तिविषयत्वमप्यस्त्येवेति कृत्वा सहभाव उक्त इति निष्कर्षः । तदुक्तं वार्त्तिके - ‘उदपादि च यच्छब्दैर्ज्ञानमाकारवद्धियः । स्वतो बुद्धं तदप्राप्य नाम्ना सह निवर्तते’ इति । धियः अन्तःकरणस्य परिणामरूपं सप्रकारं यज्ज्ञानं शब्दैः शक्त्या उत्पादितम् , तदित्यर्थः । स्वतो बुद्धमित्यस्य स्वप्रकाशमित्यर्थः । अतीन्द्रियेऽपीति । जगत्कारणाद्यतीन्द्रियार्थेऽपीत्यर्थः । तस्मादिति । उक्तरीत्या सहैव प्रवृत्तिदर्शनादित्यर्थः । एवं वाङ्मनसयोः सहैव प्रवृत्तिमुक्त्वा निवृत्तिरपि सहैवेत्याह – तस्मादित्यादिना । अप्रत्ययविषयादिति । प्रत्ययविषयत्वायोग्यादित्यर्थः । अनभिधेयादिति । शब्दशक्त्ययोग्यादित्यर्थः । उभयत्र हेतुं सूचयति – अदृश्यादिविशेषणादिति । निर्विशेषत्वात्स्वप्रकाशत्वाच्चेत्यर्थः । सर्वप्रकाशनसमर्थेनेति । अग्नितप्तायःपिण्डवच्चैतन्यव्याप्तं वृत्तिज्ञानं समस्तस्य सविशेषस्य प्रकाशने समर्थमपि स्वप्रकाशब्रह्मप्रकाशने सामर्थ्याभावान्निवर्तत इति भावः । शब्दशक्तिजनितविज्ञानस्य निर्विशेषब्रह्मगोचरत्वयोग्यताराहित्यात्तदप्रकाश्यैव निवृत्तिरित्यपि मन्तव्यम् । अस्यानन्दस्य पारोक्ष्यवारणाय विद्वत्प्रत्यक्षत्वमाह – श्रोत्रियस्येति । अवृजिनत्वं पापराहित्यम् । आनन्दमीमांसावाक्यनिर्दिष्टश्रोत्रियनिरासायात्राकामहतत्वं निरङ्कुशमित्याशयेनाह – सर्वैषणेति । सातिशयानन्दवैलक्षण्यं प्रकृतानन्दस्य दर्शयति – विषयेति । विषयादिसम्बन्धजनितत्वाभावेऽपि गगनादेरिवोत्पत्तिमाशङ्क्याह – स्वाभाविकमिति । अनादिमित्यर्थः । अनादेरप्यविद्यादेरिव नाशमाशङ्क्याह – नित्यमिति । सर्वेषु शरीरेषु तस्यैक्यमाह – अविभक्तमिति । अत एवास्यानन्दस्य परमत्वमित्याशयेनाह – परमानन्दमिति । यथोक्तेनेति । अन्योऽन्तर आत्मान्योऽन्तर आत्मेत्याद्युक्तेन प्रकारेण यथोक्तमानन्दमात्मत्वेन साक्षात्कृतवानित्यर्थः । भयनिमित्ताभावात्कुतोऽपि न बिभेतीत्युक्तमेव विशदयति – न हीति । विदुषो भयनिमित्तं वस्त्वन्तरं नास्तीत्यत्र युक्तिमाह – अविद्ययेत्यादिना । ततः किम् अत आह – विदुषस्त्विति । भयनिमित्तस्य अविद्याकार्यस्य नाशादिति सम्बन्धः । अधिष्ठानयाथात्म्यगोचरविद्यया अध्यस्तवस्तुनाशे दृष्टान्तमाह – तैमिरिकेति । तैमिरिकदृष्टस्य द्वितीयचन्द्रस्य चन्द्रैकत्वविद्यया नाशवदित्यर्थः । ननु विशुद्धब्रह्मप्रतिपादकोऽयं मन्त्रः कथमब्रह्मणि मनोमये उदाहृतः कथं वा तत्र भयनिमित्तनिषेधमकृत्वा भयमात्रनिषेधः कृत इत्याशङ्क्याह – मनोमये चेति । मनोमयशब्दवाच्यस्यास्मदादिमनसो ब्रह्मविज्ञानसाधनत्वात्तत्र मनसि ब्रह्मत्वमध्यारोप्य मनोमये चायं मन्त्र उदाहृत इति योजना ; अतो नोदाहरणानुपपत्तिरिति भावः । तत्स्तुत्यर्थमिति । मनोमयोपासनस्य ब्रह्मविद्याशेषत्वेन फलस्याविवक्षितत्वात्तदुपासनस्य साक्षाद्भयनिमित्तनिरसने सामर्थ्याभावाच्च मनोमयोपासनस्तुतये तत्र भयमात्रं निषिद्धमित्यर्थः । प्रकृते तद्वैषम्यमाह – इह त्विति । अद्वैते विद्याविषये ब्रह्मणि द्वैतावशेषासम्भवाद्भयनिमित्तनिषेध उपपद्यत इत्यर्थः । भयनिमित्तनिषेधमाक्षिपति – नन्वस्तीति । परिहरति – नैवमिति । विदुषः साध्वकरणं पापकरणं च भयकारणमस्तीत्येवं न वक्तव्यमित्यर्थः । तत्र हेतुं पृच्छति – कथमिति । श्रुत्या हेतुमाह – उच्यत इत्यादिना । यथोक्तमिति । 'आनन्दं ब्रह्मणो विद्वान् ‘ इत्यादिपूर्वग्रन्थे प्रकृतमित्यर्थः । कथं पुनरिति । साध्वकरणादिकं कथं सन्तापयत्सदेवंविदमेव न सन्तापयतीति प्रश्नार्थः । अहमेवमिति । अविदुषामासन्ने मरणकाले एवं श्रुत्युक्तप्रकारेण सन्तापो भवतीति योजना । एवमविदुषां पापकरणनिमित्तकोऽपि पश्चात्सन्तापो भवतीत्याह – तथेति । विदुषस्तदभावमाह – ते एते इति । एवंशब्दार्थमेव विवृणोति – यथेति । पुण्यपापयोरात्ममात्रत्वेन दर्शनं विदुषः सन्तापाभावे हेतुरिति प्रश्नपूर्वकमाह – कस्मात्पुनरित्यादिना । एते इति सर्वनाम्नः प्रकृतसाध्वकरणादिपरत्वं व्यावर्तयति – साध्वसाधुनी इति । तापहेतू इतीति इति-शब्दः प्रकारवचनः । अकरणकरणद्वारा तापहेतुत्वेनोक्ते इत्यर्थः । नन्वत्र एते आत्मानमिति सामानाधिकरण्यात्पुण्यपापयोरात्माभिन्नत्वं भाति, ततश्चात्माभिन्नत्वकृतं पुण्यपापयोः प्रीणनं बलनं वा वाक्यार्थः स्यात् ; न च तत्सम्भवति, तयोः प्रीत्यादिमत्त्वायोगात् ; न चात्मनः पुण्यपपाभिन्नत्वबोधनद्वारा तत्कृतं प्रीणनादिकमात्मनो भवतीति वाक्यार्थ इह विवक्षित इति वाच्यम् , आत्मनि तापककर्मात्मकत्वस्य प्रीत्यादिहेतुत्वासम्भवात् , तस्य प्रीतिबलनहेतुत्वोक्तावपि भयनिवृत्तिहेतुत्वानभिधानाच्चेत्याशङ्क्य विवक्षितं वाक्यार्थमाह – परमात्मभावेनोभे पश्यतीत्यर्थ इति । 'स य एवं विद्वानेते आत्मानं स्पृणुते’ इति वाक्योक्तं पुण्यपापयोरात्ममात्रत्वदर्शनमुत्तरवाक्येनानूद्य तस्य विदुषि तापाभावहेतुत्वं प्रतिपाद्यते हि-शब्दयुक्तत्वादुत्तरवाक्यस्येत्याशयेनाह – उभे इत्यादिना । एवकारमात्मपदेन योजयति – आत्मस्वरूपेणैवेति । पश्यतीति शेषः । ननु ज्योतिष्टोमकलञ्जभक्षणादिलक्षणं कर्मास्ति प्रकाशत इत्यनुभवानुरोधात्पुण्यपापयोः सर्वानुगतः सच्चिदंश इतरव्यावृत्तो जडांशश्चास्ति, तथा च चिज्जडोभयरूपयोस्तयोः कथं चिदेकरसात्मभावेन दर्शनमित्याशङ्क्याह – स्वेनेति । स्वीयं यद्विशेषरूपं जडांशः तेन हीने कृत्वा अनुसन्धायेत्यर्थः । आत्मानं स्पृणुत एवेति । पुण्यपापे चिदंशाभिप्रायेणात्मरूपेणैव पश्यतीत्यर्थः । एष एते उभे आत्मानमेव स्पृणुत इत्युक्तम् , तत्र एतच्छब्दार्थं पृच्छति – क इति । श्रुत्योत्तरमाह – य इति । एवमित्यस्य व्याख्यानम् – यथोक्तमिति । 