Śukla Yajurveda Saṃhitā — Adhyāya 36
Tradição Védica (Yājñavalkya śiṣyas)
ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये । वाग् ओजः सहौजो मयि प्राणापानौ ॥
यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु । शं नो भवतु भुवनस्य यस् पतिः ॥
भूर् भुवः स्वः । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥
कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः । दृढा चिद् आरुजे वसु ॥
अभी षु णः सखीनाम् अविता जरितॄणाम् । शतं भवास्य् ऊतिभिः ॥
कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य ऽ आ भर ॥
इन्द्रो विश्वस्य राजति । शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥
शं नो वातः पवताꣳ शं नस् तपतु सूर्यः । शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥
अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् । शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या । शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥
शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः ॥
स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः । वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥
दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा सम् ईक्षामहे ॥
दृते दृꣳह मा । ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे । अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥
नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे । नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥
यतो-यतः समीहसे ततो नो ऽ अभयं कुरु । शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् । पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥ षट्त्रिंशोऽध्यायः। तत्र प्रथमा। ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒: प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒: श्रोत्रं॒ प्र प॑द्ये । वागोज॑: स॒हौजो॒ मयि॑ प्राणापा॒नौ ।। १ ।। उ० इदानीं प्रवर्ग्याग्निकाश्वमेधोपनिषत्संबद्धा मन्त्रास्तान्व्याख्यास्यामः । तत्राग्निका उग्रश्चेत्येवमादयः । तान्पुनः परमेष्ठ्यपश्यत् । प्राजापत्यो विमुख इति तस्य मन्त्रगणस्य संज्ञा । अग्निᳪं᳭ हृदयेनेत्याश्वमेधिकाः आ अध्यायात् प्रजापतेरार्षम् । परिशिष्टं दध्यङ्ङाथर्वणोऽपश्यत् । 'दध्यङ् ह वा आथर्वणः' इत्येवमादिकया श्रुत्या तद्भावं प्रतिपद्यते । ऋचं वाचम् । प्रवर्ग्यस्यादावन्ते च शान्तिकरणोऽध्यायः । विश्वेदेवा अग्निकानामाश्वमेधिकानां च मन्त्राणाम् इह समाम्नानं दिवाकीर्तिसामान्यात् । प्रथमकण्डिका यजुः । | ऋचं वाचं प्रपद्ये प्रविशामि यामि वा । एवं मनो यजुः साम प्राणं चक्षुः श्रोत्रमिति व्याख्येयम् । नहि त्रयीविद्याप्रपन्नस्य प्रवर्ग्य आयुषो विनाशं कुर्यात् । तथा वाङ्मनःप्राणश्चक्षुःश्रोत्राणि प्रपन्नस्य सप्तदशं ह्येतत्प्रजापतेर्लिङ्गमुपलक्षितम् । अथैवंसति वाक् ओजो बलं मानसं धृष्टतानाम । पुनरोजोग्रहणमादरार्थं च । एतदुक्तं भवति-वाक् अतिशयिकमोजः प्राणापानौ च सह एकीभूताः मयि वर्तन्तेऽतः प्रवर्ग्योऽस्मान्न हिनस्ति ॥ १॥ म० पञ्चाध्यायी आथर्वणेन दधीचा दृष्टा 'दध्यङ् ह वा आथर्वण एतᳪं᳭ शुक्रमेतं यज्ञं विदांचकार' (१४ । १।१। २०)इति श्रुतेः । 'उग्रश्च' (३९।७।१७।८६) इत्याग्निको मन्त्रः । अग्निं हृदयेनेत्याद्यध्यायसमाप्तिपर्यन्तमाश्वमेधिकम् (३९।८-१३) तद्द्वयं वजयित्वा । (का० अनुक्रमण्याम् ) शान्तिकरणमाद्यन्तयोः । ऋचं वाचमित्यध्यायेन शान्तिकरणं कार्यम् । स्वाध्याये मन्त्रपाठे प्रवर्ग्यमन्त्रादावस्याध्यायस्य दर्शनात् । अथ मन्त्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवतानि । ऋचमृग्रूपां वाचमहं प्रपद्ये प्रविशामि शरणं व्रजामि । यजुः यजूरूपं मनः प्रविशामि । प्राणं प्राणरूपं साम प्रपद्ये । चक्षुरिन्द्रियं श्रोत्रेन्द्रियं च प्रपद्ये । वागादिग्रहणं सप्तदशावयवोपलक्षणम् । सप्तदशावयवं प्रजापतेर्लिङ्गं प्रपद्ये इत्यर्थः । त्रयीविद्यां लिङ्गशरीरं च प्रपन्नं प्रवर्ग्यो न नाशयेदिति भावः । तथा वागिन्द्रियमोजो मानसं बलं धार्ष्ट्यम् । पुनरोजोग्रहणाच्छारीरं च बलम् । प्राणापनौ उच्छ्वासनिश्वासवायू च एते सह एकीभूताः सन्तो मयि वर्तन्ते । अतोऽपि प्रवर्ग्योऽस्मान्न हन्तीति भावः ॥१॥ द्वितीया। यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु । शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पति॑: ।। २ ।। उ० यन्मे बार्हस्पत्या पङ्क्तिः । यन्मे मम । छिद्रं अवखण्डितम् चक्षुषः हृदयस्य वा । हृदयग्रहणेन बुद्धिरुक्ता । मनसो वा अतितृण्णं अतिहिंसितम् प्रवर्ग्याचरणेन । बृहस्पतिः मम तत् दधातु । अथैवं बृहस्पत्यनुगृहीतानाम् । शं नः सुखरूपोऽस्माकं भवतु । भुवनस्य भूतजातस्य यः पतिः योऽधिपतिः प्रवर्ग्यरूपो यज्ञः ॥ २ ॥ म० बृहस्पतिदेवत्या पङ्क्तिः । मे मम चक्षुषः चक्षुरिन्द्रियस्य यत् छिद्रमवखण्डनं जातं प्रवर्ग्याचरणेन । हृदयस्य बुद्धेर्वा यत् छिद्रं जातम् । मनसो वा यत् अतितृण्णमतिहिंसितम् प्रवर्ग्याचरणेन यत् चक्षुर्बुद्धिमनसां व्याकुलत्वं जातम् बृहस्पतिर्देवगुरुः मे मम तत् छिद्रमतितृण्णं च दधातु संदधातु छिद्रं निवर्तयतु । भुवनस्य भूतजातस्य यः पतिरधिपतिः प्रवर्ग्यरूपो यज्ञः स नोऽस्माकं शं सुखरूपो भवतु । बृहस्पतिना छिद्रापाकरणात्प्रवर्ग्यः कल्याणरूपोऽस्त्वित्यर्थः ॥ २ ॥ तृतीया। भूर्भुव॒: स्व॒: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ३ ।। उ० भूर्भुवः स्वः यजूंषि । तत्सवितुरिति कयानस्तिस्रश्च व्याख्याताः । ऋषिकृतो विशेषः ॥ ३॥ ४ ॥ ५॥६॥ म० भूर्भुवः स्वः त्रीणि यजूंषि । तत्सवितुः, कया नः, कस्त्वा, अभी षु णः, एताश्चतस्र ऋचो व्याख्याताः [३, ३५ । २७, ३९-४१] अभी षु ण इत्यस्यामृचि शतं भवास्यूतिभिरिति बहुवचनम् । पूर्वमूतय इत्येव पाठः । ऊतिभिः अवनैर्हेतुभिः शतमसंख्यरूपो भवसीत्यर्थः ॥ ३ ॥ ४ ॥५॥