'सत्यं ज्ञानम् ‘ इत्यादिमन्त्रब्राह्मणजातेन यथानिरूपितमित्यर्थः । यथोक्तं स्वरूपमेव सङ्क्षिप्याह – अद्वैतमानन्दमिति । यः सर्वात्मकमानन्दरूपं ब्रह्मात्मत्वेन वेद स पुण्यपापे अप्यात्मस्वरूपेणैव पश्यतीत्यर्थः । तस्येत्यतः प्राक्तस्मादिति शेषः, हि यस्मादित्युपक्रमात् । ननु नास्तिकतमस्य मरणकाले संनिहितेऽपि नास्ति साध्वकरणादिकृतः सन्तापः, तावता पारलौकिकं भयं तस्य परिहृतं न भवति ; तथा सर्वात्मैकत्वदर्शिनः पुण्यपापयोरप्यात्मभावं पश्यतो मास्त्विदानीं भयम् , पारलौकिकं तु कर्मनिमित्तं भयं भविष्यतीत्यविज्ञातमेव ; नेत्याह – निर्वीर्य इति । भर्जितबीजवदिति भावः । निर्वीर्यत्वफलमाह – जन्मारम्भके न भवत इति । अतो न विदुषः पारलौकिकभयप्रसक्तिरित्यर्थः । इत्युपनिषदित्यस्यार्थमाह – इतीत्यादिना । इतिशब्दपरामृष्टा यथोक्ता ब्रह्मविद्या उपनिषत्परमरहस्यम् , तच्च परमरहस्यमस्यां वल्ल्यां दर्शितमित्यन्वयः । परमरहस्यत्वे हेतुः – यस्मादेवं तस्मादिति । यस्माद्यथोक्ता विद्या एवं मुक्तिफला तस्मादित्यर्थः । इतरासां सर्वासां विद्यानां रहस्यभूतानामपि न मुक्तिफलकत्वम् , अतो न परमत्वमिति भावः । उपनिषत्पदस्यार्थान्तराभिप्रायेणाह – परं श्रेय इति । अस्यां विद्यायां सत्यामस्य विदुषः परं श्रेयो ब्रह्मस्वरूपभूतम् उप सामीप्येन प्रत्यक्त्वेन निषण्णं नितरां स्थितं भवति यतः, अत इयं विद्या उपनिषदित्यर्थः । इति-शब्दो ब्रह्मवल्लीविवरणसमाप्त्यर्थः ॥ ननु तर्हि तपआदिकमेव वक्तव्यं न त्वाख्यायिकापि ; तत्राह – आख्यायिकेति । नन्वाख्यायिकया कथं स्तुतिलाभः तत्राह – प्रियायेति । पिता प्रियाय पुत्राय प्रशस्तामेव विद्यामुपदिशेन्नान्यामिति रीत्या विद्यायाः प्रकर्षो लभ्यत इत्यर्थः । हे भगवन् ब्रह्माधीहि स्मर उपदिशेति यावदिति मन्त्रार्थः । अत्तारमिति । शरिरेऽन्नशब्दप्रयोगात्तदभ्यन्तरस्य प्राणस्यात्तृत्वमुपचारेणोक्तमिति मन्तव्यम् । यद्वा अन्नशब्देन विराडात्मकं शरीरं विवक्षितम् , तदभ्यन्तरः प्राणश्च सूत्रात्मरूपो हिरण्यगर्भो विवक्षित इति कृत्वा प्राणस्यात्तृत्वमुक्तमिति मन्तव्यम् । नन्वन्नप्राणयोरुक्तिः ‘अन्नं ब्रह्मेति व्यजानात्’ ‘प्राणो ब्रह्मेति व्यजानात्’ इति करिष्यमाणे विचार उपयुज्यते, रूपाद्युपलब्धिसाधनानां चक्षुरादीनामुक्तिः क्वोपयुज्यते तत्राह – ब्रह्मोपलब्धौ द्वाराणीति । अत्र मनःशब्देन ‘मनो ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणमाधिदैविकं मनो गृह्यते । एतच्च ‘विज्ञानं ब्रह्मेति व्यजानात्’ इत्यत्र वक्ष्यमाणस्याधिदैविक विज्ञानस्याप्युपलक्षणम् । वागादीनां चक्षुरादीनां च यथायथं प्राणादिकोशेष्यवन्तर्भूतानां ब्रह्मोपलब्धिद्वारत्वं विवक्षितमिति न चक्षुरादिकथनवैयर्थ्यमिति भावः । उक्तानुवादपूर्वकम् ‘यतो वै’ इत्यादेस्तात्पर्यमाह – उक्त्वा चेत्यादिना । निर्विशेषस्य ब्रह्मणो धर्मरूपं लक्षणं न सम्भवतीत्याक्षिपति – किं तदिति । काल्पनिकं धर्मरूपं जगत्कारणत्वं तस्य लक्षणं विवक्षितम् अतो नासम्भव इति श्रुत्या परिहरति – यत इति । प्रयन्तीत्यस्य विवरणमभिसंविशन्तीति । तत्राभीत्युपसर्गार्थमाभिमुख्यं विवृणोति – तादात्म्यमेवेति । ब्रह्मणि लीयन्त इत्येव विवक्षितार्थः । अत्र ब्रह्मणो भूतलयाधारत्वश्रवणात्प्रकृतित्वरूपं कारणत्वं विवक्षितमित्याशयेनाह – उत्पत्तीति । प्रकृतिरेव हि विकाराणामात्मा स्वरूपमिति स्थापितमारम्भणाधिकरणे, अतो यदात्मकतामित्युक्तम् । यद्यपि ब्रह्मादिस्तम्बपर्यन्तानां भूतानां स्वत उत्पत्त्यादयो न सन्ति, तथापि स्थूलसूक्ष्मोपाधिविशिष्टत्वाकारेण तेषामपि ते सन्तीति भावः । नन्वत्र महाभूतानामाकाशादीनां ग्रहणं कुतो न क्रियते प्राणिष्विवाकाशादिष्वपि भूतशब्दस्य प्रसिद्धत्वात् अत एव ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यत्र भूतशब्देन महाभूतानां ग्रहणमाचार्यैरेव कृतम् , तथा जन्मादिसूत्रे द्विविधान्यपि भूतानि गृहीतानि ; तथा च कथमत्र प्राणिनामेव ग्रहणमिति चेत् , उच्यते - भूतशब्दस्योभयत्र रूढत्वेऽपि प्राणधारणकर्तृवाचिजीवन्तीत्युपपदानुसारेण प्राणिरूढेरेवोन्मेषो न महाभूतविषयरूढेरिति नात्राकाशादिग्रहणप्रसक्तिः ‘सर्वाणि ह वा इमानि भूतानि’ इत्यत्र च ‘अस्य लोकस्य का गतिः’ इति पृथिवीलोकादिकारणप्रश्नानुसारेण महाभूतरूढेरेवोन्मेषो न प्राणिरूढेः ; जन्मादिसूत्रे च जगत्कारणवाक्यानां सर्वेषामेवोदाहरणत्वाद्वाक्यान्तरानुसारेण द्विविधान्यपि भूतानि गृहीतानीति न किञ्चिदवद्यम् । अत्र विवक्षितं लक्षणमाह – तदेतदिति । भूतकारणत्वमित्यर्थः । श्रुतौ तद्ब्रह्म तद्विजिज्ञासस्वेत्यर्थक्रमो बोध्यः । यद्वा, ननु ब्रह्म जिज्ञासवे कथं जगत्कारणं जिज्ञास्यत्वेनोपदिश्यते तत्राह श्रुतिः – तद्ब्रह्मेति । अस्मिन्पक्षे यथाश्रुत एवार्थक्रमः । ननु विजिज्ञासस्वेति पित्रा न वक्तव्यम् , स्वरूपविशेषजिज्ञासायाः प्रागेव सिद्धत्वादित्याशङ्क्याह – यदेवंलक्षणमिति । अन्नादेर्ब्रह्मोपलब्धिद्वारत्वमन्यत्रापि प्रसिद्धमित्याह – श्रुत्यन्तरमिति । षष्ठ्यन्तप्राणादिशब्दोपात्तस्य कार्यकरणसङ्घातजातस्याधिष्ठानतया सत्तास्फूर्तिप्रदं द्वितीयान्तप्राणादिशब्दोपात्तं प्रत्यगात्मानं ये श्रुतिन्यायाभ्यां विदुः ते सृष्टेः पूर्वकालेऽपि स्थितं कूटस्थं ब्रह्म आत्मत्वेन निचिक्युर्जानीयुः नेतरे प्रत्यगात्मस्वरूपज्ञानरहिता इति श्रुत्यन्तरार्थः । योऽन्नादेरधिष्ठानतया सत्ताप्रकाशरूपः प्रत्यगात्मा स ब्रह्मैवेत्येवंप्रकारेण ब्रह्मोपलब्धिद्वारत्वं तत्रावगम्यत इति भावः । पितुरिति पञ्चमी । तस्माच्छ्रुत्वेति योजना । ननु पित्रा तपसा ब्रह्म विजिज्ञासस्वेत्यनुक्तत्वात्कथं तपसि ब्रह्मविज्ञानसाधनत्वं भृगुणा विनिश्चितम् न हि तन्निश्चयं विना तत्र प्रवृत्तिस्तस्य सम्भवतीति शङ्कते – कुतः पुनरिति । परिहरति – सावशेषोक्तेरिति । सावसेषोक्तेस्तपसि ब्रह्मविज्ञानसाधनत्वप्रतिपत्तिर्भृगोरभूदित्यर्थः । गुरूक्तार्थानुवादपूर्वुकं तदुक्तेः सावशेषत्वं साधयति – अन्नादीत्यादिना । ब्रह्मणः प्रतिपत्तौ द्वारभूतमन्नादिकम् ‘अन्नं प्राणम्’ इत्यादिनोक्तवानित्यर्थः । सावशेषं हि तदिति । यद्भूतजन्मादिकारणं तद्ब्रह्म, तत्प्रतिपत्तौ चान्नादि द्वारमित्येतादृशमुपदेशनं सावशेषमिति । अत्र हि-शब्दोक्तं हेतुमाह – साक्षादिति । त्वं ब्रह्मेत्यपरोक्षतया ब्रह्मणो निर्देशाभावादित्यर्थः । नन्वेतावता कथं गुरूक्तेः सावशेषत्वं सिध्यति तत्राह – अन्यथा हीति । सावशेषत्वाभावे हीत्यर्थः । स्वरूपेणैवेति । प्रत्यक्त्वेनैवेत्यर्थः । वस्तुतः प्रत्यगात्मस्वरूपत्वाद्ब्रह्मण इति भावः । भृगोर्वास्तवस्वरूपज्ञाने ताटस्थ्यं वारयति – जिज्ञासव इति । गुरोर्वास्तवस्वरूपबोधने उपेक्षां वारयति – स्वपुत्रायेति । निर्देशस्वरूपमेव दर्शयति – इदमित्थंरूपमिति । इदं त्वया पृष्टं ब्रह्म इत्थंरूपं तव देहे बुद्ध्यादिसाक्षितयोपलभ्यमानचैतन्यरूपमिति निर्देष्टव्यमिति योजना । ननु तथैव पित्रा निर्दिष्टं ब्रह्म ; नेत्याह – न चैवमिति । अनुपलम्भादिति भावः । ननु तर्हि कीदृशं ब्रह्मोक्तवानिति पृच्छति – किं तर्हीति । परोक्षतयैव ब्रह्मोक्तवानित्याह – सावशेषमेवेति । इत्थं सावशेषोक्तेरिति हेतुं प्रसाध्य तेन तपसि ब्रह्मज्ञानसाधनत्वप्रतिपत्तिप्रकारमाह – अत इति । सावशेषोक्तेरित्यर्थः । साधनान्तरमिति । स्वस्मिन्विधिवदुपसदनादिलक्षणं यत्साधनमस्ति तदपेक्षयान्यत्साधनमित्यर्थः । ननु परोक्षतया ब्रह्मोपदेशस्य वस्तुतः सावशेषत्वेऽपि तस्य तत्सावशेषत्वं शिष्येण कथं ज्ञातम् , प्रत्यगात्मैव ब्रह्मेति ज्ञानं विना तदुपदेशस्य सावशेषत्वज्ञानासम्भवादिति चेत् ; नैवम् , ब्रह्मवित्सभायां तदीयव्यवहारादिना सामान्यतो जीवो ब्रह्मेति ज्ञात्वा तदैक्यापरोक्ष्याय गुरूपसदनसम्भवेन परोक्षोपदेशस्य सावशेषत्वज्ञानसम्भवात् । ननु ब्रह्मात्मैक्यसाक्षात्कारं प्रति चित्तगतप्रतिबन्धनिवृत्तिद्वारा तत्सम्पादनसमर्थं साधनान्तरं ममापेक्षते पिता नूनं निश्चय इत्यनेन प्रकारेण स्वस्यानुष्ठेयं सामान्यतः साधनान्तरं निश्चितमित्यस्तु, तच्च साधनान्तरं तप एव पितुराशयस्थमिति कथं निश्चितमितयाशङ्क्य योग्यताविशेषादित्याह – तपोविशेषेति । तपोरूपसाधनविशेषेत्यर्थः । सर्वेति । सर्वेषां ज्ञानसाधनानां मध्ये तपसो ज्ञानं प्रत्यतिशयितसाधनत्वेन ब्रह्मविद्व्यवहारे प्रसिद्धत्वादित्यर्थः । सङ्ग्रहवाक्यं विवृणोति – सर्वेषां हीति । साध्यपदं ज्ञानपरम् , तस्य नियतत्वमैकान्तिकफलत्वं ; तेन नियतसाध्येन सह साधनतया सम्बद्धानामित्यर्थः । तस्मादिति । सावशेषोक्त्यादिलिङ्गादित्यर्थः । तपसः स्वरूपं दर्शयति – तच्चेति । समाधानमिति । उदाहरिष्यमाणस्मृतिगतस्यैकाग्र्यपदस्य व्याख्यानं समाधानमिति । तत्र बाह्यकरणानां समाधानं विषयेभ्यो व्यावृत्तत्वरूपं विवक्षितम् , अन्तःकरणस्य समाधानं तत्त्वे स्थापनमिति विभागः । स्मृतौ तपसः परमत्वविवरणमुत्तरार्धम् । तपः सर्वधर्माणां मध्ये वस्तुगत्या ज्यायो भवति ; स च तपोरूपो धर्मः पर इति विद्वद्भिरप्युच्यत इति तदर्थः । परमार्थतस्तु श्रुतौ स्मृतौ च तपःपदं भाष्यगतसमाधानपदं च तत्त्वचिन्तापरम् , न समाधिपरम् , ‘तप आलोचने’ इति स्मरणात् महावाक्यार्थज्ञानं प्रति त्वम्पदार्थशोधनरूपस्यालोचनस्यैव साधकतमत्वाच्च, अत्र गुरूपदिष्टस्य ब्रह्मलक्षणस्यापि क्रमेण कोशेभ्यः सकाशादात्मतत्त्वस्य विवेचन एवोपयोगाच्च ब्रह्म जिज्ञासोर्भृगोर्जिज्ञासिते ब्रह्मणि विचारं विना जिज्ञासानिवर्तकनिर्णयायोगाच्च । अत एव ‘तद्विजिज्ञासस्व’ इति श्रुतिमूलके जिज्ञासासूत्रे ब्रह्म जिज्ञासोर्विचार एव कर्तव्यत्वेनोपदिष्टः । अत एव चात्र भाष्यवार्तिके प्रथमं यथाश्रुतभाष्यादिकमनुरुध्य पश्चात्तपःशब्दो विचारपरत्वेनोपपत्तिपूर्वकं योजितः । तथा च वार्त्तिकम् - ‘अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत् । अहं ब्रह्मेति वाक्यार्थबोधायालमिदं यतः’ इति । सूतसंहितायां परमेश्वरेणाप्युक्तम् - ‘कोऽहं मुक्तिः कथं केन संसारं प्रतिपन्नवान् । इत्यालोचनमर्थज्ञास्तपः संशन्ति पण्डिताः’ इति ॥ वृत्तानुवादपूर्वकमुत्तरवल्लीमवतारयति – सत्यं ज्ञानमित्यादिना । अनुप्रविष्टशब्देन विवक्षितमर्थमाह – विशेषवदिवेति । सांसारिकधर्मजातं विशेषः ; तस्यावास्तवत्वज्ञापनार्थ इवकारः । तथा च श्रुतिः - ‘ध्यायतीव लेलायतीव’ इति । प्रवेशवाक्येन ब्रह्मणो जीवभावोक्तेस्तात्पर्यमाह – यस्मादिति । यस्माद्ब्रह्मैव संसारित्वेनोपुलभ्यत इत्युक्तं तस्मादहं यथोक्तं ब्रह्मैवेति विजानीयादिति तात्पर्यतः प्रदर्शितं भवति । जीवभावेनानुप्रवेशकथनस्य अहं ब्रह्मेति ज्ञानैकप्रयोजनकत्वादित्यर्थः । न हि ब्रह्मैव संसारित्वं प्राप्तमिति ज्ञानात्किञ्चित्प्रयोजनं लभ्यते । प्रतीयमानसंसारित्वनिरसनपूर्वकमहं ब्रह्मेति ज्ञानविवक्षायां तु मुक्तिः प्रयोजनं लभ्यत इति जीवस्य ब्रह्मत्वज्ञान एव प्रवेशवाक्यस्य तात्पर्यम् । एतेनाभेदबोधकवाक्याभावादत्राहं ब्रह्मास्मीति ज्ञानमविवक्षितमिति शङ्कापि निरस्ता वेदितव्या, तात्पर्यतो गुहानिहितवाक्यस्य प्रवेशवाक्यस्य चाभेदज्ञानपरत्वात् । अभेदज्ञानफलमप्युक्तमनुवदति – तस्यैवमिति । 