६॥ चतुर्थी। कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ।। ४ ।। पञ्चमी । कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪं᳭हि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ।। ५ ।। षष्ठी। अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑: ।। ६ ।। सप्तमी। कया॒ त्वं न ऊ॒त्याभि प्र म॑न्दसे वृषन् । कया॑ स्तो॒तृभ्य॒ आ भ॑र ।। ७ ।। उ० कया त्वम् । गायत्री । ऐन्द्री अनिरुक्ता । हे इन्द्र, कया ऊत्या केन वा गमनेन त्वम् नः अस्मान् अभिप्रमन्दसे अभिमोदयसि हर्षयसि । हे वृषन् सेक्तः, कया च ऊत्या केन वा गमनेन स्तोतृभ्यः दातुं धनानि आभर आहरसि । लडर्थे लोट् । तत्कथय । येन तथानुतिष्ठामः ॥ ७॥ म० इन्द्रदेवत्या गायत्री अनिरुक्तेन्द्रपदहीना । आद्यपादे व्यूहद्वयम् । हे वृषन् वर्षतीति वृषा हे सेक्तः इन्द्र, 'वासवो वृत्रहा वृषा' इत्यभिधानम् । कया ऊत्या केन तर्पणेन हविर्दानेन नोऽस्मानभिप्रमन्दसे अभिमोदयसि । 'मदिस्तु स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' लट् । कया च ऊत्या तृप्त्या स्तोतृभ्यः स्तुतिकर्तृभ्यो यजमानेभ्यः आभर आहर आहरसि । धनं दातुमिति शेषः । तद्द्वयेन तथा वयं कुर्म इति भावः । आभरेति लडर्थे लोट् ॥ ७॥ अष्टमी। इन्द्रो॒ विश्व॑स्य राजति । शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ।। ८ ।। उ० इन्द्रो विश्वस्य द्विपदा विराट् । योयं महावीर इन्द्र आदित्यो वा । कस्याधिष्ठात्री देवता । विश्वस्य जगतः राजति देदीप्यते ईष्टे वा । तस्य प्रसादात् । अस्माकम् अस्तु द्विपदे शं चतुष्पदे । द्विपदां चतुष्पदां चेति विभक्तिव्यत्ययः ॥८॥ म० द्विपदा विराट् इन्द्रदेवत्या । विंशत्यक्षरा द्विपदा विराट् कथ्यते । विश्वस्य सर्वस्य जगतः इन्द्रः 'इदि परमैश्वर्ये' इन्दतीतीन्द्रः परमेश्वरः महावीरः आदित्यो वा यो राजति देदीप्यते ईष्टे वा स नोऽस्माकं द्विपदे । विभक्तिव्यत्ययः। द्विपदां पुत्रादीनां शं सुखरूपोऽस्तु । चतुष्पदे चतुष्पदां गवादीनां च शं सुखरूपोऽस्तु ॥८॥ नवमी। शं नो॑ मि॒त्र: शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः ।। ९ ।। उ० शं नो मित्रः। द्वे अनुष्टुभौ । महावीरप्रसादात आदौ च । शं सुखरूपः नोऽस्माकं भवतु मित्रः। शं च नः वरुणः भवतु । शं च नः भवतु अर्यमा शं च नः इन्द्रः बृहस्पतिः शं च नः विष्णुः उरुक्रमः उरु विस्तीर्णः क्रमो यस्य स उरुक्रमः । शेषं दर्शितया व्याख्येयम् ॥ ९॥ म०. द्वे अनुष्टुभौ मित्रवरुणादयो देवताः । मित्रो देवो नोऽस्माकं शं सुखरूपो भवतु महावीरप्रसादात् । मेद्यति भक्तेषु स्निह्यतीति मित्रः । वरुणः शं सुखरूपो भवतु । वृणोत्यङ्गीकरोति भक्तमिति वरुणः । अर्यमा नोऽस्माकं शं भवतु । इयर्ति गच्छति भक्तं प्रतीत्यर्यमा । इन्द्रो देवेशो नोऽस्माकं शं भवतु । बृहस्पतिर्देवगुरुर्नः शं भवतु । बृहतां वेदानां पतिः पालकः । उरुर्विस्तीर्णः क्रमः पादन्यासो यस्य स विष्णुः नोऽस्माकं शं भवतु । वेवेष्टि व्याप्नोतीति विष्णुः ॥९॥ दशमी। शं नो॒ वात॑: पवता॒ᳪं᳭ शं न॑स्तपतु॒ सूर्य॑: । शं न॒: कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भि व॑र्षतु ।। १० ।। उ०. शं नः शं सुखरूपः नोऽस्माकम् वातः अपरुषः अव्याधिजनकश्च पवतां वातु । शं सुखरूपः अदहनः भेषजरूपश्च नोऽस्माकं तपतु सूर्यः । शं नः सुखरूपश्चास्माकम् । पर्जन्यो देवः काशनिक्षाररहितं पवित्रमुदकम् भेषजकर्तृ अभिवर्षतु । कनिक्रदत् । स्तनयित्नु शब्दं कुर्वन् ॥ १०॥ म० वातो वायुर्नोऽस्माकं शं सुखकारः अपरुषः अव्याधिजनकश्च पवतां वहताम् । 'पव गतौ' लोट् । सुवति जनान् स्वस्वव्यापारेषु प्रेरयति सूर्यः शं सुखरूपोऽदहनो भेषजरूपश्च नोऽस्माकं तपतु किरणान्प्रसारयतु । पर्जन्यः पिपर्ति पूरयति जनमिति पर्जन्यः, परोऽम्भःपूरो जन्यतेऽनेन वा । 'पर्जन्यौ रसदब्देन्द्रौ' इत्यभिधानम् । पर्जन्यः पर्जन्येशो देवः नोऽस्माकं शं सुखकरं काशनिक्षाररहितं यथा तथा अभिवर्षतु सिञ्चतु । कीदृशः । कनिक्रदत् अत्यन्तं क्रन्दतीति शब्दं कुर्वन् 'दाधर्तिदधर्ति-' (पा. ७ । ४ । ६५) इत्यादिना यङ्लुगन्तो निपातः॥ १० ॥ एकादशी। - अहा॑नि॒ शं भव॑न्तु न॒: शᳪं᳭ रात्री॒: प्रति॑ धीयताम् । शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ।। ११ ।। उ० अहानि शम् द्विपदा गायत्री । अहानि दिवसाः शं सुखरूपाः भवन्तु नोऽस्माकम् । शं सुखरूपाः रात्री: प्रतिधीयतां प्रतिदधात्वस्मासु महावीरः । शं सुखरूपौ च इन्द्राग्नी भवताम् अवोभिः पालनैः सह । शं नः सुखरूपौ चास्माकम् । इन्द्रावरुणा इन्द्रावरुणौ । रातहव्या दत्तहविष्कौ भवताम् । शं नः सुखरूपौ चास्माकं इन्द्रापूषणौ भवताम् । वाजसातौ अन्नसंभजने निमित्तभूते । शं सुखरूपौ च इन्द्रासोमौ भवताम् सुविताय साधुगमनाय साधुप्रसवाय वा । शं योः शमनाय रोगाणां यावनाय पृथक्करणाय च भयानाम् ॥ ११ ॥ म० द्विपदा गायत्री । अहानि रात्रयश्च देवताः । अहानि दिनानि नोऽस्माकं शं सुखरूपाणि भवन्तु । रात्रीः शं सुखरूपाः अस्मासु प्रतिधीयतां प्रतिदधातु । महावीर इति शेषः । कर्तरि यक् छान्दसः । शं न इन्द्राग्नी त्रिष्टुप् । इन्द्राग्नी इन्द्रावरुणौ इन्द्रापूषणौ इन्द्रासोमौ देवताः । इन्द्राग्नी अवोभिः पालनैः कृत्वा नोऽस्माकं शं सुखरूपौ भवताम् । रातं दत्तं हव्यं ययोस्तौ रातहव्यौ हविस्तृप्तौ इन्द्रावरुणौ नः शं भवताम् । वाजसातौ वाजस्यान्नस्य सातौ दाने निमित्तभूते इन्द्रापूषणा इन्द्रपूषसंज्ञौ देवौ नोऽस्माकं सुखरूपौ भवताम् । इन्द्रासोमा इन्द्रसोमौ देवौ शं सुखरूपौ भवताम् । किमर्थम् । सुविताय सुष्ठु इतं सुवितम् साधुगमनाय साधुप्रसवाय वा । तथा शं रोगाणां शमनाय । योः यवनाय पृथक्करणाय च भयानाम् । रोगं भयं च निवर्त्य सुखरूपौ भवतामित्यर्थः । 'देवताद्वन्द्वे च' (पा० ६ ३ । २६) इति सर्वत्र पूर्वपदस्य दीर्घः ॥ ११ ॥ द्वादशी। शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ।। १२ ।। उ० शं नो देवीः । अब्देवत्या गायत्री । सुखरूपा अस्माकम् देवीः देव्यः अभिष्टये अभिषेकाय अभीष्टाय वा। आपः भवन्तु पीतये पानाय च । शं योः शमनाय रोगाणां पृथक्करणाय भयानां वा । अभिस्रवन्तु नः अस्माकम् ॥ १२॥ म० अब्देवत्या गायत्री । देवीः देव्यो दीप्यमाना अपो नोऽस्माकमभिष्टये अभिषेकायाभीष्टाय वा पीतये पानाय च शं सुखरूपा भवन्तु । अस्माकं स्नाने पाने चापः सुखयित्र्यो भवन्तु । आपः शं योः रोगाणां शमनं भयानां यवनं पृथक्करणं च अभिस्रवन्तु । नोऽस्माकं भयरोगनाशं कुर्वन्त्वित्यर्थः १२ त्रयोदशी। स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ।। १३ ।। उ० स्योना पृथिवीति व्याख्यातम् ॥ १३ ॥ म०. स्योना पृथिवि । व्याख्याता [अ० ३५ । क० २१] ॥ १३ ॥ चतुर्दशी। आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।। १४ ।। उ०. आपो हिष्ठेति तिस्रश्च व्याख्याताः ॥ १४ ॥ ॥ १५॥ १६ ॥ म०. आपो हि ष्टा तृचो व्याख्यातः [अ० ११ । क० ५०५२] ॥ १४ ॥ १५ ॥ १६ ॥ पञ्चदशी। यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ।। १५ ।। षोडशी। तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। १६ ।। सप्तदशी। द्यौ: शान्ति॑र॒न्तरि॑क्ष॒ᳪं᳭ शान्ति॑: पृथि॒वी शान्ति॒राप॒: शान्ति॒रोष॑धय॒: शान्ति॑: । वन॒स्पत॑य॒: शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्ति॒: सर्व॒ᳪं᳭ शान्ति॒: शान्ति॑रे॒व शान्ति॒: सा मा॒ शान्ति॑रेधि ।। १७ ।। उ० द्यौः शान्तिः । या द्युलोकरूपा शान्तिः या चान्तरिक्षरूपा शान्तिः । या च पृथिवी । आपः ओषधयः वनस्पतयः विश्वेदेवाः ब्रह्म त्रयीलक्षणं परं वा । सर्वशान्तिः या च शान्तिरेव शान्तिः स्वरूपत एवं शान्तिः । सा। मा मां शान्तिः एधि । अस्त्विति पुरुषव्यत्ययः । त्वत्प्रसादादित्यपेक्षा ॥ १७ ॥ म० यजूंषि संदृशि जीव्यासमित्यन्तानि (क. १९)। एकाधिका शक्वरी । द्यौः द्युलोकरूपा या शान्तिः अन्तरिक्षरूपा च या शान्तिः पृथिवी भूलोकरूपा या शान्तिः आपो जलरूपा या शान्तिः ओषधयः ओषधिरूपा या शान्तिः वनस्पतयः वृक्षरूपा या शान्तिः विश्वेदेवाः सर्वदेवरूपा या शान्तिः ब्रह्म त्रयीलक्षणं परं वा तद्रूपा या शान्तिः सर्वं सर्वजगद्रूपा या शान्तिः शान्तिरेव शान्तिः या स्वरूपतः शान्तिः सा शान्तिः मा मां प्रति एधि अस्तु । पुरुषव्यत्ययः । महावीरप्रसादात्सर्वं शान्तिरूपं मां प्रत्यस्त्वित्यर्थः । यद्वा द्यौरित्यादिषु विभक्तिव्यत्ययः सप्तम्यर्थे प्रथमा। दिव्यन्तरिक्षे पृथिव्यामप्स्वोषधिषु वनस्पतिषु विश्वदेवेषु ब्रह्मणि सर्वस्मिंश्च या शन्तिः सा मां प्रत्यस्त्वित्यर्थः ॥ १७ ॥ अष्टादशी। - दृते॒ दृᳪं᳭ह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् । मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे । मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ।। १८ ।। उ० दृते दृᳪं᳭ ह मा । दृते यजुः । 