'इत्युपनिषत्’ इत्युपसंहारवाक्यार्थमप्यनुवदति – परिसमाप्ता च ब्रह्मविद्येति । नन्वेवं वक्तव्यानवशेषणादुत्तरवल्ली व्यर्था ; नेत्याह – अतः परमिति । विद्योक्त्यनन्तरमित्यर्थः । न च कोशपञ्चकविवेचनरूपस्य वक्ष्यमाणस्य तपसोऽपि प्रागभिहितत्वात्पुनस्तदुक्तिर्व्यर्थेति वाच्यम् , तस्यैव तपसो ब्रह्मलक्षणमुखेन कर्तव्यत्वरूपविशेषकथनपूर्वकम् उत्तरवल्ल्याः प्रपञ्चार्थत्वेन पौनरुक्त्याभावात् । इतश्च न पौनरुक्त्यमित्याशयेनाह – अन्नादीति । तद्धीति । अन्नं हीत्यर्थः । अन्नाद्ध्येवेति । इदं वाक्यमानन्दवल्लीगतेन ‘अन्नाद्वै प्रजाः प्रजायन्ते’ इति वाक्येन समानार्थमिति नास्य व्याख्याने व्याप्रियते । तस्मादिति । ब्रह्मलक्षणोपेतत्वादित्यर्थः । 'तद्विज्ञाय’ इत्यस्यार्थमाह – स एवमिति । उपपत्त्या चेति । अन्नशब्दितस्य विराजः श्रुतिषूपास्यत्वश्रवणादब्रह्मण उपास्यत्वायोगादित्याद्युपपत्त्या चेत्यर्थः । उपपत्त्या चान्नं ब्रह्मेति विज्ञायेति योजना । उत्पत्तिदर्शनादिति । ब्रह्मणस्तावदुत्पत्तिर्नास्ति तस्य नित्यत्वश्रवणात् अन्नस्य च हिरण्यगर्भादुत्पत्तेः श्रुतिषु दर्शनात्पृथिव्यादिस्थूलभूतात्मकस्यान्नस्य भूतकारणत्वस्यापि दर्शनाच्चेत्यादिकमालोचयतस्तस्यान्नं ब्रह्म न वेति संशय उत्पन्न इत्यर्थः । असकृत् ‘तपसा ब्रह्म विजिज्ञासस्व’ इत्युपदेशस्य तात्पर्यप्रदर्शनपूर्वकमर्थमाह – तपस इत्यादिना । निरतिशयमिति । सम्पूर्णमित्यर्थः । तावत्तप एवेति । विचारं विना जिज्ञासानिवृत्त्ययोगादिति भावः । श्रुतौ ‘तपो ब्रह्म’ इति वाक्यं विधित्सितस्य तपसो ब्रह्मत्वेन स्तुत्यर्थमिति मन्तव्यम् । प्रथमपर्यायस्थम् ‘तद्विज्ञाय’ इत्यादिवाक्यव्याख्यानमन्यत्राप्यतिदिशति – एवं सर्वर्त्रेति । 'प्राणो ब्रह्मेति व्यजानात्’ इत्यादिवाक्यमभिप्रेत्याह – ऋज्वन्यदिति । स एव ऋज्वर्थः प्रदर्श्यते, तथा हि - स तपः अतप्यत, अन्नस्य सूत्रात्मरूपप्राणपरतन्त्रस्य न ब्रह्मलक्षणं निरपेक्षं सम्भाव्यते प्राणस्य तु स्वातन्त्र्यादिसत्त्वात्तत्सम्भवतीत्यादि लक्षणं विचारं कृतवान् । एवं तपः कृत्वा प्राणो ब्रह्मेति निश्चितवान् , तन्निश्चयोपयोगित्वेन प्राणे ब्रह्मलक्षणं च योजितवानित्याशयेनाह श्रुतिः प्राणाद्ध्येवेत्यादिना । अन्नस्य प्राणाधीनत्वादन्नज्जायमानानि भूतानि प्राणादेव जायन्त इत्ययमर्थो युक्त एवेति द्योतनार्थो हि-शब्दः । तद्विज्ञाय लक्षणोपपत्तिभ्यां प्राणो ब्रह्मेति विज्ञाय पुरनरेव प्राणब्रह्मणि संशयमापन्नो वरुणं पितरमुपगतवान् । संशयकारणं तु प्राणस्यापि मनःपारतन्त्र्यं ज्ञानशक्तिराहित्यादिकमूहनीयम् । इत्थं प्राणब्रह्मणि संशयमापन्नो मुख्यं ब्रह्मान्यदन्वेषमाणो भृगुः पुनर्विचारं कृतवान् - प्राणस्य मनसा निरोधदर्शनेन प्राणापेक्षया मनसः स्वातन्त्र्याज्ज्ञानशक्तिमत्त्वात् , अत एव मनसि ब्रह्मलक्षणसम्भवाच्च आधिदैविकं समष्ट्यन्तःकरणमेव ब्रह्मेति निश्चितवान् । एवं मनो ब्रह्मेति विज्ञाय पुनस्तत्रापि संशयमापन्नो वरुणमुपगतवानित्यादि समानम् । संशयकारणं त्वस्मदादिमनोवदाधिदैविकमनोऽपि करणकोटिप्रविष्टत्वाद्विज्ञानशब्दितकर्तृपरतन्त्रं भवति । न हि परतन्त्रस्य ब्रह्मलक्षणं मुख्यं सम्भवतीत्यादिदोषदर्शनमिति बोध्यम् । एवं मनसि ब्रह्मलक्षणायोगात्कर्तरि च स्वातन्त्र्येण तद्योगादित्यादिविचारं कृत्वा विज्ञानमाधिदैविकं महत्तत्त्वं ब्रह्मेति निश्चितवानित्यादि समानम् । पुनश्च विज्ञानब्रह्मण्यपि तस्य जन्मनाशादिश्रवणलिङ्गेन संशयमापन्नो वरुणमुपगतवानित्याद्यूहनीयम् ॥ 'आनन्दो ब्रह्मेति व्यजानात्’ इत्यादि व्याख्यातुमुपक्रमते – एवं तपसेत्यादिना । विशुद्धात्मेति । विशुद्धान्तःकरण इत्यर्थः । अत्र विशुद्धिरन्नप्राणादिषु ब्रह्मलक्षणस्य साकल्येन दर्शनविरोधिदोषदर्शनरूपा विवक्षिता प्रकृतत्वादिति बोध्यम् । शनैः शनैरन्तरनुप्रविश्येति । आध्यात्मिककोशानामिवाधिदैविकानामन्नप्राणादिकोशानामप्युत्तरोत्तरस्य पूर्वपूर्वापेक्षया क्रमेणान्तरत्वं निश्चित्येत्यर्थः । आन्तरतममिति । सर्वान्तरतममित्यर्थः । स्थूलसूक्ष्मकारणात्मकस्य सर्वस्य दृश्यजातस्य विचारेणैव मिथ्यात्वं तदधिष्ठानभूतस्य प्रत्यगानन्दस्य सर्वान्तरत्वं सर्वकारणत्वं च निश्चित्य तदेवानन्दरूपं ब्रह्माहमिति साक्षात्कृतवानित्यर्थः । भृगोस्तपसैव ज्ञानमुत्पन्नमिति वदन्त्याः श्रुतेस्तात्पर्यमाह – तस्मादिति । तपसैव ज्ञानोदयदर्शनादित्यर्थः । समाधानपदं विचारपरमिति प्रागुक्तमत्राप्यनुसन्धेयम् । प्रकरणार्थ इति । तपसा भृगोर्ज्ञानमुत्पन्नमिति यथाश्रुतार्थे प्रयोजनाभावेन प्रकरणस्य तत्र तात्पर्यायोगादिति भावः । श्रुतौ आनन्दं प्रयन्त्यभिसंविशन्तीति, तस्माद्युक्तमानन्दस्येदं लक्षणमित्याभिप्रायः । 'सैषा भार्गवी’ इत्यादिवचनं न पितुर्न वा पुत्रस्येत्यसङ्गतिमाशङ्क्याह – अधुनेति । आख्यायिकातोऽपसृत्येति । कथारूपत्वं परित्यज्येत्यर्थः । सा पूर्ववल्ल्यां प्रकृता । एषा अस्यां वल्ल्यां संनिहिता । विदिता प्राप्ता । व्योमस्वरूपमाह – हृदयाकाश इति । हृदयाकाशाख्ये परमे व्योम्नि या गुहा बुद्धिः तस्यां य आनन्दः तस्य कारणत्वादद्वैतत्वम् ; तस्मिन्प्रतिष्ठितेत्यर्थः । ननु कस्मादारभ्य प्रवृत्ताया विद्यायाः प्रत्यगानन्दे परिसमाप्तिरुच्यते तत्राह – अन्नमयादिति । 'अन्नं ब्रह्म’ इत्यारभ्य पूर्वपूर्वप्रहाणेनोपरि प्रवृत्तेत्यर्थः । तथा चान्नमयादिकोशजातादान्तरतममानन्दरूपमद्वितीयं वस्तु ब्रह्मेत्ययमर्थ आख्यायिकायां निष्पन्न इत्यनया श्रुत्या दर्शितं भवतीति भावः । 