'दॄ विदारणे' विदीर्णेऽपि शरीरे जरया । दृंह दृढीकुरु माम् । कथमिति चेत् । मित्रस्य मा चक्षुषा सर्वाणि भूतानि सं ईक्षन्तां पश्यन्तु । अहमपि मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षे पश्यामि । शान्तं हि मित्रस्य चक्षुः । न वै मित्रं कंचन हिनस्ति । न मित्रः कंचन हिनस्तीति । एवमहिंस्यमाना अहिंसन्तश्च परस्परमद्रोहेण सर्वथा मित्रस्य चक्षुषा समीक्षामहे ॥१८॥ म० दृते 'दॄ विदारे' विदीर्णे जराजर्जरितेऽपि शरीरे हे महावीर, मा मां त्वं दॄंह दृढीकुरु । यद्वा दृते विदीर्णे कर्मणि मां दृंह अच्छिद्रं कर्म कुरु । यद्वा ससुषिरत्वात् सेक्तृत्वाच्च दृतिशब्देन महावीरः । हे दृते महावीर, मां दृंह दृढीकुरु । कथं दार्ढ्यं तदाह । सर्वाणि भूतानि प्राणिनो मा मां मित्रस्य चक्षुषा समीक्षन्तां सम्यक् पश्यन्तु मित्रदृष्ट्या सर्वे मां पश्यन्तु नारिदृष्ट्या । सर्वेषां प्रियो भूयासमित्यर्थः । किंच अहमपि सर्वाणि भूतानि मित्रस्य चक्षुषा समीक्षे पश्यामि सर्वे मे प्रियाः सन्तु । मित्रचक्षुः शान्तं भवति । मित्रः कंचन न हन्ति मित्रं च कश्चन न हन्ति एवं परस्पराद्रोहेण सर्वानहिंसन्तो मित्रस्य चक्षुषा वयं समीक्षामहे पश्यामः ॥ १८॥ एकोनविंशी। दृते॒ दृᳪं᳭ह॑ मा । ज्योक्ते॑ स॒न्दृशि॑ जीव्यासं॒ ज्योक्ते॑ स॒न्दृशि॑ जीव्यासम् ।। १९ ।। उ० दृते दृᳪं᳭ह । यजुः । दृते दृᳪं᳭ह मा । अतिशयार्थं पुनर्वचनम् । ज्योक् चिरम् ते तव संदृशि संदर्शने । जीव्यासं जीवेयम् । आदरार्थं पुनर्वचनम् ॥ १९॥ म० हे दृते वीर, मां दृंह । आदरार्थं पुनर्वचनम् । हे महावीर, ते तव संदृशि संदर्शने अहं ज्योक् चिरं जीव्यासं जीवेयम् । जीवेराशीर्लिंङि रूपम् । ज्योगिति निपातश्चिरार्थः । पुनरुक्तिरादरार्था । ते संदृशि ज्योग्जीव्यासम् ॥ १९ ॥ विंशी। नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪं᳭ शि॒वो भ॑व ।। २० ।। उ० नमस्ते हरसे इति व्याख्यातम् ॥ २० ॥ म० नमस्ते व्याख्याता [अ० १७ । क० ११] ॥ २० ॥ एकविंशी। नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते भगवन्नस्तु॒ यत॒: स्व॒: स॒मीह॑से ।। २१ ।। उ० नमस्ते द्वे अनुष्टुभौ । नमः ते तुभ्यं अस्तु । विद्युते विद्युद्रूपाय । नमस्ते स्तनयित्नवे स्तनयित्नुरूपाय । नमः ते हे भगवन् , अस्तु । यतः यस्मात् स्वः स्वर्गं लोकं गन्तुम् समीहसे चेष्टसे । अमर्त्यस्त्वमित्यभिप्रायः ॥ २१ ॥ म० द्वे अनुष्टुभौ विद्युत्स्तनयित्नुरूपभगवद्देवते । हे भगवन् महावीर, विद्युते विद्युदूपाय ते तुभ्यं नमोऽस्तु । स्तनयित्नवे स्तनयित्नुर्गर्जितं तद्रूपाय ते नमोऽस्तु । यतः कारणात् स्वः स्वर्गं गन्तुं त्वं समीहसे चेष्टसे अतस्ते तुभ्यं नमोऽस्तु ॥२१॥ द्वाविंशी। यतो॑-यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु । शं न॑: कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्य॑: ।। २२ ।। उ० यतो यतः यस्माद्यस्मात् दुश्चरितात् अपाकर्तुं समीहसे चेष्टसे ततस्ततः नः अस्माकम् अभयं भयरहितं कुरु । किंच । शं नः सुखमस्माकम् कुरु प्रजाभ्यः । अभयं नः पशुभ्यः कुरु ॥ २२ ॥ म० हे महावीर, यतो यतः यस्माद्यस्माद् दुश्चरितात्त्वं समीहसे अस्मास्वपकर्तुं चेष्टसे ततस्ततो नोऽस्माकमभयं कुरु । किंच नोऽस्माकं प्रजाभ्यः शं सुखं कुरु । नोऽस्माकं पशुभ्यः चाभयं भीत्यभावं कुरु ॥ २२ ॥ त्रयोविंशी। सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। २३ ।। उ० इत उत्तरं यजूंषि व्याख्यायन्ते आअध्यायात् । तत्र सुमित्रिया न इति व्याख्यातम् ॥ २३ ॥ म० यजुः । व्याख्यातम् [ अ० ६ । क० २२ ] ॥ २३ ॥ चतुर्विंशी। तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् । पश्ये॑म श॒रद॑: श॒तं जीवे॑म श॒रद॑: श॒तᳪं᳭ शृणु॑याम श॒रद॑: श॒तं प्र ब्र॑वाम श॒रद॑: श॒तमदी॑नाः स्याम श॒रद॑: श॒तं भूय॑श्च श॒रद॑: श॒तात् ।। २४ ।। इति माध्यन्दिनीयायां वाजसनेयिसंहितायां षट्त्रिंशोऽध्यायः ॥ ३६ ॥ उ० तच्चक्षुः । योयं महावीरोऽस्माभिः स्तुतः । तत् आदित्यरूपं चक्षुः । देवहितं देवैर्निहितं स्थापितम् देवानां वा हितम् । पुरस्तात् प्राच्यां दिशि । शुक्रं शुक्लम् असंसृष्टं पाप्मभिः । शोचिष्मद्वा । उच्चरत् उदितम् । तत्प्रसादाच्च । पश्येम शरदः शतम् । जीवेम शरदः शतम् । शृणुयाम शरदः शतम् । प्रब्रवाम शरदः शतम् । अस्खलितवागिन्द्रिया भवामः । अदीनाः स्याम शरदः शतम् । भूयश्च बहुतरं कालं च शरदः शतात् ॥ २४ ॥ इति उवटकृतौ मन्त्रभाष्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥ म० सूर्यदेवत्या ब्राह्मी त्रिष्टुप् । एतैर्मन्त्रैर्यो महावीरोऽस्माभिः स्तुतः तत् चक्षुः जगतां नेत्रभूतमादित्यरूपं पुरस्तात् पूर्वस्यां दिशि उच्चरत् उच्चरति उदेति 'इतश्च लोपः परस्मैपदेषु (पा० ३।४ । ९७ ) इतीकारलोपः । कीदृशं तत् । देवहितं - देवैर्हितं स्थापितम् । यद्वा देवानां हितं प्रियम् शुक्रं शुक्लं पापासंसृष्टं शोचिष्मद्वा । तस्य प्रसादात् शतं शरदः वर्षाणि वयं पश्येम शतवर्षपर्यन्तं वयमव्याहतचक्षुरिन्द्रिया भवेम । प्रार्थनायां लिङ् । अत्यन्तसंयोगे द्वितीया । शतं शरदः जीवेम अपराधीनजीवना भवेम । शतं शरदः शृणुयाम स्पष्टश्रोत्रेन्द्रिया भवेम । शतं शरदः प्रब्रवाम अस्खलितवागिन्द्रिया भवेम । शतं शरदः अदीनाः स्याम न कस्याप्यग्रे दैन्यं कुर्याम । शतात् शरदः शतवर्षोपर्यपि भूयश्च बहुकालं पश्येमेत्यादि योज्यम् ॥ २४ ॥ श्रीमन्महीधरकृते वेददीपे मनोहरे। अध्यायः शान्तिपाठार्थः षट्त्रिंशोऽयं प्रकाशितः ॥ ३६ ॥
Using this in academic work? Get formal citation
Tradição Védica (Yājñavalkya śiṣyas) (2026). Śukla Yajurveda Saṃhitā — Adhyāya 36. Vishva Vidya — Vedanta. https://vedanta.com.br/en/library/yajurveda-shukla-adhyaya-36
Tradição Védica (Yājñavalkya śiṣyas). "Śukla Yajurveda Saṃhitā — Adhyāya 36." Vishva Vidya — Vedanta, January 1, 2026, https://vedanta.com.br/en/library/yajurveda-shukla-adhyaya-36.
Tradição Védica (Yājñavalkya śiṣyas). "Śukla Yajurveda Saṃhitā — Adhyāya 36." Vishva Vidya — Vedanta, January 1, 2026. https://vedanta.com.br/en/library/yajurveda-shukla-adhyaya-36.