'य एवं वेद’ इत्यादेरर्थमाह – य एवमन्योऽपीत्यादिना । अनेनैव क्रमेणेति । अन्नादिषु ब्रह्मलक्षणयोजनारूपेणैव प्रकारेणेत्यर्थः । अनुप्रविश्येति । अन्नादिषु ब्रह्मत्वबुद्धिपरित्यागपूर्वकं सर्वान्तरमानन्दं कारणत्वेन सम्भाव्य तमानन्दं ब्रह्मभूतमात्मत्वेन यो वेदेत्यर्थः । विदुषो ब्रह्मानन्दे प्रतिष्ठारूपफलकीर्तने तत्क्रतुन्यायं सूचयति – विद्याप्रतिष्ठानादिति । विद्याया ब्रह्मानन्दे प्रतिष्ठितत्वात्तादृशमानन्दं विद्वानपि तत्र प्रतितिष्ठतीति युक्तमित्यर्थः विवक्षितमर्थं दर्शयति – ब्रह्मैवेति । नन्वश्रुतं प्रभूतत्वविशेषणं कथं निक्षिप्यते तत्राह – अन्यथेति । प्रभूतत्वविशेषणं विना अन्नसामान्यमात्रेणैवान्नवत्त्वे विवक्षिते सति सर्वोऽपि जन्तुः शरीरस्थित्याक्षिप्तेनान्नेनान्नवानेवेति कृत्वा विद्याबलाद्विदुषोऽन्ने विशेषो न स्यात् , अतः प्रभूतत्वविशेषणमावश्यकमित्यर्थः । ननु सर्वोऽपि जन्तुरन्नमत्त्येव ; तत्राह – दीप्ताग्निरिति । अन्नवत्त्वं दीप्ताग्नित्वं विना व्यर्थमिति भावः । ननु कृतकृत्यस्य ब्रह्मविदो नेदं फलं भवितुमर्हति, न वा ब्रह्मविद इदं फलं नियमेन दृश्यते, न वा चित्रायागफलन्यायेनास्मिञ्जन्मन्यनुपलभ्यमानस्यामुष्मिकत्वं कल्पयितुं शक्यते तस्य पुनर्जन्माभावात् , तस्मादसङ्गतमिदं फलवचनमिति चेत् ; उच्यते - यथा भूमविद्यायाम् ‘स एकधा भवति’ इत्यादिना सगुणविद्याफलं भूमविद्याफलत्वेन सङ्कीर्त्यते भूमविद्यास्तुत्यर्थम् , तथा वक्ष्यमाणान्नान्नादत्वोपासनफलं प्रकृतब्रह्मविद्याफलत्वेन सङ्कीर्त्यते तत्स्तुत्यर्थमित्यदोषः । एतच्च व्रतोपदेशस्यान्नस्तुत्यर्थत्ववर्णनेन भाष्ये वर्णितप्रायमेवेति मन्तव्यम् ॥ न निन्द्यादिति । अपकृष्टमन्नं प्राप्तं न निन्द्यादित्यर्थः, ‘यदृच्छया चोपपन्नमद्याच्छ्रेष्ठमुतावरम्’ इति स्मृतिदर्शनात् । ननु ब्रह्मविदः कर्तव्याभावात्कथं तस्यानुष्ठेयतया व्रतमुपदिश्यते तत्राह – व्रतोपदेश इति । ननु विदुषा निरसनीयस्यान्नस्य कथं स्तुत्यर्थत्वम् तत्राह – स्तुतिभाक्त्वं चेति । शरीरमनआदिरूपेण परिणतिद्वारा अन्नस्य विद्यासाधनत्वादित्यर्थः । प्रसङ्गात्काम्यान्युपासनान्याह – प्राणो वा इत्यादिना । तेषां सकामानां प्रजादिफलसम्पादकत्वेऽपि निष्कामनयानुष्ठितानां चित्तैकाग्र्यद्वारा विद्यासाधनत्वाद्विद्याप्रकरणे सङ्गतिरिति वा मन्तव्यम् । ननु प्राणस्य कथमन्नत्वमित्याशङ्क्य प्रसिद्धान्नसादृश्यादित्याशयेनाह – शरीरेऽन्तर्भावादिति । एतदेवविवृणोति – यद्यस्येति । तत्तस्यान्नमितीह विवक्षितमित्यर्थः । ‘प्राणो वा अन्नम्’ इत्यत्र हेतुप्रतिपादकत्वेन ‘शरीरे प्राणः प्रतिष्ठितः’ इति वाक्यमाकृष्य योजयति - शरीरे चेति । तस्मादिति । प्राणस्य शरीरे प्रतिष्ठितत्वादित्यर्थः । 'प्राणे शरीरं प्रतिष्ठितम्’ इति वाक्यसङ्गत्यर्थं श्रुतावपेक्षितं पूरयति – तथेति । प्राणे शरीरस्यान्तर्भावाभावेऽपि प्राणाधीनास्थितिकत्वमात्रेणान्नत्वविवक्षेति भावः । 'प्राणो वा अन्नम्’ इत्यादेः फलितार्थकथनपरम् ‘तदेतदन्नम्’ इति वाक्यं व्याचष्टे – तत्तस्मादिति । उभयमिति । प्रकृतत्वाविशेषादिति भावः । श्रुतावपेक्षितं पूरयति – अन्नादं चेति । यत उभयमप्यन्नमन्नादं च तस्मादन्नमन्ने प्रतिष्ठितम् अन्नादश्चान्नादे प्रतिष्ठित इति पर्यवसितार्थ इति भावः । उभयोरप्यन्नत्वे अन्नादत्वे च श्रुत्युक्तं नियामकं विशदयति – येनेति । फलितं स्वयमुपसंहरति – तस्मादिति । उभयोरन्नान्नादत्वगोचरमुपासनं विधत्ते – स य इति । अन्नान्नादात्मनैवेति । शरीरप्राणात्मनैवेत्यर्थः । प्रतितिष्ठति, चिरं जीवतीति यावत् ॥ शरीरप्राणोभयमन्नान्नादत्वगुणकमुपासीनस्यान्नापरिहाराख्ये व्रते विवक्षिते सत्यर्थादन्नस्तुतिरपि पूर्ववल्लभ्यत इत्याशयेनाह – पूर्ववत्स्तुत्यर्थमिति । आर्थिकस्तुतिलाभप्रकारमेव दर्शयति – तदेवेति । तदेवान्नमपरिह्रियमाणं सत्स्तुतं स्यादिति सम्बन्धः । स्तुतमित्यस्य विवरणम् – महीकृतमिति । लोको ह्यन्ने शुभाशुभशब्दितौ गुणदोषौ कल्पयित्वा गुणवदन्नमुपादत्ते दोषवदन्नं परिहरति, तथा न परिहरेदिति व्रतोपदेशः । अत्राशुभपदमन्नगतावरत्वरूपदोषपरं न शास्त्रीयदोषपरम् , तस्मिन्सति पीरिहारावश्यम्भावादिति मन्तव्यम् । 'प्राणो वा अन्नम्’ इत्यादिवाक्यव्याख्यानप्रकारमन्यत्रातिदिशति – एवं यथोक्तमिति । 'आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र शरीरादिसङ्घातान्तःप्रविष्टमेव जलं तेजश्च गृह्यते प्राणशरीरसमभिव्याहारात् । एवम् ‘पृथिवी वा अन्नम् , आकाशोऽन्नादः’ इत्यत्रापि पृथिव्याकाशयोः शरीरादिसङ्घातान्तःप्रविष्टयोरेव ग्रहणं विवक्षितमिति मन्तव्यम् ॥ तथेति । अन्नान्नादत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्व्रतमित्यर्थः । बह्वन्नसङ्ग्रहे वसत्यर्थमागतानामप्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह – यस्मादिति । एवं सङ्गृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्यादिदर्शनादित्याशयेनाह – अपि चान्नदानस्येति । तत्र मानं पृच्छति – कथमितीति । श्रुत्योत्तरमाह – तदेतदाहेति । मुख्यामेव वृत्तिं विवृणोति – पूजेति ॥ यथोक्तमिति । कार्यकरणसङ्घातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरूपमित्यर्थः । फलं च वेदेति सम्बन्धः । श्रुतौ ‘य एवं वेद’ इत्यस्यापेक्षितं पूरयति – तस्येति । यथोक्तम् अन्नदानादिफलमित्यर्थः । 'प्राणो वा अन्नम्’ इत्यारभ्याब्रह्मोपासनान्युक्तानीति सूचयति – इदानीमिति । उपात्तपरिरक्षणमिति । स्थितपरिपालनमित्यर्थः । योगक्षेम इतीति । प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः । प्राणापानयोर्योगक्षमरूपेण ब्रह्मदृष्ट्यालम्बनत्वे हेतुमाह – तौ हीति । ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्क्याह – तथापीति । प्राणापाननिमित्तकत्वेऽपीत्यर्थः । ब्रह्मनिमित्ताविति । ब्रह्मनिमित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः । ब्रह्मनिर्वर्त्यत्वादिति । ब्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः । मानुष्य इत्यस्य पर्यवसानमाह – आध्यात्मिक्य इति ॥ पुत्रेणेति । पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः । उपस्थनिमित्तमिति । यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्यात्मिकत्वात् । सर्वं हीति । हि यस्मात्सर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे ब्रह्मैव प्रतिष्ठितमित्युपास्यमित्यर्थः । 'तत्प्रतिष्ठा...’ इत्यत्र ब्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह – तच्चेति । सर्वाश्रयत्वेन प्रकृतमित्यर्थः । तस्मात्तदिति । व्यापकत्वनिर्लेपत्वनिरवयवत्वसूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसम्भवात्तद्ब्रह्मभूतमाकाशमित्यर्थः । प्रतिष्ठावानिति । अन्नपानादिभिः स्थितिमानित्यर्थः । ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृत्तिरित्याशङ्क्याह – यद्यत्रेति । यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तमित्यर्थः । ततः किम् अत आह – तदुपासनादिति । क्षेमादिगुणेन ब्रह्मोपासनात्क्षेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः । अत्रार्थे श्रुतिमप्याह – श्रुत्यन्तराच्चेति । तदेवेति । तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥ परिबृढतममिति । विराडात्मकमित्यर्थः । ब्रह्मवानिति । ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः । परस्येति । परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीतेत्यर्थः । आकशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह – परिमर इत्यादिना । श्रुत्यन्तरेति । वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः । इदानीमाकाशस्य परिमरत्वं साधयति – स एवायमिति । वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमित्यर्थः । तं वाय्वात्मानमाकाशं ब्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीतेत्यर्थः । सपत्ना द्विविधाः - द्विषन्तोऽद्विषन्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह – द्विषन्त इत्यादिना । अद्विषन्तोऽपि चेति । एनमद्विषन्तोऽपीत्यर्थः ॥ प्राणशरीरादेरन्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति – प्राणो वा अन्नमित्यादिना । ‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राणरीरसमभिव्याहारेणाबादीनामाध्यात्मिकत्वावगमात् ; ततश्च शरीरप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव ‘प्राणो वा अन्नम्’ इत्यादिना भोगसाधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः । उक्तं नाम, किं तेनेति । उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदिहानूदितमित्यर्थः । तदुक्तिसिद्धं प्रयोजनं कथयति – तेनैतदिति । भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः । ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते – नन्वात्मापीति । आत्मा कार्यं विभक्तत्वादाकाशादिवदित्यर्थः । आगमबाधितमनुमानमित्याशयेन निराकरोति – नेति । असंसारिणः परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मनः कार्यत्वमित्यर्थः । सङ्ग्रहं विवृणोति – तत्सृष्ट्वेत्यादिना । न केवलमसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किं तु क्त्वाश्रुतिबलादपीत्याह – सृष्ट्वेति । स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्यञ्शृण्वन्मन्वानः’ इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रैक्याभावेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः । यदुक्तमसंसारिण एव प्रवेशश्रवणात्परेतरात्मनोरेकत्वमिति, तत्र शङ्कते – प्रविष्टस्येति । प्रविष्टस्य बुद्ध्यादिकार्येषूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः । अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति – न, प्रवेशस्येति । ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसम्बन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते – अनेनेति । धर्मान्तरेणेति । जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्थ्यापत्तेरित्यर्थः । यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति – न, तत्त्वमसीतीति । जीवस्याकाशादिवद्विकारत्वे तस्य ब्रह्मैक्योपदेशविरोध इत्यर्थः । अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते – भावान्तरेति । जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्मविकारत्वविरुद्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः । 'तत्त्वमसि’ इति वाक्यस्य सम्पदुपासनापरत्वे मानाभावाज्जीवस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्यशेषविरोधाद्वास्तवस्य संसारस्य सम्पदापोहासम्भवाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति – न, तत्सत्यमिति । ननु जीवस्य ब्रह्मत्वं संसारित्वानुभवविरुद्धम् , अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्नत्वात्सम्पत्परमेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते – दृष्टमिति । आत्मनः संसारोपलब्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपलब्धृधर्मत्वादर्शनादित्यर्थः । संसारस्य रूपादिवैलक्षण्यं शङ्कते – संसारधर्मेति । 'अहं सुखदुःखादिमान्’ इति संसारस्यात्मधर्मत्वमनुभूयते ; स चानुभवो बाधकाभावात्प्रमैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्याद्यनुभवस्तु जीवस्य देहव्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः ; अतो न रूपादितुल्यत्वं संसारस्येत्यर्थः । आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम् , अतो नाभेदश्रुत्यनुपपत्तिरित्याशयेन परिहरति – नेति । किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा आद्ये न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह – धर्माणामिति । अव्यतिरेकादिति । अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपलब्धिकर्तृकोटिप्रविष्टत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदपक्षे न संसारस्यात्मधर्मत्वं सिध्यति । तयोः सम्बन्धानिरुपणात् समवायस्य सूत्रकारेणैव निरस्तत्वादित्यन्यत्र विस्तरः । अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टान्तमाह – उष्णेति । 'तत्त्वमसि’ इत्यभेदोपदेशस्यात्मनि संसारित्वग्राहकप्रत्यक्षविरोधं परिहृत्य तत्र तद्ग्राहकानुमानविरोधमाशङ्क्य परिहरति – त्रासादिदर्शनादित्यादिना । त्रासादेस्तदनुमेयदुःखादेश्च दृश्यत्वेन वस्तुतो द्रष्टृधर्मत्वासम्भवस्य प्रागेवोक्तत्वादित्याशयेनाह – न, त्रासादेरिति । 'तत्त्वमसि’ इत्यभेदोपदेशस्य शास्त्रान्तरविरोधमाशङ्क्य निराकरोति – कापिलेत्यादिना । कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः । कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापितत्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रमाण्यायोगाच्चेत्याशयेनाह – मूलाभाव इति । श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधाच्छ्रुत्यप्रामाण्यप्रसङ्ग इत्याशयेनाह – वेदविरोधे चेति । भ्रान्तत्वमप्रामाण्यम् । उपपादितमर्थमुपसंहरति – श्रुत्युपपत्तिभ्यां चेति । एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्त्या च निश्चितमसंसारित्वमात्मन इत्यर्थः । एकत्वाच्चेति । आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासंसारित्वादित्यर्थः । एकत्वे मानं पृच्छति – कथमिति । उत्तरश्रुतिरेव मानमित्याशयेनाह – उच्यत इति ॥ उपसङ्क्रम्येति । विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् । उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह – एतत्सामेति । 'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति – सत्यमित्यादिना । 'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः । 'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह – विस्तरेणेति । इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति – के त इत्यादिना । तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति – के त इति । कामानां कारणे तां दर्शयति – किंविषया इति । साहित्ये कामानामशने च तां दर्शयति – कथं वेति । इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः । एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति – तत्रेत्यादिना । अन्नान्नादत्वेनेति । अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः । 'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति – ब्रह्मविषयेति । तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति – ये चेति । प्रतिनियता इति । तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः । तेषां मुक्तिवैलक्षण्यं सूचयति – अनेकेति । नानाविधोपायसाध्या इत्यर्थः । अत एव तेषामविद्याकालिकत्वमाह – आकाशादीति । आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः । इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति – एकत्वे पुनरिति । स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः । एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह – तत्र कथमिति । एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति । अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते – उच्यत इति । तत्राहेति । श्रुतिरिति शेषः । पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति – पुरुषेत्यादिना । पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना । अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह – आनन्दमिति । तस्य तदर्थमेवानर्थास्पृष्टत्वमाह – अजममृतमभयमिति । तस्य परमार्थत्वमाह – स्वाभाविकमिति । तदर्थं निर्विशेषत्वमाह – अदृश्यादीति । सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः । तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति – सत्यं ज्ञानमनन्तमिति । ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह – आत्मत्वेनानुभवन्निति । एतत्प्रकृतं ब्रह्म समत्वात्साम । समत्वमेवाह – सर्वानन्यत्वरूपमिति । सर्व्यापिस्वरूपभूतमित्यर्थः । स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह – लोकानुग्रहार्थमिति । आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः । गानप्रकारमेव प्रश्नपूर्वकमाह – कथमित्यादिना । हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह – अत्यन्तेति ॥ ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशङ्क्य विक्षेपशक्तिमदविद्यालेशमहिम्नेत्याशयेनाह – निरञ्जनोऽपि सन्निति । अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृभोग्यभावलक्षणः सम्बन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत् । तत्र सामर्थ्यं सूचयति – चेतनावानिति । सर्वज्ञ इत्यर्थः । अथवेति । अथ वा अन्नस्यैव सङ्घातकृदिति योजना । नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासादादिरूपेण सङ्घातकरणं दृष्टम् , तत्कथमेकस्यान्नस्यादनीयस्य सङ्घातकरणमित्याशङ्क्य विशिनष्टि – अनेकात्मकस्येति । शरीरेन्द्रियादिरूपेण परिणतिद्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः । शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति तत्राह – पारार्थ्येनेति । परस्य चेतनस्यार्थो भोगादिः तत्सिद्ध्यर्थत्वेनेत्यर्थः । ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम् अत आह – परार्थस्येति । तद्विशदयति – अन्नादार्थस्य सत इति । भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्तामूर्तात्मकस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाहमस्मीत्यर्थः । देवेभ्यश्च पूर्वमिति । हिरण्यगर्भोत्पत्त्यनन्तरमिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः । अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति - अमृतत्वस्येति । सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः । ननु मां ददातीत्यनुपपन्नम् , चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति - अन्नात्मनेति । ‘अहमन्नम् ‘ इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथाब्रवीदित्यर्थः । इत्थमित्यस्य व्याख्यानम् – यथाभूतमिति । अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः । अदत्वेति । लोभादिनेति शेषः । प्रत्यद्मीति । भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योऽतिथिभ्यो यथाशक्त्यन्नमदत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्षयामीत्युक्तत्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात् , तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत । तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते – अत्राहेति । परिहरति – मा भैषीरिति । सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽप्यस्तीत्यर्थः । अन्नादिभावस्य संव्यवहारविषयत्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति – अतीत्यायमित्यादिना । विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना । ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति – एवं तर्हि किमिति । ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति – उच्यत इति । प्रथममन्नादिभावस्य संव्यवहारविषयत्वादित्युक्तं मिथ्यात्वं साधयति – योऽयमित्यादिना । न परमार्थेति । वाचारम्भणादिश्रुतेर्दृश्यत्वादियुक्तेश्चेति भावः । इदानीं स्तुत्यभिप्रायकत्वमन्नादिवचनस्य विवृणोति – स एवंभूतोऽपीति । ब्रह्मनिमित्तः ब्रह्मकारणकोऽन्नान्नादभावलक्षणः प्रपञ्चो व्यवह्रियमाणोऽपि ब्रह्मव्यतिरेकेण वस्तुगत्यासन्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्वन्नादिभावस्तस्य मुख्य इत्यर्थः । उपसंहरति – अत इति । विद्याबलादविद्योच्छेदाद्ब्रह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपीत्यर्थः । एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनर्विदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरन्नुत्तरवाक्यमादत्ते – अहं विश्वमिति । भुवनमिति । भूरादिलोकजातमित्यर्थः । ईश्वरेणेति । सर्वजगत्संहर्तृरुद्ररूपेणाहमेवाभिभवामि संहरामीत्यर्थः । सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह – आदित्य इवेति । असकृदिति । सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम् । 'इत्युपनिषत्’ इत्यस्यार्थमाह – इतीयमिति । विहिता निरूपिता । 'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह – भृगुवदिति । वेद, सम्पादयतीत्यर्थः । यथोक्तमिति । ब्रह्मभावलक्षणमित्यर्थः । मङ्गलार्थमोङ्कारमुच्चारयति – ओमितीति ॥ अन्नप्राणमनोबुद्धिसुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥ 【भाष्यम्】 【भाष्यम्】 नारायणपदद्वन्द्वं नारदादिभिरादृतम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥ 【भाष्यम्】 【भाष्यम्】 क इति । किङ्कृत इत्यर्थः । सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह – उच्यत इति । शीक्षावल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः एकादशोऽनुवाकः द्वादशोऽनुवाकः ब्रह्मानन्दवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः भृगुवल्ली प्रथमोऽनुवाकः द्वितीयोऽनुवाकः तृतीयोऽनुवाकः चतुर्थोऽनुवाकः पञ्चमोऽनुवाकः षष्ठोऽनुवाकः सप्तमोऽनुवाकः अष्टमोऽनुवाकः नवमोऽनुवाकः दशमोऽनुवाकः
Using this in academic work? Get formal citation
Vanamālī Miśra (2026). Vanamālā Vyākhyā. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/vanamala-vyakhya
Vanamālī Miśra. "Vanamālā Vyākhyā." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/vanamala-vyakhya.
Vanamālī Miśra. "Vanamālā Vyākhyā." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/vanamala-vyakhya.